भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र · अध्याय 3

3.2

इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ शारीरे प्रथमे ऽधिकरणे द्वितीयोऽध्यायः ।
अधिकारिचिन्ता , रीतिनिश्चयश्च ।
अथ प्रथमेऽधिकरणे तृतीयोऽध्यायः ।
अधिकारिचिन्तां रीतितत्त्वं च निरूप्य , काव्याङ्गान्युपदर्शयितुमाह ----
लोको विद्या प्रकीर्ण च काव्याङ्गानि
उद्देशक्रमेणैतद्व्याचष्टे ----
लोकवृत्तं लोकः
लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तिमिति

3.3

शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकामशास्त्रदण्डनीतिपूर्वा विद्याः
शब्दस्मृत्यादीनां तत्पूर्वकत्वं पूर्वं काव्यबन्धेष्वपेक्षणीयत्वात्

3.4

तासां काव्याङ्गत्वं योजयितुमाह ----
शब्दस्मृतेः शब्दशुद्धिः
शब्दस्मृतेर्व्याकरणाच्छब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शुद्धानि हि पदानि निःशङ्कैः कविभिः प्रयुज्यन्ते

3.5

अभिधानकोशात् पदार्थनिश्चयः
पदं हि रचनाप्रप्रवेशयोग्यं भावयन् संदिग्धार्थत्वेन न गृह्णीयान्न वा जह्यादिति काव्यबन्धविघ्नः । तस्मादभिधानकोशतः पदार्थनिश्चयः कर्तव्य इति । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोशस्य , अप्रयुक्तस्याप्रयोज्यत्वात् । यदि प्रयुक्तं प्रयुज्यते तर्हि किमिति संदिघाथत्वमाशङ्कितं पदस्य ? तन्न ; तत्र सामान्येनार्थावगतिः संभवति । यथा {नीवी}शब्देन जघनवस्रग्रन्थिरुच्यत इति कस्यचिन्नश्चयः । स्त्रिया वा पुरुषस्य वेति संशयः नीवी संग्रथनं नार्या जघनस्थस्य वाससः इति नाममालाप्रतीकमपश्यत इति । अथ कथं ----
विचित्रभोजनाभोगवर्धमानःदरास्थिभिः ।
केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्लथीकृतः ॥
इति प्रयोगः । भ्रान्तेरुपचाराद्वा

3.6

छन्दोविचितेर्वृत्तसंशयच्छेदः
काव्याभ्यासाद्वृत्तसंक्रान्तिर्भवत्येव । किं तु मात्रावृत्तादिषु क्वचित्संशयः स्यात् । अतो वृत्तसंशयच्छेदश्छन्दोविचितेर्विधेय इति

3.7

कलाशास्त्रेभ्यः कलातत्त्वस्य संवित्
कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशाखिलादिप्रणीतानि कलाशास्त्राणि , तेभ्यः कलातत्त्वस्य संवित् संवेदनम् । न हि कलातत्त्वानुपलब्धौ कलावस्तु सम्यङ्निबन्धुं शक्यमिति

3.8

कामशास्त्रतः कामोपचारस्य
संवित् इत्यनुवर्तते । कामोपचारस्य संवित् कामशास्त्रत इति । कामोपचारबहुलं हि वस्तु काव्यस्येति

3.9

दण्डनीतेर्नयापनययोः
दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च संविदिति । तत्र षाड्गुण्यस्य यथावतोरयोगो नयः । तद्विपरीतोऽपनयः । न हि तावविज्ञाय नायकप्रतिनायकयोर्वृत्तं शक्यं काव्ये निबन्धुमिति

3.10

इतिवृत्तकुटिलत्वं च ततः
इतिहासादिरितिवृत्तं काव्यशरीरम् , तस्य कुटिलत्वं ततो दण्डनीतेर्बलीवस्त्वाबलीयस्त्वादिप्रयोगो व्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वमुपयोगो वर्णनीय इति

3.12

लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभानमवधानं च प्रकीर्णम्
तत्र काव्यपरिचयो लक्ष्यज्ञत्वम्
अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम् । ततो हि काव्यबन्धस्य व्युत्पत्तिर्भवति

3.13

काव्यबन्धोद्यमोऽभियोगः
बन्धनं बन्धः , काव्यस्य बन्धो रचना काव्यबन्धः । तत्रोद्यमोऽभियोगः । स हि कवित्वप्रकर्षमादधाति

3.14

काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा
काव्योपदेशे गुरव उपदेष्टारः । तेषां शुश्रूषणं वृद्धसेवा । ततः काव्यविद्यायाः संक्रान्तिर्भवति

3.15

पदाधानोद्धरणमवेक्षणम्
पदस्याधानं न्यासः , उद्धरणमपसारणम् । तयोः खल्ववेक्षणम् । अत्र श्लोकौ ----
आधानोद्धरणे तावद्यावद्दोलायते मनः ।
पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥
यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् ।
तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥

3.16

कवित्वबीजं प्रतिभानम्
कवित्वस्य बीजं कवित्वबीजं जन्मान्तरागतसंस्कारविशेषः कश्चित् , यस्माद्विना काव्यं न निष्पद्यते , निष्पन्नं वावहासायतनं स्यात्

3.17

++
चित्तैकाग्र्यमवधानम्
चित्तस्यैकाग्र्यं बाह्यार्थनिवृत्तिः तदवधानम् । अवहितं हि चित्तमर्थान् पश्यति

3.18

तद्देशकालाभ्याम्
तत् अवधानं देशात्कालाच्च समुत्पद्यते

3.19

कौ पुनर्देशकालावित्यत्राह ----
विविक्तो देशः
विविक्तो निर्जनः

3.20

रात्रियामस्तुरीयः कालः
रात्रेर्यामो रात्रियामः प्रहरः तुरीयश्चतुर्थः काल इति । तद्वशाद्विषयोपरतं चित्तं प्रसन्नमवधत्ते

3.21

एवं काव्याङ्गान्युपदर्श्य , काव्यविशेषज्ञानार्थमाह ----
काव्यं गद्यं पद्यं च
गद्यस्य पूर्वं निर्देशो दुर्लक्ष्यविषयत्वेन दुर्बन्धत्वात् । यथाहुः ---- गद्यं कवीनां निकषं वदन्ति इति

3.23

तच्च त्रिधा भिन्नमिति दर्शयितुमाह ----
गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च
तल्लक्षणान्याह ----
पद्यभागवद्वृत्तगन्धि
पद्यस्य भागाः पद्यभागास्तद्वत् वृत्तगन्धि ।
यथा पातालतालुतलवासिषु दानवेषु इति ।
अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते

3.24

अनाविद्धललितपदं चूर्णम्
अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मिंस्तदनाविद्धललितपदं चूर्णमिति । यथा ----
अभ्यासो हि कर्मणां कौशलमावहति ।
न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति ।

3.25

विपरीतमुत्कलिकाप्रायम्
विपरीतमाविद्धोतपदमुत्कलिलाप्रायम् । यथा ----
कुलिशशिखरखरनखरप्रचण्डपेटापाटितमत्तमातङ्गकुम्भस्थलगलन्मदच्छटाच्छरितचारुकेसरभारभासुरमुखे केसरिणि इति

3.26

पद्यमनेकभेदम्
पद्यं खल्वनेकेन समार्धसमविषमादिना भेदेन भिन्नं भवति

3.27

तदनिबद्धं निबद्धं च
तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम्

3.28

क्रमसिद्धिस्तयोः स्रगुत्तंसवत्
तयोरित्यनिबद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमसिद्धिः । अनिबद्धसिद्धौ निबद्धसिद्धैः स्रगुत्तंसवत् । यथा स्रजि मालाया सिद्धायामुत्तंसः शेखरः सिध्यति

3.29

केचिदनिबद्ध एव पर्यवसिताः , तद्दूषणार्थमाह ----
नानिबद्धं चकास्त्येकतेजःपरमाणुवत्
न खल्वनिबद्धं काव्यं चकास्ति दीप्यते । यथैकतेजःपरमाणुरिति ।
अत्र श्लोकः ----
असंकलितरूपाणां काव्यानां नास्ति चारुता ।
न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः ॥

3.30

संदर्भेषु दशरूपकं श्रेयः
संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः

3.31

कस्मात्तदाह ----
तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात्
तद्दशरूपकं हि यस्माञ्चित्रं चित्रपटचत् । विशेषाणां साकल्यात्

3.32

ततोऽन्यभेदकॢप्तिः
ततो दशरूपकादन्येषां भेदानां कॢप्तिः कल्पनमिति । दशरूपकस्यैव हीदं सर्वं विलसितम् , यच्च कथाख्यायिके महाकाव्यमिति । तल्लक्षणं च नातीव हृदयङ्गममित्युपेक्षितमस्माभिः । तदन्यतो ग्राह्यम्

मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc