काव्यालंकारसूत्र · अध्याय 5
इति श्रीकाव्यालङ्कारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे प्रथमोऽध्यायः पदपदार्थदोषविभागः ।
द्वितीयाधिकरणे द्वितीयोऽध्यायः ।
पदपदार्थदोष्ञ्प्रतिपाद्येदानीं वाक्यदोषान्दर्शयितुमाह ----
भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि
दुष्टनीत्यभिसंबन्धः
क्रमेण व्याचष्टे ----
स्वलक्षणच्युतवृत्तं भिन्नवृत्तम्
स्वस्माल्लक्षणाच्च्युतं वृत्तं यस्मिंस्तत् स्वलक्षणच्युतं वाक्यं भिन्नवृत्तम् । यथा ----
अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ॥
वैतालीययुग्मपादे लघ्वक्षराणां पण्णां नैरन्तर्यं निपिद्धम् । तच्च कृतमिति भिन्नवृत्तत्वम्
विरसविरामं यतिभ्रष्टम्
विरसः श्रुतिकटुर्विरामो यस्मिंस्तद् विरसविरामं यतिभ्रष्टम्
तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण
तद् यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति । स्वरसन्धिना कृते प्रायेण बाहुल्येन । धातुभागभेदे मन्दाक्रान्तायां यथा
एतासां राजति सुमनसां दामकण्ठावलम्बि ।
नामभागभेदे शिखरिण्यां यथा ।
कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः ।
मन्दाक्रान्तायां यथा
दुर्दर्शश्चक्रशिखिकपिशः शार्ङ्गिणो बाहुदण्डः ।
धातु-नामभागपदग्रहणात् तद्भागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् । यथा मन्दाक्रान्तायाम् ----
शोभां पुष्पत्यवमभिनवः सुन्दरीणां प्रबोधः ।
शिखरिण्यां यथा
विनिद्रः श्यामान्तेष्वधरर्पुटसीत्कारविरुतैः ।
स्वरसन्ध्यकृत इति वचनात् स्वरसन्धिकृते भेदे न दोषः । यथा
किञ्चिद्भावालसमसरलं प्रेक्षितं सुन्दरीणाम् ।
न वृत्तदोषात्पृथग्यतिद्प्षः, वृत्तस्य यत्यात्मकत्वात्
वृत्तदोषात् पृथग् यतिदोषो न वक्तव्यः । वृत्तस्य यत्यात्मकत्वात्
यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावान्न पृथग्ग्रहणं कार्यमत आह ----
न, लक्षणः पृथक्त्वात्
नायं दोषः लक्षणो लक्षणस्य पृथक्त्वात् । अन्यद्धि लक्षणं वृत्तस्यान्यच्च यतेः । गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका च यतिरिति
विरूपपदसंधि विसंधिः
पदानां सन्धिः पदसन्धिः । स च स्वरसमवायरूपः प्रत्यासत्तिमात्रारूपो वा । स विरूपो यस्मिन्निति विग्रहः
पदसंधेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च
विश्लेषो विभागेन पारुष्यमिति । विश्लेषो यथा ----
मेघानिलेन अमुना एतस्मिन्नद्रिकानने ।
कमले इव लोचने इमे अनुवध्नाति विलासपद्धतिः ।
लोलालकानुबद्धानि आननानि चकासति ।
अश्लीलत्वं यथा ----
विरेचकमिदं नृत्तमाचार्याभासयोजितम् ।
चकासे पनसप्रायैः पुरी पण्डमहाद्रुमैः ।
विना शपथदानाभ्यां पदवादसमुत्सुकम् ।
कष्टत्वं यथा ----
मञ्जरुद्गमगर्भास्ते गुर्वाभोगा द्रुमा बभुः ।
एवं वाक्यदोषानभिधाय वाक्यार्थदोषान् प्रतिपादयितुमाह ----
व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्या विरुद्धानि च
वाक्यानि दुष्टानीति सम्बन्धः
क्रमेण व्याख्यातुमाह ----
व्याहतपूर्वोत्तरार्थं व्यर्थम्
व्याहतौ पूर्वोत्तरावर्थौ यस्मिंस्तद्व्याहतपूर्वोत्तरार्थं वाक्यं व्यर्थम् । यथा ----
अद्यापि स्मरति रसालसं मनो मे
मुग्धायाः स्मरचतुराणि चेष्टितानि ।
मुग्धायाः कथं स्मरचतुराणि चेष्टितानि । तानि चेत् कथं मुग्धा ? अत्र पूर्वोत्तरयोरर्थयोर्विरोधाद् व्यर्थमिति
उक्तार्थपदमेकार्थम्
उक्तार्थानि पदानि यस्मिंस्तदुक्तार्थपदमेकार्थम् । यथा ----
चिन्तामोहमनङ्गमङ्ग ! तनुते विप्रेक्षितं सुभ्रुवः ।
अनङ्गः शृङ्गारः । तस्य चिन्तामोहात्मकत्वाच्चिन्तामोहशब्दौ प्रयुक्तावुक्तार्थौ भवतः । एकार्थपदत्वाद् वाक्यमेकार्थमित्युक्तम्
न, विशेषश्चेदेकार्थं दुष्टम् *
न गतार्थ दुष्टं विशेषश्चेत् प्रतिपाद्यः स्यात्
तं विशेषं प्रतिपादयितुमाह ----
धनुर्ज्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्त्यै
धनुर्ज्याध्वनावित्यत्र ज्याशब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते । आरूढेः प्रतिपत्त्यै । आरोहणस्य प्रतिपत्त्यर्थम् । न हि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुर्ज्येति शक्यं प्रतिपत्तुम् । यथा ----
धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव । इति
कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादिनिर्देशः संनिधेः
कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि निर्देशः सन्निधेः प्रतिपत्त्यर्थमिति सम्बन्धः । न हि कर्णादिशब्दनिर्देशमन्तरेण कर्णादिसन्निहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा ----
दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।
लीलाचलच्छ्रवणकुण्डमापतन्ति ।
आययुर्भृङ्गमुखराः तूर्णं शेखरशालिनः ।
मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः
मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते , शुद्धेः प्रतिपत्त्यर्थमिति संबन्धः । शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्तहारः । यथा ----
प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥
पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य
पुष्पमालाशब्दे मालाशब्देनैव गतार्थं पुष्पपदं प्रयुज्यते । उत्कर्षस्य प्रतिपत्त्यर्थमिति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति यथा ----
प्रायशः पुष्पमालेव कन्या सा कं न लोभयेत् ।
ननु मालाशब्दोऽन्यत्रापि दृश्यते । यथा , रत्नमाला , शब्दमालेति । सत्यम् । स तावदुपचरितस्य प्रयोगः । निरुपपदो हि मालाशब्दः पुष्परचनाविशेषमेवाभिधत्त इति
करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य
करिकलभशब्दे करिशब्दः कलभेनैव गतार्थः प्रयुज्यते ---- ताद्रूप्यस्य प्रतिपत्त्यर्थमिति । करी प्रौढकुञ्जरः । तद्रूपः कलभः करिकलभ इति । यथा ----
त्यज करिकलभ त्वं प्रीतिबन्धं करिण्याः ।
विशेषणस्य च
विशेषणस्य विशेषप्रतिपत्त्यर्थमुक्तार्थस्य पदस्य प्रयोगः । यथा ----
जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।
तदिदं प्रयुक्तेषु
तदिदमुक्तं प्रयुक्तेषु , नाप्रयुक्तेषु । न हि , भवति यथा ----
श्रवणकुण्डलमि । इति । तथा ---- नितम्बकाञ्ची इत्यपि । यथा वा ---- करिकलभः इति । तथा ---- उष्ट्रकलभः इत्यपि । अत्र श्लोकः ----
कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः ।
संनिधानादिब्प्धार्थं स्थितेष्वेतत् समर्थनम् ॥
संशयकृत्संदिग्धम्
यद्वाक्यं साधारणानां धर्माणां श्रुतेविंशिष्टानां वा श्रुतेः संशयं करोति तत् संशयकृत् सन्दिग्धमिति । यथा ----
स महात्मा भाग्यवशान्महापदमुपागतः ।
किं भाग्यवशान्महापदमुपागतः , आहोस्विदभाग्यवशान्महतीमापदमिति संशयकृद् वाक्यं , प्रकरणाद्यभावे सतीति
मायादिविकल्पितार्थम्प्रयुक्तम्
मायादिना कल्पितोऽर्थो यस्मिंस्तन्मायादिकल्पितार्थमप्रयुक्तम् । अत्र स्तोकमुदाहरणम्
क्रमहीनार्थमपक्रमम्
उद्देशोतानामनुद्देशितानां च क्रमः सम्बन्धः । तेन विहीनोऽर्थो यस्मिंस्तत्क्रमहीनार्थमपक्रमम् । यथा ----
कीर्तिओरतापौ भवतः सूर्याचन्द्रमसोः समौ ।
अत्र कीर्तिश्चन्द्रमसस्तुल्या । प्रतापः सूर्यस्य तुल्यः । सूर्यस्य पूर्वनिपातादक्रमः । अथवा प्रधानस्यार्थस्य निर्देशः क्रमः । तेन विहीनोऽर्थो यस्मिंस्तदपक्रमम् । यथा ----
तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।
देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि
देशकालस्वभावैर्विरुद्धोऽर्थो येषु तानि देशकालस्वभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि । अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् । देशविरुद्धं यथा ----
सौवीरेष्वस्ति नगरी मधुरा नाम विश्रुता ।
आक्षोटनालिकेराढ्या यस्याः पर्यन्तभूमयः ॥
कालविरुद्धं यथा ----
कदम्बकुमुमस्मेरं मधौ वनमशोभत ।
स्वभावविरुद्धं यथा ----
मत्तालिमङ्खमुखरासु च मञ्जरीषु सप्तच्छदस्य तरतीव शरन्सुखश्रीः ।
सप्तच्छदस्य स्तवका भवन्ति , न मञ्जर्य इति स्वभावविरुद्धम् । तथा ----
भृङ्गेण कलिकाकोशस्तथा भृशमपीड्यत ।
यथा गोष्पदपूरं हि ववर्ष बहुलं मधु ॥
कलिकायाः सर्वस्या मकरन्दस्यैतावद् वाहुल्यं स्वभावविरुद्धम्
कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि
कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थो येषु तानि कलाचतुर्वर्गशास्त्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः । कलाशास्त्रविरुद्धं यथा ----
कालिङ्ग लिखितमिदं वयस्य पत्रं पत्रज्ञैरपरितकोटिकण्टकाग्रम् ।
कालिन्ङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः । तद्विरुद्धत्वात् कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः । चतुर्वर्गशास्त्रविरुद्धानि तूदाह्नियन्ते ----
कामोपभोगसाकल्यफलो राज्ञां महीजयः ।
धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजयः इत्यागमः । तद्विरोधाद्धर्मशास्त्रविरुद्धार्थमेतद्वाक्यमिति ।
अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया ।
द्विपज्जयस्य नयमूलत्वं स्थितं दण्डनीतौ । तद्विरोधादर्थशास्त्रविरुद्ध वाक्यमिति ।
दशनाङ्कपवित्रितोत्तरोष्टं रतिखेदालसमाननं स्मरामि ।
उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्थानानि ।
इति कामशास्त्रे स्थितम् । तद्विरोधात् कामशास्त्रविरुद्धार्थं वाक्यमिति
देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा ।
एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात्तद्विरुद्धार्थम् ।
एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वन्ये शब्दार्थदोषाः सूक्ष्मास्ते गुणविवेचने लक्ष्यन्ते । उपमादोषाश्चोपमाविचार इति
मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0