काव्यालंकारसूत्र · अध्याय 2
इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ शरीरे प्रथमेऽधिकरणे प्रथमोऽध्यायः इति प्रयोजनस्थापना ॥1-1॥
अथ प्रतमेऽधिकरणे द्वितीयोऽध्यायः ।
[प्रयोजनस्थापना ।] अधिकारिनिरूपणार्थमाह ----
अरोचकिनः सतृणाभ्यवहारिणश्च कवयः
इह खलु द्वये कवयः सम्भवन्ति । अरोचकिनः , सतृणाभ्यवहारिणश्चेति । अरोचकिसतृणाभ्यवहारिशब्दौ गौणार्थौ । कोऽसावर्थः । विवेकित्वमविवेकित्वं चेति
यदाह ----
पूर्वे शिष्याः, विवेकित्वात्
पूर्वे खल्वरोचकिनः शिष्याः शासनीयाः । विवेकित्वात् विवेचनशीलत्वात्
नेतरे तद्विपर्ययात्
इतरे सतृणाभ्यवहारिणो न शिष्याः । तद्विपर्ययात् । अविवेचनशीलत्वात् । न च शीलमपाकर्तुं शक्यम्
नन्वेवं न शास्त्रं सर्वत्रानुग्राहि स्यात् , को वा मन्यते , तदाह ----
न शास्त्रमद्रव्येष्वर्थवत्
न खलु शास्त्रमद्रव्येष्वविवेकिष्वर्थवत्
निदर्शनमाह ----
न कतकं पङ्कप्रसादनाय
न हि कतकं पयस इव पञ्कप्रसादनाय भवति
अधिकारिणो निरूप्य रीतिनिश्चयार्थमाह ----
रीतिरात्मा काव्यस्य
रीतिर्नामेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः
किं[क्: का] पुनरियं रीतिरित्याह ----
विशिष्टा पदरचना रीतिः
विशेषवती पदानां रचना रीतिः
कोऽसौ विशेष इत्याह ----
विशेषो गुणात्मा
वक्ष्यमाणगुणरूपो विशेषः
सा त्रिधा वैदर्भी गौडीया पाञ्चाली चेति
सा चेयं रीतिस्त्रिधा [भिद्यते] । वैदर्भी , गौडीया , पाञ्चाली चेति
किं पुनर्देशवशाद् द्रव्यगुणोत्पत्तिः काव्यानां , येनाऽयं देशविशेषव्यपदेशः । नैवं , यदाह ----
विदर्भादिषु दृष्टत्वात्तत्समाख्या
विदर्भगौडपाञ्चालेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वात् तत्समाख्या । न पुनर्देशैः किञ्चिदुपक्रियते काव्यानाम्
तासां गुणभेदाद् भेदमाह ----
समग्रगुणोपेता वैदर्भी
समग्रैरोजःप्रसादप्रमुकैर्गुणैरुपेता वैदर्भी नाम रीतिः ।
अत्र श्लोकः ----
अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता ।
विपञ्चीस्स्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥
तामेतामेवं कवयः स्तुवन्ति ----
सति वक्तरि सत्यर्थे सति शब्दानुशासने ।
अस्ति तन्न विना येन परिस्रवति वाङ्मुधे ॥
[क्: अत्र] उदाहरणम् (शाकुं. 2-6) ----
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायावद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ॥
विस्रब्धं कुरुतां वराहविततिर्मुस्ताक्षतिं पल्वले
विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥
ओजःकान्तिमती गौडीया
ओजः कान्ति.श्च विद्येते यस्यां सा ओजःकान्तिमती गौडीया नाम रीतिः । माधुर्यसौकुमार्ययोरभावात् समासबहुला अत्युल्बणपदा च । अत्र श्लोकः ----
समस्तात्युद्भटपदामोजःकान्तिगुणान्विताम् ।
गौडीयामिति गायन्ति रीतिं रीतिविचक्षणाः ॥
उदाहरणम् (महावीरच्. 1-54) ----
दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-
ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यस्तकपालसंपुटमितब्रह्माण्डभाण्डोदर-
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाऽद्यापि विश्राम्यति
माधुर्यसौकुमार्योपपन्ना पाञ्चाली
माध्रुयेण सौकुमार्येण च गुणोनोपपन्ना पाञ्चाली नाम रीतिः । ओजःकान्त्यभावादनुल्बणपदा विच्छाया च । तथा च श्लोकः ----
आश्लिष्टश्लथभावां तु पुराणच्छाययान्विताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥
यथा[क्: अत्रोदाहरणम्] ----
ग्रामे ऽस्मिन्पथिकाय पान्थ ! वसतिर्नैवाधुना दीयते
रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा ।
तेनोत्थाय खलेन गजति घने स्मृत्वा प्रियां तत्कृतं
येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥
एतासु तिसृषु रीतिषु रेखाखिव चित्रं काव्यं प्रतिष्ठतमिति
तासां पूर्वा ग्राह्या, गुणसाकल्यात्
तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या , गुणानां साकल्यात्
न पुनरितरे, स्तोकगुणत्वात्
इतरे गौडीयपाञ्चाल्यौ न ग्राह्ये , स्तोलगुणत्वात्
तदारोहणार्थमितराभ्यास इत्येके
तस्या वैदर्भ्या एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते
तत्तु न; अतत्त्वशीलस्य तत्त्वानिष्पत्तेः
न ह्यतत्त्वं शीलयतस्तत्त्वं निष्पद्यते
निदर्शनार्थमाह ----
न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्र्यलाभः
न हि शणसूत्रवानमभ्यस्यन् कुविन्दस्त्रसरसूत्रवानवैचित्र्यं लभते
सापि समासाभावे शुद्धवैदर्भी
सापि वैदर्भी रीतिः शुद्धवैदर्भी भण्यते , यदि समासवत्पदं न भवति । ।19॥
तस्यामर्थगुणसंपदास्वाद्या
तस्यां वैदर्भ्यां अर्थगुणसंपदास्वाद्या भवति
तदुपारोहादर्थगुणलेशोऽपि
तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते । किमङ्ग ! पुनरर्थगुणसंपत् । तथा चाहुः ----
किं त्वस्ति काचिदपरैव पदानुपूर्वी
यस्यां न किञ्चिदपि किञ्चिदिवावभाति ।
आनन्दयत्य्थ च कर्णपथं प्रयाता
चेतः सताममृतवृष्टिरिव प्रविष्टा ॥
वचसि यमधिशय्य स्यन्दते वाचकश्री-
र्वितथमवितथत्वं यत्र वस्तु प्रयाति ।
उदयति हि स तादृक् क्वापि वैदर्भरीतौ
सहृदयहृदयानां रञ्जकः कोऽपि पाकः ॥
सापि वैदर्भी, तात्स्थ्यात्
सापीयमर्थगुणसंपत् वैदर्भीत्युक्ता । तात्स्थ्यादित्युपचारतो व्यवहारं दर्शयति
मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0