भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र · अध्याय 1

1.1

पाण्डितवरश्रीवामनविरचितसवृत्ति-
काव्यालङ्कारसूत्राणि
अथ प्रथमेऽधिकरणे प्रथमोऽध्यायः ।
प्रणम्य परमं ज्योतिर्वामनेन कविप्रिया ।
काव्यालङ्कारसूत्राणां तेषां वृत्तिर्विधीयते ॥
काव्यं ग्राह्यमलङ्कारात्
काव्यं खलु ग्राह्यमुपादेयं भवति, अलङ्कारात् । काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्तते । भक्त्या तु शब्दार्थमात्रवचनोऽत्र गृह्यते

1.2

कोऽसावलङ्कार इत्यत आह ----
सौन्दर्यमलङ्कारः
अलङ्कृतिरङ्कारः । करणव्युत्पत्त्या पुनरलङ्कारशब्दोऽयम् उपमादिषु वर्तते

1.3

स दोषगुणालङ्कारहानादानाभ्याम्
स खल्वलङ्कारो दोषहानाद् गुणालङ्कारादानाच्च् सम्पाद्यः कवेः

1.4

शास्त्रतस्ते
ते दोषगुणालङ्कारहानादाने । शास्त्रादस्मात् । शास्त्रतो हि ज्ञात्वा दोषाञ्जह्याद् , गुणालङ्कारांश्चाददीत

1.5

किं पुनः फलम् अलङ्करवता काव्येन, येनैतदर्थोऽयमित्याह ----
काव्यं सद्दृष्टादृष्टार्थम्, प्रीतिकीर्तिहेतुत्वात्
{काव्यं सत्} चारु दृष्टप्रयोजनं , प्रीतिहेतुत्वात् । अदृष्टप्रयोजनं कीर्तिहेतुत्वात् । अत्र श्लोकाः ----
प्रतिष्ठां काव्यबन्धस्य यशसः सरणिं विदुः ।
अकीर्तिवर्त्तिनीं त्वेवं कुकवित्वविडम्बनम् ॥
कीर्तिस्वर्गफलामाहुराससारं विपश्चितः ।
अकीर्तिं तु निरालोकनरकोद्देशदूतिकाम् ॥
तस्मात् कीर्तिमुपादातुमकीर्तिं च निवर्हितुम् ।
काव्यालङ्कारसूत्रार्थः प्रसाद्यः कविपुङ्गवैः ॥

मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc