काव्यालंकारसूत्र · अध्याय 12
इति श्रीकाव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे तृतीयोध्यायः । समाप्तं चेदमालञ्कारिकं चतुर्थमधिकरणम् ।
================================================================
अथ पञ्चमोऽधिकरणे प्रथमोऽध्यायः
सम्प्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिकरणमारभ्यते । तत्र काव्यसमयस्तावदुच्यते ।
नैकं पदं द्विः प्रयोज्यं प्रायेण
एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन । यथा ---- पयोदपयोद इति । किञ्चिदिवादिपदं द्विरपि प्रयोक्तव्यमिति । यथा ---- सन्तः सन्तः खलाः खलाः
नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम्
नित्यं संहितापादेष्वेकपदवदेकस्मिन्निव पदे । तत्र हि नित्यासंहितेत्यान्नायः । यथा ---- स,न्हितैकपदे नित्या धातूपसर्गयोः इति । अर्धान्तवर्जमर्धान्तं वर्जयित्वा
न पादान्तलघोर्गुरुत्वं च सर्वत्र
पादान्तलघोर्गुरुत्वं प्रयोक्तव्यम् । न सर्वत्र , न सर्वस्मिन् वृत्त इति । यथा ----
यासां बलिर्भवति मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विलुप्तपूर्वः ।
तास्वेव पूर्वबलिरूढयवाङ्कुरासु
बीजाञ्जलिः पतति कीटमुखावलीढः ॥
एवंप्रायेष्वेव वृत्तेष्विति । न पुनः ----
वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत् ।
इत्यादिषु । चकारोऽर्धान्तवर्जमित्यस्यानुकर्पणार्थः
न गाद्ये समाप्तप्रायं वृत्तम्, अन्यत्रोद्गतादिभ्यः संवादात्
गद्ये समाप्तप्रायं वृत्तं न विधेयम् । शोभाभ्रांशत् । अन्यत्रोद्गतादिभ्यो विषमवृत्तेभ्यः संवादाद् गद्येनेति
न पादादौ खल्वादयः
पादादौ खल्वादयः शब्दा न प्रयोज्याः । आदिशब्दः प्रकारार्थः । येषामादौ प्रयोगो न श्लोष्यति ते गृह्यन्ते । न पुनर्वतहेतप्रभृतयः
नार्धे किञ्चित्समाप्तं वाक्यम्
वृत्तस्यार्थे किञ्चिदसमाप्तप्रायं न प्रयोक्तव्यम् । यथा ----
जयन्ति ताण्डवे शम्भोर्भङ्गुराङ्गुलिकोटयः ।
कराः कृष्णस्य च भुजाश्चक्रांशुकपिशत्विषः ॥
न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः
बहुब्रीहिप्रतिपत्तिं करोति यः कर्मधारयः स न प्रयोक्तव्यः । यथा ----
अध्यासितश्चासौ तरुश्चाध्यासिततरुः इति
तेन विपर्ययो व्याख्यातः
बहुव्रीहिरपि अक्र्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः । यथा ----
वीराः पुरुषा यस्य स वीरपुरुषः ।
कलो रवो यस्य स कलरवः । इति
संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ
सम्भाव्यस्य निषेधस्य निवर्तने स्वौ प्रतिषेधौ प्रयोक्तव्यौ यथा ----
समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः ।
स खलु तापसबाणपरम्पराकवलितक्षतजः क्षितिमाश्रितः ॥
विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ
विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः । यथा (रघुवंश 3.9) ----
निधानगर्भामिव सागराम्बराम्
अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम् । एतेन
क्रुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदैचिः ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ।
इत्यादयो [क्: प्रयोगा] व्याख्याताः
सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य
सर्वनाम्नानुसन्धिरनुसन्धानं प्रत्यवमर्शः । वृत्तिच्छन्नस्य वृत्तौ समासे छन्नस्य गुणीभूतस्य । यथा ----
तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानगन्धिनः । इति
संबन्धसंबन्धेऽपि षष्ठी क्वचित्
सम्बन्धेन सन्बन्धः सम्बन्धसम्बन्धस्तस्मिन् षष्ठी प्रयोज्या क्वचित् , न सर्वत्रेति । यथा कमलस्य कन्दः इति । कमलेन संबद्धा कमलिनी तस्या कन्दः इति सम्बन्धः । तेन कदलीकाण्डादयो व्याख्याताः
अतिप्रयुक्तं देशभाषापदम्
अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम् । यथा ----
योषिदित्यभिललाष न हालाम् इत्यत्र हाला इति देशभाषापदम् । अनतिप्रयुक्तं तु न प्रयोज्यम् । यथा ----
कङ्केलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः इत्यत्र कङ्केली पदम्
लिङ्गाध्याहारौ
लिङ्गं चाध्याहारश्च लिङ्गाध्याहारावतिप्रयुक्तौ प्रयोज्याविति । यथा ----
वत्से ! मा बहु निःश्वसीः कुरु सुरागण्डूपमेकं शनैः इत्यादिषु गण्डूषशब्दः पुंसि भूयसा प्रयुक्तो , न स्त्रियाम् आम्नातोऽपि स्त्रीत्वं । अध्याहारो यथा ----
मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।
वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ! ॥
अत्र हि अधाक्षीत्[क्: धाक्षीत्] इत्यादीनामध्याहारोऽन्वयप्रयुक्तः
लक्षणाशब्दाश्च
लक्षणाशब्दाश्चातिप्रयुक्ताः प्रयोज्याः । यथा द्विरेफरोदरशब्दौ भ्रमरचक्रवाकार्थौ लक्षणापरौ । अनतिप्रयुक्ताश्च न प्रयोज्याः । यथा ---- द्विकः काक इति
न तद्बाहुल्यमेकत्र
तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन् वाक्ये न प्रयोज्यम् । शक्यते ह्येकस्यावाचकस्य वाचकवद्भावः कर्तुं , न बहूनामिति
स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण
स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येने ति । यथा ---- स्त्रीणां चक्षुः इति ।
अथ कथं द्वित्वाविष्टत्वं जातेः ? । तद्धि द्रव्ये , न जातौ । अतद्रूपत्वाज्जातेः । न दोषः ; तदतद्रूपत्वाज्जातेः[क्: तद्रूपत्वाज्जातेः] । कथं तदतद्रूपत्वं[क्: तद्रूपत्वं] जातेः ? । तद्धि जैमिनीया जानन्ति[क्: जैना जानान्ति] । वयं तु लक्ष्यसिद्धौ सिद्धपरमतामुवादिनः । न चैवमतिप्रसङ्गः । लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्यापि व्यवस्थोह्या
मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0