भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र · अध्याय 11

11.1

इति श्रीकाव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः ॥ उपमाविचार.ः ॥
अथ चतुर्थाधिकरणे तृतीयोऽध्यायः
सम्प्रत्युपमाप्रपञ्चो विचार्यते । कः पुनरसावित्याह ----
प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः
प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः । उपमायाः प्रपञ्च उपमाप्रपञ्च इति

11.2

वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह ----
उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु
उपमेयस्यार्थआद्वाक्यार्थस्योक्तौ सत्यामिति । अत्र द्वौ वाक्यार्थौ । एको वाक्यार्थोपमायामिति भेदः । तद्यथा ----
देवीभावं गमिता परिवारपदं कथं भजत्येषा ।
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥

11.3

प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह ----
अनुक्तौ समासोक्तिः
उपमेयस्यानुक्तौ समानवस्तुन्यासः समासोक्तिः । संक्षेपवचनात् समासोक्तिरित्याख्या । यथा ----
श्लाध्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः ।
धिङ् मेरौ कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रियः ॥

11.4

समासोक्तेरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह ----
किञ्चिदुक्तावप्रस्तुतप्रशंसा
उपमेयस्य किञ्चिल्लिङ्गमात्रेणोक्तौ समानवस्तुन्यासे अप्रस्तुतप्रशंसा । यथा ----
लावण्यसिन्दुरपरैव हि काचनेयं
यत्रोत्पलानि शशिना सह संप्लवन्ते ।
उन्मञ्जति द्विरदकुम्भतटी च यत्र
यत्रापरे कदलिकाण्डमृणालदण्डाः ॥
अओरस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा

11.5

अपह्नुतिरपि ततो भिन्नेति दर्शयितुमाह ----
समेन वस्तुनान्यापलापोऽपह्नुतिः
सनेन तुल्येन वस्तुना वाक्यार्थेनान्यस्य वाक्यार्थस्यापलापो निह्नवो यस्तत्त्वाध्यारोपणायासावपह्नुतिः । यथा ----
न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः ।
तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विवर्तते ॥
वाक्यार्थयोस्तात्पर्यात् ताद्रूप्यमिति न रूपकम्

11.6

रूपकं तु कीदृशमित्याह ----
उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो रूपकम्
उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वस्याभेदस्यारोपणमारोपो रूपकम् । उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्चोपमायाः प्रकृक्षित्वमत्र यथा विज्ञायेतेति । यथा (उत्तररामचरित_1.39) ----
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो-
रसावस्याः स्पर्शो वपुषि वहुलश्चन्दनरसः ।
अयं कष्ठे वाहुः शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो परमसह्यस्तु विरहः ॥
मुखचन्द्रादीनां तूपमा । समासान्न चन्द्रादीनां रूपकत्वं युक्तमिति

11.7

रूपकाच्छ्लेषस्य भेदं दर्शयितुमाह ----
स धर्मेषु तन्त्रप्रयोगे श्लेषः
उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स तत्त्वारोपः । तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति श्लेषः । यथा ----
आकृष्टामलमण्डलाग्ररुचयः संनद्धक्षःस्थलाः
सोष्माणो व्रणिता विपक्षहृदयप्रोन्माथिनः कर्कशः ।
उद्वृत्ता गुरवश्च यस्य शमिनः श्यामायमानानना
योधा वारवधूस्तनाश्च न ददुः क्षोभं स वोऽव्याज्जिनः ॥

11.8

यथा च गौणस्यार्थस्यालङ्कारत्वं तथा लाक्षणिकस्यापीति दर्शयितुमाह ----
सादृश्याल्लक्षणा वक्रोक्तिः
बहुनि हि निबन्धनानि लक्षणायाम् । तत्र सादृश्याल्लक्षणावक्रोक्तिरसाविति । यथा ----
उन्मिमील कमलं सरसीनां कैरवं च न मिमील मुहूर्तात् ।
अत्र नेत्रधर्मावुन्मीलनिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः ।
इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयम् ।
मदयति च केसराणां परिणतमधुगन्धि निःश्वसितम् ॥
अत्र च निःश्वसितमिति परिमलनिर्गमं लक्षति ।
संस्थानेन स्फुरतु सुभगः स्वर्चिषा चुम्बतु द्याम् ।
आलस्यमालिङ्गति गात्रमस्याः ।
परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम् ।
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकपायः ।
ऊरुद्वन्द्वं तरुणकदलीकाण्डसब्रह्मचारि ।
इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिपत्तिक्षमत्वं रहस्यमाचक्षत इति ।
असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः । यथा ----
जरठकमलकन्दच्छेदगौरैर्मधूखैः ।
अत्र च्छेदः सामीप्याद् द्रव्यं लक्षयति । तस्यैव गौरत्वोपपत्तेः

11.9

रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह ----
अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा
अतद्रूपस्यातत्स्वभावस्य । अन्यथा अतत्स्वभावतया । अध्यवसानमध्यवसायः । न पुनरध्यारोपो लक्षणा वा । अतिशयार्थमिति भ्रान्तिज्ञाननिवृत्त्यर्थम् । सादृश्यादियमुत्प्रेक्षेति । एनां चेवादिशब्दा द्योतयन्ति । यथा ----
स वः पायादिन्दुर्नवविसलताकोटिकुटिलः
स्मरारेर्यो मूर्ध्नि ज्वलनकपिषे भाति निहितः ।
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥

11.10

उत्प्रेक्षेवैवातिशयोक्तिरिति केचित् । तन्निरासार्थमाह ----
संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः
संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पनातिशयोक्तिः । यथा ----
उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः प्रवाहौ ।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥
यथा वा ----
मलयजरसविलिप्ततनुनवहारलताविभूषिताः
सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि ध्वलयति धरामविभाव्यतां गताः
प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥

11.11

यथा भ्रान्तिज्ञानस्यरूपोत्प्रेक्षा तथा संशयज्ञानस्वरूपः संदेहोऽपीति दर्शयितुमाह ----
उपमानोपमेयसंशयः संदेहः
उपमानोपमेययोरतिशयार्थं यः क्रियते संशयः स संदेहः । यथा ----
इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि ।
न निश्चिनोति हृदयं किन्तु दोलायते मनः ॥

11.12

संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह ----
विरुद्धाभासत्वं विरोधः
अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः । यथा ----
पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः
पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि ! ।
त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु-
स्त्वन्मध्ये तनुता ममाधृतिरहो प्रेम्णो विचित्रा गतिः ॥
यथा वा (अमरु. 34)----
सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥

11.13

विरोधाद्विभावनाया भेदं दर्शयितुमाह ----
क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्तिर्विभावना
क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्तिविभावना । यथा ----
अप्यसज्जनसाङ्गत्ये न वसत्येव वैकृतम् ।
अक्षालिताविशुद्धेषु हृदयेषु मनीपिणाम् ॥

11.14

विरुद्धप्रसङ्गेनानन्वयं दर्शयितुमाह ----
एकस्योपमेयत्वोपमानत्वेऽनन्वयः
एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः । यथा (हनुमान्नाटक_14-18)----
गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव ॥
अन्यासादृश्यमेतेन प्रतिपादितम्

11.15

क्रमेणोपमेयोपमा
एककस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेणोपमेयोपमा । यथा ----
खमिव जलं जलमिव खं हंस इव शशी शशीव हंसोऽयम् ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥

11.16

इयमेव परिवृत्तिरित्येके तन्निरासार्थमाह ----
समविसदृशाभ्यां परिवर्तनं परिवृत्तिः
समेन विसदृशेन वार्थेन अर्थस्य परिवर्तनं परिवृत्तिः । यथा ----
आदाय कर्णकिसलयमियमस्मै चरणमरुणमर्पयति ।
उभयोस्सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ॥
यथा वा ----
विहाय साहारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना ।
बबन्ध बालारुणवभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥

11.17

उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह ----
उपमेयोपमानानां क्रमसंबन्धः क्रमः
उपमेयानामुपमानानां चोद्देशिनामनुद्देशिनां च क्रमसम्बन्धः क्रमः । यथा ----
तस्याः प्रबन्धलीलाभिरालापस्मितदृष्टिभिः ।
जीयन्ते वल्लकीकुन्दकुसुमेन्दीवरस्रजः ॥

11.18

क्रमसम्बन्धप्रसङ्गेन दीपकं दर्शयितुमाह ----
उपमानोपमेयवाक्येष्वेका क्रिया दीपकम्
उपमानवाक्येपूपमेयवाच्येषु चैका क्रिया अनुपङ्गतः सम्बन्ध्यमाना दीपकम्

11.19

तन्त्रिविधम् । आदिमध्यान्तवाक्यवृत्तिभेदात् *
तत् त्रिविधं भवति । आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् । यथा ----
भूष्यन्ते प्रमदवनानि बालपुष्पैः , कामिन्यो मधुमदमांसलैर्विलासैः ।
ब्रह्माणः श्रुतिगदितैः क्रियाकलापै , राजानो विरलितवैरिभिः प्रतापैः ॥
बाष्पः पथिककान्तानां जलं जलमुचां मुहुः ।
विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ॥
गुरुशुश्रूषया विद्या मधुगोष्ठ्या मनोभवः ।
उदयेन शशाङ्कस्य पयोधिरभिवर्धते ॥

11.20

दीपकवन्निदर्शनमपि संक्षिप्तमित्याह ----
क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम्
क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थः चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनान्निदर्शनम् । यथा ----
अत्युच्चयदाध्यासः पतनायेत्यर्थशालिनां शंसत् ।
आपाण्डु पतति पत्रं तयोरिदं बन्धमग्रन्थेः ॥
पततीति क्रिया । तस्याः स्वं पतनम् । तदर्थेऽत्युच्चयदाध्यासः पतनायेति शंसनम् । तस्य ख्यायनमर्थशालिनां शंसदिति

11.21

इदं च नार्थान्तरन्यासः । स ह्यन्यथाभूतस्तमाह ----
उक्तिसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः
उक्तसिद्ध्यै उक्तस्यार्थस्य सिद्ध्यर्थ वस्तुनो वाक्यार्थान्तरस्यैव न्यसनमर्थान्तरन्यासः । वस्तुग्रहणादर्थस्य हेतोर्न्यसनन्नार्थान्तरन्यासः । यथा ----
इह नातिदूरगोचरमस्ति सरः कमलसौगन्ध्यात् इति । अर्थान्तरस्यैवेति वचनम् , यत्र हेतुर्व्याप्तिगूढत्वात् कथञ्चित् प्रतीयते तत्र यथा स्यात् । यद्यत् कृतकं तत्तदनित्यमित्येवम्प्रायेषु मां भूदिति । उदाहरणम् ।
प्रियेण संग्रथ्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तनी ।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥

11.22

अर्थान्तरन्यासस्य हेतुरूपत्वाद् , हेतोश्चान्वयव्यतिरेकात्मकत्वान्न पृथग्व्यतिरेक इति केचित् । तन्निरासाथमाह ----
उपमेयस्य गुणातिरेकत्वं व्यतिरेकः
उपमेयस्य गुणातिरेकत्वं गुणाधिक्यं यद् अर्थादुपमानात् स व्यतिरेकः । यथा ----
सत्यं हरिणशावाक्ष्याः प्रसन्नसुभगं मुखम् ।
समानं शशिनः किन्तु स कलङ्कविडम्बितः ॥
कश्चित्तु गम्यनानगुणो व्यतिरेकः । यथा ----
कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं
हसितममृतं भग्नं स्वादोः पदं रससंवदः ।
विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनां
चतुरललितैर्लीलातन्त्रैस्तवार्धविलोकितैः ॥

11.23

व्यतिरेकाद्विशेषोक्तेर्भेदं दर्शयितुमाह ----
एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः
एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैस्साम्यं यत्तस्य दार्ढ्यं विशेषोक्तिः । रूपकं चेदं प्रायेणेति । यथा (कुमार. 1-10) ----
भवन्ति यत्रौपधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।
द्यूतं हि नाम पुरुषस्याऽसिंहासनं राज्यम् । (मृच्छकटिका अं. 2)
निद्रेयकमला[क्: इयं ह्यकमला] लक्ष्मीः ।
हस्ती हि जङ्गमं दुर्गम् । इति ।
अत्रापि जङ्गमशब्दस्य स्थावरत्वनिवृत्तिपादनत्वादेकगुणहानिकल्पनैव । एतेन ----
वेश्या हि नाम मूर्तिमत्येव निकृतिः ।
व्यसनं हि नाम सोच्छ्वासं मरणम् ।
द्विजो भूमिवृहस्पतिः ।
इत्येवमादिष्व्गुणहानिकल्पना व्याख्याता

11.24

व्यतिरेकविशेषोक्तिभ्यां व्याजस्तुतिं भिन्नां दर्शयितुमाह ----
संभाव्यविशिष्टकर्माकरणान्निन्दास्तोत्रार्था व्याजस्तुतिः
अत्यन्तगुणाधिको विशिष्टस्तस्य च कर्म विशिष्टकर्म , तस्य सम्भाव्यस्य कर्तुं शक्यस्याकरणान्निन्दाविशिष्टसाम्यसम्पादनेन स्तोत्रार्था व्याजस्तुतिः । यथा ----
बबन्ध सेतुं गिरिचक्रवालओर्विभेद सप्तैकशरेण तालान् ।
एवंविधं कर्म ततान रामस्त्वया कृतं तन्न मुधैव गर्वः ॥

11.25

व्याजस्तुतेर्व्याजोक्तिं भिन्नां दर्शयितुमाह ----
व्याजस्य सत्यसारूप्यं व्याजोक्तिः
व्याजस्य च्छद्मनः सत्येन सारूप्यं व्याजोक्तिः । यां मायोक्तिरित्याहुः । यथा ----
शरच्चन्द्रांऽसुगौरेण वाताविद्धेन भामिनि ।
काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम् ॥

11.26

व्याजस्तुतेः पृथक् तुल्ययोगितेत्याह ----
विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता
विशिष्टेन न्यूनस्य साम्यर्थमेककालायां क्रियायां योगस्तुल्ययोगिता । यथा ----
जलनिधिरशनामिमां धरित्रीं वहति भुजङ्गविभ्र्भवद्भुजश्च ।

11.27

उपमानाक्षेपश्चाक्षेपः
उपमानस्य क्षेपः प्रतिषेध उपमानाक्षेपः । तुल्यकार्यार्थस्य नैरर्थक्यविवक्षायाम् । यथा ----
तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना
सौन्दर्यस्य पदं दृशौ च यदि चेत् किं नाम नीलोत्पलैः ।
किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे
हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥
उपमानस्याक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः । यथा ----
ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानआर्द्रनखक्षताभम् ।
प्रस्।अदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥
अत्र शरद्वेश्येव , इन्दुं नायकमिव , रवेः प्रतिनायकस्येवेत्युपमानानि गन्यन्त इति

11.28

तुल्ययोगितायाः सहोक्तेर्भेदनाह ----
वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः
वस्तुद्वस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्दसामर्थ्यात् सहोक्तिः । यथा ----
अस्तं भास्वान् प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ।
अत्रार्थयोर्न्यूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति ॥

11.29

समाहितमेकमवशिष्यते । तल्लक्षणार्थमाह ----
यत्सादृश्यं तत्संपत्तिः समाहितम्
यस्य वस्तुनः सादृश्यं गृह्यते तस्य वस्तुनः सम्पत्तिः समाहितम् । यथा ----
तन्वी मेघजलार्द्रवल्कलतया धौताधरेवाश्रुभिः
शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
चिन्तामोहमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते
चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥
अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गृह्णतः सैव लतोर्वशी संपन्नेति

11.30

एते चालङ्काराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानाम् अलङ्काराणां मिश्रत्वं संसृष्टिरित्याह ----
अलङ्कारस्यालङ्कारयोनित्वं संसृष्टिः
अलङ्कारस्यालङ्कारयोनित्वं यदसौ संसृष्टिरिति । संसर्गः सम्बन्ध इति

11.31

तद्भेदावुपमारूपकोत्प्रेक्षावयवौ
तस्याः संसृष्टेर्भेदावुपमारूपकं चोत्प्रेक्षावयवश्चेति

11.32

उपमाजन्यं रूपकमुपमारूपकम्
स्पष्टम् । यथा ----
निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् ।
प्रथम इव भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥
एवं रजनिपुरम्ध्रिलोध्रतिलकः [क्: शशी] इत्येवमादयस्तद्भेदा द्रष्टव्याः

11.33

उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः
उत्प्रेक्षाया हेतुरुत्प्रेक्षावयवः । अवयवशब्दो ह्यारम्भकं लक्षयति । यथा ----
अङ्गुलीभिरिव केशसश्चयं सन्निगृह्य तिमिरं मरीचिभिः ।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥
एभिर्निदर्शनैः स्वीयैः परकीयैश्च पुष्कलैः ।
शब्दवैचित्र्यगर्भेयमुपमैव प्रपञ्चिता ॥
अलङ्कारैकदेशा ये मताः सौभाग्यभागिनः ।
तेऽप्यलङ्कारदेशीया योजनीयाः कवीश्वरैः ॥

मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc