काव्यालंकारसूत्र · अध्याय 13
इति श्रीकाव्यालङ्कारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे प्रथमोऽध्यायः । काव्यसमयः ॥5-1॥
पञ्चमाधिकरणे द्वितीयोऽध्यायः
साम्प्रतं शब्दशुद्धिरुच्यते ----
रुद्रावित्येकशेषोऽन्वेष्यः
रुदौ इत्यत्र प्रयोगे एकशेषो7न्वेष्योऽन्वेषणीयः । रुद्रश्च रुद्राणी चेति पुमान्स्त्रिया (पा_1,2.67) इत्येकशेषः । स च न प्राप्नोति । तत्र हि , तल्लक्षणश्चेदेव विशेषः इत्यनुवर्तत इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव विशेषो भवतीति व्यवस्थितम् । अत्र तु पुंयोगादाख्यायाम् (पा_4,1.48) इति विशेषान्तरमप्यस्तीति । एतेन इन्द्रौ भवौ शर्वौ इत्यादयः प्रयोगाः प्रत्युक्ताः
मिलिक्लबिक्षपिप्रभृतीनां धातुत्वम्, धातुगुणस्यासमाप्तेः
मिलति विक्लवति क्षपयतीत्यादयः प्रयोगाः । तत्र , मिलि-क्लबि-क्षपि-प्रभृतीनां कथं धातुत्वम् ? । गणपाठाद् गुणपठितानामेव धातुसंज्ञाविधानात् । त्रत्राह ---- धातुगणस्यापरिसमाप्तेः । वर्धते धातुगणः इति हि शब्दविद आचक्षते । तेनैषां गणपाठोऽनुमतः । शिष्टप्रयोगादिति
वलेरात्मनेपदमनित्यम्, ज्ञापकात्
वलेरनुदात्तेत्त्वादात्मनेपदे यत् तदनित्यं दृश्यते ---- लज्जालोलं वलन्ती इत्यादिओरयोगेषु । तत् लथमित्याह ---- ज्ञायकात्
किं पुनस्तज्ज्ञापकमत आह [क्:किं पुनस्तज्ज्ञापकम् ?] ----
चक्षिङो द्वयनुबन्धकरणम् ॥ व्कल्_5,2.4 [क्: नोत् इन् सुत्र] ॥
चक्षिङ् इकारेणैवानुदात्तेन सिद्धमात्मनेपदस्यानित्यत्वज्ञापनार्थम् ।
[क्: सिद्धात्मनेपदम् ; किमर्थं ङित्करणम् ? तत्क्रियते अनुदात्तनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनार्थम् ।]
एतेन , वेदि-भर्त्सि-तर्जि-प्रभृतयो व्याख्याताः । आवेदयति-भर्त्सयति- तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धनस्यात्मनेपदस्यानित्यत्यं ज्ञापकेन द्रष्टव्यमिति
क्षीयत इति कर्मकर्तरि ॥ व्कल्_5,2.5 [*व्कल्_5,2.4] ॥
क्षीयती इति प्रयोगो दृश्यते , स कर्मकर्तरि द्रष्टव्यः । क्षीयतेरनात्मनेपदित्वात्
खिद्यत इति च ॥ व्कल्_5,2.6 [*व्कल्_5,2.5] ॥
खिद्यत इति च प्रयोगो दृश्यते , सोऽकर्मकर्तर्येव द्रष्टव्या , न कर्तरि । अदैवादिकत्वात् खिदेः
मार्गेरात्मएपदमलक्ष्म ॥ व्कल्_5,2.7 [*व्कल्_5,2.6] ॥
चुरादौ मार्ग अन्वेपणे इति पठ्यते । आ धृषाद्वा इति विकल्पितणिच्कस्तस्याद्यदात्मनेपदं दृश्यते ---- मार्गन्तां देहभारमिति , तदलक्ष्म अलक्षणम् । परस्मैपदित्वान्मार्गेः । तथा च शिष्टप्रयोगः ----
करकिसलयं धूत्वा धूत्वा विमार्गति वाससी
लोलमानादयश्चानशि ॥ व्कल्_5,2.8 [*व्कल्_5,2.7] ॥
लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः । शानचस्त्वभावः , परस्मैपदित्वाद्धातूनामिति
लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ व्कल्_5,2.9 [*व्कल्_5,2.8] ॥
अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह ---- अस्ति च [क्: यो] गत्युपसर्जनां प्राप्तिमाहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वाल्लभेर्णिच्यणौ यः कर्ता तस्य गत्यादिसूत्रेण कर्मसंज्ञा । यथा ----
दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः ।
द्वितीयपक्षे तु गत्यर्थात्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा । यथा ----
सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥
ते-मे-शब्दौ निपातेषु ॥ व्कल्_5,2.10 [*व्कल्_5,2.9] ॥
त्वया मयेत्यस्मिन्नर्थे ते मे शब्दौ निपातेषु द्रष्टव्यौ । यथा ----
श्रुतं ते वचनं तस्य , वेदानधीत इति नाधिगतं पुरा मे ।
तिरस्कृत इति परिभूते, अन्तर्ध्युपचारात् ॥ व्कल्_5,2.11 [*व्कल्_5,2.10] ॥
तिरस्कृत इति शब्दः परिभूते दृश्यते । राज्ञा तिरस्कृतः इति । स च न प्राप्नोति । तिरःशब्दस्य हि , तिरोऽन्तर्धौ इत्यन्तर्धौ गतिसंज्ञा । तस्यां च सत्यां , तिरसोऽन्यतरस्याम् (पा_8,3.42) इति सकारः । तत् कथं तिरस्कृत इति परिभूते ? , आह ---- अन्तर्ध्युपचारादिति । परिभूतो ह्यन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा ----
लावण्यप्रसरतिरस्कृताङ्गलेखाम् इति ।
नैकशब्दः, सुप्सुपेति समासात् ॥ व्कल्_5,2.12 [*व्कल्_5,2.11] ॥
अरण्यानीस्थानं फलनमितनैकद्रुममिदम्
इत्यादिषु नैकशब्दो दृश्यते , स च न सिद्ध्यति । नञ्समासे हि नलोपो नञ् (पा_6,3.63) इति नलोपे , तस्मान्नुडचि (पा_6,3.74) इति नुडागमे सत्यनेकमिति रूपं स्यात् । निरनुबन्धस्य नशब्दस्य समासे लक्षणं नास्ति । तत् कथं नैकशब्द इत्याह ---- सुप्सुपेति समातात्
मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ व्कल्_5,2.13 [*व्कल्_5,2.12] ॥
मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम्
इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात् । श्रितादिषु गमिगाम्यादीनाम् इति द्वितीयासमासलक्षणं दर्शयति
त्रिवलीशब्दः सिद्धः संज्ञा चेत् ॥ व्कल्_5,2.14 [*व्कल्_5,2.13] ॥
त्रिवलीशब्दः सिद्धो यदि संज्ञा । दिक्सख्ये स.ञ्ज्ञायाम् (पा_2,1.50) इति संज्ञायामेव समासविधानात्
बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥ व्कल्_5,2.15 [*व्कल्_5,2.14] ॥
बिम्बाधरः पीयते इति प्रयोगो दृश्यते , स च न युक्तः । अधरबिम्ब इति भवितव्यम् । उपमितं व्याघ्रादिभिः ...... (पा_2,1.56) इति समासे सति । तत्कथं बिम्बाधर इत्यत्राह ---- वृत्तौ मध्यमपदलोपिन्यां शाकपार्थिवादित्वात्समासे मध्यमपदलोपिनि समासे सति बिम्बाकारोऽधरो बिम्बाधर इति । तेन बिम्बोष्ठ शब्दोऽपि व्याख्यातः । अत्रापि पूर्ववद्वृत्तिः । शिष्टप्रयोगेषु चैष विधिः । तेन नातिप्रसङ्गः
आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ व्कल्_5,2.16 [*व्कल्_5,2.15] ॥
आमूललोलम् , आमूलसरलम् इत्यादिषु वृत्तिर्विस्पष्टपटुवत् । मयूरव्यंसकादित्वात्
न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः, पूरणेन तद्धितान्तत्वात् ॥ व्कल्_5,2.17 [*व्कल्_5,2.16] ॥
धान्यपष्टम् , तान्युच्छषष्टाङ्कितसैकतानि इत्यादिषु न षष्टीसमासप्रतिषेधः । पूरणेन पूरणप्रत्ययान्तेनान्यतद्धितान्तत्वात् । षष्टो भागः षष्ट इति । पूरणाद्भागे तीयादन् (पा_5,3.48) , षष्टाषष्टमाभ्यां (पा_5,3.50) इत्यन्विधानात्
पत्रपीतिमादिषु गुणवचनेन ॥ व्कल्_5,2.18 [*व्कल्_5,2.17] ॥
पत्रपीतिमा , पक्ष्मालीपिङ्गलिमा इत्यादिषु षष्टीसमासप्रति.षेधो गुणवचनेन प्राप्तो , वालिश्यात्तु न कृतः
अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः ॥ व्कल्_5,2.19 [*व्कल्_5,2.18] ॥
अवर्ज्यो न वर्जनीयो व्यधिकरणे बहुव्रीहिः । जन्माद्युत्तरपदं यस्य स जन्माद्युत्तरपदः । यथा ----
सच्छास्त्रजन्मा हि विवेकलाभः , कान्तवृत्तयः प्राणाः इति ।
हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ॥ व्कल्_5,2.20 [*व्कल्_5,2.19] ॥
हस्ताग्रम् अग्रहस्तः , पुष्पाग्रम् , अग्रपुष्पमित्यादयः प्रयोगाः कथम् ? आहिताग्न्यादिष्वपाठात् । पाठे वा तदनियमः स्यात् । आह ---- गुणगुणिनोर्भेदाभेदात् । तत्र भेदाद् , हस्ताग्रादयः । अभेदादग्रहस्तादयः
पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ व्कल्_5,2.21 [*व्कल्_5,2.20] ॥
काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति । तत्रापभ्रंशो लक्ष्यः परिहरणीयः । अनित्यत्वज्ञापनन्तु न सर्वविषयमिति
निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात् ॥ व्कल्_5,2.22 [*व्कल्_5,2.21] ॥
अनभिहिते इत्यत्र सूत्रे तिङ्कृत्तद्धितसमासैः इति परिगणनं कृतम् । तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भवति । यथा (कुमार. 2-55) ----
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्
पण्डितं मूर्ज्ख इति मन्यते
इति
शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥ व्कल्_5,2.23 [*व्कल्_5,2.22] ॥
शकेः शकिसहोश्च (पा_3,1.99) इति कर्मणि यति सति शक्यमिति रूपं भवति [क्: कर्माभिधायां कर्मवचने] । विलिङ्गवचनस्यापि विरुद्धलिङ्गवचनस्यापि , कर्माभिधायां कर्मवचने सामान्योपक्रमाद् विशेषानपेक्षायामिति । यथा ----
शक्यमोषधियतेर्नवोदयाः कर्णपूररचनाकृते तव ।
अप्रगल्भयवसूचिकोनलाश्छेत्तुमग्रनखसंपुटैः कराः ॥
अत्र भाष्यकृद्वचनं लिङ्गम् । यथा ----
शक्यं च श्वमांसादिभिरपि क्षुत् प्रतिअन्तुम् इति ।
न चैकान्तिकः सामान्योपक्रमः । तेन
शक्या भङ्क्तुं झटिति विसिनीकन्दवच्चन्द्रपादाः
इत्यपि भवति
++
हानिवदाधिक्यमप्यङ्गानां विकारः ॥ व्कल्_5,2.24 [*व्कल्_5,2.23] ॥
येनाङ्गविकारः (पा_2,3.20) इत्यत्र सूत्रे यथाङ्गानां हानिस्तथाधिक्यमपि विकारः । यथा ---- अक्ष्णाः काणः इति भवति , तथा मुखेन विलोचनः इत्यपि भवति
न कृमिकीटानामिति, एकवद्भावप्रसङ्गात् ॥ व्कल्_5,2.25 [*व्कल्_5,2.24] ॥
आयुषः कृमिकीटानामलङ्करणमल्पता इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः । क्षुद्रजन्तवः इत्येकवद्भावप्रसङ्गात् । न च मध्यमपदलोपी समासो युक्तः । तस्यासर्वविषयत्वात्
न खरोष्ट्रौ, उष्ट्रखरमिति पाठात् ॥ व्कल्_5,2.26 [*व्कल्_5,2.25] ॥
खरोष्ट्रौ वाहनं येषां इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः । गवाश्वप्रभृतिषु उष्ट्रखरम् इति पाठात्
आसेत्यसतेः ॥ व्कल्_5,2.27 [*व्कल्_5,2.26] ॥
लावण्यमुत्याद्य इवास यत्नः इत्यत्रासेत्यसतेर्धातोः , अस गतिदीप्त्यादानेषु इत्यस्य प्रयोगः , नास्तेः ; भूभावविधानात्
युध्येदिति युधः क्यचि ॥ व्कल्_5,2.28 [*व्कल्_5,2.27] ॥
यो भर्तृपिण्डस्य कृते न युद्ध्येद्
इति प्रयोगः । स चायुक्तः । युधेरात्मनेपदित्वात् । तत् कथं युद्ध्येदित्याह युधः क्यचि युधमात्मन इच्छेद् युद्ध्येदिति
विरलायमानादिषु क्यङ् निरूप्यः ॥ व्कल्_5,2.29 [*व्कल्_5,2.28] ॥
विरलायमाने मलयमारुते इत्यादिषु क्यङ् निरूप्यः । भृशादिषु पाठात् । नापि क्यष् । लोहितादिष्वपाठात्
अहेतौ हन्तेर्णिच्, चुरादिपाठात् ॥ व्कल्_5,2.30 [*व्कल्_5,2.29] ॥
धातयित्वा दशास्यम् इत्यत्राहेतौ णिच् दृश्यते । स कथमित्याह । चुरादिपाटात् । चुरादिषु स्फुट भेदे , घट संघाते , हन्त्यर्थाश्च इति पाठात्
अनुचरीति चरेष्टित्त्वात् ॥ व्कल्_5,2.31 [*व्कल्_5,2.30] ॥
अनुचरी प्रियतमा मदालसा
इत्यत्रानुचरीति न युक्तः । इकारलक्षणाभावात् । तत् कथम् ? । आह ---- चरेष्टित्वात् । पचादिषु चरडिति पठ्यते
केसरालमित्यलतेरणि ॥ व्कल्_5,2.32 [*व्कल्_5,2.31] ॥
केसरालं शिलीन्ध्रं इत्यत्र केसरालमिति कथम् ? । आह ---- अलतेरणि । अलभूषणपर्याप्तिवारणेषु इत्यस्माद्धातोः केसरशब्दे कर्मण्युपपदे , कर्मण्यण् इत्यनेनाणि सति केसरालमिति सिद्ध्यति
पत्रलमिति लातेः के ॥ व्कल्_5,2.33 [*व्कल्_5,2.32] ॥
पत्रलं वनमिदं विराजते इत्यत्र पत्रलमिति कथम् ? । आह ---- लातेः के । ला आदाने इत्येतस्माद्धातोरादानार्थात् पत्रशब्दे कर्मण्युपपदे , आतोऽनुपसर्गे कः (पा_3,2.3) इति कप्रत्यये सतीति
महीध्रादयो मूलविभुजादिदर्शनात् ॥ व्कल्_5,2.34 [*व्कल्_5,2.33] ॥
महीध्र-धरणीध्रादयः शब्दाः मूलविभुजादिदर्शनात् कप्रत्यये सतीति । गर्हीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः
ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥ व्कल्_5,2.35 [*व्कल्_5,2.34] ॥
ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ ब्रह्मभ्रूणवृत्रेषु ...... (पा_3,2.87) इत्यत्रारिहारिपुहा इत्येवमादीनामसिद्धिः । नियमात् । ब्रह्मादिष्वेव , हन्तेरेव , क्विबेव , भूतकाल एवेति चतुर्विधश्चात्र नियमः इति नियमान्यतरविषयो निरूप्यः
[क्: चोम्म्.]
ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ ब्रह्मभ्रूणवृत्रेषु ...... (पा_3,2.87) इति नियमात् ब्रह्मादिष्वेव , हन्तेरेव , क्विबेव , भूतकाल एवेति चतुर्विधश्चात्र नियमः इति नियमात् अरिहा , रिपुहा , इत्येवमादीनामसिद्धिः
ब्रह्मविदादयः कृदन्तवृत्त्या ॥ व्कल्_5,2.36 [*व्कल्_5,2.35] ॥
ब्रह्मवित् , बृत्रभिदित्यादयः प्रयोगा न युक्ताः । ब्रह्मभ्रूण ...... (पा_3,2.87) इत्यादिषु [क्: ब्रह्मादिषु] हन्तेरेव इति नियमात् । आह ---- कृदन्तवृत्त्या । वेत्तीति वित् । भिनत्तीति भित् । क्विप् च (पा_3,2.76) इति क्विप् । ततः कृदन्तैर्विदादिभिः सह ब्रह्मादीनां षष्ठीसमास इति ।
तैर्महीधरादयो व्याख्याताः ॥ व्कल्_5,2.37 [*व्कल्_5,2.36] ॥
तैर्विदादिभिर्हीधरादयो व्याख्याताः । धरतीति धरः । मह्या धरो महीधरः । एवं गङ्गाधरादयो व्याख्याताः
भिदुरादयः कर्मकर्तरि कर्तरि च ॥ व्कल्_5,2.38 [*व्कल्_5,2.37] ॥
भिदुरं काष्ठम् भिदुरं तमःतिमिरभिदुरं व्योम्नः शृङ्गम् ...... इति , छिदुरातपो दिवसःमत्सरच्छिदुरं प्रेमभङ्गुरा प्रीतिःमातङ्गं मानभङ्गुरम् इत्यादयोऽपि प्रयोगा दृश्यन्ते । ते कथमित्य् [क्:अत्र] आह ---- ते कर्मकर्तरि कर्तरि च भवन्ति । कर्मकर्तरि चायमिष्यते इत्यत्र , चकारः कर्तरि चेत्यस्य समुच्चयार्थः
गुणविस्तरादयश्चिन्त्याः ॥ व्कल्_5,2.39 [*व्कल्_5,2.38] ॥
गुणविस्तरः , व्याक्षेपविस्तरः इत्यादयः प्रयोगाश्चिन्त्याः । प्रथने वावशब्दे (पा_3,3.33) इति घञ्प्रसङ्गात्
अवतरापचायशब्दयोर्दीर्घह्रस्वत्वव्यत्यासो बालानाम् ॥ व्कल्_5,2.40 [*व्कल्_5,2.39] ॥
अवतरशब्दस्यापचायशब्दस्य च दीर्घत्वह्रस्वत्वव्यत्यासो बालानां बालिशानां प्रयोगेष्विति । ते ह्यवतरणमवतार इति प्रयुञ्जते । मारुतावतार इति । स ह्ययुक्तः । भावे तरतेरव्विधानात् । अपचायमपचय इति प्रयुञ्जते ---- पुष्पापचय इति । अत्र हस्तादाने चेरस्तेये (पा_3,3.40) इति घञ्प्राप्त इति
शोभेति निपातनात् ॥ व्कल्_5,2.41 [*व्कल्_5,2.40] ॥
शोभेत्ययं शब्दः साधुः । निपातनात् । शुभ शुम्भ शोभार्थौ इति शुभेर्भिदादेराकृतिगणत्वादङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे , किं शोभा , आहोस्विच्छोभ इति विशेषावगतिराचर्यपरम्परोपदेशादिति
अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥ व्कल्_5,2.42 [*व्कल्_5,2.41] ॥
अविधाववविधाने गुरोश्च हलः (पा_3,3.103) इति स्त्रियां बहुलं विवक्षा । क्विचिद्विवक्षा , क्वचिदविवक्षा , क्वचिदुभयमिति ।
विवक्षा यथा ---- ईहा लज्जेति । अविवक्षा यथा ---- आतङ्क इति । विवक्षाविवक्षे यथा बाधा बाधः , ऊहा ऊहः , व्रीडा व्रीडः , इति
व्यवसितादिषु क्तः कर्तरि, चकारात् ॥ व्कल्_5,2.43 [*व्कल्_5,2.42] ॥
व्यवसितः , प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि । गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकारस्येति चेद् , आवृत्तिः कर्तव्या
आहेति भूतेऽन्यणलन्तभ्रमाद् ब्रुवो लटि ॥ व्कल्_5,2.44 [*व्कल्_5,2.43] ॥
ब्रुवः पञ्चानां ...... (पा_3,4.84) इत्यादिना आहेति लट् व्युत्पादितः । स भूते प्रयुक्तः ---- इत्याह भगवान् प्रभुः इति । अन्यस्य भूतकालाभिधायिनो णलन्तस्य लिटि भ्रमात् । निपुणाश्चैवं प्रयुज्यते । आह स्म स्मितमधुमधुराक्षरां गिरम् इति । अनुकरोति भगवतो नारायणस्य इत्यत्रापि मन्येस्म शब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति
शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ॥ व्कल्_5,2.45 [*व्कल्_5,2.44] ॥
उपस्रोतः स्वस्थस्थितमहिषशृङ्गाग्रशबलाः
स्नवन्तीनां जाताः प्रमुद्तविहङ्गास्तटभुवः ।
भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः ।
इत्यादिषु स्त्रियां टापो ऽप्राप्तिः । अन्यतो णीष् (पा_4,1.40) इति णीष्विधानात् । तेन शबली , कल्माषीति भवति
प्राणिनि नीलेति चिन्त्यम् ॥ व्कल्_5,2.46 [*व्कल्_5,2.45] ॥
कुवलयदलनीला कोकिला वालचूते इत्यादिषु नीतेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् । नीलशब्दात् जानपद ...... (पा_4,1.42) इत्यादिसूत्रेण प्राणिनि च (वार्त्तिक_2457) इति डीष्विधानात्
मनुष्यजातेर्विवक्षाविवक्षे ॥ व्कल्_5,2.47 [*व्कल्_5,2.46] ॥
इतो मनुष्यजातेः (पा_4,1.65) , ऊणुतः (पा_4,1.66) इत्यत्र मनुष्यजातेर्विवक्षा , अविवक्षा च लक्ष्यानुसारतः ।
मन्दरस्य मदिराक्षि ! पार्श्वतो निम्ननाभि न भवन्ति निम्नगाः ।
वासुकिविकर्षणोद्भवा भामिनीह पदवी विभाव्यते ॥
अत्र मनुष्यजातेर्विवक्षायां इतो मनुष्य जातेः (पा_4,1.65) इति ङीषि सति , अम्बार्थनद्योर्ह्रस्वः (पा_7,3.107) इति संबुद्धौ ह्रस्वत्वं सिद्ध्यति । नाभिशब्दात् पुनः , इतश्च प्राण्यङ्गात् ...... (वार्त्तिक_3189) इतीकारे कृते , निम्बनामीके इति स्यात् ।
हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभैर्निपतद्भिरङ्कितम् ।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥
अत्र निमग्ननाभेः इति मनुष्यजातेर्विवक्षेति ङीष् न कृतः । सुतनु जहिहि मौनं पश्य पादानतं माम् (क्: सुतनु जहिहि कोपं ....... ) इत्यत्र मनुष्यजातेरविवक्षेति सुतनु शब्दात् ऊङुतः (पा_4,1.66) इत्यूङि सति ह्रस्वत्वे सुतनु इति सिद्ध्यति । वरतनुरथवासौ नैव दृष्टा त्वया मे । अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः
ऊकारान्तादप्यूङ्, प्रवृत्तेः ॥ व्कल्_5,2.48 [*व्कल्_5,2.47] ॥
उत ऊङ् विहित ऊकारान्तादपि क्वचिद् भवति । आचार्यप्रवृत्तेः । क्वासौ प्रवृत्तिः ? । अप्राणिजातेश्चारज्ज्वादीनाम् (वार्त्तिक_2502) इति अलाबूः , कर्कन्धूरित्युदाहरणम् । तेन , सुभ्रु ! किं संभ्रमेण । अतर् सुभ्रुशब्द ऊङि सिद्धो भवति । ऊङि त्वसति सुभ्रूरिति स्यात्
कार्तिकीय इति ठञ् दुर्धरः ॥ व्कल्_5,2.49 [*व्कल्_5,2.48] ॥
कार्तिकीयो नभस्वान् इत्यत्र कालाट्ठञ् (पा_4,3.11) इति ठञ् दुर्धरः । ठञ् भवन् दुःखेन ध्रियत इति
शार्वरमिति च ॥ व्कल्_5,2.50 [*व्कल्_5,2.49] ॥
शार्वरं तमः इत्यत्र च कालाट्ठञ् (पा_4,3.11) इति ठञ् दुर्धरः
शाश्वतमिति प्रयुक्तेः ॥ व्कल्_5,2.51 [*व्कल्_5,2.50] ॥
शाश्वतं ज्योतिः इत्यत्र शाश्वतमिति न सिद्ध्यति कालट्ठञ् (पा_4,3.11) इति ठञ्प्रसङ्गात् । येषां च विरोधः शाश्वतिकः (पा_2,4.9) इति सूत्रकारस्यापि प्रयोगः । आह ---- प्रयुक्तेः । शाश्वते प्रतिषेधः इति प्रयोगात् शाश्वतमिति भवति
राजवंश्यादयः साध्वर्थे ये भवन्ति ॥ व्कल्_5,2.52 [*व्कल्_5,2.51] ॥
राजवंश्याः , सूर्यवंश्या इत्यादयः शब्दाः , तत्र साधुः (पा_4,4.98) इत्यनेन साध्यर्ये यति प्रत्यये सति साधयो भवन्ति । भावार्थे पुनर्दिगादिपाठेऽपि वंश शब्दस्य वंशशब्दान्तान्न यत् प्रत्ययः । तदन्तविधेः प्रतिषेधात्
दारवशब्दो दुष्प्रयुक्तः ॥ व्कल्_5,2.53 [*व्कल्_5,2.52] ॥
दारवं पात्रम् इति दारव शब्दो दुष्प्रयुक्तः । नित्यं वृद्धशरादिभ्यः (पा_4,3.144) इति मयटा भवितव्यम् । ननु विकारावयवयोरर्थयोर्मयङ् विधीयते । अत्र तु दारुण इदम् इति विवक्षायां दारवमिति भविष्यति ? नैतदेवमपि स्यात् । वृद्धाच्छः (पा_4,2.114) इति छविधानात्
मुग्धिमादिष्विवमनिज् मृग्यः ॥ व्कल्_5,2.54 [*व्कल्_5,2.53] ॥
मुग्धमा , मौडिमा[क्: प्रौढिमा] इत्यादिषु इमनिज् मृग्यः अन्वेषणीय इति
औपम्यादयश्चातुर्वर्ण्यवत् ॥ व्कल्_5,2.55 [*व्कल्_5,2.54] ॥
औपम्यं , सान्निध्यमित्यादयश्चातुर्वर्ण्यवत् गुणवचन ...... (पा_5,1.124) इत्यत्र चातुर्वर्ण्यादीनांउपसंख्यानम् (वार्त्तिक_3091) इति वार्तिकात्स्वार्थिकष्यञन्ताः
ष्यञः षित्करणादीकारो बहुलम् ॥ व्कल्_5,2.56 [*व्कल्_5,2.55] ॥
गुणवचनब्राह्मणादिभ्यः (पा_5,1.124) इति यः ष्यञ् तस्य षित्करणादीकारो भवति । स बहुलम् । ब्राह्मण्यम् इत्यादिषु न भवति । सामग्र्यम् इत्यादिषु विकल्पितः । सामग्र्यं सामग्री , वैदग्ध्यं वैदग्धीति
धन्वीति व्रीह्यादिषु पाठात् ॥ व्कल्_5,2.57 [*व्कल्_5,2.56] ॥
व्रीह्यादिषु धन्वन् शब्दस्य पाठात् धन्वीति इनौ सति सिद्धो भवति
चतुरस्रशोभीति णिनौ ॥ व्कल्_5,2.58 [*व्कल्_5,2.57] ॥
बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ।
इत्यत्र चतुरस्रशोभि इति न युक्तम् । व्रीह्यादिषु शोभा शब्दस्य पाठेऽपि । इनिरत्र न सिद्ध्यति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । भवतु वा तदन्तविधिः । कर्मधारयान्मत्वर्थीयानुपपत्तिः । लघुत्वात् प्रक्रमस्येति बहुव्रीहिणैव भवितव्यम् । तत्कथमिति मत्वर्थीयस्याप्राप्तौ चतुरस्रशोभीति प्रयोगः ? । आह ---- णिनौ । चतुरस्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः । अथ , अनुमेयशोभि इति कथम् ? । न ह्यत्र पूर्ववद् वृत्तिः शक्या कर्तुमिति । शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्चाद् बहुव्रीहिः कर्तव्यः । अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः । यथा ---- निराकुलं तिष्ठति , सधीरमुवाच इति
कञ्चुकीया इति क्यचि ॥ व्कल्_5,2.59 [*व्कल्_5,2.58] ॥
जीवन्ति राजमहिषीमनु कञ्चुकीयाः इति कथम् ? । मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । अत आह ---- क्यचि । क्यचि प्रत्यये सति कञ्चुकीया इति भवति । कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः
बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ व्कल्_5,2.60 [*व्कल्_5,2.59] ॥
बौद्धस्य प्रतियोगिनोऽपेक्षायामप्यातिशायनिकास्तरबादयो भवन्ति ---- घनतरं तमःबहुलतरं प्रेम इति
कौशिलादय इलचि वर्णलोपात् ॥ व्कल्_5,2.61 [*व्कल्_5,2.60] ॥
कौशिलः , वासिल इत्यादयः कथम् ? । आह ---- [क्: इलचि वर्णलोपात्] कौशिक--वासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा , धनिलचौ च (पा_5,3.79) इति-इलचि कृते , ठाजादावूर्ध्वं द्वितीयादचः (पा_5,3.83) इति वर्णलोपात्सिध्यति
मौक्तिकमिति विनयादिपाठात् ॥ व्कल्_5,2.62 [*व्कल्_5,2.61] ॥
मुक्तैव मौक्तिकमिति विनयादिपाठात् द्रष्टव्यम् । स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इति नपुंसकत्वम्
प्रातिभादयः प्रज्ञादिषु ॥ व्कल्_5,2.63 [*व्कल्_5,2.62] ॥
प्रातिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः । प्रतिभा--विकृति--द्वितादिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते , प्रातिभं , वैकृतं , द्वैतमित्यादयः प्रयोगाः सिद्ध्यन्तीति
न सरजसमित्यनव्ययीभावे ॥ व्कल्_5,2.64 [*व्कल्_5,2.63] ॥
मधु सरजसं मध्येपद्मं पिबन्ति शिलीमुखाः
इत्यादिषु सरजसमिति न युक्तः प्रयोगः अनव्ययीभावे । भाव एव सरजस शब्दस्येष्टत्वात्
धृतधनुषीत्यसंज्ञायाम् ॥ व्कल्_5,2.65 [*व्कल्_5,2.64] ॥
धृतधनुषि शौर्यशालिनि
इत्यत्र धृतधनुषि इत्यसंज्ञायां न युक्तः प्रयोगः । धनुषश्च (पा_5,4.132) इत्यङ्विधानात् । संज्ञायां ह्यनङ् विकल्पितः । वा संज्ञायाम् (पा_5,4.133) इति
दुर्गन्धिपद इद्दुर्लभः ॥ व्कल्_5,2.66 [*व्कल्_5,2.65] ॥
दुर्गन्धिः कायः इत्यादिषु दुर्गन्धि पदे इत् समानान्तो दुर्लभः । उत्पूत्यादिषु दुःशब्दस्यापाठात्
सुदत्यादयः प्रतिविधेयाः ॥ व्कल्_5,2.67 [*व्कल्_5,2.66] ॥
सा दक्षरोषात्सुदती ससर्ज इति , शिखरदति पतति रशना
इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः । दत्रादेशलक्षणाभावात् । तत्र प्रतिविधानम् । अग्रान्त (पा_5,4..145)आदिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सुदत्यादिषु दत्रादेशः इत्येके । अन्ये तु वर्णयन्ति । सुदत्यादयः स्त्र्यभिधायिनो योगरूढशब्दाः । तेषु स्त्रियां संज्ञायाम् (पा_5,4.143) इति दत्रादेशो विकल्पेन सिद्ध एव इति
क्षतदृढोर्स इति न कप्, तदन्तविधिप्रतिषेधात् ॥ व्कल्_5,2.68 [*व्कल्_5,2.67] ॥
प्लवङ्गनखकोटिभिः क्षतदृढोरसो राक्षसाः
इत्यत्र दृढोरः शब्दाद् , उरःप्रभृतिभ्यः कप् (पा_5,4.151) इति कप् न कृतः । ग्रहणवता प्रातिपदिकेन इति तदन्तविधेः प्रतिषेधात् । समासवाक्यं त्वेवं कर्तव्यम् ---- क्षतं दृढोरो येषामिति
अवैहीति वृद्धिरवद्या ॥ व्कल्_5,2.69 [*व्कल्_5,2.68] ॥
अवैहीत्यत्र वृद्धिरवद्या । गुण एव युक्त इति
अपाङ्गनेत्रेति लुगलभ्यः ॥ व्कल्_5,2.70 [*व्कल्_5,2.69] ॥
अपाङ्गे नेत्रं यस्याः सेयम्पाङ्गनेत्रेत्यत्र लुगलभ्यः । अमूर्धमस्तकात् स्वाङ्गादकामे (पा_6,3.12) इति सप्तम्या अलुग्विधानात्
नेष्ठाः श्लिष्टप्रियादयः, पुंवद्भावप्रतिषेधात् ॥ व्कल्_5,2.71 [*व्कल्_5,2.70] ॥
श्लिष्टप्रियः , विश्लिष्टकान्त इत्यादयो नेष्टाः । स्त्रियाः पुंवत् ...... (पा_6,3.34) इति पुंवद्भावस्य प्रियादिषु निषेधात्
दृढभक्तिरिति सर्वत्रेति ॥ व्कल्_5,2.72 [*व्कल्_5,2.71] ॥
दृढभक्तिरसौ ज्येष्ठे
अत्र पूर्वपदस्य स्त्रियाम्[क्: अस्त्रियाम्] इत्यविवक्षितत्वात्[क्: विवक्षितत्वात्]
जम्बुलतादयो ह्रस्वविधेः ॥ व्कल्_5,2.73 [*व्कल्_5,2.72] ॥
जम्बुलतादयः प्रयोगाः कथम् ? । आह ---- ह्रस्वविधेः । इको ह्रस्वोऽङ्जो गालवस्य (पा_6,3.61) इति ह्रस्वविधानात्
तिलकादयोऽजिरादिषु ॥ व्कल्_5,2.74 [*व्कल्_5,2.73] ॥
तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः । अन्यथा , तिलकवती कनकवती इत्यादिषु मतुपि , मतौ बह्वचोऽनजिरादीनाम् (पा_6,3.119) इति दीर्घत्वं स्यात् । केचित्तु वर्णयन्ति ---- नद्यां मतुप् (पा_4,2.85) इति यो मतुप् तत्रायं विधिः । तेषां मतेनामरावतीत्यादीनामसिद्धिः
निशम्य-निशमय्यशब्दौ प्रकृतिभेदात् ॥ व्कल्_5,2.75 [*व्कल्_5,2.74] ॥
निशम्य -- निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे । शमेः ल्यपि ल्यपि लघुपूर्वात् (पा_6,4.56) इत्ययादेशे सति निशमय्येति भवितव्यम् , न निशम्येति । आह ---- प्रकृतिभेदात् । शमेर्दैवादिकस्य निशम्येति रूपम् । शमो दर्शने इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम्
संयम्यनियम्यशब्दौ, अणिजन्तत्वात् ॥ व्कल्_5,2.76 [*व्कल्_5,2.75] ॥
कथं संयम्यनियम्यशब्दौ ? । ल्यपि लघुपूर्वात् (पा_6,4.56) इति णेरयादेशेन भवितव्यम् । आह ---- अणिजन्तत्वात् । धातोर्णिच् तु न । गतार्थत्वात् । यथा ---- वाचं नियच्छति इति । णिजर्थानयगतौ [क्: तु] णिच् प्रयुज्यत एव । यथा ---- संयमयितुमारब्धः इति
प्रपीयेति पीङः ॥ व्कल्_5,2.77 [*व्कल्_5,2.76] ॥
प्रपीयेत्ययं शब्दः , पीङ् पाने इत्येतस्य । पिवतेर्हि , न ल्यपि (पा_6,4.69) इतीत्वप्रतिषेधात्प्रपायेति भवति
दूरयतीति बहुलग्रहणात् ॥ व्कल्_5,2.78 [*व्कल्_5,2.77] ॥
दूरयत्यवनते विवस्वति इत्यत्र दूरयतीति कथम् ? । णाविष्ठवद्भावे स्थूलदूर ...... (पा_6,4.156) इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम् । आह ---- बहुलग्रहणात् । प्रतिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च (गणपाठ_203) इत्यत्र बहुलग्रहणात् स्थूलदूर ...... (पा_6,4.156) आदिसूत्रेण यद्विहितं तन्न भविष्यतीति
गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ व्कल्_5,2.79 [*व्कल्_5,2.78] ॥
हरति हि वनराजिर्गच्छती श्यामभावमित्यादिषु गच्छतीप्रभृतिषु शब्देषु , शप्श्यनोर्नित्यम् इति नुमनिषेध्यो निषेद्धुमशक्यः
मित्रेण गोप्त्रेति पुंवद्भावात् ॥ व्कल्_5,2.80 [*व्कल्_5,2.79] ॥
मित्रेण गोप्त्रा इति कथम् ? । गोप्तृणा भवितव्यम् । इकोऽचि विभक्तौ (पा_7,3.73) इति नुम्विधानात् । आह ---- पुंवद्भावात् । तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य (पा_7,1.74) इति पुंवद्भावेन गोप्त्रेति भवति
वेत्स्यसीति पदभङ्गात् ॥ व्कल्_5,2.81 [*व्कल्_5,2.80] ॥
पतितं वेत्स्यसि क्षितौ इत्यत्र वेत्स्यसीति न सिद्ध्यति । इट्प्रसङ्गात् । आह ---- पदभङ्गात् सिद्ध्यति । वेत्स्यसीति पदं भज्यते ---- वेत्सि , असि । असि इत्ययं निपातस्त्वमित्यस्मिन्नर्थे । क्वचिद्वाक्यालङ्कारे प्रयुज्यते । यथा ----
पार्थिवस्त्वमसि सत्यमभ्यधाः इति ।
कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ व्कल्_5,2.82 [*व्कल्_5,2.81] ॥
कामयान शब्दः सिद्धः । आगमानुशासनमनित्यम् इति मुक्यकृते , यद्यनादिः स्यात्
सौहृद्-दौर्हृदशब्दावणि हृद्भावात् ॥ व्कल्_5,2.83 [*व्कल्_5,2.82] ॥
सुहृदयदुर्हृदयशब्दाभ्यां युवादिपाठादणि कृते , हृदयस्य हृद्भावः । आदिवृद्धौ सौहृददौर्हृदशब्दौ भवतः । सुहृद्दुर्हृच्छब्दाभ्यां युवादिपाठादेवाणि कृते , हृद्भगसिन्ध्वन्ते ...... (पा_7,3.19) इति हृदन्तस्य तद्धितेऽणि कृते सत्युभयपदवृद्धौ सत्यां सौहार्दं दौहार्दमिति भवति
विरम इति निपातनात् ॥ व्कल्_5,2.84 [*व्कल्_5,2.83] ॥
रमेरनुदात्तोपदेशत्वात् , नोदात्तोपदेशस्य ...... (पा_7,3.34) इत्यादिना वृद्धप्रतिषेधस्याभावात् कथं विरम इति । आह ---- निपातनात् । एतत्तु यम उमरमे इत्यत्रोपरम इति । [क्: एतत्तु चोपलक्षणम् ----] अतन्त्रं चोपसर्ग इति
उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ॥ व्कल्_5,2.85 [*व्कल्_5,2.84] ॥
उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु उपर्यध्यधसः सामीप्ये (पा_8,1.7) इत्यनेन उपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु इति द्वितीया । वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति ----
उपर्युपरि बुद्धिनां चरन्तीश्वरबुद्धयः
मन्दं मन्दमित्यप्रकारार्थत्वे ॥ व्कल्_5,2.86 [*व्कल्_5,2.85] ॥
मन्दं मन्दं नुदति पवनः (मेघदूत 1.9)
इत्यत्र मन्दं मन्दम् इत्यप्रकारार्थे भवति । प्रकारार्थत्वे तु प्रकारे गुणवचनस्य (पा_8,1.12) इति द्विर्वचने कृते कर्मधारयवद्भावे च मन्दमन्दमिति प्रयोगः । मन्दं मन्दमित्यत्र तु नित्यवीप्सयोः (पा_8,1.4) इति द्विर्वचनम् । अनेकभागात्मकस्य नुदेर्यदा सर्वे भावा मन्दत्वेन व्याप्तुय्मिष्टा भवन्ति तदा वीप्सेति
न निद्राद्रुगिति, भष्भावप्राप्तेः ॥ व्कल्_5,2.87 [*व्कल्_5,2.86] ॥
निद्राद्रुक्काद्रवेयच्छविरुपरिलसद्धर्घरो वारिवाहः
इत्यत्र निद्राद्रुक् इति न युक्तः । एकाचो बशो भष् ...... (पा_8,2.37) इति भषभावप्राप्तेः । अनुप्रासप्रियैस्तत्वपभ्रंशः कृतः
निष्पन्द इति पत्वं चिन्त्यम् ॥ व्कल्_5,2.88 [*व्कल्_5,2.87] ॥
न ह्यत्र पत्वलक्षणमस्ति । कस्कादिपाठोऽप्यस्य न निश्चितः
नाङ्गुलिसङ्ग इति मूर्धन्यविधेः ॥ व्कल्_5,2.89 [*व्कल्_5,2.88] ॥
म्लायन्त्यङ्गुलिसङ्गेऽपि कोमलाः कुसुमस्रजः
इत्यत्र अङ्गुलिसङ्गः इति न युक्तः । समासेऽङ्गुलेः सङ्गः इति मूर्धन्यविधानात्
तेनावन्तिसेनादयः प्रत्युक्ताः ॥ व्कल्_5,2.90 [*व्कल्_5,2.89] ॥
तेन अङ्गुलिसङ्गे इत्यनेन अवन्तिसेनःइन्दुसेनः एवमादयः शब्दः प्रत्युक्ताः प्रत्याख्याताः । सुषामादिषु च (पा_8,3.98) एति संज्ञायामगात् (पा_8,3.99 ग.) इति मूर्धन्यविधानात्
नेन्द्रवाहने णत्वम्; आहितत्वस्याविवक्षितत्वात् ॥ व्कल्_5,2.91 [*व्कल्_5,2.90] ॥
कुथेन नागेन्द्रमिवेन्द्रवाहनम् इत्यत्र इन्द्रवाहन शब्दे वाहनमाहितात् (पा_8,4.8) इति णत्वं न भवति । आहितत्वस्याविवक्षितत्वात् । स्वस्वामिभावमात्रं ह्यत्र विवक्षितम् । तेन सिद्धम् इन्द्रवाहनम् इति
मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0