भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 4.3

4.3.1

तृतीयो ऽध्यायः ।
प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः

4.3.2

उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु

4.3.3

अनुक्तौ समासोक्तिः

4.3.4

किञ्चिदुक्तावप्रस्तुतप्रशंसा

4.3.5

समेन वस्तुनान्यापलापो ऽपह्नुतिः

4.3.6

उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो रूपकम्

4.3.7

स धर्मेषु तन्त्रप्रयोगे श्लेषः

4.3.8

सादृश्याल्लक्षणा वक्रोक्तिः

4.3.9

अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा

4.3.10

संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः

4.3.11

उपमानोपमेयसंशयः संदेहः

4.3.12

विरुद्धाभासत्वं विरोधः

4.3.13

क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्तिर्विभावना

4.3.14

एकस्योपमेयत्वोपमानत्वे ऽनन्वयः

4.3.15

क्रमेणोपमेयोपमा

4.3.16

समविसदृशाभ्यां परिवर्तनं परिवृत्तिः

4.3.17

उपमेयोपमानानां क्रमसंबन्धः क्रमः

4.3.18

उपमानोपमेयवाक्येष्वेका क्रिया दीपकम्

4.3.20

तन्त्रिविधम् । आदिमध्यान्तवाक्यवृत्तिभेदात् ॥ व्कल्_4,3.19* ॥
क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम्

4.3.21

उक्तिसिद्ध्यै वस्तुनो ऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः

4.3.22

उपमेयस्य गुणातिरेकत्वं व्यतिरेकः

4.3.23

एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः

4.3.24

संभाव्यविशिष्टकर्माकरणान्निन्दास्तोत्रार्था व्याजस्तुतिः

4.3.25

व्याजस्य सत्यसारूप्यं व्याजोक्तिः

4.3.26

विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता

4.3.27

उपमानाक्षेपश्चाक्षेपः

4.3.28

वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः

4.3.29

यत्सादृश्यं तत्संपत्तिः समाहितम्

4.3.30

अलङ्कारस्यालङ्कारयोनित्वं संसृष्टिः

4.3.31

तद्भेदावुपमारूपकोत्प्रेक्षावयवौ

4.3.32

उपमाजन्यं रूपकमुपमारूपकम्

4.3.33

उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः

मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc