काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 4.2
द्वितीयो ऽध्यायः ।
उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा
गुणबाहुल्यतश्च कल्पिता
तद्द्वैविध्यम्, पदवाक्यार्थवृत्तिभेदात् ॥ व्कल्_4,2.3* ॥
सा पूणा लुप्ता च
गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा
लोपे लुप्ता
स्तुतिनिन्दातत्त्वाख्यानेषु
हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तद्दोषाः
जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम्
धर्मयोरेकनिर्देशे ऽन्यस्य संवित्, साहचर्यात् ॥ व्कल्_4,2.10* ॥
तेनाधिकर्वं व्याख्यातम्
उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः
इष्टः पुंपुंसकयोः प्रायेण
लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च
तेन वचनभेदो व्याख्यातः
अप्रतीतगुणसादृश्यमसादृश्यम्
असादृश्यहता ह्युपमा, तन्निष्ठाश्च कवयः ॥ व्कल्_4,2.17* ॥
उपमानाधिक्यात्तदपोह इत्येके
न, अपुष्टार्थत्वात् ॥ व्कल्_4,2.19* ॥
अनुपपत्तिरसंभवः
न विरुद्धो ऽतिशयः
मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0