काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 5.1
समाओतं चेदमालङ्कारिकं चतुर्थमधिकरणम् ।
प्रायोगिकं नाम पञ्चममधिकरणम् ।
प्रथमो ऽध्यायः ।
नैकं पदं द्विः प्रयोज्यं प्रायेण
नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम्
न पादान्तलघोर्गुरुत्वं च सर्वत्र
न गाद्ये समाप्तप्रायं वृत्तम्, अन्यत्रोद्गतादिभ्यः संवादात् ॥ व्कल्_5,1.4* ॥
न पादादौ खल्वादयः
नार्धे किञ्चित्समाप्तं वाक्यम्
न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः
तेन विपर्ययो व्याख्यातः
संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ
विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ
सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य
संबन्धसंबन्धे ऽपि षष्ठी क्वचित्
अतिप्रयुक्तं देशभाषापदम्
लिङ्गाध्याहारौ
लक्षणाशब्दाश्च
न तद्बाहुल्यमेकत्र
स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण
मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0