भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 4.1

4.1.1

समाओतं चेदं गुणविवेचनं तृतीयमधिकरणम् ।
आलङ्कारिकं नाम चतुर्थमधिकरणम् ।
प्रथमो ऽध्यायः ।
पदमनैकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्

4.1.2

पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि

4.1.3

भङ्गादुत्कर्षः

4.1.4

शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः

4.1.5

वर्णविच्छेदचलनं शृङ्खला

4.1.6

सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः

4.1.7

पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम्

4.1.8

शेषः सरूपो ऽनुप्रासः

4.1.9

अनुल्बणो वर्णानुप्रासः श्रेयान्

4.1.10

पादानुप्रासः पादयमकवत्

मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc