भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 2.2

2.2.1

द्वितीयो ऽध्यायः ।
भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि

2.2.2

स्वलक्षणच्युतवृत्तं भिन्नवृत्तम्

2.2.3

विरसविरामं यतिभ्रष्टम्

2.2.4

तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण

2.2.7

न वृत्तदोषात्पृथग्यतिद्प्षः, वृत्तस्य यत्यात्मकत्वात् ॥ व्कल्_2,2.5* ॥
न, लक्षणः पृथक्त्वात् ॥ व्कल्_2,2.6* ॥
विरूपपदसंधि विसंधिः

2.2.8

पदसंधेर्वैरूप्यं विश्लेषो ऽश्लीलत्वं कष्टत्वं च

2.2.9

व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्या विरुद्धानि च

2.2.10

व्याहतपूर्वोत्तरार्थं व्यर्थम्

2.2.11

उक्तार्थपदमेकार्थम्

2.2.13

न, विशेषश्चेदेकार्थं दुष्टम् ॥ व्कल्_2,2.12* ॥
धनुर्ज्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्त्यै

2.2.14

कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादिनिर्देशः संनिधेः

2.2.15

मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः

2.2.16

पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य

2.2.17

करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य

2.2.18

विशेषणस्य च

2.2.19

तदिदं प्रयुक्तेषु

2.2.20

संशयकृत्संदिग्धम्

2.2.21

मायादिविकल्पितार्थम्प्रयुक्तम्

2.2.22

क्रमहीनार्थमपक्रमम्

2.2.23

देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि

2.2.24

कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि

मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc