काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 3.1
समाओतं चेदं दोषदर्शनम् द्वितीयमधिकरणम् ।
गुणविवेचनं नाम तृतीयमधिकरणम् ।
प्रथमो ऽध्यायः ।
काव्यशोभायाः कर्तारो धर्मा गुणाः
तदतिशयहेतवस्त्वलङ्काराः
पूर्वे नित्याः
ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः
गाढबन्धत्वमोजः
शैथिल्यं प्रसादः
गुणः संप्लवात्
स त्वनुभवसिद्धः
साम्योत्कर्षौ च
मसृणत्वं श्लेषः
मार्गाव्हेदः समता
आरोहावरोहक्रमः समाधिः
न पृथक्, आरोहावरोहयोरोजःप्रसादरूपत्वात् ॥ व्कल्_3,1.13* ॥
न, असंपृक्तत्वात् ॥ व्कल्_3,1.14* ॥
अनैकान्त्याच्च
ओजःप्रसादयोः तीव्रावस्था, ताविति चेदभ्युपगमः ॥ व्कल्_3,1.16* ॥
विशेषापेक्षित्वात्तयोः
आरोहावरोहनिमित्तं समाधिराख्यायते
क्रमविधानार्थं वा
पृथक्पदत्वं माधुर्यम्
अजरठत्वं सौकुमार्यम्
विकटत्वमुदारता
अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः
औज्ज्वल्यं कान्तिः
मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0