काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 2.1
समाप्तं चेदं शारीरं प्रथममधिकरणम् ।
दोषदर्शनं नाम द्वितीयमधिकरणम् ।
प्रथमो ऽध्यायः ।
गुणविपर्ययात्मानो दोषाः
अर्थतस्तदवगमः
सौकर्याय प्रपञ्चः
दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च
शब्दस्मृतिविरुद्धमसाधु
श्रुतिविरसं कष्टम्
लोकमात्रप्रयुक्तं ग्राम्यम्
शास्त्रमात्रप्रयुक्तमप्रतीतम्
पूरणार्थमनर्थकम्
न वाक्यालङ्कारार्थम्
अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च
रूढिच्युतमन्यार्थम्
कल्पितार्थं नेयार्थम्
अप्रसिद्धार्थप्रयुक्तं गूढार्थम्
असम्यार्थान्तरमसम्यस्मृतिहेतुश्चाश्लीलम्
न गुप्तलक्षितसंवृतानि
अप्रसिद्धासभ्यं गुप्तम्
लाक्षणिकासभ्यान्वितं लक्षितम्
लोकसंवीतं संवृतम्
तन्त्रैविध्यम्, व्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥ व्कल्_2,1.20* ॥
व्यवहितार्थप्रत्ययं क्लिष्टम्
अन्त्याभ्यां वाक्यं व्याख्यातम्
मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0