काव्यालंकारसारसंग्रह · अध्याय 5
इह खलु शब्दानामनेकार्थानां युगपदनेकार्थविवक्षायां द्वयी गतिः अर्थभेदेन तावच्छब्दा भिद्यन्ते इति भट्टोद्भटस्य सिद्धान्तः ।
तत्रार्थभेदेन भिद्यमानाः शब्दाः केचित्तन्त्रेण प्रयोक्तुं शक्याः केचिन्न ।
येषां हलस्वरस्थानप्रयत्नादीनां साम्यं ते तन्त्रेण प्रयोक्तुं शक्यन्ते ।
यत्र तु हलामेकत्वानेकत्वरूपत्वात्स्वराणां चोदात्तत्वानुदात्तत्वादिना स्थानानां चौष्ठ्यदन्त्यौष्ठत्वादिना प्रयत्नानां च लघुत्वालघुत्वादिना भेदस्तेषां तन्त्रेण प्रयोगः कर्तुमशक्यः ।
साधारणरूपत्वात्तन्त्रस्य ।
तदुक्तम्----
ऽसाधारणं भवेत्तन्त्रम्ऽइति ।
एवं चावस्थिते ये तन्त्रेणोच्चारयितुं शक्यन्ते ते एकप्रयत्नोच्चार्याः ।
तद्बन्दे सत्यर्थश्लेषो भवति ।
तदुक्तम्----
एकप्रयत्नोच्चार्याणामिति ।
तथा ये तेषामेवैकप्रयत्नोच्चार्याणां शब्दानां छायां सादृश्यं बिभ्रति तदुपनिबन्धे च शब्दश्लिष्टम् ।
शब्दान्तरे उच्चार्यमाणे सादृश्यवशेनानुच्चारितस्यापि शब्दान्तरस्य श्लिष्टत्वात् ।
तदुक्तम्---तच्छायां चैव बिभ्रताम् ।
स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिति ।
तथा---शब्दोक्तिविशिष्टं तत्प्रतीयतामिति ।
एतच्च श्लिष्टं द्विविधमप्युपमाद्यलङ्कारप्रतिभोत्पादनद्वारेणालङ्कारतां प्रतिपद्यते ।
अतो ऽनेनानवकाशत्वात् स्वविषये ऽलङ्कारान्तराण्यपोद्यन्ते, तेषां विषयान्तरे सावकाशत्वात् ।
तदुक्तम्----
अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः ।
द्विविधैरिति ।
अलङ्कारान्तराणामत्र प्रतिभामात्रं न तु पदबन्ध इत्यर्थः ।
तदेवं शब्दश्लिष्टमर्थश्लिष्टं च लक्षितम् ।
तस्योदाहरणम्---
स्वयं च पल्लवाताम्रभास्वत्करविराजिनी ।
प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ॥ उक्स्स्_4.*15 ॥
इन्दुकान्तमुखी स्निग्धमहानीलशिरोरुहा ।
मुक्ताश्रीस्त्रीजगद्रत्नं पद्मरागाङ्घ्रिपल्लवा ॥ उक्स्स्_4.*16 ॥
अपारिजातवार्तापि नन्दनश्रीर्भुवि स्थिता ।
अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका ॥ उक्स्स्_4.*17 ॥
न केवलं त्वं हिमाद्रेरेवंविधस्य सुता यावत्स्वयं चैवंप्रकारेति च शब्दः ।
अत्र भगवती किसलयवदाताम्रौ
भास्वन्तौ दीप्तिमन्तौ यौ करौ हस्तौ ताभ्यां विराजते ।
प्रभातसन्ध्या तु पल्लववदाताम्रैर्भास्वत आदित्यस्य करैर्मयूखैर्विराजते ।
अत्र चोभयत्रापि हलादनां साम्यम् ।
अतस्तन्त्रेणोच्चारणसंभवादयमर्थश्लेषः ।
अस्वापफललुब्धे हितप्रदेत्यत्र तु भगवतीपक्षे अस्वापं सुखेनाप्तुं यन्न शक्यते फलं तत्र ये लुब्धास्तेभ्य ईहितमीप्सितं प्रददातीत्यर्थः ।
प्रभातसन्ध्यापक्षे तु स्वापस्य निद्रानुभवस्य यत्फलं श्रमनिवृत्तिलक्षणं तत्र यो न लुब्धः सन्ध्योपासनप्रवृत्तत्वात्तद्विषयं हितमदृष्टं समर्पयतीत्येवंविधेत्यर्थः ।
अत्र च पूर्वस्मिन्पक्षे ऐकपद्यात् (पा. अ. 6 । 2 । 144) थाथादिस्वरेणान्तोदात्तत्वम् ।
उत्तरत्र पुनरस्वापफललुब्धे इति हितप्रदेति च अनयोर्भिन्नपदत्वान्नानास्वरत्वम् ।
अस्वापफललुब्ध इत्यस्य "तत्पुरुषे तुल्यार्थेति"(पा. अ. 6 । 2 । 2)
पूर्वपदप्रकृतिस्वरेणाद्युतात्तत्वात् ।
हितप्रदेत्यस्य तु (पा. अ. 6 । 2 । 144) यथादिस्वरेणान्तोदात्तत्वात् ।
तेनात्र स्वरभेदः ।
अस्वापेति अकारस्य फललुब्धे इति च एकारस्य उभयोः पक्षयोर्यथायोगं लाघवालाघवाभ्यां प्रयत्नभेदो ऽपि ।
अतस्तन्त्रेणोच्चारयितुमशक्यता ।
एकस्मिंस्त्वत्र शब्दे समुच्चरिते शब्दान्तरस्य तत्सादृश्यात्प्रतिपत्तिः ।
अतो ऽयं शब्दश्लेषः ।
एतयोश्च द्वयोरप्यर्थश्लेषशब्दश्लेषयोरुपमाप्रतिभोत्पत्तिहेतुत्वम् ।
प्रभातसन्ध्या ह्यत्रोपमानम् ।
भगवती उपमेया ।
इवशब्दश्चोपमानोपमेयभावं द्योतयति ।
शब्दव्यतिरेकेण तु साधारणो धर्मोर्ऽथाधिकरणो ऽत्र न विद्यते ।
तेन नेयमुपमा अपितु श्लेष उपमाप्रतिभोत्पत्तिहेतुः ।
इन्दुकान्तमुखीत्यत्र भगवती चन्द्रवत्सुन्दरं मुखं यस्याः सा तथाविधा ।
तथा स्निग्धदीर्घकृष्णकेशी ।
मुक्ता परित्यक्ता अश्रीरशोभा यया सा तथाविधा ।
त्रैलोक्योत्कृष्टा च ।
तथा पद्मवत् कमलवत् रागो लौहित्यं ययोस्तथाविधौ पादपल्लवौ यस्यासतद्रूपा ।
यदा त्वसौ भगवती रूपकप्रतिभोत्पत्तिनिबन्धनेन श्लेषेण त्रैलोक्योदरवर्तिमाणिक्यसंभाररूपतया रूप्यते तदा प्रकृतोर्ऽथश्चन्द्रकान्तेन्द्रनीलमौक्तिकशोभापद्मरागैरवच्छादितरूपतया प्रतीयते, साक्षादेवंविधरत्नमयावयवयोगित्वात् त्रिभुवनोदरान्तर्गतरत्नसमृद्धिरूपेति ।
अत्र च मुक्ताश्रीरित्यत्र स्वरभेदो विद्यते ।
बहुव्रीहिपक्षे"बहुव्रीहौ प्रकृत्येति"पूर्वपदप्रकृतिस्वरत्वात् ।
तत्पुरुषे तु समासान्तोदात्तत्वात् ।
शिष्टानां तु शब्दानां स्वरभेदो नास्ति ।
प्रयत्नगुरुत्वागुरुत्वे तु त्रिजगद्रत्नशब्दव्यतिरिक्तेषु तत्तद्वर्णविषयतया विद्येते ।
तेन तत्र शब्दश्लेषता ।
त्रिजगद्रत्नशब्दस्य तूभयत्रापि कस्यचिद्विशेषस्याविद्यमानत्वादर्थश्लेषत्वम् ।
अपारिजातवार्तापीत्यत्र भगवत्यजातशत्रुत्वादपगतशत्रुसमूहवार्ता तदीया च शोभा सर्वस्य चित्तमावर्जयतीत्यतो नन्दना श्रीर्यस्यास्तथाविधा ।
उदकमध्यवर्तितया च यो ऽसौ अप्सु उदके प्रतबिम्बित इन्दुस्तद्वत्सुन्दरी ।
नित्यं च गलल्लावण्यप्रवाहा ।
यदा त्वसौ भगवती नन्दनश्रीशब्दस्य देवोद्यानशोभालक्षणार्थान्तराभिधायत्वाद्रूपकप्रितिभोत्पत्तिनिबन्धनेन श्लेषेणैतद्भावमापद्यते तदा तत्समाश्रयत्वेन अपारिजातवार्तापीत्यादिपदपर्यालोचनया विरोधप्रतिभाहेतोरपरस्यापि श्लेषस्याविर्भावो भवति ।
न खलु देवोद्यानशोभा अविद्यमानपारिजाताख्यवृक्षविशेषवृत्तान्ता भवति ।
न चासौ भूमौ तिष्ठति ।
अबिन्दुसुन्दरीत्यत्र तु बिन्दुभिर्यस्याः सौन्दर्यं नास्ति तस्याः कथं लावण्यबिन्दवः प्रसरेयुरिति विरोधप्रतपत्तिहेतुः श्लेषः ।
अपारिजातवार्तापीत्यत्राप्यपगता अरिजातवार्तेति बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम् ।
तत्पुरुषपक्षेत्वन्तोदात्तत्वम् ।
अबिन्दुसुन्दरीत्यत्र अबिन्दुवत्सन्दरीत्युपमानत्वा "तत्पुरुषे तुल्यार्थो"त्यबिन्दुशब्दस्य प्रकृतिस्वरः ।
तस्य च सप्तम्यन्तपूर्वपदत्वादनेनैव सूत्रेण प्रकृतिस्वरेणाद्युदात्तत्वम् ।
अबिन्दुसुन्दरीत्यत्र त्वव्ययत्वान्नञः पूर्वपदप्रकृतिस्वरत्वेन तदेव ।
तेनात्र स्वरभेदस्याभावः ।
प्रयत्नभेदकृतात्तु चकारवैचित्र्याच्छब्दश्लेषता ॥
इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ चतुर्थो वर्गः ॥
5
अथ पञ्चमो वर्गः ।
अपह्नुतिं विशेषोक्तिं विरोधं तुल्ययोगिताम् ।
अप्रस्तुतप्रशंसा च व्याजस्तुतिविदर्शने
उपमेयोपमां चैव सहोक्तिं संकरं तथा ।
परिवृत्तिं च जगदुरलङ्कारान्परे गिराम्
अपह्नुतिः-----
अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा ।
भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः
यत्र भूतं विद्यमानमुपमेयलक्षणमर्थमपह्नुत्योपमानरूपारोपेणोपमानोपमेयभावो.......................... तिरलङ्कारः ।
अत्र च प्राकरणिकस्य
विद्यमानस्यार्थस्य ...............................यद्विद्यमानो ऽस्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीत्युक्तम्----
किञ्चिदन्तर्गतोपमेति ।
तस्या उदहरणम्-----
एतद्धि न तपः सत्यमिदं हालाहलं विषम् ।
विशेषतः शशिकलाकोमलानां भवादृशाम् ॥ उक्स्स्_5.*1 ॥
अत्र प्राकरणिकस्य तपसः स्वरूपमपह्नुत्य हालाहलविषविशेषरूपताध्यारोपेण तत्सादृश्यमवगमितम् ।
तच्चात्र हालाहलविषसादृश्यमुपमेयस्यापह्नुतत्वान्न स्फुटरूपम् ।
हालाहलाख्यो विषभेदो यः शीघ्रं व्यापादयति ।
विशेषोक्तिः-----
यत्सामग्र्ये ऽपि शक्तीनां फलानुत्पत्तिबन्धनम् ।
विशेषस्याभिधित्सातस्तद्वशेषोक्तिरुच्यते
शक्तीनां कारकाणां सामग्र्ये ऽपि अविकलत्वे यः क्रियाफलस्य किञ्चिद्विशेषमवगमयितुमनुत्पत्तेरुपनिबन्धः सा विशेषोक्तिः ।
तस्याश्च द्वौभेदौ ।
क्वचित्खलु कारणसामग्र्ये ऽपि यत्कार्यं नोत्पद्यते तस्यानुत्पत्तौ स्वकण्ठेन निमित्तमुपादीयते, क्वचित्त्वर्थसामर्थ्यादवगम्यते तदाह---
दर्शितेन निमित्तेन निमित्तादर्शनेन च ।
तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः
अदर्शनमनुपादानम् ।
तत्र द्वितीयस्य भेदस्योदाहरणम्-----
महर्द्धिनि गृहे जन्म रूपं स्मरसुहृद्वयः ।
तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः ॥ उक्स्स्_5.*2 ॥
अत्र धनसंभारयोगः सुरूपत्वं यौवनं चेति यान्येतानि सुखप्राप्तौ कारणान्यविकलानि तत्सद्भावे ऽपि क्रियाफलभूतायाः सुखप्राप्तेरनुत्पत्तिरुपनिबद्धा ।
पूर्वोक्तानां सुखहेतूनां विस्मयविभावनात्मकविशेषख्यापनाय ।
अत्र च निमित्तं खकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवगम्यते ।
विधिवैधुर्यादिरूपशब्दो ऽत्र शरीरस्य रूपमात्राव्यभिचारित्वाद्रूपप्रकर्षतात्पर्येणोपात्तः ।
स्मरसुहृद्वयो यौवनम् ।
यौवने हि मन्मथाभिमुखीभवति ।
आद्यभेदोदाहरणं तु----
इत्थं विसंष्ठुलं दृष्ट्वा तावकीनं विचेष्टितम् ।
नोदेति किमपि प्रष्टु सत्वरस्यापि मे वचः ॥ उक्स्स्_5.*3 ॥
अत्र प्रश्नत्वरालक्षणकारणसद्भावे ऽपि प्रश्नवचसो ऽनुत्पत्तिरुपनिबद्धा ।
तया च प्रश्नवचनकारणस्य विस्मयविभावनाख्यो विशेषो ऽवगम्यते ।
अत्र च निमित्तं भगवतीगतिविसंष्ठुलचेष्टितदर्शनं स्वकण्ठेनोपात्तम् ॥
विरोधः-----
गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः ।
यद्विशेषाभिधानाय विरोधं तं प्रचक्षते
यत्र कविना गुणस्य वा क्रियाया वा अथवा द्विर्वाशब्दस्योपात्तत्वात् द्रव्यस्य विरुद्धो ऽन्यः पदार्थः सजातीयो विजातीयो वा वचसा स्वप्रतिभाप्रसूतेन वर्णनिकात्मना क्रियते कञ्चिद्विशेषमवगमयितुं स विरोधाख्यो ऽलङ्कारः ।
गुणक्रियाद्रव्याणामुत्प्रेक्षालङ्कारलक्षणव्याख्यानसमये स्वूरूपमुक्तम् ।
क्रिया कारणमुत्पादनं, त्त्प्रधानं वचः क्रियावचः ।
कविप्रतिभया खलु पुराणप्रजापतिनिर्मितशुष्कपरुषपदार्थविलक्षणाः सरसाः पदार्थाः अभिनवा एव निर्मीयन्ते ।
अतः क्रियावच इत्युक्तम् ।
तस्योदाहरणम्----
यद्वा मां किं करोम्येष वाचालयति विस्मयः ।
भवत्याः क्वायमाकारः क्वेदं तपसि पाटवम् ॥ उक्स्स्_5.*4 ॥
अत्र यदेतत्पूर्वमुपक्रान्तं वचो मे नोदेतीति तस्याक्षेपो यद्वेतिकृतः ।
किंवा करोमि विस्मयवाचालितः सन् ब्रवीमि भवत्याः क्वते ।
एष विस्मयो मां वाचालयतीति संबन्धः ।
अत्राकृतेः सुकुमारायाः पाटवस्य च कठिनकायसाध्यस्य विरोधो भगवतीनिष्ठत्वेनोपनिबद्धः ।
तेन च विस्मयविभावनाख्यो विशेषो ऽत्र ख्याप्यते ।
अयं चासिद्धस्वभावधर्मनिष्ठत्वाद्गुणविरोधः ।
एवं साध्यस्वभावधर्मनिष्ठे ऽपि क्रियाविरोधे उदाहार्यम् ।
तथा द्रव्यविरोधे गुणक्रियाविरोधे गुणद्रव्यविरोधे क्रियाद्रव्यविरोधे च ॥
तुल्ययोगिता-----
उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः ।
साम्याभिधायि प्रस्तावभाग्भिर्वा तुल्ययोगिता
अप्रस्तुतानामेव वा यत्र साम्यमभिधीयते सा तुल्ययोगिता ।
अत एव प्राकरणिकाप्राकरणिकोभयार्थनिष्ठत्वाभावात्तत्रोपमानोपमेयोक्तिशून्यत्वं प्रस्तावभाग्भिः प्रस्तुतैः साम्याभिधायि वच इति संबन्धः ।
तस्याः पूर्वभेदस्योदाहरणम्-----
त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता ॥ उक्स्स्_5.*5 ॥
त्वच्छरीरसौकुमार्यदर्शिनः कस्येव चेतसि मालत्यादीनां काठिन्यं न भासत इत्यर्थः ।
अत्र मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरत्वलक्षणं साम्यमुपनिबद्धम् ।
द्रष्टुरिति तृन् ।
तद्योगे च त्वदङ्गमार्दवमिति "न लोकाव्ययनिष्ठेऽति षष्ठीनिषेधः ।
द्वितीयभेदस्योदाहरणम्----
योगपट्टो जटाजालं तारवीत्वङ्मृगाजिनम् ।
उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ॥ उक्स्स्_5.*6 ॥
अत्र प्राकरणिकानमपि योगपट्टादीनां भगवतीशरीरे संस्पर्शनौचित्यलक्षणः समानो धर्मो निबद्धः ।
तारवीत्वक् वल्कलम् ।
अङ्गस्य शरीरस्य ।
अप्रस्तुतप्रशंसा----
अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसेयं प्रस्तुतार्थनुबन्धिनी
अधिकारादुपवर्णनावसरादपगतस्य प्राकरणिकादपरस्य वस्तुनो यत्रोपनिबन्धः सा अप्रस्तुतप्रशंसा ।
न चैवमपि तस्या उन्मत्तप्रलापप्रख्यता, यतः सा केनचित्स्वाजन्येन प्रस्तुतमर्थमनुबध्नति ।
तदुक्तम्---प्रस्तुतार्थानुबन्धिनीति ।
तस्या उदाहरणम्-----
यान्ति स्वदेहेषु जरामसंप्राप्तोपभोक्तृकाः ।
फलपुष्पर्द्धिभाजो ऽपि दुर्गदेशवनश्रियः ॥ उक्स्स्_5.*7 ॥
अत्र कृच्छ्रेण गन्तुं शक्यते यस्मिन्देशे तद्गतकाननानां शोभा अप्राकरणिक्य एव स्वदेहजर्जरतयोपवर्णिताः ।
ताभिश्च सादृश्यं स्वाजन्येन भगवतीचेष्टितमुपमेयभूतं एवंविधरूपतयावगम्यते ।
दुर्गेति "सुदुरोरधिकरण"इति डप्रत्ययः ॥
व्याजस्तुतिः----
शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते ।
वस्तुतस्तु स्तुतिश्चेष्टा व्याजस्तुतिरसौ मता
यत्र शब्दानामभिधायकानां या शक्तिरर्थप्रत्यायनौत्सुक्यं तस्या यः स्वभावो नियतार्थनिष्ठत्वात्मकस्तेन निन्दा गम्यते इव नत्वसौ निन्दैव ।
पदार्थपर्यालोचनसामर्थ्योत्थायां स्तुतौ वाक्यार्थीभूतायामवान्तरवाक्यार्थत्वात् ।
अत एवाह----
वस्तुतस्तु स्तुतिश्चेष्टेति ।
वस्तुत इत्यर्थसामर्थ्यादित्यर्थः ।
तत्र व्याजस्तुतिर्नामालङ्कारो भवति ।
निन्दाव्याजेन हि सा स्तुतिः ।
अतो व्याजस्तुतिः ।
तस्या उदाहरणम्-----
धिगनन्योपमामेतां तावकीं रूपसंपदम् ।
त्रैलोक्ये ऽप्यनुरूपो यद्वरस्तव न लभ्यते ॥ उक्स्स्_5.*8 ॥
अत्र यदेतद्धिग्वादोपहतत्वं रूपसंपदः साक्षाच्छब्दव्यापारेण स्पृष्टं न तत्स्वात्मपर्यवसितं, अर्थसामर्थ्योत्थलोकोत्तरभगवतीरूपोत्कर्षप्रतिपादनपर्यवसितत्वात् ।
अतस्तस्यावान्तरवाक्यार्थता ।
तेनेयं व्याजस्तुतिः ।
निन्दाव्याजेन रूपोत्कर्षस्य स्तूयमानत्वात् ।
धिगनन्योपमामि "त्युभसर्वतसोः कार्ये"ति द्वितीया ॥
विदर्शना----
अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् ।
उपमानोपमेयत्वं कथ्यते सा विदर्शना
यत्र पदार्थानां संबन्धः स्वयमनुपपद्यमानः सन्नुपमानोपमेयभावे पर्यवस्यति अथवा उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तत्र विदर्शना, विशिष्टस्यार्थस्य उपमानोपमेयभावात्मकस्योपदर्शनात् ।
तस्या उदाहरणम्----
विनोचितेन पत्या च रूपवत्यपि कामिनी ।
विधुवन्ध्यविभावर्याः प्रबिभर्ति विशोभताम् ॥ उक्स्स्_5.*9 ॥
विधुश्चन्द्रः ।
विभावरी रात्रिः ।
अत्र रजनिकररहितविभावरीविशोभत्वस्य यदेतत्कर्मत्वं तत्कामिनीकर्तृकायां भरणक्रियायां न समन्वयं गच्छति ।
न ह्यन्यस्य संबन्धिनीं विशोभामन्यो बिभर्ति ।
अतः पदार्थसमन्वयस्यात्रानुपपत्तिः ।
उपमानोपमेयभावस्त्वत्र वाक्यार्थविश्रान्तिस्थानं कृष्णरात्रिवद्विशोभतां बिभर्तिति ।
एवमेतद्भवति वस्त्वसंबन्धे उपमानोपमेयभावकल्पनायामुदाहरणम् ।
यत्र तु पदार्थसमन्क्य उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तस्य विदर्शनाभेदस्योदाहरणमुद्भटपुस्तके न दृश्यते ।
तस्य तु भामहोदतमिदमुदाहरणम्---
अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥
इति
तत्र प्रथमोदयसमयविजृम्भमाणस्वकान्तिरहितसय भास्वतो यदेतदस्तमयौन्मुख्यं तदुपेतस्य श्रीमतः प्रयोज्यकर्तॄन् प्रति पातावसानोदयकर्मके ऽवबोधे तत्समर्थाचरणलक्षणं हेतुकर्तृत्वमुपनिबद्धम् ।
तथाविधं खलु भास्वन्तं पश्यन्तः श्रीमन्तो बुध्यन्ते भास्वत इव सर्वस्योदयः पातावसान इति ।
तांश्चासौ तथावबुध्यमानान् स्वावस्थोपदर्शनेन प्रयुङ्क्ते यथा ममायमुदयः पातावसानस्तथा भवतामपीति ।
अत्र च प्रेषणाध्येषणयोरभावात्तत्समर्थाचरणलक्षण एव प्रयोजकव्यापारः कारीषो ऽध्यापयति भिक्षा वासयतीति यथा ।
तेन च प्रयोज्यप्रयोजकभावेन स्वात्मानमुपपादयितुमुपमानोपमेयभाव आक्षिप्तः हे श्रीमन्तो यथा ममायमुदयः पतनाय तद्वद्भवतामपीति यूयं बुध्यध्वमिति ।
तेनात्र प्रयोज्यप्रयोजकभावलक्षणेन पदार्थसमन्वयेन स्वात्मोपपादनायोपमानोपमेयभावस्याक्षेपात् द्वितीयो विदर्शनाया भेदः ॥
संकरः----
स च चतुर्विधः संदेहशब्दार्थवर्त्यलङ्कारैकशब्दाभिधानानुग्राह्यानुग्राहकभेदेन ।
तत्र संदेहसंकरस्तावत्---
अनेकालङ्क्रियोल्लेखे समं तद्वृत्त्यसंभवे ।
एकस्य च ग्रहे न्यायदोषाभावे च संकरः
अनेकस्यालङ्कारस्योल्लेखे चेतस्युपारोहे संदेहसंकरो भवति, न त्वेकशब्दाभिधानसंकरादावपि अनेकालङ्कारोल्लेखः संभवति ।
यथा---
मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी ।
तवापि मूर्घ्नि गङ्गेव चक्रधारा पतिष्यति ॥
अत्र ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुश्च श्लेषो ऽनेकालङ्कार उल्लिख्यते ।
उपमानोपमेयभावे तावत्
गङ्गोपमानम् ।
चक्रधारा उपमेया ।
मुरारिनिर्गतत्वं साधारणो धर्मः ।
श्लेषस्त्वत्र नरकप्रतिपन्थिशब्दादात्मानं लभते ।
एकत्र हि नरको दानवः ।
अपरत्र त्ववीच्यादिः ।
एतौ च द्वावलङ्कारावेकस्मिन्निवशब्दे ऽनुप्रविशतः ।
न ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुर्वा श्लेषः समासाद्यभावे इवशब्दादिमन्तरेण स्वरूपं प्रतिलभते ।
तेनात्र द्वावलङ्कारा वेकस्मिन्वाचके इव शब्दे ऽनुप्रविषौ ।
यदि चानेकालङ्कारोल्लेखे सति संदेहसंकरस्तत एवमादावप्यनेकालङ्कारोल्लेखस्य संभवात्संदेहसंकरप्रसङ्ग इत्याशङ्क्योक्तम्---समं तद्वृत्त्यसंभव इति ।
तस्यानेकस्यालङ्कारस्य समं युगपद्यदि वृत्तिर्व्यापारो ऽलङ्कार्यालङ्करणात्मको न संभवतीत्यर्थः ।
पूर्वोक्ते तूदाहरणे मुरारिनिर्गतेति साधारणधर्मोपादानान्नरकप्रतिपन्थिनीति च श्लेषपदोपदर्शनान्नानेकस्यालङ्कारस्य युगपद्वृत्तेरसंभवः ।
तेन तत्र न संदेहसंकरता ।
ननु यद्यनेकालङ्कारोल्लेके युगपद्वृत्त्यसंभवे च संदेहसंकरत्वम् ।
एव सति यत्र प्रतिभामात्रेणानेकस्मिन्नलङ्कारे उल्लिख्यमाने यस्य साधकं प्रमाणमस्ति स उपादीयते ।
यस्य तु बाधकं प्रमाणं विद्यते स त्यज्यते ।
तत्राष्यनेकालङ्कारोल्लेखस्य समं तद्वृत्त्यसंभवस्य च संभवात्संदेहसंकरत्वं प्रसज्जतीत्याशङ्क्योक्तम्---एकस्य च ग्रहे न्यायदोषाभावे चेति ।
न्यायः साधकं प्रमाणम् ।
दोषो बाधकं प्रमाणम् ।
यत्रानेकालङ्कारोल्लेखे युगपद्वृत्त्यसंभवे च एकतरस्य ग्रहणे साधकबाधके प्रमाणे समस्तव्यस्ततया न विद्येते तत्र संदेहसंकरः ।
तेन नानिष्टप्रसङ्गः ।
तथाहि---यत्र साधकबाधके प्रमाणे सामस्त्येन विद्यते तत्र यस्य साधकं प्रमाणमस्ति तस्योपादानाद्बाधकस्य प्रमाणोपेतस्य च त्यागादेकस्य ग्रहणं भवति ।
यत्रापि साधकबाधकप्रमाणयोर्वैयस्त्येनान्यतरस्य विद्यमानता तत्रापि प्रतिभोल्लिख्यमानानेकालङ्कारमध्यात्साधकप्रमाणोपेतस्योपादानात्प्रमाणशून्यस्य चोपेक्ष्यत्वात्, तथा बाधकप्रमाणोपेतस्य परित्यागात्त्दितरस्य च पूर्वोल्लिखितस्य पारिशेष्येणोपादानादेकस्य ग्रहो भवति ।
यत्र तु साधकबाधकप्रमाणाभावस्तत्र संदेह एव ।
एवमयं संदेहसंकरो लक्षितः ।
तस्योदाहरणम्----
यद्यप्यत्यन्तमुचितो वरेन्दुस्ते न लभ्यते ।
तथापि वच्मि कुत्रापि क्रियतामादरो नरे ॥ उक्स्स्_5.*10 ॥
अत्र वरेन्दुरिति वर एव इन्दुः, वर इन्दुरिवेति रूपकसमासोपमयोर्द्वयोरलङ्कारयोरुल्लेखः ।
न च तस्यानेकस्यालङ्कारस्य युगपद्वृत्तिः संभवति ।
एकालङ्कारसंश्रयेणैवालङ्कारस्य कृतकृत्यात्वात् ।
न चात्र द्वयोर्मध्यादेकतरस्य ग्रहणाय साधकबाधकप्रमाणयोगः. साधकं हि प्रमाणं विद्यमानं विधिमुखेनालङ्कारं ज्ञापयेत् ।
तथा बाधकमपि प्रहातव्यालङ्कारनिषेधमुखेनोपादेयमलङ्कारं पूर्वोल्लिखितं पारिशेष्यादुपादेयतया प्रतिपादयति ।
अत्र तु द्वयोः साधकबाधकप्रमाणयोरभावात्संदेहः ।
तेन संकरो ऽलङ्कारः ।
शब्दार्थवर्त्यलङ्कारस्तु-----
शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भासिनः ।
संकरो वा
यत्रैकस्मिन्वाक्ये शब्दवर्तिनोर्ऽथवर्तिनश्चालङ्काराः संसर्गमुपयान्ति स शब्दार्थालङ्कारः ।
तस्योदाहरणम्----
इत्थं स्थितिर्वरार्था चेन्मा कृथा व्यर्थमर्थिताम् ।
रूपेण ते युवा सर्वः पादबद्धो हि किङ्करः ॥ उक्स्स्_5.*11 ॥
वरार्था भर्त्रर्था ।
किङ्करो दासः ।
अत्र थकारोपनिबद्धो ऽनुप्रासात्मकः शब्दालङ्कारः ।
अर्थालङ्कारश्चार्थान्तरन्यासो विद्यते ।
तथाहि---अत्र माकृथा व्यर्थमर्थितामित्युपादित्सितेर्ऽथे ऽर्थित्वस्याकरणं यदुपनिबद्धं तदनुपपद्यमानतया संभाव्य तत्समर्थनायोक्तं ऽरूपेण ते युवा सर्वः पादबद्धो हि किङ्करऽइति ।
यो गुणोत्कर्षशाली स नार्थयते, अपित्वर्थ्यते यथा रत्नादि ।
त्वं च रूपवत्त्वाद्गुणोत्कर्षशालिनी ।
तस्मादुपादित्सितेर्ऽथे
तवार्थित्वमयुक्तमिति ।
तेनायं शब्दार्थवर्त्यलङ्कारसंकरः ॥
एकशब्दाभिधानसंकरस्तु ।
एकवाक्यांशप्रवेशाद्वाभिधीयते
एकस्मिन्वाक्यांशे वाक्यैकदेशे यत्रानेकस्यालङ्कारस्यानुप्रवेशः स एकशब्दाभिधानसंकरः ।
तस्योदाहरणम्----
मैवमेवास्स्व सच्छायवर्णिका चारुकर्णिका ।
अम्भोजिनी चित्रस्था दृष्टिमात्रसुखप्रदा ॥ उक्स्स्_5.*12 ॥
अत्रोपमालङ्कार उपमाप्रतिभोत्पत्तिहेतुभूतश्च श्लेष इत्येतौ द्वावलङ्कारावेकस्मिन्वाक्यांशे इवशब्दे ऽनुप्रविष्टौ ।
तथाहि---अम्भोजिनी उपमानम्, गौरी उपमेया, दृष्टिमात्रसुखप्रदत्वं साधारणो धर्मः इत्युपमा ।
सच्छायवर्णिका चारुकर्णिकेति श्लेषः ।
अम्भोजिन्यां हि वर्णा राजवर्तादयः गौर्यां तु गौरत्वम् ।
अम्भोजिन्यां कर्णिका कमलमध्वर्त्तिबीजकोशः ।
गौर्यां तु चारू कर्णौ ।
कपूचात्र समासान्तः ।
तेनायं श्लेषः ।
एतौ च द्वावलङ्कारा वेकस्मिन्वाक्यांशे इवशब्दे ऽनुप्रविष्टौ ।
तेनायमेकशब्दाभिधानसंकरः ॥
अनुग्राह्यानुग्राहकसंकरस्तु----
परस्परोपकारेण यत्रालङ्कृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सो ऽपि संकरः
यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस्तत्रोपमेयोपमा ।
उपमेयेनोपमानस्योपमानात् ।
ननु च प्राकरणिकं साम्याभिधानसंबन्धि उपमेयं ।
अप्राकरणिकं उपमानं ।
यदि चात्रोपमेयस्योपमानत्वमभिधीयते, एवं
सति तस्य प्राकरणिकत्वं व्याहन्यते इत्याशङ्क्योक्तम्---पक्षान्तरहानिगामिति ।
नात्रोपमानोपमेयभावे तात्पर्यं किन्तु एतदेव द्वयमेवंविधं विद्यते, न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यते इति ।
अतश्च एतत्पक्षद्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात् परस्परमुपमानोपमेयभावो न दुष्यतीति तस्य पक्षान्तरहानौ प्रतपाद्यायामवान्तरवाक्यार्थत्वेनावस्थानात्, वरं विषं भक्षय मा चारस्य गृहे भुङ्क्थाः इतिवत् ।
अत्र हि विषभक्षणं न विधीयते ।
दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात् ।
एवमिहाप्युपमानोपमेयभावस्याविवक्षापक्षान्तरहानौ तात्पर्यात् ।
तस्या उदाहरणम्---
हरेणेव स्मरव्याधस्त्वयानङ्गीकृतो ऽपि सन् ।
त्वद्वपुः क्षणमप्येष धार्ष्ट्यादिव न मुञ्चति ॥ उक्स्स्_5.*13 ॥
अत्र धार्ष्ट्यादि न मुञ्चतीति यासावुत्प्रेक्षा सा हरेणेव स्मरव्याधस्त्वयानङ्गीकृतो ऽपि सन्नित्युपमाप्रतिभोत्पत्तिहेतुश्लेषवशेन स्वरूपं प्रतिलभते ।
अनङ्गीकृतो हि अनङ्गत्वमशरीरत्वमापादितः अनूरीकृतश्च ।
यश्चानूरीकृतः क्षणमपि न मुञ्चति तत्र धार्ष्ट्यं हेतुतयोत्प्रेक्षितुं शक्यते ।
तेन श्लेषवशेनात्रोत्प्रेक्सा आसादितस्वभावा ।
अतोयमनुग्राह्यानुग्राहकसंकरः ।
एवमयं चतुर्विधः संकरो नानालंकारगतविकल्पव्यवस्थासमुच्चयाङ्गाङ्गिभावसमाश्रयणेनाभिहितः ।
तत्रानेकालंकारविकल्पात्संदेहसंकरः ।
निभिन्नाधारत्वेन शब्दार्थवर्तिनोलंकारयोरवस्थानाद्व्यवस्थासमाश्रयः शब्दार्थवर्त्यलंकारसंकरः ।
एकशब्दाभिधानसंकरे तु समुच्चयेनानेकोलंकार एकस्मिन्वाक्यांशे इवादावनुप्रविशति ।
अनुग्राह्यानुग्राहकसंकरे त्वनकस्यालंकारस्याङ्गाङ्गिभावः ।
अतो विकल्प-व्यवस्था-समुच्चयाङ्गाङ्गिभावसंश्रया एते चत्वारः संकरभेदाः ।
उपमेयोपमा---
अन्योन्यमेव यत्र स्यादुपमानोपमेयता ।
उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम्
यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस् तत्रोपमेयोपमा ।
उपमेयेनोपमानस्योपमानात् ।
ननु च प्राकरणिकं साम्याभिधानसंबन्धि उपमेयम् अप्रकरणिकमुपमानम् ।
यदि चात्रोपमेयस्योपमानत्वम् अभिधीयते एवं सति तस्य प्राकरणिकत्वम् व्याहन्यते इत्याशङ्क्योक्तम् -- पक्षान्तरहानिगामिति ।
नात्रोपमानोपमेयभावे तात्पर्यं किंतु एतदेव द्वयमेवंविधं विद्यते न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यत इति ।
अतश्च एतत् पक्षद्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात् परस्परमुपमानोपमेयभावो न दुष्यतीति ।
तस्य पक्षान्तरहानौ प्रतिपाद्यायामवान्तरवाक्यार्थत्वेनावस्थानात् -- वरं विषं भक्षय मा चास्य गृहे भुक्त्वा -- इतिवत् ।
अत्र हि विषभक्षणं न विधीयते दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात् ।
एवमिहाप्युपमानोपमेयभावस्याविवक्षा पक्षान्तरहानौ तात्पर्यात् ।
शिरांसि पङ्कजानीव वेगोत्पातयतो द्विषाम् ।
आजौ करोपमं चक्रं यस्य चक्रोपमः करः ॥ उक्स्स्_5.*14 ॥
अत्र यस्येत्युपात्त्स्य त्वत्कृते सो ऽपि वैकुण्ठ इत्यत्र तच्छब्दसमन्वयेना काङ्क्षाविच्छेदो भविष्यते ।
उत्तरेष्वपि च श्लेकेषु तेनैव यच्छब्दार्थो निराकाङ्क्षी कार्यः ।
अत्र करचक्रयोः परस्परमुपमानोपमेयभावः ।
साधारणश्चात्र धर्मः अतित्वरितत्वेन शत्रुशिरो ऽवकर्तनम् ।
एष चात्रोपमानोपमेयभावः उपमानान्तराभावे पर्यवसितः ।
यदि परमेतयोरेव परस्परमुपमानोपमेयभावः स्यादन्यत्वे तयोरुपमानं नास्तीति ॥
सहोक्तिः---
तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते ।
पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम्
यत्र वस्तुद्वयसमवेते द्वे क्रिये पदेनैकेन तन्त्रवृत्त्या कथ्येते तत्र सहोक्तिर्नामालङ्कारो भवति ।
ननु ऽसंजहार शरत्कालःऽइत्यादावपि दीपके पदेनैकेन वस्तुद्वयसमवेते द्वे क्रिये कथ्येते ।
अतश्च तत्रापि सहोक्तित्वं प्राप्नोतीति आसङ्क्योक्तम्---तुल्यकाले इति ।
यत्र सहादिना पदेन तुल्यकालतामवगम्य वस्तुद्वितयसमाश्रिते द्वे क्रिये कथ्येते तत्र सहोक्तित्वम् ।
न चैवं दीपक इति नातिव्याप्तिः ।
सहादिना च शब्देन युगपत्कालतायामवद्योत्यमानायां द्वय गतिः ।
कदाचित्खलु ययोः क्रिययोस्तुल्यकालता ते क्रिये तुल्यकक्षतया स्वाश्रयविश्रान्तत्वेनाभिधीयेते, यता देवदत्त्यज्ञदत्तौ सह भुञ्जाते इति कदाचित्त्वेकाश्रयविश्रान्तायां क्रियायामभिहितायां सहाद्यर्थपर्यालोचनासामर्थ्यादपरस्याश्रयस्य क्रियासंबन्धो ऽवगम्यते, यथा देवदत्तो यज्ञदत्तेन सह भूङ्क्त इति ।
तत्रेह द्वितीया गतिराश्रीयते ।
शाब्देन रूपेणैकत्र क्रियासंबन्धस्य प्रतीतस्यापरत्रार्थेन रूपेणोन्नीयमानत्वेन वक्रभणिते सद्भावात् ।
एवंविधस्य यत्रैव शोभातिशयविधायित्वं तत्रैव सहोक्तेरलङ्कारता न सर्वत्रेति द्रष्टव्यम् ।
तस्या उदाहरणम्----
द्युजनो मृत्युना सार्धं यस्याजौ तारकामये ।
चक्रे चक्राभिधानेन प्रैष्येणाप्तमनोरथः ॥ उक्स्स्_5.*15 ॥
यस्य प्रैष्येण इति संबन्धः ।
अत्र मृत्योर्द्युजनस्य च मनोरथावाप्तिकरणलक्षणे द्वे क्रिये पदेनैकेनोक्ते चक्रे ऽवाप्तमनोरथ इति ।
यद्यप्यवाप्तमनोरथ इति चक्र इति च सुप्तिडन्तत्वभेदेन पदद्वित्वं तथापि क्रियापदद्वितयोपादानव्यावृत्तेर्ववक्षितत्वात्पदेनैकेनेति न विरुध्यते ।
अथवा चक्रे इति करोति क्रिया सामान्यभूता विशेषमन्तरेणापर्यवस्यन्ती मनोरथावाप्तिलक्षणं विशेषं गर्भीकरोति ।
अतश्चात्र सत्यप्यनेकपदत्वे एकपदीभाव इव प्रकाशते ।
तेन एकेन पदेनेत्युक्तम् ।
सार्धं शब्दश्चात्र तुल्यकालतामवद्योतयति ।
यस्य प्रैष्येणाज्ञाकारिणा चक्रसंज्ञकेन कर्तृभूतेन मृत्युना सार्धमपृथक्कालतया द्युजन आप्तमनोरथः कृत इति ।
अनेकलोककवलीकरणान्मृत्योर्मनोरथावाप्तिः, द्युजनस्य च शत्रुविनाशात् ॥
परिवृत्तिः-----
समन्यूनविशेष्टैस्तु कस्यचित्परिवर्तनम् ।
अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा
मूल पाठ: Kāvyālaṃkārasārasaṃgraha with Indurāja's Laghuvṛtti commentary · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0