काव्यालंकारसारसंग्रह · अध्याय 6
कस्यचिद्वस्तुनो वस्त्वन्तरेण परिवर्तनं परिवृत्तिः ।
सा च त्रिविधा ।
परिवर्तनकारकाणां परिवर्तनीयेन सह समत्वान्न्यूनत्वादधिकत्वाच्च ।
तदिदमुक्तम्--समन्यूनविशिष्टैरिति ।
तत्र यस्याः समोर्ऽथः परिवर्त्यते तस्या अनर्थस्वभावता ।
अर्थशब्देन हि उपादेयो ऽप्थो ऽभिधीयतेर्,ऽथ्यते ऽसाविति कृत्वा ।
यत्र च साम्यं तभार्थनीयत्वं नास्ति ।
तेनार्थ्यत्वाभावानुगमात्तत्रानर्थत्वमभिधीयते ।
अतस्तत्रानर्थस्वभावं परिवर्तनम् ।
यत्राप च निकृष्टपरिग्रहेणोत्कृष्टपरित्यागः क्रियते, तत्राप्यनर्थस्वभावता ।
उपादेयविपरीतस्योपादानात् ।
अर्थप्रतिपक्षो ह्यत्रानर्थः ।
अधर्मानृतवत् ।
यता ह्यधर्मानृतशब्दाभ्यां नोत्तरपदार्थ्राभावमात्रमभिधीयते, नाप्युत्तरपदार्थतुल्योर्ऽथः, किं तर्हि एतत्प्रतिपक्षस्यैवाभिधानं, एवमिहाप्यनर्थशब्देन अर्थप्रतिपक्षस्यैवाभिधनम् ।
यथा अनर्थो वैरिणामापतित इत्येवमादौ ।
तेन यत्रोत्कृष्टेन निकृष्टः परिगृह्यते तत्र दुःखहेतुत्वादरह्थप्रतिपक्षत्वेनानर्थखभावता ।
यत्र तु निकृष्टेनोत्कृष्टः परिगृह्यते तत्रोत्कृष्टस्य सुखहेतुत्वेनोपादेयत्वादर्थस्वभावता ।
तदिदमुक्तम्---अर्थानर्थस्वभावमिति ।
तत्र समपरिवृत्तेरुदाहरणम्---
उरो दत्वामरारीणां येन युद्धेष्वगृह्यत ।
हिरण्याक्षवधाद्येषु यशः साकं जयश्रिया ॥ उक्स्स्_5.*16 ॥
अत्र उरोदानेन उत्साहो लक्ष्यते यश्चात्र लक्ष्यमाणास्यार्थस्योत्साहस्योपायतया प्रतीयते ।
अभिधेयोर्ऽथो वक्षसो दानं नाम यो हि यत्र वक्ष उद्यमयति स तत्रोत्सहत इति तत्प्रतिभावच्छादितस्योतसाहस्य प्रतितिः तदपेक्षया समेन समस्य परिवर्तनम् ।
उरोयशसोः समत्वात् ।
न्यूनपरिवृत्तेस्तूदाहरणम्----
नेत्रोरगबलभ्राम्यन्मन्दराद्रिशिरश्च्युतैः ।
रत्नैरापूर्य दुग्धार्ब्धि यः समादत्त कौस्तुभम् ॥ उक्स्स्_5.*17 ॥
नेत्रभूत उरगो वासुकिः ।
अत्र--कौस्तुभस्योत्कृष्टस्य निकृष्टरत्नपरत्यागेन ग्रहणान्निकृष्टेनोत्कृष्टस्य परिवर्तनम् ।
विशेष्टपरिवृत्तेस्तूदाहरणम्----
यो बलौ व्याप्तभूसीम्न मखेन द्यां जिगीषति ।
अभयं स्वर्गसद्मभ्यो दत्वा जग्राह खर्वतम् ॥ उक्स्स्_5.*18 ॥
भूसीमा पृथिव्या अवधिः ।
मखो यज्ञः ।
अत्र अभयेनोत्कृष्टेन निकृष्टस्य खर्वत्वस्य ह्रस्वत्वस्य परिवर्तनं अभिधेयापेक्षया
पूर्वतरोदाहरणवत्प्रतिभाति ।
तात्पर्यार्थापेक्षया तु नेयं परिवृत्तिः ।
चत्तद्देवेभ्यः अभयं प्रतिज्ञातं तदुपायभूताया वामनवेषेण स्वर्वतायाः परिगृहीतत्वात् ।
इति माहश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलधुवृत्तौ पञ्चमो वर्गः ॥
6
अथ षष्ठो वर्गः ।
अनन्वयं ससंदेहं संसृष्टिं भाविकं तथा ।
काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः
अत्र इतिशब्दस्य वक्ष्यमाणं यदनन्वयादिलक्षणं तदुपक्षेपार्थत्वेन प्रयोगान्नानन्वयादिस्वरूपपरामर्शार्थत्वम् ।
इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्वयादीनलङ्कारान्विदुरित्यर्थः ।
इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्वयादीनलङ्कारान्विदुरित्यर्थः ।
अतो वेदनक्रियाकर्मत्वादनन्वयमित्यादौ द्वितीया ।
काव्यदृष्टान्तहेतू चेत्यत्र दृष्टान्तहेतुशब्दाभ्यां काव्यशब्दः प्रत्येकमभिसंबध्यते ।
दृष्टान्तशब्दस्य चात्र पूर्वनिपातो ऽभ्यर्हितत्वात् ।
अभ्यर्हितत्वं दृष्टान्तस्य दृष्टान्तप्रतिबिम्बितव्याप्तिमुखेन हेतोः प्रायेण गमकता संप्रत्ययात् ।
ससंदेहः---
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससंदेहं वचः स्तुत्यै ससंदेहं वदुर्बुधाः
उपमानभेदपूर्वं भेदमभिदधतः कवेः कविनिबद्धस्य वा वक्तुर्वच इति संबन्धः ।
संदेहोपेतवचनव्याजेन उपमानेन तत्त्वं तद्भावमभेदमुपमेयस्याभिधायोत्तरकालं यदा तस्मादुपमानात्तस्योपमेयस्य भेदो ऽभिधीयते तदा ससंदेहो ऽलङ्कारः ।
ननु उपमानेन सह पूर्वमभेदे ऽभिहिते सति पुनर्यदि तस्माद्धेदस्याभिधानं क्रियते ।
एवं सति गजस्नानं प्राप्नोतीत्याशङ्क्योक्तम्----स्तुत्यै इति ।
स्तुत्यर्थत्वेन एवंविधा अभिधा समाश्रीयत इत्यर्थः ।
तस्योदाहरणम्----
हस्ते किमस्य निःशेषदेत्यहृद्दलनोद्भवम् ।
यशःसंचय एष स्यात्पिण्डीभावो ऽस्य किंकृतः ॥ उक्स्स्_6.*1 ॥
नाभिपद्मस्पृहायातः किं हंसो नैष चञ्चलः ।
इति यस्याभितः शङ्खमशङ्किष्टार्जवो जनः ॥ उक्स्स्_6.*2 ॥
आर्जवो मूर्खः ।
ऋजुत्वयोगात् ।
अत्र शङ्ख उपमेयः ।
यशःसंचयो हंसश्चोपमानम् ।
तयोश्च पूर्वमभेदसंदेहव्याजेनाभिहितः किमेष यशःसंचयः स्यादिति, तथा किं हंस इति पुनश्चात्रोपमानादुपमेयस्य भेदो वर्णितः ।
यशःसंचयात्तावद्भेदोपवर्णनं पिण्डीभावो ऽस्य किंकृत इत ।
यशःसंचयः खलु प्रसरणशीलः ।
अस्य तु तद्विरुद्धः पिण्डीभावो दृश्यते ।
तेन नायं यशःसंचय इति ।
हंसात्तु भेदाभिधानं नैव चञ्चल इति ।
हंसस्य ह चञ्चलत्वं नाम धर्मः ।
इहच तन्नोपलभ्यते, तस्मान्नैव हंस इति ।
एवं विधस्य चात्राभिधानस्य फलं स्तुतिः, यशःसंचयो भगवता स्वहस्तवर्ती कृत इति, तथासंभाव्यमानहंसागमनं त्रिभुवनोत्पत्तिनिबन्धनं यत्तन्नाभिनलिनं तद्वान् भगवानिति ॥
ससंदेहस्य भेदान्तरमाह----
अलङ्कारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् ।
असंदेहे ऽपि संदेहरूपं संदेहनाम तत्
छाया शोभा ।
यत्र संदेहाभावे ऽपि संदेहस्योपनिबन्धे सति न पूर्ववदुपमानादुपमेयस्य भेद उपनिबध्यते किंतर्ह्यभेद एव संशयच्छायया ।
तथाविधस्य चोपनिबन्धस्य फलमलङ्कारान्तरोपजनिता सौन्दर्यप्रतिपत्तिः ।
यदाह---धीष्वलङ्कारान्तरच्छायां कृत्वा इति ।
तत्रापि संदेहालङ्कारः ।
तस्योदाहरणम्----
नीलाब्दः किमयं मेरौ धूमो ऽथ प्रलयानले ।
इति यः शङ्क्यते श्यामः पक्षीन्द्रेर्कत्विषि स्थितः ॥ उक्स्स्_6.*3 ॥
अत्र मेरोरुपरिवर्ती नीलो बलाहकः कल्पान्तवह्न्याश्चयश्च धूमः इत्येतदुभयमुपमानम् ।
गरुडारूढस्तु भगवान् कृष्णवपुरुपमेयः ।
तेन च उपमानद्वयेन संदेहव्याजेन भगवानापादिताभेद उपनिबद्धः किमयमेवंविधः अथैवंविधः इति ।
ताभ्यां चोपमानाभ्यामुपमेयस्य पूर्ववद्भेदनिबन्धनं नात्र किंचिदभिहितम् ।
फलं चैवमभिधानस्योपमालङ्कारध्वननम् ।
एवंविधोपमानद्वितयसदृशो भगवान्वैनतेयारूढ इति ।
अनन्वयः---
यत्र तनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातस्तमित्याहुरनन्वयम्
यत्र तेनैव न तु वस्त्वन्तरेण तस्यैव वस्त्वन्तरस्योपमानोपमेयभावो भवेत्तत्र वस्त्वन्तरानुगमाभावादनन्वयाख्यो ऽलङ्कारः ।
ननु च सादृश्यसंबन्धे सति प्राकरणिकमुपमेयमप्राकरणिकं तूपमानमित्युपमानोपमेययोर्लक्षितत्वात्कथमेकस्यैवोपमितिक्रियायां कर्मत्वं करणत्वं च संभवतीत्याशङ्क्योक्तम्---असादृश्यविवक्षात इति ।
नात्रोमपानोपमेयभावे तात्पर्यं किन्तूपमेयोपमावदुपमानान्तरव्यावृत्तावित्यर्थः ।
इतिशब्दे ऽत्र वक्ष्यमाणोदाहरणोपक्षेपार्थत्वादनन्वयशब्देन नाभिसंबध्यते ।
तेन अनन्वयमिति द्वितीया ।
तस्योदाहरणम्----
यस्य वाणी स्ववाणीव स्वक्रियेव क्रियामला ।
रूपं स्वमिव रूपं च लोकलोचनलोभनम् ॥ उक्स्स्_6.*4 ॥
अत्र वाणीक्रियारूपाणां त्रयाणामनुपमतया लोकोत्तरत्वं प्रतिपादयितुमात्मनैवोपमानोपमेयभावो निबद्धः ।
संसृष्टिः----
अलङ्कृतीनां बह्वीनां द्वयोर्वापि समाश्रयः ।
एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते
बहूनामलङ्काराणां परस्परनिरपेक्षाणां द्वयोर्वा तथाविधयोरेकत्र शब्द एव अर्थ एव वा उपनिबन्धे सति संसृष्टिरलङ्कारः ।
यत्र तु परस्परसापेक्षत्वं तत्र सन्देहैकशब्दाभिधानानुग्राह्यानुग्राहकसङ्करास्त्रयः पूर्वमभिहिताः ।
यत्र च शब्दार्थलक्षणाश्रयद्वितयनिष्ठतया अनेकालङ्कारोपनिबन्धस्तत्रापि शब्दार्थवर्त्यनेकालङ्कारसंकर उक्तः ।
एतद्वैलक्षण्येन तु संसृष्टिः ।
तस्या उदाहरणम्-----
त्वत्कृते सो ऽप वैकुण्ठः शशीवोषसि चन्द्रकाम् ।
अप्यधारां सुधावृर्ष्टि मन्ये त्यजति तां श्रियम् ॥ उक्स्स्_6.*5 ॥
तदुत्तिष्ठातिधन्येन केनापि कमलेक्षणे ।
वरेण सह तारुण्यं निर्विशन्ती गृहे वस ॥ उक्स्स्_6.*6 ॥
निर्विशन्ती उपभुञ्जाना ।
अत्र शशी उषसि चन्द्रिकामिव वैकुण्ठः त्वत्कृते श्रियं त्यजति इत्युपमा ।
अधारां सुधावृष्टिमिति रूपकम् ।
तथा ह्यत्र लक्ष्म्याः सर्वे पीयूषवृष्टेः संबन्धिनो धर्मा विद्यन्ते केवलं धारासंबन्धो नास्तीत्युपमानगतैकगुणनिवृत्तिद्वारिका शिष्टोपमानगतसकलगुणाभ्यनुज्ञारूपारोपणावगम्यते, यथा अयं पुरुषः अकरो हस्तीति ।
तदेतस्मिन् श्लोके उपमाया रूपकस्य च द्वयोरलङ्कारयोः संसृष्टिः ।
तयोः केवलाभिधेयाश्रयत्वात्परस्परनिरपेक्षत्वाच्च ।
ऽतदुत्तिष्ठऽइत्येतच्छ्लोकापेक्षया तु ऽकमलेक्षणेऽइति समासोपमात्मकमुपमाभेदमाश्रित्य पूर्वोक्तालङ्कारद्वयसंकलनया बहूना मलङ्काराणां संसृष्ट्युदाहरणदिक्प्रदर्शनं द्रष्टव्यम् ॥
भाविकम्-----
प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः ।
अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम्
सांप्रतिकेन प्रध्वंसाभावेनोपलक्ष्यमाणाः पदार्थाः भूताः, यथा इदानीं युधिष्ठिरादयः ।
ये तु साप्रतिकेन प्रागभावेन उपलक्ष्यन्ते ते भाविनः, यथा इदानीं भगवदवतारः कल्की भविष्णुयशाः ।
एवमनन्तरोपलक्षिताः भूता भाविनश्च येर्ऽथास्ते सांप्रतिकप्रध्वंसाभावप्रागभावविविक्ततया वर्तमानायमानाः प्रत्यक्षा इव यत्र दृश्यन्ते तद्भाविकं नामालङ्कारो भवेत् ।
अत्र हेतुर्वाचामनाकुलता अर्थानां चात्यद्भुतत्वम् ।
तदुक्तम्---वाचामनाकुल्येनेति ।
अत्यद्भुता इति च ।
तत्र वाचामनाकुलता व्यस्तसंबन्धरहितलोकप्रसिद्धशब्दोपनिबन्धाज्झगित्यर्थप्रतीतिकारिता ।
तस्यां हि सत्यां कवेः संबन्धी यो भावः
आश्रयः शृङ्गारादिरससंवलितचतुर्वर्गोपायभूतविशिष्टार्थोल्लेखी स कविनैव सहृदयैः श्रोतृभिः स्वाभिप्राये ऽभेदेन तत्तत्काव्यप्रतिबिम्बितरूपतया साक्षात्क्रियते ।
श्रोतृणामपि हि तथाविधस्वच्छशब्दानुभवद्रावितान्तरात्मनां सहृदयानां स्वाभिप्रायप्रतिमुद्रा तत्र संक्रामति ।
अतः कवेर्यो ऽसावभिप्रायस्तद्गोचरीकृता भूता भाविनो ऽपि पदार्थस्तत्र सहृदयैः श्रोतृभिः स्वाभिप्रायाभेदेन प्रत्यक्षा इव दृश्यन्ते ।
यथा चात्र शब्दगतमनाकुलत्वमनन्तरोक्तेन प्रकारेण हेतुस्तथार्थगतमपि चित्रोदात्तार्थोपनिबन्धहेतुकमत्यद्भुतत्वं द्रष्टव्यम् ।
तदुक्तं भाविकमुपक्रम्य भामहेन---"चित्रोदात्ताद्भुतार्थत्वं कथायां स्वभिनीतता ।
शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते"इति ॥
स्वभिनीततेत्यभिनयादिद्वारेण शृङ्गारादिरससंवलितत्वं चतुर्वर्गोपायस्योक्तम् ।
तदेवमेवंविधहेतुनिबन्धनं कविश्रोतृभावद्वितयसंमीलनात्मकं भाविकं द्रष्टव्यम् ।
अत एव चात्र कविसंबन्धिनो भावस्य श्रोतृभावाभेदाध्यवसितस्य पुरः--स्फुरद्रूपस्य विद्यमानत्वाद्भाविकव्यपदेशः भावो ऽस्मिन् विद्यते इति भाविकम् ।
तदाहुः---"रसोल्लासी कवेरात्मा स्वच्छे शब्दार्थदर्पणो ।
माधुर्यौजोयुतप्रौढे प्रतिविन्द्य प्रकाशते ।
संपीतस्वच्छशब्दार्थद्राविताभ्यन्तरस्ततः ।
श्रोता तत्साम्यतः पुष्टिं चतुर्वर्गे परां व्रजेत्"इति ।
स्वच्छ इति प्रसादगुणो ऽभिहितः ।
प्रौढ चतुर्वर्गे परां व्रजेत्"इति ।
स्वच्छ इति प्रसादगुणो ऽभिहितः ।
प्रौढ इति तु सालङ्कारता ।
संपीतौ सम्यगास्वादितौ ।
तत्साम्यत इति स्वभिप्रायाभेदेन कविगतस्याभिप्रायस्याध्यवसानादित्यर्थः ।
तस्योदाहरणम्----
करोषि पीडां प्रीतिं च निरञ्जनविलोचना ।
मूर्त्यानया समुद्वीक्ष्य नानाभरणशोभया ॥ उक्स्स्_6.*7 ॥
अत्राभरणोचितमूर्तित्वे ऽपि निरञ्जनविलोचनत्वोपलक्षितादाभरणत्यागात्पीडा ।
सहजसौन्दर्यनिर्भरत्वेन तु आभरणसंपाद्यायाः शोभायाः परिदृश्यमानत्वात्प्रीतिः ।
तेनात्र सांप्रतिकप्रध्वंसाभावोपलक्षितत्वाद्भूषणसंबन्धो व्यतितो ऽप्यद्भुतो यो ऽसौ वपुःप्रकर्षस्तद्वशेन प्रत्यत्र इव कविनोपनिबद्धः ।
तथैव चासौ सहृदयानां चमत्कारमावहति ।
संततमुत्कृष्टतया वैचित्र्येण ईक्षणीया आभरणशोभा यस्यामिति बहुव्रीहिः ।
काव्येहेतुः----
श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।
हेतुतां प्रतिपद्ये काव्यलिङ्गं तदुच्यते
यत्र एकं वस्तु श्रुतं सद्वस्त्वन्तरं स्मारयति अनुभावयति वा तत्र काव्यलिङ्गं नामालङ्कारः ।
पक्षधर्मत्वान्वयव्यतिरेकानुसरणगर्भतया यथा तार्किकप्रसिद्धा हेतवो लोकप्रसिद्धवस्तुविषयत्वेनोपनिबध्यमाना वैरस्यमावहन्ति न तथा काव्येहेतुः अतिशयेन सर्वेषां जनानां योसौ हृदयसंवादीसरसः पदार्थस्तन्निष्ठतया उपनिबध्यमानत्वात् ।
अतः काव्यलिङ्गमिति काव्यग्रहणमुपात्तम् ।
न खलु तच्छास्त्रलिङ्गं किं तर्हि काव्यलिङ्गमिति काव्यग्रहणेन प्रतिपाद्यते ।
ननु काव्यग्रहणेन कथं काव्यस्य सरसपदार्थनिष्ठतोपदर्श्यते ।
काव्यस्य सरसत्वात् ।
काव्यं खलु गुणसंस्कृतशब्दार्थशरीरत्वात् सरसमेव भवति, न तु नीरसम् ।
तथाहि---गुणाः काव्यस्य माधुर्यौजःप्रसादलक्षणाः ।
तत्र माधुर्यमाह्लादकत्वम्, ओजो गाढता, प्रसादस्त्वव्यवधानेन
रसाभिव्यक्त्यनुगुणता ।
तदेतेषां त्रयाणां गुणानां मध्यात्प्रसादस्य प्राधान्यम् ।
माधुर्यौजसोस्तु तत्तद्रसाभिव्यक्त्यानुगुण्येन तारतम्येनावस्थितयोः प्रसाद एव सोपयोगता ।
एवं च तत्र तद्रसानुगुण्येन माधुर्यौजोभ्यां तारतम्येनावस्थिताभ्यां उपकृतो यो ऽसौ प्रसादात्मा रसानामव्यवधानेन प्रतीतिहेतुर्गुणस्तदुपेतशब्दार्थशरीरत्वेन काव्यस्यावस्थानात्सरसतैव भवति, न तु नीरसता ।
यद्येवमिदानीं गुणैरेव कृतकृत्यत्वात्काव्यस्यालङ्काराणां तत्र निरुपयोगता प्राप्नोति ।
नैवं गुणाहितशोभे काव्ये अलङ्काराणां शोभातशयविधायित्वाल्लौकिकालङ्कारवत् ।
यथाहि लौकिकानामलङ्काराणां गुणसंस्कृते युवतिवपुषि निबध्यमानानामलङ्कारता एवं काव्यालङ्काराणामपि द्रष्टव्यम् ।
ननु निर्गुणे ऽपि काव्ये अलङ्काराणां गुणवच्छोभाविधायित्वं कस्मान्नेष्यते ।
अपरदृष्टत्वात् ।
न खलु निर्गुणे काव्ये निबध्यमानानामलङ्काराणां जरद्योषिदलङ्कारवच्छोभाविधायित्वं दृश्यते ।
तथाहि----
जरद्योषित्यलङ्कारां निबध्यमाना न तस्याः शोभां हीयते ।
तथाहि---जरद्योषित्यलङ्कारा निबध्यमाना न तस्याः शोभां कुर्वन्ति, प्रत्युत तस्यां निबध्यमानानां तेषामात्मीयमेव सौभाग्यं हीयते ।
तथा काव्यालङ्काराणामपि निर्गुणे काव्ये निबध्यमानानां काव्यशोभाहेतुत्वाभावः स्वशोभाहानिश्च भवति ।
यदवोचद्भट्टवामनः---"युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव ।
विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥
यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः ।
अपि जनदयतानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥
"इति ।
अङ्गशब्द इष्टामन्त्रणे ।
शुद्धगुणत्वात्स्वदमानं सदलङ्कारविकल्पकल्पनाभिर्विहितपरिचयमतिशयेन स्वदते इति संबन्धः ।
अत एवालङ्काराणआमनित्यता ।
गुणरहितं हि काव्यमकाव्यमेव भवति, न त्वलङ्काररहितम् ।
अलङ्काराणां गुणोरहितं हि काव्यमकाव्यमेव भवति, न तवलङ्काररहितम् ।
अलङ्काराणां गुणोपजनितशोभे काव्ये शोभातिशयविधायित्वात् ।
तदुक्तम्----
"काव्यशोभायाः कर्तारो धर्मा गुणाः ।
तदतिशयहेतवस्त्वलङ्काराः ।
पूर्वे नित्याः ।
"इति ।
पूर्वे इति गुणा इत्यर्थः ।
लक्ष्ये च अलङ्काररहितमपि केवलगुणसंस्क्रियमाणशब्दार्थशरीरं काव्यं दृश्यते, यथा अमरुकस्य कवेरनिबद्धशृङ्गाररसस्यन्दी श्लोकः---"कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पतमश्रुतम् ।
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः ॥
"इति ।
न खल्वत्रार्थलङ्कारः कश्चित्परिदृश्यते ।
अथ माधुर्यौजोभ्यां परिबृंहतस्य प्रसादस्य विद्यमानत्वात्काव्यरूपता ।
ननु चात्रापि ईर्ष्याविप्रलम्भविरहविप्रलम्भशृङ्गाराभ्यां स्वतिरोधानेनोपकृतः संभोगशृङ्गारो नायिकानिष्ठो निबद्धस्तद्योगाच्च रसवत्त्वमलं भविष्यति ।
तथाहि ऽकथमपि कृतप्रत्यापत्तौ प्रियेऽइत्यत्र भागे विरहविप्रलम्भपूर्वकः प्रियतमचित्तसांमुख्यात्मा संभोगशृङ्गारः सूचितः ।
स्स्वलितोत्तर इति तु संजातगोत्रस्खलितत्वात्प्रेयसो नायिकाया ईर्ष्याविप्रलम्भशृंगारो निबद्धः ।
पुनश्च विरहकृशयेत्यादिभिस्त्रिभिः पादैरवहित्थेन भावेन नायिकाधारमीर्ष्या विप्रलम्भशृङ्गारं प्रच्छाद्य संभोगशृङ्गारेण चित्तोल्लाससूचितेन वाक्यार्थसमाप्तिः कृता ।
तथा हि---विरहकृशेत्यादिना पादेन नायिकागतो मन्युरवच्छाद्योपदर्शितः ।
असहनसखीत्यादिना तु गोत्रस्खलितस्य सखीश्रोत्रप्राप्तिं विरहविप्रलम्भकारणत्वेनाशङ्क्य दृष्टिपरावृत्त्या सखीजनशून्ये गृहे परिदृष्टे यत्तन्नयकया समुल्लसितं तदुपनिबन्धात्संभोगशृङ्गारेण वाक्यार्थो निर्वाहितः ।
तदेवमत्र संभोगस्य वप्रलम्भवाधेन लब्धपदबन्धस्योपनिबन्धाद्रसवत्त्वमलङ्कारः ।
तत्कथमत्र निरलङ्कारतोक्ता ।
उच्यते ।
न खलु काव्यस्य रसानां वालङ्कार्यालङ्कारभावः, किन्तु आत्मशरीरभावः ।
रसा हि कावयस्यात्मत्वेन अवस्थिताः, शब्दार्थौ च शरीररूपतया ।
यथा ह्यात्माधिष्ठितं शरीरं जीवतीति व्यपदिश्यते तथा रसाधिष्ठितस्य काव्यस्य जीवद्रूपतया व्यपदेशः क्रियते ।
तस्माद्रसानां काव्यशरीरभूतशब्दार्थविषयतयात्मत्वेनावस्थानं, नत्वलङ्कारतया ।
रसाभिव्यक्तिश्च यथायोगं माधुर्यौजोभ्यां तारतम्येनावस्थिताभ्यामुपबृंहितो यो ऽसौ प्रसादात्मा गुणस्तेन क्रियते ।
अतो ऽत्र विप्रलम्भशृङ्गारोपकृतस्य संभोगशृङ्गारस्य सगुणकाव्यात्मत्वेनावस्थानं, न तु काव्यं प्रति अलङ्कारतयेति युक्तमिदमुक्तं निरलङ्कारमपि काव्यं सगुणं दृश्यते इति ।
एवं रसान्तरेषु भावेषु रसभावाभासेषु तत्प्रशमेषु च वाच्यम् ।
तदाहुः---"रसाद्यधिष्ठितं काव्यं जीवद्रूपतया यतः ।
कथ्यते तद्रसादीनां काव्यात्मत्वं व्यवस्थितम् ॥
"इति ।
यत्तु रसादीनां पूर्वमलङ्कारत्वमुक्तं तदेवंविधभेदाविवक्षया ।
तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्सरसमेव काव्यम् ।
यद्येवं गुणशून्यत्वान्नीरसे
व्याकरणादौ भरतादौ च काव्यव्यपदेशो न प्राप्तः ।
ततश्च "वृत्तदेवादिचरितशंसि चोत्पीद्यवस्तु च ।
कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥
"इति भामहोदितं विरुध्यते, अत्र हि कलाश्रयशब्देन भरताद्यभिहितम् ।
शास्त्राश्रयशब्देन च व्याकरणादि ।
अतो वक्तव्यमेतत्कथं तत्र काव्यव्यपदेशः इति ।
उच्यते ।
मुख्यया तावद्वृत्त्या गुणसंस्कृतशब्दार्थशरीरमेव काव्यम् ।
गुणरहितशब्दार्थशरीरे तु क्वायमात्रे काव्यशब्दस्य काव्यसादृश्यादुपचारात्प्रयोगो भविष्यति ।
उक्तं च---"काव्यशब्दो ऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्ते, भक्त्या तु शब्दार्थमात्रवचनो ऽत्र गृह्ते"इति ।
भक्त्येति उपचारेणेत्यर्थः ।
तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्काव्यस्य सरसत्वमिति ।
तद्विशिष्टं काव्यलिङ्गं
सरसपदार्थनिष्ठमेव भवतिष न तु नीरसवस्तुमात्रनिष्ठं शास्त्रलिङ्गवदित्युपपन्नम् ।
तार्किकाणां च हेतुव्यापारे द्वैविध्यम् ।
केचित्खलु तार्कका व्याप्तिग्रहणकाले यदनुभूतं व्यापकं वह्न्यादिवस्तु धूमादेर्व्याप्यस्य तत्स्मरणमात्रे धूमादिहेतुदर्शनप्रबुद्धसंस्काराणां पुरुषाणां हेतुव्यापारं मन्यन्ते ।
अपरे तु वह्न्यादीनां पर्वतादिधर्मविशेषसंबन्धस्य पूर्वमगृहीतस्य धूमादिहेतुव्यापारसामर्थ्येन इदानीमेव अवसेयत्वाल्लिङ्गसामर्थ्याल्लिङ्ग्यनुभवस्यैव उत्पत्तिमाहुः ।
तदिदमुक्तं स्मृतेरनुभवस्य वेति ।
तस्योदाहरणम्----
छायेयं तव शोषाङ्गकान्तेः किञ्चिदनुज्ज्वला ।
विभूषाघटनोद्देशान्दर्शयन्ती दुनोति माम् ॥ उक्स्स्_6.*8 ॥
अत्र विभूषणविन्यासास्पदभूता ये कण्ठादयस्तदवशिष्टानामङ्गानां यासौ कान्तिः दीप्तिः तस्या अनुज्ज्वला मलिना यासौ छाया शोभा सा लिङ्गं, तत्सामर्थ्याच्च भूषाविन्यासप्रदेशानां भूषणसंबन्धो ऽतीतो ऽनुमीयते ।
तेन तत्काव्यलिङ्गम् ॥
काव्यदृष्टान्तः---
इष्टस्यार्थस्य विस्पष्टप्रतिबिम्बनिदर्शनम् ।
यथेवादिपदैः सून्यं बुधैर्दृष्टान्त उच्यते
मूल पाठ: Kāvyālaṃkārasārasaṃgraha with Indurāja's Laghuvṛtti commentary · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0