भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसारसंग्रह · अध्याय 4

4.1

भृगबालादेः स्वसमुचिते व्यापारे प्रवृत्तस्य ये हेवाकाः स्वजात्यानुरूप्येणाभिनिवेशविशेषास्तदुपनिबन्धः स्वभावोक्तिः ।
तस्याश्चालङ्कारत्वमसाधारणपदार्थस्वरूपध्वननात् ।
तस्या उदाहरणम्-----
क्षणं नंष्ट्वार्धवलितः शृङ्गेणाग्रे क्षणं नुदन् ।
लोलीकरोति प्रणयादिमामेष मृगार्भकः ॥ उक्स्स्_3.*4 ॥
नंष्ट्वंति ।
ऽजान्तनशां विभाषाऽइत्यनुनासिकलोपस्य विकल्पितत्वादप्रवृत्तिः ।
अत्र मृगपोतकस्य मातरमिव वत्सलां भगवतीं प्रणयनिर्भरेण चेरसा व्याकुलीकुर्वतः स्वभावो निबद्धः क्षणमपरिदृश्यमानत्वमर्धकायेन परिवृत्तिः शृङ्गेण च नोदनमित्येवमात्मा ॥
इति श्रीमहाप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुविवृत्तौ तृतीयो वर्गः ॥
4
अथ चतुर्थो वर्गः ।
प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितम् ।
द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः

4.2

प्रेयोरसवदिति समुदायान्मतुप् ।
श्लिष्टमिति ।
तथा उदात्तवद्द्वविधं श्लिष्टमित्यर्थः ।
विप्रतिपत्तिनिरासार्थं चात्र श्लिष्टस्य द्वैविध्यमुक्तम् ।
भामहो हि "तत्सहोक्त्युपमाहेतुनिर्देशात्र्रिविधं यथा"इति श्लिष्टस्य त्रैविध्यमाह ।
अतो विप्रतिपत्तिनिरासाय तथेत्युक्तम् ।
उदात्ते तु द्विधेत्ययमनुवादो दृष्टान्तत्वार्थः ।
यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्नत्वादङ्गीकृतं तथा श्लिष्टस्यापि तदङ्गीकर्तव्यमित्यर्थः ॥
प्रेयस्वत् तावत्----
रत्यादिकानां भावानामनुभावादिसूचनैः ।
यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम्

4.3

रत्यादयो भावास्त्रिविधाः स्थायिनो व्यभिचारिणः सात्विकाश्च ।
तत्र"रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयसमाः स्थायिभावाः प्रकीर्तिताः ॥
निर्वेदगलानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥
व्रीडा चपलत हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
सुप्तं विबोधो ऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव ।
च ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावाः ॥
स्तम्भः स्वेदो ऽथ रोमाञ्चः स्वरभेदो ऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः" ॥
एतेषां पञ्चाशत्संख्यानां भावानां सूचकाश्चत्वारो ऽनुभावादयः ।
ते चानुभावो विभावो व्यभिचारी स्वशब्दश्च ।
तत्रानुभावश्चतुर्विधः ।
आङ्गिको वाचिकः सात्त्विक आहार्यश्च ।
आङ्गिको हस्ताभिनयादिः ।
वाचिकः काक्वादिप्रयोगः ।
सात्विकः स्तम्भादिः ।
आहार्यस्तु प्रतिशीर्षकञ्चुकादिः ।
एवमयमनुभावश्चतुःसंख्यः कार्यत्वात्कारणभूतान्मभावान् गमयति ॥
विभावस्तु द्विविधः ।
आलम्बनोद्दीपनरूपत्वात् ।
तत्रालम्वनविभावो यदाश्रयेण रत्यादीनामुदयः, यथा रामादेः सीतादिः ।
उद्दीपनविभावस्तु यद्वशेन रत्यादीनां भावानामतिशयेन दीप्तता भवति, यथा ऋतुमाल्यानुलेपनादिः ।
एवमेष द्विविधो विभावो रत्यादीनां कारणभूतः ।
स च कारणत्वात्कार्यभूतान् रत्यादीन्
गमयति यथातिबहलनीलजलदोदयो वृष्टिम् ।
यथा हि कार्यस्य सुविवेचितस्य कारणं प्रत्यव्यभिचारिता एवं कारणस्यापि सुविवेचितस्य कार्यं प्रत्यव्यभिचारिता व्यवहारे बाहुल्येन दृश्यते ।
अतो विभावः कारणत्वात् रत्यादीन्कार्यभूतान् गमयति ।
व्यभिचारी तु रत्यादिकानां स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः ।
स च सहचारित्वात् स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः ।
स च सहचारित्वात् स्थायिनो भावान्प्रतपादयति रथस्यैकमिव चक्रं चक्रान्तरम् ।
स्वशब्दस्तु रत्यादिः ।
स च वाचकत्वाद्भावान् गमयति ।
रत्यादीनां च शब्दानां यद्यप्यनुभावैकगोचरस्वलक्षणस्वभावरत्याद्यवगतिनिबन्धनत्वं नोपलभ्यते, तथाप्यंशेन रत्याद्यवगतिनिबन्धनत्वमनुभावादिवद्विद्यत एव ।
यथा खल्वनुभावादयो न स्वलक्षणतया भावानवगमयन्ति अपितु सामान्यरूपतया तद्वत्स्वशब्दा अपीत्यास्ताम् ।
एवमेते भावानामवगतिहेतवश्चात्वारः ।
यदुक्तं भट्टोद्भटेन "चतूरूपा भावा"इति ।
तदेषां रत्यादिकानां भावानां पञ्चाशत्संख्यानां यान्यनुभावादिभिश्चतुःसंख्यैः समस्तत्वेन व्यस्तत्वेन च यथायोगं सूचनानि स्वलक्षणस्वरूपाणां सामान्यावस्थापादितानां प्रतिपादनानि तैः काव्यमुपनिबध्यमानं प्रेयस्वत् ।
प्रेयःशब्दवाच्येन प्रियतरेण रत्यालम्बनेन विभावनेन रतिरुपलक्ष्यते ।
तया च साहचर्याद्रत्यादयो भावाः पञ्चाशदवगम्यन्ते ।
एवं च भावकाव्यस्य प्रेयस्वदिति लक्षणया व्यपदेशः ।
अत्र च भावानामलङ्कारता, काव्यमलङ्कार्यम् ।
तस्योदाहरणम्----
इयं च सुतवात्सल्यान्निर्विशेषा स्पृहावती ।
उल्लापयितुमारब्धा कृत्वेमं क्रोड आत्मनः ॥ उक्स्स्_4.*1 ॥
आत्मनः क्रोडे कृत्वेति संबन्धः ।
अत्रात्मनो वक्षसि निधानमाङ्गीको ऽभिनयः, उल्लापनं सान्त्वनं वाचिकः ।
इममिति इदंशब्देन परामृष्टो यो मृगार्भकः स आलम्बनविभावः ।
वात्सल्योन्मीलितश्चौत्सुक्यात्मा व्यभिचारीभावः ।
सुतवाल्लभ्यनिर्विशेषत्वेन हि स्पृहाया
रतेरौत्सुक्यभेदाभिसंबन्धः प्रतीयते ।
स्वशब्दस्तु स्पृहेति ।
एवमयं रत्यात्मको भावो वात्सल्यस्वभावश्चतुर्भिरनुभावादिभिरत्रावगमितः ।
अन्येष्वपि भावेष्वेवमुदाहार्यम् ।
रसवत्---
रसवद्दर्शितस्पष्टशृङ्गारादिरसादयम् ।
स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम्

4.4

शृङ्गारहास्यकरणरौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः

4.5

एते च शृङ्गारादयो नव यथायोगं चतुर्वर्गप्राप्त्युपायतया तदितरपरिहारनिबन्धनतय च रत्यादीनां स्थायिनां नवानां भावानां यः परिपोषस्तदात्मकाः ।
अतस्तथाविधेन रूपेणास्वाद्यत्वादास्वादभेदनिबन्धनेन तान्त्रिकेण रसशब्देनाभिधीयन्ते ।
निर्वेदादौ तु तथाविधस्यास्वाद्यस्याभावात्प्रवृत्तिनिमित्तभेदनिबन्धनस्य तान्त्रिकस्य रसशब्दस्याप्रवृत्तिः ।
आस्वाद्यत्वमात्रविवक्षया तु तत्रापि मधुराम्लादिवद्रसशब्दप्रवृत्तिरविरुद्धा ।
यदुक्तं शृङ्गारादीन् रसाननुक्रम्य---"रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः ।
निर्वेदादिष्वपि तत्प्रकाममस्तीति ते ऽपि रसाः"इति ॥
तदाहुः----
चतुर्वर्गेतरौ प्राप्य परिहार्यौ क्रमाद्यतः ।
चैतन्यभेदादस्वाद्यात्स रसस्तादृशो मतः ॥
इति
स इति ।
चैतन्यभेद इत्यर्थः ।
तादृश इत्यनेन आस्वादविशेषनिबन्धनत्वं शृङ्गरादिषु तान्त्रिकस्य रसशब्दस्योक्तम् ।
एषां च शृङ्गारादीनां नवानां रसानां स्वशब्दादिभिः पञ्चभिरवगतिर्भवति ।
यदुक्तं भट्टोद्भटेन--"पञ्चरूपा रसा"इति ।
तत्र स्वशब्दाः शृङ्गारादेर्वाचकाः शृङ्गारादयः शब्दाः ।
स्थायिनो रसानामुपादानकारणप्रख्या रत्यादयो नव भावाः ।
संचारिणस्तु निर्वेदादयो रसानामवस्थाविशेषरूपाः ।
विभावास्तु तेषां निमित्तकारणभूता योषिदादयः ऋतुमाल्यानुलेपनादयश्च ।
आङ्गिकादयस्तु चत्वारो रसानां कार्यभूता अभिनयाः ।
एतेषां च स्वशब्दादीनां पञ्चानां समस्तव्यस्ततया आस्पदत्वाद्येन काव्येन स्फुटरूपतया शृङ्गारादिरसाविर्भावो दर्श्यते तत्काव्यं रसवत् ।
रसाः खलु तस्यालङ्काराः ।
तस्योदाहरणम्----
इति भावयतस्तस्य समस्तान्पार्वतीगुणान् ।
संभृतानल्पसंकल्पः कन्दर्पः प्रबलो ऽभवत् ॥ उक्स्स्_4.*2 ॥
स्विद्यतापि स गात्रेण बभार पुलकोत्करम् ।
कदम्बकलिकाकोशकेसरप्रकरोपमम् ॥ उक्स्स्_4.*3 ॥
क्षणमौत्सुक्यगर्भिण्या चिन्तानिश्चलया क्षणम् ।
क्षणं प्रमोदालसया दृशास्यास्यमभूष्यत ॥ उक्स्स्_4.*4 ॥
कदम्बकलिकाकोशः कदम्बकलिकाभ्यन्तरम् ।
अत्र भगवत आभिलाषिकविप्रलम्भशृङ्गारो निबद्धः ।
तस्य स्वशब्दः ऽकन्दर्पः प्रबलऽइति ।
स्थायी तत्रैव स्वशब्देनोन्मीलितः कन्दर्प इति ।
रतिपरिपोषात्मको हि शृङ्गारो रसः ।
रतिश्च यूनां मन्मथात्मिका ।
अतो रतिविशेषस्य वाचकत्वात्कन्दर्पशब्दः स्थायिनो ऽत्र स्वशब्दः ।
संचारिणश्चौत्सुक्यचिन्ताहर्षाः स्वशब्देनोन्मीलिताः. स्वेदरोमाञ्चौ च सात्विकौ स्वशब्दोपात्तौ ।
तयोरपि च संचारित्वम् ।
सात्विकानां स्थायिभावावस्थाविशेषत्वेन निर्वेदादिवत्संचारित्वात् ।
विभावस्तु ऽइति भावयतस्तस्यऽइति निर्दिष्टः ।
भगवती हि तत्तद्गुणोपेतत्वेन विभाव्यमाना विभावः ।
अभिनयस्त्वत्रापाङ्गाभिनयो निर्दिष्टो ऽदृशाऽइति ।
अतो ऽत्राभिलाषिकः शृङ्गाररसः स्वशब्दादिभिः पञ्चभिरभिव्यज्यते ।
एवमन्ये ऽपि रसा उदाहार्याः ।
रसानां भावानां च काव्यशोभातिशयहेतुत्वात् किं काव्यालङ्कारत्वमुत काव्यजीवितत्वमिति न
तावद्विचार्यते ग्रन्थगौरवभयात् ।
रसभावस्वरूपं चात्र न विवेचितमप्रकृतत्वाद्बहुवक्तव्यत्वाच्च ॥
ऊर्जस्वि-----
अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।
भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते

4.6

क्वचित्खलु रसभावानां शास्त्रसंविदविरुद्धेन रूपेणोपनिबन्धः क्रियते, क्वचित्तु तद्विरुद्धेन ।
तत्र यत्र शास्त्रसंविदविरुद्धेन रूपेण तेषामुपनिबन्धस्तत्र प्रेयो ऽलङ्कारो रसवदलङ्कारश्चाभिहितः ।
यत्र तु तद्विरुद्धत्वं तन्मूलकलोकव्यवहारविरुद्धत्वं च तद्विषयाणां रसभावनामुपनिबन्धे सत्यूर्जस्विकाव्यं भवति ।
तत्र हि रागद्वेषमोहकारणका अनौचित्येन रसभावा उपनिबध्यन्ते ।
अत एव तत्र स्वकल्पनापरिकल्पितत्वेन ऊर्जसो बलस्य विद्यामानत्वादूर्जखिव्यपदेशः ।
ऽज्योत्स्नातमिस्रेऽत्यत्र उर्जस्विशब्दः (पा. अ. 5 । 2 । 114) ॥
तस्योदाहरणम् ।
तथा कामो ऽस्य ववृधे यथा हिमगिरेः सुताम् ।
संग्रहीतुं प्रववृते हठेनोपास्य सत्यथम् ॥ उक्स्स्_4.*5 ॥
अत्र सकललोकातिशायिनो भगवतो ऽकृतविवाहकमारीविषयतया हठसंग्रहः शास्त्रसंविद्विरुद्धः प्रवृद्धरागकारणकु उपनिबद्धः ।
तेन ऊर्जस्तिता ।
तत्र कामो ववृधे इत्ययं शृङ्गारस्य स्वशब्दः ।
तस्य रतिपरिपोषात्मकत्वेन कामवृद्धिस्वभावत्वात् कामशब्दस्त्वेतदन्तर्गतः ।
शृङ्गारस्य यासौ स्थायिभूता रतिस्तस्याः स्वशब्दः हिमगिरेः सुतामित्यालम्बनविभावः ।
हठेनेत्यनेनावेगलक्षणो व्यभिचारीभावः प्रतिपादितः ।
अपास्य सत्पथमिति तु मोगः, संग्रहीतुं प्रवृत्त इति आङ्गको ऽनुभावः ।
एवमयमत्र पञ्चभिः स्वशब्दादिभिरुर्जस्विलक्षणः शृङ्गारः सूचितः ।
एवमन्येष्वपि रसभावेषूर्जस्वि उदाहार्यम् ।
पर्यायोक्तम्----
पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।
वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना

4.7

वाचकस्याभिधायकस्य स्वशब्दस्य वृत्तिर्व्यापारो वाच्यार्थप्रत्यायनम् ।
वाच्यस्य त्वभिधेयस्य व्यापारो वाच्यान्तरेण सहाकाङ्क्षासंनिधियोग्यतामाहात्म्यात्संसर्गगमनम् ।
एवंविधश्च यो वाच्यवाचकयोर्व्यापारस्तमन्तरेणापि प्रकारान्तरेणार्थसामर्थ्यात्मनावगमस्वभावेन यदवगम्यते तत्पर्यायेण स्वकण्ठानभिहितमपि सान्तरेण शब्दव्यापारेणावगम्यमानत्वात् पर्यायोक्तं वस्तु ।
तेन च स्वसंश्लेषवशेन काव्यार्थो ऽलङ्कियते ।
तस्योदाहरणम्----
येन लम्बालकः सास्रः करघातारुणस्तनः ।
अकारि भग्नवलयो गजासुरवधूजनः ॥ उक्स्स्_4.*6 ॥
सो ऽप येन कृतः प्लुष्टदेहेनाप्येवमाकुलः ।
नमो ऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ उक्स्स्_4.*7 ॥
अत्र लम्बालकत्वादयः कार्यरूपत्वात् कारणभूतं गजासुरवधं वाच्यवाचकव्यापारास्पृष्टमपि गमयन्ति ।
तेन च तथाविधया विच्छित्त्या अवगम्यमानेनार्थेन ते लम्बालकत्वादयोर्ऽथा अलङ्कियन्ते ।
तस्मात्पर्यायोक्तमलङ्कारः ॥
समाहितम्-----
रसभावतदाभासवृत्तेः प्रशमबन्धनम् ।
अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम्

4.8

इह रसभावानां शास्त्रसमयाविरुद्धेन तद्विरुद्धेन च रूपेण द्वैविध्यमुक्तम् ।
तत्र ये शास्त्रसमयाविरुद्धा रसभावाः ते रसभावशब्देनात्र
विवक्षिताः ।
तद्विरुद्धास्तु तदाभासाः ।
तेषां रसभावानां तदाभासानां च या वृत्तिः स्वाश्रयसंबन्धात्मिका तस्याः प्रशमे निबध्यमाने समाहितालङ्कारो भवति ।
तत्र हि तेषां रसभावानां समाधानं समाधिः परिहारो भवति ।
समाहितमिति भावे क्तः ।
ननु यदि तस्मिन्काव्ये रसादीनां वृत्तिः परिह्नियते, एवं सति पूर्वरसादिनिवृत्त्या रसाद्यन्तरोपनिबन्धाद्रसवदाद्यलङ्कारानुप्रवेशः प्रसक्त इत्याशङ्क्योक्तं---अन्यानुभावनिःशून्यरूपमिति ।
अन्यस्य रसाद्यन्तरस्य ये ऽनुभावादयः तैर्निःशेषेण शून्यं रूपं यस्य तत्तथोक्तम् ।
यत्र पूर्वेषां रसादीनां वासनाया दार्ढ्येन तेषूपशान्तेष्वपि रसाद्यन्तराणां न स्वरूपमाविर्भवति, आविर्भवदपि वा कार्यवशेन केनचित्तिरोधीयते, तत्र समाहितालङ्कारो भवति ।
तस्योदाहरणम्----
अथ कान्तां दृशं दृष्ट्वा विभ्रमाच्च भ्रमं भ्रूवोः ।
प्रसन्नं मुखरागं च रोमाञ्चस्वेदसंकुलम् ॥ उक्स्स्_4.*8 ॥
स्मरज्वरप्रदीप्तानि सर्वाङ्गानि समादधत् ।
उपासर्पद्गिरिसुतां गिरिशः स्वस्तिपूर्वकम् ॥ उक्स्स्_4.*9 ॥
समादधन्निजे रूपे ऽवस्थापयन् ।
समादधदित्यभ्यस्तत्वान्नुमो ऽप्रवृत्तिः ।
अत्र भगवता शृङ्गारस्य ये ऽनुभावाः कान्तदृष्ट्यादयस्तेषामवहित्थेन आकारप्रच्छादनात्मकेन भावेन तिरोधानं विहितम् ।
यदुक्तं---स्वस्तिपूर्वकमिति ।
अनेन ह्याकारतिरोधानमुपदर्शितम् ।
उदात्तम्---
उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम् ।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्

4.9

ऋद्धिः सुवर्णादिधनसंपत्तिः ।
तद्युक्तं वस्तूदात्तम् ।
तेन च काव्यार्थो ऽलंक्रियते ।
तस्योदाहरणम्----
उवाच च यतः क्रोडे वेणुकुञ्जरजन्मभिः ।
मुक्ताफलैरलङ्कारः शबरीणामपीच्छया ॥ उक्स्स्_4.*10 ॥
पृष्ट्येन्द्रनीलवैडूर्यपद्मरागमयैर्वियत् ।
शिरोभिरुल्लिस्वद्यत्र शिखरं गन्धमादनम् ॥ उक्स्स्_4.*11 ॥
उत्तरोपत्यका यस्य प्रधानस्वर्णभूमयः ।
महान्मरकतोर्विन्ध्रः पादोपान्तं च संश्रितः ॥ उक्स्स्_4.*12 ॥
बभूव यस्य पातालपातिन्यां संक्षये क्षितौ ।
पतनं न तया सार्धमायामस्तु प्रकट्यभूत् ॥ उक्स्स्_4.*13 ॥
यस्य एवंविधरूपता हिमार्द्रेर्भवती सुतेति संबन्धः ।
क्रोडः सूकरः ।
पुष्ट्यो मणिविशेषः ।
गन्धमादनं पर्वतविशेषः ।
उपत्यकाः पर्वताधारवर्तिनो भूमिभागाः ।
प्रधानं स्वर्णं कार्तस्वरादि ।
अर्विन्ध्रः पर्वतः ।
संक्षयः
कल्पान्तः ।
भूमेरधोगमनाद्भूम्याश्लिष्टस्य प्रदेशस्य भूमिविविक्तत्वाद्धिमवतः कल्पान्ते आयामः प्रकटीभूतः ।
अत्र रत्नादिसंभारो निबद्धः ।
तेनेदमुदात्तम् ।
तस्य चालङ्कारत्वं लोकातिशायिरत्नादिकार्यध्वननात् ।
एवमेतदृद्धिमद्वस्तुनिबन्धनेनैकमुदात्तमुक्तम् ।
न केवलमृद्धिमद्वस्तूदात्तं यावदर्थप्राप्तावनर्थपरिहारे चोद्यतानां विपुलाशयानां चेष्टितमपि, तदुक्तम्----
चरितं च महात्मनामिति ।
न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य शृङ्गारादिरसप्रतिपत्तिहेतुत्वाद्रसवदलङ्कारानुप्रवेशो ऽत्र सुभणः ।
विपुलाशयचेष्टतस्यात्र वस्त्वन्तरोपलक्षणत्वेनावान्तरवाक्यार्थीभूतत्वात् ।
न खल्पत्र महापुरुषचेष्टितं वाक्यतात्पर्यगोचरतामनुभवति ।
अरथान्तरोपलक्षणपरत्वात् ।
यत्र च रसास्तात्प्रयेणाव गम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चतुर्वर्गतदितरप्राप्तिपरिहारोपायभूतस्थायिभावपरिपोषात्मनास्वाद्यमानत्वाद्रसवदलङ्कारो
भवति ।
तेन कुतो ऽत्र रसवदलङ्कारगन्धो ऽपि ।
तदुक्तम्---उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतमिति ।
तस्योदाहरणम्-----
तस्यादिक्रोडपीनांसनिघर्षे ऽपि पुनः पुनः ।
निष्कम्पसय स्थितवतो हिमार्द्रर्भवती सुता ॥ उक्स्स्_4.*14 ॥
अत्र हिमवतः स्थैर्ये वाक्यार्थीभूते भगवतो वराहवपुषस्त्रैलोक्योद्धरणोद्युक्तस्य चेष्टितं वीररसप्रतिपत्तिहेतुभूतमवान्तरवाक्यार्थत्वादुपलक्षणीभूतम् ।
आदिक्रोड आदिवराहः ।
एवं रसान्तरेष्वप्युपलक्षणीभूतेषूदाहार्यम् ॥
श्लिष्टम्-----
एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् ।
स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते

4.10

अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः ।
द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम्

मूल पाठ: Kāvyālaṃkārasārasaṃgraha with Indurāja's Laghuvṛtti commentary · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc