काव्यालंकारसारसंग्रह · अध्याय 3
यद्वचनं किंचित्कारणमाश्रित्य लोकातिक्रान्तगोचरमुपनिबध्यते सातिशयोक्तिः ।
तस्याश्च चत्वारो भेदाः यत्र भेदे अन्यत्वे अनन्यत्वमैक्यं स एकः ।
अन्यत्राभेदे ऐक्ये नानात्वं भेदो यत्र स द्वितीयः ।
तथा बहिरविद्यमानस्यार्थस्य संभावनामात्रेणोपनिबन्धे तृतयः ।
कार्यकारणयोस्तु कार्यस्य शीघ्रमेवोत्पादात्पौर्वापर्यविपर्ययेण चतुर्थो भेदः ।
तत्राद्यसय भेदस्योदाहरणम्----
तपस्तेजःस्फुरितया निजलावण्यसंपदा ।
कृशामप्यकृशामेव दृश्यमानामसंशयम् ॥ उक्स्स्_2.*13 ॥
अत्र यासावकार्श्यावस्था भगवत्याः पूर्वमभूत्ततो भिन्नमपि तपोजनितं कार्श्यं तदभेदेनोपनिबद्धमकृशामेवेति ।
तत्र च निमित्तं तपस्तेजसा सविशेषत्वमापादितः सौन्दर्यसंभारः ।
अतो निमित्तवशेन लोकातिक्रान्तो गोचरो ऽस्य वाक्यस्य ।
तेनेयमतशयोक्तिः ।
द्वितीयस्य तु भेदस्योदाहरणम्----
अचिन्तयच्च भगवानहो नु रमणीयता ।
तपसास्याः कृतान्यत्वं कौमाराद्येन लक्ष्यते ॥ उक्स्स्_2.*14 ॥
अत्र भगवती कुमारीभावे ऽपि वर्तमाना तदुत्तरकालभाविनी यासौयौवनावस्था तद्युक्तत्वेनोपनिबद्धा कौमारादन्यत्वमिति ।
निमित्तं चात्र तपोजनिता रमणीयता ।
तेनायमभेदे भेदोपनिबन्धः ।
तृतीयस्य पुनर्भेदस्योदाहरणम्----
पतेद्यदि शशिद्योतच्छटा पद्मे विकाशिनि ।
मुक्ताफलाक्षमालायाः करे ऽस्याः स्यात्तदोपमा ॥ उक्स्स्_2.*15 ॥
शशिद्योतच्छटा चन्द्रप्रकाशप्रकारः ।
अस्याः करे मुक्ताफलाक्षमालायास्तदा उपमा स्यादिति संबन्धः ।
अत्र रजनिकरकरसंपर्के सति कमलस्य संकोचावलोकनाद्विकाशित्वं बहिरसंभवदपि कविप्रजापतिना प्रतिभोपजनितेन स्वव्यापारेण संभवद्रूपतया प्रदर्शितम् ।
अतो ऽत्र संभाव्यमानार्थनिबन्धः ।
तस्य च लोकातिक्रान्तगोचरस्यार्थस्य संभावनाया निमित्तं भगवतीकराधारतया मुक्ताफलाक्षमालावलोकनम् ।
तथाहि-अयं तावल्लोकातिक्रान्तो ऽपरिदृष्टपूर्वो ऽस्माभिः गौरीकरमुक्ताफलाक्षमालयोराधाराधेयभावो ऽवलोकितः ।
तत्सजातीयस्य पद्मस्य विकाशिनश्चन्द्रकराणां च यद्याधाराधेयभावः स्यात्तदात्रोपमानोपमेयभावो भवेदिति संभावना प्रवृत्ता ।
अतो ऽत्र सजातीयपदार्थदर्शनाद्बहरसंभवदपि वस्तु संभवद्रूपतयोपवर्ण्यते ।
एकस्मिन् खलु पदार्थे परिदृष्टे अन्यस्मिन्ननवलोकिते ऽपि तत्सजातीयसंभावना प्रवर्तते ।
यथा दाक्षिणात्यस्यैकस्मिन्नुष्ट्रे परिदृष्टे सत्यपरिदृष्टोष्ट्रान्तरसंभावना ।
अतो ऽत्र संभावना सनिमित्ता ।
अनेन च प्रकारेणात्रोपमानाभावः प्रकृतस्य वस्तुनः प्रदर्श्यते नास्त्यन्यत्किंचिदस्योपमानमिति ।
अत एव संभाव्यमानतयार्थस्योपनिबद्धस्य निराचिकीर्षया यदिशब्दः प्रयुक्तः ।
यदिशब्देन ह्यत्राशङ्का द्योत्यते ।
आशङ्का चानिश्चितसद्भावे वस्तुनि भवति ।
यच्चानिश्चितसद्भावं कविवेधसा संभवद्रूपतयोपदर्शितं वस्तु तस्य पुराणप्रजापतिनिर्मितपदार्थविषयाया तद्विरुद्धया लोकप्रतीत्या यान्निराक्रियमाणत्वं तावन्निरुपमत्वं प्रतीयते ।
एवमयं तृतीयो भेदः ।
चतुर्थस्तु----
मन्ये च निपतन्त्यस्याः कटाक्षा दिक्षु पृष्ठतः ।
प्रायेणाग्रे तु गच्छन्ति स्मरबाणपरम्पराः ॥ उक्स्स्_2.*16 ॥
अत्र दिक्षु कटाक्षपातः कारणम् ।
स्मरबाणपरम्परागमनं तु कार्यम् ।
कार्यकारणयोस्तु कारणस्य नैसर्गिकं प्राग्भावित्वं कार्यस्य तु पश्चाद्भावित्वम् ।
इह तु विपर्ययः ।
कार्यस्य प्राग्भावेनोपनिबन्धनात् ।
पश्चाद्भावितत्वेन च कारणस्य कटाक्षा दिक्षु पृष्ठतः पश्चात् पतन्ति अग्रे स्मरबाणपरम्परा गच्छन्तीति अत्र निमित्तं (अनु) कार्यस्य शीघ्रमेवोत्पादः ।
तेनेदं निमित्ततो लोकातिक्रान्तगोचरं वचनम् ।
अतो ऽतशयोक्तिः ॥
इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ द्वितीयो वर्गः ॥
3
अथ तृतीयो वर्गः ।
यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च ।
अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ
यथासंख्यम्----
भूयसामुपदिष्टानामर्थानामसधर्मणाम् ।
क्रमशो यो ऽनुनिर्देशो यथासंख्यं तदुच्यते
पूर्वमुद्दिष्टानामर्थानां यदा क्रमेणार्थान्तराण्यनुनिर्दिश्यन्ते तदा यथासंख्याख्यो ऽलङ्कारः ।
तत्र हि संख्योपलक्षितक्रमानतिक्रमेण शब्देनानुपात्तो ऽपि पदार्थानामन्वयः समाश्रीयते ।
अतो यथाक्रमं पदार्थानामन्वयध्वननादेतस्यालङ्कारस्य यथासंख्यता ।
स चालङ्कारो बहूनामल्पशो ऽप्युपनिबध्यमानो यतः शोभाबद्धो भवति अतो भूयसामित्युक्तम् ।
द्वयोर्हि तस्योपनिबध्यमानस्य यावच्चतुर्गुणत्वादिरूपतयोपनिबन्धो न कृतः तावच्छोभोपेतत्वं न भवति ।
भूयसां पुनरर्थानां तद्यथासंख्यमल्पेनैव प्रयासेनरम्यं भवति ।
तत्र हि तस्य द्विगुणस्य त्रिगुणस्य वोपनिबन्धे शोभातिशयो जायते ।
तदुक्तम्---
तद्द्विगुणं त्रिगुणं वा बहुषूद्दिष्टेषु जायते रम्यम् ।
यत्तेषु पथैव ततो द्वयोस्तु बहूशो निबध्नीयात् ॥
इति ।
ननु "मृणालहंसे"त्यादावुपवर्णयिष्यमाणे उदाहरणे मृणालादिभ्य उपमानेभ्यो बाह्वादीनामुपमेयानां विशेषख्यापनाद्य्वतिरेकालङ्कारेण सहृदयहृदयाण्यावर्ज्यन्ते, न तु यथासंख्येन ।
तत्कथं यथासंख्यमलङ्कार इत्याशङ्क्योक्तम्--"असधर्मणामिति" ।
यत्रापि हि साधर्म्यभावादुपमानोपमेयभावाभावेन व्यतिरेकादेरुपनिबन्धाभावस्तत्राप्ययं शोभातिशयमावहतीत्यर्थः ।
यथा----
कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं नः ।
जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु ॥
इति ।
अत्र हि हरिप्रभृतीनां त्रयाणामुद्दिष्टानां कज्जलरुक्त्वसुपर्णवाहनत्वजलनिधिस्थत्वादयो धर्माः क्रमेणानुनिर्दिष्टाः ।
न च तत्र परस्परसाधर्म्यं विद्यते ।
अथ च क्रमपर्यालोचनया अर्थानामानुरूप्येण समन्वयप्रतीतेः शोभातिशयो विद्यते ।
तेनास्य साधर्म्याद्यभावे ऽपि पृथगलङ्कारताप्रतिलम्भाद्यत्र साधर्म्यादि विद्यते तत्राप्यलङ्कारत्वं दुर्निवारम् ।
अतो "मृणालहंसे"त्यादिके उदाहरणे यथासंख्यमङ्गभूतं व्यतिरेकालङ्कारस्य द्रष्टव्यम् ।
तेनायमङ्गाङ्गिभावे सङ्करः ।
यद्वक्ष्यति "परस्परोपकारेण यत्रालङ्कृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सो ऽप सङ्करः" ॥
इति ।
अतो यथासंख्यं पृथगलङ्कारत्वेनोपदेष्टव्यम् ।
तस्योदाहरणम्-----
मृणालहंसपद्मानि बाहुचङ्क्रमणाननैः ।
निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः ॥ उक्स्स्_3.*1 ॥
अत्र बाहुचङ्क्रमणाननानामुद्दिष्टानां यथाक्रमं मृणालहंसपद्मान्यनुनिर्दिष्टानि ।
तद्वशेन च शब्दानुपात्तस्यापि तदन्वयस्य गर्भीकृतत्वेन वक्रभणितिसद्भावाद्यथासंख्यमलङ्कारः ॥
उत्प्रेक्षा---
साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः ।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता
यत्रेवादिपदनिबन्धः साम्यस्य च रूपं न विवक्ष्यते तत्रोत्प्रेक्षाख्यो ऽलङ्कारः ।
नन्वेवं सत्यसंभवो नाम लक्षणदोषः प्राप्तः ।
द्योत्यस्योपमानोपमेयभावस्याभावे सति इवादीनामप्रयोगप्रसङ्गादित्याशङ्क्योक्तं "अतद्गुणक्रियायोगादि"ति ।
द्रव्यधर्मः सिद्धो गुणः ।
साध्यस्वभावस्तु क्रिया ।
इदं खलु विश्वं
स्वतन्त्रपरतन्त्रपदार्थात्मकत्वाद्द्वविधम् ।
यश्च स्वतन्त्रः पदार्थः स धर्मीत्यभिधीयते ।
तच्च इदं तदिति सर्वनामप्रत्यवमर्शयोग्यत्वाद्द्रव्यम् ।
परतन्त्रस्य पदार्थस्य धर्मरूपता ।
तस्य च द्वैविध्यम् ।
सिद्धसाध्यताभेदात् ।
तत्र यः सिद्धो धर्मः स गुणः ।
यस्तु साध्यः सा क्रिया ।
एतावन्तश्च लौकिकाः पदार्थाः ।
सामान्यादीनामत्रैव प्रतीतिकेन रूपेणान्तर्भूतत्वात् ।
अत्र असौप्रकृतो योर्ऽथस्तस्य ये क्रियागुणा अनन्तरोक्तलक्षणास्तद्योगात्साम्यरूपाविवक्षायामपि इवादिशब्दप्रवृत्तिरवरद्धा ।
यत्र किलोपमानोपमेयभावेन साम्यं तत्रोपमानसादृश्यादुपमानवर्तिनां क्रियागुणानां उपमेयप्रतीतिर्भवति ।
उत्प्रेक्षायामपि च यो ऽसावसः अप्रकृतस्तस्य ये क्रियागुणास्ते तस्मिन्नप्रकृते वस्तुन्युपमानतयानुल्लिङ्गिते ऽपि प्रकृते वस्तुन्यासज्यन्ते ।
तेनातद्गुणक्रयायोगादस्या इवादिवाच्यत्वम् ।
अत एवान्यधर्माणां स्वधर्मिभूताद्वस्तुन उत्कलितानां रसभावद्यभिव्यक्तयनुगुणतयावस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणादियमुत्प्रेक्षा ।
नन्वेवमपि सुतरामसंभवः ।
न हि वस्त्वन्तरधर्मा वस्त्वन्तरे समासक्तुं शक्या इत्याशङ्क्योक्तम्---अतिशयान्वितेति ।
पुराणप्रजापतिवहितरूपवपर्यासेन कविवेधसा पदार्थस्य गुणातिशयविवक्षया रूपान्तरमप्यासक्तुं शक्यत इत्यर्थः ।
इयं चोत्प्रेक्षा बहिरसंभवतः पदार्थस्य संभवद्रूपतयोपवर्णनाल्लोकातिक्रान्तविषया संभावना ।
तस्याश्च द्वैविध्यम्, भावस्याभावस्य च बहिरसंभवत उपवर्ण्यमानत्वात् ।
तदाह----
लोकातिक्रान्तविषया भावाभावाभिमानतः ।
संभावनेयमुत्प्रेक्षा
येयं लोकातिक्रान्तविषया संभावना उत्प्रेक्षा सा भावस्याभावस्य चाभिमानात् द्वैविध्यं भजत इत्यर्थः ।
नन्विवाद्युपनिबन्धे सति यद्युत्प्रेक्षा भवतत्युच्यते ।
एवं सति "चन्दनासक्तभुजगनिश्वासानिलमूर्च्छितः ।
मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः" ॥
इत्येवमादाविवादेरप्रयोगादुतप्रेक्षात्वाभावप्रसङ्ग इत्याशङ्क्याह-----
वाच्येवादिभिरुच्यते
द्विविधा खलूत्प्रेक्षा ।
काचिदिवादिप्रयोगे सति भवति, काचित्त्वप्रयुज्यमानेष्वपीवादीष्वर्थसामर्थ्यादगम्यमानेषु ।
तत्र या वाच्या स्वकण्ठेनेवादिभिर्वक्तव्या सा इवादीभिरुच्यते ।
या त्वर्थसामर्थ्यक्षिप्तैरिवादिभिरवगम्ते तत्रेवादीनामप्रयोगः ।
ऽचन्दनासक्तभुजगऽइत्यादौ च मलयमारुतस्य यदेतन्मन्मथाविर्भावनिबन्धनत्वात्पथिकमूर्च्छाहेतुत्वं तत्र भुजगनिश्वासमूर्च्छितत्वे कारणत्वेनोत्प्रेक्ष्यमाणे इवाद्यर्थोर्ऽथसामर्थ्यादवगम्यते ।
तेनेवादीनामप्रयोगः ।
इवादिशब्दसामर्थ्यावसेयायामेवोत्प्रेक्षायामिवादीनां प्रयोगात् ।
तत्र भावाभिमानेनोत्प्रेक्षायां तस्या गुणयोगाध्यासेन प्रवृत्ताया उदाहरणम्---
अस्याः सदार्कबिम्बस्थदृष्टिपीतातपैर्जपैः ।
श्यामिकाङ्केन पतितं मुखे चन्द्रभ्रमादिव ॥ उक्स्स्_3.*2 ॥
अस्या मुखे जपैर्हेतुभूतैः श्यामिकाङ्केन पतितमिति संबन्धः ।
अत्र जपासक्ता भगवती अर्कमवलोकयतीति तस्याः शशाङ्कसदृसे मुखे श्यामिका संजाता ।
तच्चात्र तस्याः श्यमिकाया जन्म अतिशयोक्त्या पातरूपतया प्रतिपादितं पतितमिति ।
सा चात्र श्यामिक शशिलाञ्छनेन शशेन तुल्या ।
अतस्तस्याः शशिलाञ्छनशशतुल्यत्वादुपसर्जनोपमेयंरूपकं श्यामिकैवाङ्क इत्युपनिबद्धम् ।
तस्य चाङ्कस्य श्यामिकोपरक्तस्य भगवतीवदननिपाते कारणत्वेनेन्दुभ्रान्तिरुत्प्रेक्षिता ।
यदेतच्छशिनो लाञ्छनं श्यामिकारूपं तद्भगवतीवदन इन्दुभ्रान्त्येव निपतितमिति ।
इन्दुभ्रान्तिश्च गुणः ।
सिद्धरूपत्वे सति द्रव्यधर्मत्वात् ।
एवं चात्र शशसदृशी श्यामिका चैतन्यशून्यत्वेन भगवतीवदनमिन्दुभ्रान्त्या न गोचरीकरोति ।
अथ च तस्याः शशभावमापादिताया इन्दुभ्रमलक्षणेन चेतनधर्मेण संबन्धो निबद्धः ।
तेनात्र तस्य वस्त्वन्तरस्य चेतनस्य यो ऽसौ गुणो भ्रमलक्षणस्तद्योगादिवादेः प्रवृत्तिः ।
इन्दुभ्रमश्च भावरूपो गुणः शशीकृतश्यमिकाकर्तृकतया कविनिबद्धेन वक्त्रा भगवताभिमानेनाध्यवसितः ।
तेनेयमतद्गुणयोगेन भावाभिमानेन उत्प्रेक्षा ।
एवं क्रियायोगाध्यासाद्भावाभिमानेन योत्प्रेक्षा तस्यामुदाहार्यम् ।
अभावविषयायाः पुनः क्रियाध्यासेन प्रवृत्तायास्तस्या उदाहरणम्----
कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥ उक्स्स्_3.*3 ॥
अत्र कपोलफलकयोस्तपोवशात् क्षामत्वमापन्नयोः परस्परादर्शनमभावरूपं साध्यत्वात् क्रियारूपक्षामतायां कारणतयोत्प्रेक्षितम् ।
तेनेयमतक्त्रियायोगादभावाभिमानेनोत्प्रेक्षा ।
एवमतद्गुणयोगादभावाभिमानेन या उत्प्रेक्षा तस्यामुदाहार्यम् ।
स्वभावोक्तिः----
क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् ।
कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता
मूल पाठ: Kāvyālaṃkārasārasaṃgraha with Indurāja's Laghuvṛtti commentary · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0