काव्यालंकारसारसंग्रह · अध्याय 2
नानावाक्यत्वादिवादीनामप्रयोगे ऽपि प्राकरणिकत्वाप्राकरणिकत्वपर्यालोचनया अर्थसामर्थ्यादत्रोपमानोपमेयभावो ऽवसीयत इत्यर्थः ।
तदाहुः----
इवादेरप्रतीतापि शब्दसंस्कारतः क्वचित् ।
उपमा लक्ष्यते ऽन्यत्र केवलार्थनिबन्धना ॥
इति
इह प्रकारत्रयेण उपमायाः प्रतिपत्तिः ।
क्वचिदवादिशब्दसामर्थ्यादुपमा वाच्यभूता प्रतीयते, यथा चन्द्र इव मुखमस्या इत्यादौ ।
क्वचित्तु तत्तद्विशिष्टसंस्कारसहायाच्छब्दात्स्वार्थाभिधानमुखेन लक्ष्यमाणायास्तस्याः प्रतिपत्तिः, यथा शस्त्रीश्यामेति ।
अत्र हि
समासनिबन्धनैकपद्यादिसंस्कारसहिताभ्यां शस्त्रीश्यामाशब्दाभ्यां
स्वार्थाभिधानव्यवधानेन लक्ष्यमाणोपमा गम्यते ।
क्वचित्तूपमानोपमेयनिबन्धनशब्दसंस्काराभावे ऽपि केवलादेवार्थसामर्थ्यात्तस्याः प्रतिपत्तिः, यथा रूपकदीपकप्रतिवस्तूपमादिष्वित्यर्थः ।
अतश्चास्यां प्रतिवस्तूपमायां केवलेनैवार्थसामर्थ्येनोपमानोपमेयत्वमवगम्यते इत्यदोषः ।
तस्या उदाहरणम्----
विरलास्तादृशो लोके शीलसौन्दर्यसंपदः ।
निशाः कियत्यो वर्षे ऽपि याखिन्दिः पूर्णमण्डलः ॥ उक्स्स्_1.*31 ॥
विरलाः स्वल्पाः ।
तादृशः पार्वतीवर्त्तिन्यो याः शीलसौन्दर्यसंपदः तत्सदृस्यः ।
शीलं सुस्वभावता ।
सौन्दर्यं लावण्यम् ।
अत्र संवत्सरमध्यवर्तिन्यो ऽखण्डशशिबिम्बा रात्रयो द्वादश उपमानम् ।
शीलसौन्दर्ययोः संभाराः सकललोकोत्कृष्टाः कतिपयजनजुष उपमेयाः ।
साधारणश्च धर्मो विरलत्वम् ।
तच्चोपमानसंनिधाने कियत्य इत्युपात्तम् ।
उपमेयसंनिधाने तु विरला इति ।
इवाद्यनुपादाने ऽपि च प्राकरणिकत्वाप्राकरणिकत्वपर्यालोचनयात्रोपमानोपमेयभावावसायः ।
तेनेयं वस्तुनि वस्तुनि साधारणोपनिबन्धात्प्रतिवस्तूपमा ॥
इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ प्रथमो वर्गः ॥
2
अथ द्वितीयो वर्गः ।
आक्षेपोर्ऽथान्तरन्यासो व्यतिरेको विभावना ।
समासातिशयोक्ती चेत्यलङ्कारान्परे विदुः
ऽसमासातिशयोक्ती चेऽत्यत्र समासातिशययशब्दयोरुक्तिशब्दः प्रत्येकमभिसंबध्यते ।
आक्षेपः ।
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति कवयः सदा
इह काचिद्वक्रभणितिस्तथाविधा संभवति यस्यां विधित्सितोर्ऽथो निषेधव्याजेन संस्क्रियते, न तु निषिध्यते ।
तत्र विधित्सितस्यार्थस्य यः प्रतिषेधः क्रियते स प्रतिषेध इव भवति, न तु प्रतिषेध एव ।
अवान्तरवाक्यार्थत्वेन तत्र वाक्यस्यापर्यवसानात् ।
अवान्तरवाक्यार्थता च तत्र निषेधस्य विधित्सितार्थविरोधाद्भवति ।
तत्र हि विधित्सितोर्ऽथः पूर्वोपक्रान्तत्वेन स्थेम्नावतिष्ठमानः स्वविरूद्धत्वेन निषेधं निषेधतात्पर्यात्प्रच्याव्यस्वगतविसेषाभिधानायावान्तरवाक्यार्थीकरोति ।
अतो ऽनन्तरोक्तेन प्रकारेणेष्टस्यार्थस्य विशेषमभिधातुं यत्र निषेध इव न तु निषेध एव, असाविष्टार्थनिराकरणस्य लेशेन संभवदाक्षेपसंज्ञको ऽलङ्कारः सत्कविभिरभिधीयते ।
सन्तः कवय इति संबन्धः ।
तस्य भेदद्वितयोपदर्शनायाह---
वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते ।
वक्ष्यमाणमुक्तं चेष्टमाश्रित्य निषेधाभिधानादाक्षेपो द्विविध इत्यर्थः ।
ननु ऽप्रतिषेध इवेष्टस्यऽइत्याक्षेपलक्षणमुक्तम् ।
इष्टत्वं चेच्छाकर्मता ।
यस्य च वस्तुन इच्छाकर्मता तस्य नावश्यमुक्तिक्रियां प्रति कर्मत्वं भवति ।
इष्यमाणं हि कदाचिदुच्यते कदाचिन्न ।
अतश्चेष्टस्योक्तिकर्मतामाश्रित्य यदेतदाक्षेपस्य वक्ष्यमाणोक्तविषयतया द्वैविध्यमुक्तं तन्न संगच्छते इत्याशङ्क्याह----
निषेधेनेव तद्बन्धो विधेयस्य च कीर्तितः
विधेयस्य विधातुं ज्ञापयितुमभिमतस्य यो निषेध इव तेनायं वक्ष्यमाणोक्तविषय आक्षेपो निबध्यते ।
एतदुक्तं भवति----विधानकर्मताद्वारेणैवात्र इष्टत्वमवसीयते ।
निबन्धनान्तराभावात् ।
विधानकर्मता च विधानात्मिकाया उक्तेः कर्मता ।
साच द्विविधा, आर्थी
शाब्दी च ।
यत्र स्वशब्दव्यापारमन्तरेणापि शब्दान्तरव्यापारसहायनिषेधमुखेनैव विधित्सितोर्ऽथो ऽवगम्यते तत्रार्थी ।
तत्र च वक्ष्यमाणविषय आक्षेपः ।
यत्र तु विधिमुखेनैव वक्तुमिष्टस्यार्थस्योपादानं क्रियते तत्र शाब्दी ।
तत्र चोक्तविषयता आक्षेपस्य ।
एवं चानन्तरोदितय नीत्या शाब्देनार्थेन च विधिना यदंवसितमिष्टं तस्योक्तिक्रियाकर्मत्वसंभवादुक्तिक्रियायाः कर्मभूतो योर्ऽथस्तदाश्रयं
वक्ष्यमाणविषयत्वमुक्तविषयत्वं चाक्षेपस्य निबध्यते ।
तत्र वक्ष्यमाणविषयस्याक्षेपस्योदाहरणम्----
अहो स्मरस्य माहात्म्यं यद्रुद्रे ऽपि दशेदृशी ।
इयदास्तां समुद्राम्भः कुम्भैर्माने तु के वयम् ॥ उक्स्स्_2.*1 ॥
अहो इति विस्मये ।
अत्र मन्मथमाहात्म्यं तदवस्थाविशेषसंस्पर्शेन प्रतिपादयितुमिष्टम् ।
तच्च तस्य तथाप्रतिपादनमियदास्तामित्यादिना निषिद्धम् ।
निषेधश्चात्राभिधेयत्वविरोधात् ।
अभिधेयत्वेन च विरोधं वक्ति ।
आनन्त्येन तस्य तथाविधस्य वक्तुमशक्यत्वात् ।
रुद्रे ऽपि नाम ईदृशी दशेति हि सामान्यरूपत्वेन मन्मथमाहात्म्यं प्रतिपादितं न तु विशेषरूपतया ।
अतो वक्तुमिष्टानां स्मरमाहात्म्यावस्थाविशेषाणामयमानन्त्येनाभिधाननिषेध इव नतु निषेध एव ।
विवक्षितार्थविरोधेनावान्तरवाक्यार्थत्वात् ।
तथाहि, अत्र समुद्राम्भसः कुम्भैर्मातुमशक्यत्वं यदस्मदर्थकर्तृकमभिहितं तत्सादृश्येनानन्त्यविशिष्टत्वेनोत्कर्षयितुमिष्टानां मन्मथमाहात्म्यावस्थाविशेषाणां पूर्वं प्रतिपिपादयिषितत्वेन लब्धप्रतिष्ठानां वाक्यार्थत्वम् ।
अतश्च तदभिधाननिषेधस्य तद्विरोधादत्रावान्तरवाक्यार्थता ।
न चावान्तरवाक्यार्थो वाक्यविश्रान्तिस्थानतया वक्तुं शक्यः ।
न खलु रक्तः पटो भवतीत्यत्र रक्तत्वावच्छिन्नपटभवनपरत्वाद्वाक्यस्य पटभवनपर्यवसानमात्रत्वं सुभणम् ।
अतो ऽत्रापि निषेधस्यावान्तरवाक्यार्थत्वेन वाक्यविश्रान्तिस्थानत्वाभावान्निषेधरूपत्वमिव न तु निषेधरूपता ।
स च निषेधो ऽत्रावान्तरवाक्यत्वात्प्रधानवाक्यार्थानुगुण्येन प्रवर्तमानः खकण्ठेनाभिधानं मन्मथमाहात्म्यावस्थविशेषाणां निषेधति, न पुनरर्थसामर्थ्यावसेयमपि ।
अतश्च समुद्राम्भसः कुम्भैर्प्तातुमशक्यत्वमस्मदर्थकर्तृकं स्वकण्ठेनाभिहितं यत्तत्सादृश्येनावसिते संविज्ञानपदशून्ये स्मरमाहात्म्यावस्थाविशेषाणामानन्त्यलक्षणे विशेषे वाक्यस्य पर्यवसानं तेनायमिष्टमर्थं प्रतिषेधव्याजेन विशेषे ऽवस्थापयति तस्मादाक्षेपः ।
अत्र च ऽअहो स्मरस्य माहात्म्यं यद्रुद्रे ऽपि दशेदृशीऽइत्येतच्छब्दव्यापारसहायेनऽइयदास्ताम्ऽइति निषेधेनैव स्वकण्ठेनानुपात्तानामपि मन्मथमाहात्म्यावस्थाविशेषाणां वक्ष्यमाणतया सूचनम् ।
तेषां च तथा सूचितानां निषेधव्याजेन संविज्ञानपदशून्यानन्त्यभेदप्रतिपादनम् ।
अतो वक्ष्यमाणविषयता आक्षेपस्य ।
उक्तविषयस्य तु तस्योदाहरणम्---
इति चिन्तयतस्तस्य चित्रं चिन्तावधिर्न यत् ।
क्व वा कामविकल्पानामन्तः कालस्य चेक्षितः ॥ उक्स्स्_2.*2 ॥
अत्र चित्रत्वस्योक्तस्योक्तिः क्व वेति प्रसिद्धत्वादाक्षिप्यते ।
पूर्वत्र खलु विरुद्धत्वमाक्षेपनिबन्धनमुक्तम्, इह तु प्रसिद्धत्वम् ।
द्वाभ्यामेव च प्रकाराभ्यामाक्षेपो भवति विरुद्धत्वेन प्रसिद्धत्वेन च ।
उक्तंच---"वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य ।
अन्यत्तथात्वसिद्य्धै यत्र ब्रूयात्स आक्षेपः"इति ।
प्रसिद्धत्वं चात्र समर्थयितुं कालसादृश्यसमुक्तम् ।
यथा कालस्यान्तो नेक्ष्यते तद्वत् कामविकल्पानाम् ।
अतो नैवात्र चत्रत्वम् ।
अन्यत्राप्यस्य रूपस्य परिदृष्टत्वादिति ।
कालतुल्यतया चात्र कामविकल्पानामानन्त्यात्मको विसेषः संविज्ञानपदशून्यो ऽभिधित्सितः ।
तस्य च चित्रतया सामान्येन पूर्वमुपक्रान्तस्याधुना निषेधवशेन संविज्ञानपदशून्येन विवक्षितेन रूपेण वाक्यार्थींभूतत्वान्निषेधस्य पूर्ववदवान्तरवाक्यार्थता ।
तेन क्ववेत्ययं निषेध इव नतु निषेध एव ।
तेनात्रोक्त विषयता आक्षेपस्य ।
तदाहुः----
शब्दस्पृष्टे ऽथवाप्यार्थे वक्तुमिष्टे निषिद्धता ।
तदङ्गं तद्विरोधेन यत्राक्षेपो भवेदसौ ॥
इति ।
शब्देन स्पृश्यते (स्पृष्टे?) वक्तुमिष्टे उक्तविषये आक्षेपे ।
वक्ष्यमाणविषये तु विवक्षितस्य आर्थता ।
शब्दान्तरव्यापारसहायनिषेधमुखेन
तस्योपस्थाप्यमानत्वात् ।
यश्चात्रोभयत्रापि निषेधः क्रियते स विवक्षितार्थविरोधात्स्वतात्पर्यं त्यक्त्वा विवक्षितमेवार्थं संकुर्वंस्तदङ्गतां प्रतिपद्यते ।
अतो ऽत्र द्विविध आक्षेपो भवतीत्यर्थः ।
अर्थान्तरन्यासः ।
समर्थकस्य पूर्वं यद्वचो ऽन्यस्य च पृष्ठतः ।
विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा
ज्ञेयः सोर्ऽथान्तरनयासः
यत्र समर्थ्यसमर्थकभावः सोर्ऽथान्तरन्यासः ।
तत्र हि समर्थकस्य समर्थकतावगतिहेतुं व्याप्तिं पक्षधर्मत्वं चानुपन्यस्यार्थान्तरस्येवोपन्यासः क्रियते ।
व्याप्तिपक्षधर्मत्वयोः स्वशब्देनानुपात्तयोरपि गर्भीकृतत्वात् ।
अतो ऽसावर्थान्तरन्यासः ।
स च चतुर्विधः ।
तत्र समर्थके पूर्वमभिहिते समर्थ्यस्य यत्र पश्चादभिधानं तत्र द्वौ प्रकारौ भवतः ।
हिशब्दाभिव्यक्तत्वं समर्थ्यसमर्थकभावस्यैवकः प्रकारः ।
तदुक्तं "समर्थकस्य पूर्वं यद्वचो ऽन्यस्य च पृष्ठतः" ।
इति, "हिशब्दोक्त्ये"ति च ।
तस्योदाहरणम्----
तन्नास्ति यन्न कुरुते लोको ह्युत्पन्नकार्यिकः ।
एष शर्वो ऽपि भगवान् बटूभूय स्म वर्तते ॥ उक्स्स्_2.*3 ॥
बटूभूय अचिरकृतोपनयनत्वमापद्य ।
अत्र शर्वस्य सर्वलोकातिशायिनो बटूभावेन वृत्तिमनुपपद्यमानतयाशङ्क्य तत्समर्थनाय समर्थकं पूर्वमेवोपन्यस्तं "तन्नास्ति यन्न कुरुते"इति ।
अत्यन्तकार्यिकत्वादनुचितमपि रूपमनुभूतवान् ।
शर्वस्तदन्यैवंविधपुरुषवदिति ।
अत्र च हिशब्देनाभिव्यक्तः समर्थ्यसमर्थकभावः ।
यत्र पूर्वेणैव क्रमेण समर्थ्यसमर्थकयोरुपन्यासे हिशब्दश्चार्थसामर्थ्यवसेयार्थत्वान्न प्रयुज्यते तत्र द्वितीयोर्ऽथान्तरन्यासभेदो भवति ।
तदुक्तं "अन्यथापि च"इति ।
हिशब्दोक्तिमन्तरेणापीत्यर्थः ।
तस्योदाहरण्---
प्रच्छन्ना शस्यते वृत्तिः स्त्रीणां भावपरीक्षणे ।
प्रतस्थे धूर्जटिरतस्तनुं स्वीकृत्य बाटवीम् ॥ उक्स्स्_2.*4 ॥
भावः आशयः ।
बाटवीं ब्रह्मचारिसंबन्धिनीम् ।
अत्र धूर्जटेर्बटुवेषालम्बनेन प्रच्छन्ना शस्यते वृत्तिः"इत्यादिना ।
योषिदाशयपरीक्षणप्रवृत्तत्वाद्धूर्जटिः प्रच्छन्नां वृत्तिमाश्रितवानिति ।
हिशब्दश्चात्रातःशब्दसामर्थ्येन यस्मादित्यस्यार्थस्यावगतत्वान्नोपात्तः ।
एवमेतौ समर्थकपूर्वोपन्यासावर्थान्तरन्यासौ द्वावेवोक्तौ ।
यत्रापि चैतद्विपर्ययेण सामर्थ्यस्य पूर्वमुपन्यासः पश्चात्समर्थकस्य, तत्रापि समर्थ्यसमर्थकभावे हिशब्दावगतेर्ऽथाक्षिप्ते च सति द्वैविध्यम् ।
तदुक्तं ऽविपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वाऽइति ।
पूर्वस्योदाहरणम्----
हरो ऽथ ध्यानमातस्थौ संस्थाप्यात्मानमात्मना ।
विसंवदेद्धि प्रत्यक्षं निर्ध्यातं ध्यानतो न तु ॥ उक्स्स्_2.*5 ॥
अत्र हरस्य व्यवहिताद्यर्थविषयत्वेनाप्रतिहतबाह्येन्द्रियवृत्तित्वात् सति बाह्येन्द्रियजन्यप्रत्यक्षसंभवे ध्यानाश्रयणमयुक्तत्वेन संभाव्यं तत्समर्थनायोक्तं ऽविसंवदेद्धि प्रत्यक्षम्ऽइत्यादि ।
अत्यन्ताविसंवादकोपलब्ध्युपायार्थित्वाद्य्धानमास्थितवान् हर इति ।
हिशब्दानभिव्यक्ते तु समर्थ्यसमर्थकभावे यत्र समर्थ्यस्य पूर्वमुपन्यासस्तत्रोदाहरणम्----
अपश्यच्चातिकष्टानि तप्यमानां तपांस्युमाम् ।
असंभाव्यपतीच्छानां कन्यानां का परा गतिः ॥ उक्स्स्_2.*6 ॥
बहूनामभिमतवरप्राप्त्युपायानां प्रार्थनादीनां संभवे कस्माद्भगवती तपसा शरीरमायासितवतीत्याशङ्क्य तत्समर्थनायाभिहितं ऽअसंभाव्यपतीच्छनाम्ऽइति ।
दुःप्रापभर्त्रभिलाषित्वात्तपः समाश्रितवती ।
तपांसि भगवतीं खेदयन्ति ।
तानि पुनः सा तथाविधान्युपार्जयति ।
अतस्तपस्तप्यते तपस्तपःकर्मकस्यैवेति कर्तुः कर्मवद्भावः ।
एवमेव चतुर्विधोर्ऽथान्तरन्यासो ऽभिहितः ।
ननु यदि समर्थ्यसमर्थकभावे सत्यर्थान्तरन्यासो भवति ।
एवंसत्यप्रस्तुतप्रशंसादृष्टान्तयोरपि समर्थ्यसमर्थकभावसद्भावादर्थान्तरन्यासताप्रसङ्गः ।
तथाहि ।
"प्रीणितप्रणयि स्वादु काले परिणतं( च यत्) विना पुरुषकारेम फलं पश्यत शाखिनाम्"इत्यास्यामप्रस्तुतप्रंशसायां विशेषात्सामान्यस्य प्रतिपत्तिर्यथा सेचनादिकं पुरुषव्यापारमन्तरेण वनशाखिनां विविधगुणोपेतस्य फलस्य प्रसूतिर्दैवप्रधाना एवमेतत्सर्वं जगति दैवप्रधानमिति ।
अत्र च समर्थ्यसमर्थकभावो विद्यते ।
सर्वं जगच्चेष्टितं दैवप्रधानं पुरुषकारान्वयव्यतिरेकाननुविधायित्वाद्वनशाखिफलवदिति ।
ततश्च
तत्राप्यर्थान्तरन्यासत्वप्रसङ्गादलक्ष्यव्याप्तिर्लक्षणदोषः ।
दृष्टान्ते ऽपि च (समर्थ्य) समर्थकभावो विद्यते ।
तथाहि "त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः" ॥
इत्यत्र यथा चन्द्रगुणपक्षपातित्वेन कुमुदिन्याश्चन्द्रालोके कुमुदं विकसति, तद्वद्गुणपक्षपातित्वात्त्स्यास्त्वद्दर्शने मनो मन्मथाग्निप्रज्वलितमुपशाम्यतीति समर्थ्यसमर्थकभावो ऽवगम्यते ।
तेन दृष्टान्ते ऽप्यर्थान्तरन्यासताप्रसङ्ग इत्याशङ्क्याह----
प्रकृतार्थसमर्थनात् ।
अप्रस्तुतपरशंसाया दृष्टान्ताच्च पृथक्स्थितः
सत्यमप्रस्तुतप्रशंसायां दृष्टान्ते च समर्थ्यसमर्थकभावो ऽवगाम्यते ।
न तु तत्रार्थान्तरन्यासवत्समर्थ्यसमर्थकभावस्य संभवः ।
अर्थान्तरन्यासे हि सर्थ्यस्य यथायोगं पूर्वोत्तरकालभावित्वेन स्वकण्ठेनोपात्त्सय समर्थनम्, अप्रस्तुतप्रशंसायां त्पप्रकृतसामर्थ्येन प्रकृतमाक्षिप्यते, न तु स्वकण्ठेनोपादीयते, यथा पूर्वोपवर्णिते उदाहरणे ।
तत्र हि वनशाखिनां फलदर्शनेनाप्रकृतेन दैवप्रधानेन समग्रजगद्गोचरं दैवप्राधान्यं प्रकृतमाक्षिप्यते, न तु तस्यार्थान्तरन्यासवत्स्वकण्ठेनोपादानम् ।
अतश्च तत्र सत्यपि समर्थ्यसमर्थकभावे शब्दोपक्रान्तप्रकृतार्थनिष्ठत्वाभावान्नार्थान्तरन्यासत्वम् ।
दृष्टान्ते ऽपिच द्वयोरपि समर्थ्यसमर्थकयोः स्वकण्ठेनोपात्तत्वात्सत्यपि स्वकण्ठोपात्तप्रकृतार्थनिष्ठत्वे दृष्टान्तस्य समर्थ्यसमर्थकभावपुरःसरीकारेण प्रवर्तमानत्वान्न भवत्यर्यान्तरन्यासत्वम् ।
न खलु तस्य समर्थ्यसमर्थकभावपुरःसरकारेण प्रवृत्तिः ।
बिम्बप्रतिबिम्बभावमात्रस्य शब्दस्पृष्टत्वात् ।
अर्थाद्धि तत्र समर्थ्यसमर्थकभावावसायः ।
अर्थान्तरन्यासे तु समर्थ्यसमर्थकभावेनैवोपक्रमः ।
तेन यत्र समर्थ्यसमर्थकभावोपक्रममर्थान्तरोपादानं तत्रार्थान्तरन्यासत्वाद्दृष्टान्तस्यार्थान्तरन्यासताप्रसङ्गो न भवति ।
तदिदमुक्तं ऽप्रकृतार्थसमर्थनादिऽति ।
अत्र प्रकृतशब्दः स्वकण्ठोपात्तप्रकृतार्थनिष्ठो द्रष्टव्यः ।
समर्थनं चात्रोपक्रमावस्थावर्त्त्युपात्तम् ॥
व्यतिरेकः---
विशेषोपादानं यत्स्यादुपमानोपमेययोः ।
निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधी तु सः
उपमानोपमेययोः परस्परं यत्र विशेषः ख्याप्यते स व्यतिरेकः ।
तत्र ह्युपमानादुपमेयस्योपमेयादुपमानस्य वा केनचिद्विशेषेणातिरेक आधिक्यं तस्माद्य्वतिरेकः ।
स च द्विविधः ।
तत्र विशेषख्यापननिमित्तस्यार्थसामर्थ्यादाक्षेपादेकः प्रकारः ।
अपरस्तु तस्य स्वशब्देन प्रतिपादनात् ।
तदुक्तं ऽनिमित्तादृष्टिदृष्टिभ्यां द्विधाऽइति ।
एतावपि च भेदौ प्रत्येकं द्विविधौ ।
क्वचिद्धि अर्थसामार्थ्यात्प्रतीयमाने उपमानोपमेयभावे पूर्वोक्तेन प्रकारद्वयेन व्यतिरेकः ख्याप्यते, क्वचित्तु इवादिभिरुपातैः ।
तत्रार्थसामर्थ्येन यत्रोपमानोपमेयभावो ऽवगम्यते तत्र पूर्वस्मिन्प्रकारद्वये पूर्वभेदस्योदाहरणम्----
सा गौरीशिखरं गत्वा ददर्शोमां तपःकृशाम् ।
राहुपीतप्रभस्येन्दोर्जयन्तीं दूरतस्तनुम् ॥ उक्स्स्_2.*7 ॥
राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्यन्तरीकृता प्रभा यस्य स तथोक्तः ।
अत्र
राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्यन्तरीकृता प्रभा यस्य त तथोक्तः ।
अत्र राहुपीतप्रभत्वविशिष्टस्येन्दोस्तनुरुपमानं, तपःकृशा पार्वत्युपमेया, अनयोः साधारणो धर्मः स्वभावतः सौन्दर्ये सति निमित्तवशाद्विच्छायत्वम् ।
तच्च स्वकण्ठेनानुपात्तमपि पदार्थस्वरूपपर्यालोचनया लभ्यते ।
एवमिवाद्यभावे ऽप्युपमानोपमेयभावस्यात्र सामर्थ्यात्प्रतिपत्तिर्जयन्तीमिति च उपमानादुपमेयस्य विशेषः ख्यापितः ।
तस्य च विशेषस्य ख्याप्यमानस्य निमित्तमत्र न स्वकण्ठेनोपात्तं, अर्थसामर्थ्यात्तु तदवगम्यते ।
राहुरिन्दुप्रभापाने तथा न समर्थः यथा तपःसातिशयत्वात्पार्वत्याः क्षामत्वे इति राहुतो ऽपि तपःसातिशयत्वमुपमानादुपमेयस्य विशेषनिमित्तमत्रावगम्यते ।
एवमयमनुपात्तनिमित्तो व्यतिरेकः ।
उपात्तनिमित्तस्तु-----
पद्मं च निशि निःश्रीकं दिवाचन्द्रं च निष्प्रभम् ।
स्फुरच्छायेन सततं मुखेनाधः प्रकुर्वतीम् ॥ उक्स्स्_2.*8 ॥
मुखमुपमेयम् ।
पद्ममिन्दुश्चोपमानम् ।
तच्चात्र द्वयं स्वकण्ठस्पृष्टम् ।
तयोस्तु साधारणो धर्मः कान्तिमत्तादिरुपमानोपमेयभावश्चेत्यतदुभयं सामर्थ्यादवगम्यते ।
न खल्वत्र वक्ष्यमाणव्यतिरेकवदुपमानोपमेयभावस्य द्योतका इवादय उपात्ताः ।
अधःप्रकुर्वतीमिति चोपमानादुपमेयस्य विशेषः ख्यापितः ।
तत्र च निमित्तमुपात्तमुपमानोपमेयोभयाधारत्वेन ।
उपमानयोस्तावत्पद्मचन्द्रयोर्निशि दिवा च यथाक्रमं निःश्रीकत्वनिष्प्रभत्वे, उपमेये तु रात्रिन्दिवं स्फुरच्छायता ।
अतो विशेषे निमित्तदर्शनेनायं व्यतिरेकः ।
तदेवं यत्रेवादिनोपमानोपमेयभावो नावद्योतितस्तत्र द्विविधो व्यतिरेको दर्शितः ।
इवाद्युपाते तूपमानोपमेयभावे यो व्यतिरेकस्तमाह----
यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः ।
व्यतिरेको ऽत्र सो ऽपीष्टो विशेषापादनान्वयात्
ऽयो वैधर्म्येण दृष्टान्तऽइति ऽविशेषापादनान्वयादऽति च व्यतिरेकलक्षणं योजितम् ।
वैधर्म्यं ह्युपमेयधर्मस्योपमाने विगमः ।
यथेवादिसमन्वित इत्यनेन यथेवाद्यवद्योतितत्वमुपमानोपमेयभावस्याह ।
तस्योदाहरणम्-----
शीर्णपर्णाम्बुवाताशकष्टे ऽपि तपसि स्थिताम् ।
समुद्वहन्तीं नापूर्वं गर्वमन्यतपस्विवत् ॥ उक्स्स्_2.*9 ॥
शीर्णपर्णाम्बुवातानामाशो भक्षणम् ।
अत्रान्यतपस्विन उपमानं, भगवत्युपमेया, साधारणश्च धर्मः कष्टे तपस्यवस्थितत्वाच्चेतसः सोल्लासता ।
वतिश्चात्र गर्वोद्वहननिबन्धनं यत्तच्चेतसः सोल्लासत्वं तन्निबन्धनमुपमानोपमेयभावमवगमयति ।
गर्वं न समुद्वहन्तीमित्युपमानादुपमेयस्य विशेषः पिरतिपादितः ।
अन्ये किल तपस्विनः सातिशयतपोवशात्समुल्लसितचित्ताः सन्तो गर्वं समुद्वहन्ति, भगवती त्वत्यन्तमुपशान्तचित्तत्वान्न तथा ।
एवं चात्र गर्वोपक्रमावस्थापेक्षमुपमानोपमेययोः सादृश्यं, तदनिर्वाहात्तूपमानादुपमेयस्य व्यतिरेकः ।
अनिर्वाहे च निमित्तमत्र स्वकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवगम्यते अत्यन्तोपशान्तचित्तत्वं नाम ।
एवमयं निमित्तादर्शने बत्युपात्तोपमानोपमेयभावो व्यतिरेक उदाहृतः ।
निमित्तोपादाने तु तस्योदाहरणमुन्नेयम् ।
एवमेते चत्वारो व्यतिरेकाः प्रतिपादिताः ।
निमित्तदर्शनादर्शनाभ्यां यौ व्यतरेकौ तयोः
प्रत्येकमुपमानोपमेयभावस्य इवाद्युपादानानुपादानाभ्यां द्विभेदत्वात् ।
एषामपि चतुर्णां व्यतिरेकाणां श्लिष्टोक्तियोग्यशब्दोपादाने सति पुनरपरे पूर्वोपक्रान्तेनैव रूपेण चत्वारो भेदा भवन्ति ।
तदाह-----
श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ ।
विशेषापादनं यत्स्याद्य्वतरेकः स च स्मृतः
ऽएकप्रयत्नोच्चार्याणामिऽत्यादिवक्ष्यमाणलक्षणं श्लिष्टम् ।
श्लिष्टालङ्कारसमुचितं यदुच्चारणं तत्समुचितस्य शब्दस्य यदा तन्त्रेण सदृशशब्दान्तरोपादानहेतुतया वा प्रयोगो न क्रियते अपि तु पृथक् पृथगुच्चारणं, तदा विशेषापादने सति व्यतरेको भवति ।
तस्योदाहरणम्----
या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता ।
तपसा तां सुदीर्घेण दूराद्विदधतीमधः ॥ उक्स्स्_2.*10 ॥
अत्र शिशिरशोभा उपमानं, भगवती उपमेया, तयोश्च साधारणो धर्मस्तपोयुक्तत्वं नाम ।
एकत्र तपा
माघो मासः, अपरत्र त्वभ्युदयहेतुः कृच्छ्राचरणम् ।
इवादयश्चात्रानुपात्ता अपि सामर्थ्यादवगम्यन्ते ।
व्यतिरेकस्तु दूराद्विदधतीमध इति ।
तस्य च निमित्तं मासैक्यं दीर्धत्वं च तपसोः ।
तच्च यथाक्रममुपमानोपमेयगतत्वेनोपात्तम् ।
तत्र च वत्यादिना अनुपात्ते उपमानोपमेयभावे निमित्तदर्शनेन व्यतिरेक उदाहृतः ।
एवमनया दिशाअन्यदपि श्लिष्टोक्तियोग्यशब्दनिबन्धे सति व्यतरेकस्य पूर्वोक्तनयेन भेदत्रयमुदाहार्यम् ॥
विभावना-----
क्रियायाः प्रतिषेधे या तत्फलस्य विभावना ।
ज्ञेया विभावनैवासौ समाधौ सुलभे सति
इह यत्किंचिज्ज्ञायते तत्सर्वं क्रियाफलम् ।
क्रियामुखेन कारणेभ्यः कार्योत्पत्तेः प्रातीतिकेन रूपेण परिदृश्यमानत्वात् सर्वेषां फलभूतानां क्रियैवाव्यवहतं कारणम् यत्र च क्रिया प्रतिषिध्यते अथ च क्रियाफलस्योत्पत्तिरुपदिश्यते तत्र विभावनाख्यो ऽलंकारः ।
कारणविगमे किलकार्यस्य तत्रोत्पत्तिरुपवर्ण्यते ।
अतो विरुद्धाभासा भावना उत्पादना, तेन विभावना ।
नन्वेवं सति व्यर्थदोषत्वप्रसङ्गः ऽविरुद्धार्थं मतं व्यर्थम्ऽइति अत आह---समाधौ सुलभे सतीति ।
समाधिः परिहारः ।
यत्र विरोधस्य सुलभः परहार इत्यर्थः ।
तस्या उदाहरणम्-----
अङ्गलेखामकाश्मीरसमालम्भनपिञ्चराम् ।
अनलक्तकताम्राभामोष्ठमुद्रां च बिभ्रतीम् ॥ उक्स्स्_2.*11 ॥
अङ्गलेखा शरीरयष्टिः ।
कारमीरं कुङ्कुमम् ।
येयं पीतच्छायता शरीरस्य सा नायिकानां कुङ्कुमसमालम्भनलक्षणक्रियाकार्या प्रार्यण परिदृश्यते, भगवत्यास्तु शरीरे पीतच्छायत्वं न कुङ्कुमसमालम्भनेनोत्पादितम् ।
अतः कुङ्कुमसमालम्भनलक्षणायाः क्रियाया विगमे फलस्य पीतच्छायत्वस्यात्रोपदेशः ।
परिहारश्चात्र स्वाभाविकतया तच्छायत्वमिति ।
तेनेयं विभावना ।
अनलक्तकताम्राक्षामित्यत्रालक्तककारणिकाया रागक्रियाया निषेधे तत्फलस्य लौहित्यस्य उत्पत्तिः स्वाभाविकी निर्दिष्टा ।
अतो विभावना ।
अत्र च कुङ्कुमादिसंपाद्येन पिञ्चरत्वादिना उपमानभूतेन स्वाभाविकस्य पिञ्जरत्वादेरुपमेयभूतस्याभेदाध्यवसायो ऽतिशयोक्त्या द्रष्टव्यः ॥
समासोक्तिः----
प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः ।
अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता
यत्र प्रस्तुतार्थनिष्ठं वाक्यं तत्समानैर्विशेषणैस्तेनाप्रकृतेनार्थेन तुल्यानि यानि विशेषणानि तद्द्वारेण सादृश्यवशादप्रस्तुतमर्थमुपमानभूतं कथयति, सा संक्षेपेणोपमानोपमेयलक्षणार्थद्वतयाभिधानात्समासोक्तिः ।
तस्या उदाहरणम्----
दन्तप्रभासुमनसं पाणिपल्लवशोभिनीम् ।
तन्वीं वनगतां लीनजटाषट्चरणावलिम् ॥ उक्स्स्_2.*12 ॥
अत्र दन्तप्रभापाणिजटा भगवतीविशेषणभूता यथाक्रमं लतागतसुमनःपल्लवषट्चरणरूपेण आरोपेण व्या(प्ताः) (?) तद्भावमापद्यन्ते ।
तनुत्वं तु भगवतीलतयोः साधारणो धर्मः ।
वनशब्देन च रूपकप्रतिभोत्पत्तिहेतुना श्लेषेण भगवतीतपश्चर्याधारभूतमुदकं लताधारेण काननेन रूप्यते ।
अत एतान्यत्र प्रकृताया भगवत्या अप्रकृतया लतया समानानि विशेषणानि ।
तत्सामर्थ्येन च प्रकृतया भगवत्या उपमेयभूतया लता उपमानत्वेनाक्षिप्यते ।
तेनेयं समासोक्तिः ।
अतिशयोक्तिः---
निमित्ततो यत्तु वयो लोकातिक्रान्तगोचरम् ।
मन्यन्ते ऽतशयोक्तिं तामलंकारतया बुधाः
भेदे ऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते ।
तथा संभाव्यमानार्थनिबन्धे ऽतिशयोक्तिगीः
कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् ।
आशुभावं समालम्ब्य बध्यते सो ऽपि पूर्ववत्
मूल पाठ: Kāvyālaṃkārasārasaṃgraha with Indurāja's Laghuvṛtti commentary · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0