काव्यालंकारसारसंग्रह · अध्याय 1
प्रस्तावना ।
अस्मिन्भरतखण्डे खल्वद्यावधि बहवः संस्कृतग्रन्थाः संशोध्य मुद्रणद्वारा प्राकाश्यं नीतास्तत्र तत्र पण्डितप्रकाण्डैः ।
तथापि कतिचन प्राजीनाः प्रबन्धाः प्रकाशनार्हा अपि पुस्तककोशेष्वेव निलीना वर्तन्ते ।
तेषामन्यतमो ऽयं काव्यालङ्कारसंग्रहाख्यः प्रबन्धो यो ऽद्य महता प्रयत्नेन सहृदयहृदयवनोदाय प्रकाश्यते ।
अस्य काव्यालङ्कारसङ्ग्रहग्रन्थस्य प्रणेता उद्भटभट्टः ।
उद्भटभट्टस्य भट्टोद्भटौद्भटाचार्यः
इत्यापि नामोल्लेखो ग्रन्थान्तरेषु दृश्यते ।
उद्भटभट्ट कश्मीरेषु जयापीडः भूपस्य सभापतिरासीदिति कल्हणवरचतराजतरङ्गिणीग्रन्थादवगम्यते ।
जयापीडनृपतिराज्यकालस्तु ख्रिस्त 779 वर्षमारभ्य 813 वर्षपर्यन्तमासीदिति ज्ञायते ।
अतस्तत्सभापतेरुद्भटभट्टस्यापि जीवितसमयः स एवेति विदुषां निर्णयः ।
उद्भटाचार्येण कुमारसंभवाख्यं काव्यं तथा भामहकृतालङ्कारग्रन्थस्य विवरणं च विरचितमासीदिति ज्ञायते ।
अत्र प्रमाणं तु अस्यां लघुवृत्तौ "अनेन ग्रन्थकृता खोपरचितकुमारसंभवैकदेशो ऽत्र उदाहरणत्वेनोपन्यस्तः"पृ0 15 इति "विशेषोक्तलक्षणे च भामहविवरणे भट्टोद्भटेन एकदेशश्बद एवं व्याख्यातः"पृ0 13 इति च प्रतीहारेन्दुराजस्योक्तिः ।
काव्यालङ्कारसारलघुवृत्तेः प्रणेता श्रीप्रतहारेन्दुराजस्तु कोङ्कणदेशवास्तव्यः कश्मीरेषु मीमांसाख्याकरणतर्कसाहित्यशास्त्रपारंगतभट्टश्रीमुकुलादधीतशास्त्रश्चेति अस्या लघुवृत्तेः प्रारम्भोपसंहारयोः स्थिताभ्यां निम्नलिखितपद्याभ्यां स्फुटं भवति ।
"विद्वदग्र्यान्मुकुलकादधिगम्य विविच्यते ।
प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥"
"मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात्
साहित्यश्रीमुरारेर्बुधकुसुममधोः शौरिपादब्जभृङ्गात् ।
श्रुत्वा सौजन्यसिन्धोर्द्वजवरमुकुलात्कीर्तिवल्ल्यालवालात्
काव्यालङ्कारसारे लघुववृतिमधात्कौङ्कणः श्रीन्दुराजः ॥
"इति
प्रतीहारेन्दुराजस्य जीवितकालस्तु निश्चित्य वक्तुं न शक्यते ।
तथाप्ययं भट्टोद्भस्य पश्चाद्बभूवेति व्यक्तमेव ।
अनेन लघुवृत्तौ भामह--वामन---उद्भट---इत्यादि प्राचीनालङ्कारिकाणामेवोल्लेखः कृतः नतु महिमभट्ट-आनन्दवर्धन-काव्यप्रकाशकाराद्यभिनवालङ्कारिकाणाम् ।
अतो ऽयं खिस्तवर्षस्य नवमदशमशतकयोर्मध्ये बभूवेति तर्क्यते ।
अस्य ग्रन्थस्यादर्शपुस्तकमेकमेव पुण्यपत्तनस्थाराजकीयपुस्तकालयाधिकारिभिः प्रोफेसर विनायक सखाराम घाटे इत्येतै संस्करणार्थे दत्वनृगृहीतो ऽस्मीति कृतज्ञतया स्मरामि तेषामुपकृतिम् ।
कारवारपुरे विद्वदनुचरः
श्रावण शु- 12 शके 1837 मङ्गेशशर्मा.
श्रीः ।
श्रीमद्-उद्भट-भट्टप्रणीतः काव्यालङ्कारसंग्रहः ।
प्रथमो वर्गः
श्रीमत्-प्रतीहारेन्दु-राजविरचितया काव्यालङ्कारसारलघुवृत्त्या समेतः ।
यल्लक्ष्म्या हसितैः सितैर्धवलितं नर्मोक्तिलीलाजुषः
शौरेः स्फीतगभस्तिकौस्तुभरुचा यच्च क्वचित्पाटलम् ।
अन्यत्र च्छुरितं यदम्बररच हेमप्रभादीप्रया
तद्वक्षो ऽक्षतशक्रचापशबलव्योमाभमव्याज्जगत् ॥ 1 ॥
महिषितवपुषि सुरद्विषि दर्शितभयमभयदं द्युसद्मभ्यः ।
नन्दितसुरेन्द्रवन्दितमङ्घ्रियुगं गौरि तव वन्दे ॥ 2 ॥
विद्वदग्र्यान्मुकुलकादघिगम्य विवच्यते ।
प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥ 3 ॥
पुनरुक्तवदाभासं छेकानुप्रास एव च ।
अनुप्रासस्त्रिधा लाटानुप्रासो रूपकं चतुः
उपमा दीपकं चैव प्रतिवस्तूपमा तथा ।
इत्येत एवालङ्कारा वाचां कैश्चिदुदाहृताः
अत्रालङ्कारा अष्टावुद्दिष्टाः ।
तत्रादौ चत्वारः शब्दालङ्कारा निरूपिताः ।
रूपकादीनां तु चतुर्णामत्र अर्थालङ्कारता ।
अत्रानुप्रासे रूपके यथाक्रमं त्रिधेति चतुरिति वचनं विप्रतिपत्तिनिरासार्थम् ।
भामहो हि ग्राम्योपनागरकावृत्तभेदेन द्विप्रकारमेवानुप्रासं व्याख्यातवान् ।
तथा रूपकस्य ये चत्वारो भेदा वक्ष्यन्ते तन्मध्यादाद्यमेव भेदद्वितयं प्रादर्शयत् ।
अतः स्वाभिमतभेदोपदर्शनद्वारेण एवंविधविप्रतिपत्तिनिरासार्थमुद्देशावस्थायामेवानुप्रासस्त्रिधेति रूपकं चतुरिति चोक्तम् ।
रूपकं चतुरित्यत्र
रूपकत्वेन सह एकस्मिन्नर्थे वर्तमाना सत्ता रूपकेदेष्वावर्तमाना प्रतीयते ।
अतः प्रतीयमाना यासौ रूपकत्वैकार्थसमवेता सत्तात्मिका भवनक्रिया तदभ्यावृत्तावयं "द्वित्रिचतुर्भ्यः सुच्"(पा. अ. 5.4.18) इति सुच्प्रत्ययः ।
रूपकं चतुर्षु भेदेषु चतुरो वारान् भेदात्मना भवतीत्यर्थः ।
तत्र पुनरुक्तवदाभासं प्रोच्यते------
पुनरुक्ताभासमभिन्नवस्त्विवोद्भासि भिन्नरूपपदम् ।
अभिन्नं वस्तु यस्मिन्नुद्भासते तदभिन्नवस्तु ।
भिन्नं रूपं ययोः पदयोस्ते भिन्नरूपे ।
अभिन्नवस्त्विव अभीक्ष्णमुद्भासेते भिन्नरूपे पदे यस्मिंस्तदभिन्नवस्त्विवोद्भासिभिन्नरूपपदम् ।
एवमयं बहुव्रीहिद्वितयगर्भः पञ्चपदोबहुव्रीहिः ।
तत्रैको ऽभिन्नवस्त्विति बहुव्रीहिः ।
अपरस्तु भिन्नरूप इति ।
तद्गर्भश्चायं बहुव्रीहिरभिन्नवस्त्विवोद्भासिभिन्नरूपपदमिति ।
अनेन च यत्र भिन्नरूपे पदे एकार्थवदाभासेते तत्पुनरुक्ताभासं काव्यमलङ्कार्यं निर्दिष्टम् ।
यद्यपि ।
पुनरुक्तवदाभासमित्युद्देशे वतिः प्रयुक्तस्तथापि तस्येह गम्यमानार्थत्वादप्रयोगः ।
उद्देशे त्वेवमनभिधानमभिधावैचित्र्यप्रदर्शनार्थम् ।
काचित् खलु गम्यमानार्थन्वयेन अभिधा
प्रवर्तते, काचित्त्वभिधीयमानार्थन्वयेन ।
तत्रोद्देशे वत्यभिधीयमानसादृश्यान्वयेन अभिधा उपदर्शिता ।
इह त्वर्थसामर्थ्यवसेयसादृश्यान्वयेन ।
तदेवमर्थसामर्थ्यावसेयेन वत्यर्थेनान्वितं पुनरुक्ताभासमत्र काव्यमलङ्कार्यं यत्काव्यं तद्धर्मत्वेन पुनरुक्तवदाभासमानयोः पदयोरलङ्कारत्वमुक्तं न तु स्वतन्त्रतया ।
फलं चैवमभिधानस्य पुनरुक्तवदाभासमानपदसमन्वयस्य अलङ्कारताख्यापनम् ।
अलङ्कारस्य खल्वलङ्कार्यपरतन्त्रतया निरूपणे क्रियमाणे सुष्ठु स्वरूपं निरूपितं भवति ।
स्वात्मन्यवस्थितस्य तस्यानलङ्कारत्वात् ।
समुद्गकस्थितहारकेयूरपारिहार्याद्यलङ्कारवत् ।
अतः पुनरुक्तवदाभासत्वुस्यालङ्करताख्यापनाय काव्यपरतन्त्रतया निर्देशो युक्त एव ।
तस्योदाहरणम्------
तदाप्रभृति निःसङ्गी नागकुञ्जरकृत्तिभृत् ।
शितिकण्ठः कालगलत्सतीशोकानलव्यथः ॥ उक्स्स्_1.*1 ॥
तदाप्रभृति सतीवियोगादारभ्य स देवः शितिकण्ठो निःसङ्गः सन् दिवसानतवाहितवानिति वक्ष्यमाणे श्लोके वाक्यार्थपरिसमाप्तिः ।
कृत्तिश्चर्म ।
कालवशेन निवर्तमाना (या) सती (तस्याः) वियोगेन जनितो यः शोकवह्निस्तदुद्भवा पीडा यस्य स तथोक्तः ।
अत्र नागकुञ्जरशब्दौ शितिकण्ठकालगलशब्दौ च पुनरुक्तवदाभासेते ।
तथाहि ।
नागकुञ्चरशब्दयोरुपक्तमावस्थायां गजवाचित्वेन एकार्थत्वं प्रतिभाति ।
पदार्थन्वयपर्यालोचनया तु तद्बाध्यते ।
नागशब्दः खल्वत्र हस्तिवाची ।
कुञ्चरशब्दस्तु तत्प्रशंसावगतहेतुः ।
एवं शितिकण्ठकालगलशब्दयोरपि
वलीविशेषावच्छिन्नशरीरावयवभेदोपेतार्थाभिधायित्वात्पौनरुक्त्यं संभाव्यमानं कालगलदिति तकारावधिपर्यालोचनया चापसार्यते ।
तेनात्र पुनरुक्ताभासत्वम् ।
ननु छेकानुप्रासलक्षणादनन्तरं पुनरुक्तवदाभासोदाहरणं पठ्यते ।
तत्कथं पुनरुक्तवदाभासलक्षणव्याख्यानसमय एव तस्योपन्यासः कृतः ।
उच्यते ।
उदाहरणप्रदर्शनमन्तरेण लक्षणार्थस्य दुरधिगमत्वादिहैव तदुपन्यस्तमित्यदोषः ।
एवमुत्तरत्रापि प्रमेयशब्दानुसारेण ग्रन्थपाठक्रमविपर्यासेन व्याख्यायां नासूयितव्यम् ।
पाठक्रमादार्थक्रमस्य बलीयस्त्वात् ।
छेकानुप्रासः----
छेकानुप्रासस्तु द्वयोर्द्वयोः सुसदृशोक्तिकृतौ
द्वयोर्द्वयोरज्झल्समुदाययोः सुष्ठु सदृशे उच्चारणे क्रियमाणे सति छेकानुप्रासो भवति ।
तथाविधा समुदायास्तत्रालङ्कारतां प्रतिपद्यन्ते ।
द्वयोर्द्वयोरिति स्वार्थे ऽवधार्यमाणे अनेकस्मिन्निति द्विर्वचनं स्वार्थग्रहणेन वीप्साया निरस्तत्वात् न यावन्तो ऽत्र द्विकाः संभवन्ति तेषां सर्वेषामेव सुसदृशत्वं कार्यं, किं तर्हि कतिपयानामेव ।
वीप्सा हि साकल्ये सति भवति ।
सा चात्र स्वार्थशब्देन निरस्ता ।
अवधार्यमाणग्रहणाच्च द्वयोर्द्वयोरेवात्र समुदाययोः सदृशत्वं, नतु त्रयाणां त्रयाणामिति द्रष्टव्यम् ।
अनेकस्मिन्निति वचनाच्च असकृदेवंविधरूपोपनिबन्धे सति छेकानुप्रासता न तु सकृदिति मन्तव्यम् ।
परस्परमेकरूपान्विता
रसाद्यभिव्यक्त्यनुगुणत्वेन लब्धोत्कर्षा वर्णास्तत्समुदाया वा शोभातिशयहेतुत्वेन काव्ये क्षिष्यमाणा अनुप्रासशब्देनान्वर्थेनाभिधीयन्ते ।
छेकशब्देन कुलायाभिरतानां पक्षिणामभिधानम् ।
तदुक्तम्---"छेकान् गृहेष्वभिरतानुशन्ति मृगपक्षिणः"इति ।
तेषां च कुलायाभिरतत्वादन्येन केनचिदनायास्यमानानामनेनानुप्रासेन सदृशी मधुरा वागुच्चरति ।
अतो ऽयमनुप्रासश्छेकैर्व्यपदिश्यते छेकानुप्रास इति ।
अथवा छेका विदग्धाः ।
तद्वल्लभत्वादस्य छेकानुप्रासता ।
तस्योदाहरणम्----
स देवो दिवसान्निन्ये तस्मिञ्शैलेन्द्रकन्दरे ।
गरिष्ठगोष्ठीप्रथमैः प्रमथैः पर्युपासितः ॥ उक्स्स्_1.*2 ॥
कन्दरो गुहा ।
गरिष्ठा गुरुतमाः ।
ऽप्रियस्थिर-ऽ(पा.अ.6.4.157) इतीष्ठनि गुरुशब्दस्य गरादेशः ।
गोष्ठी विदग्धानामासनबन्धः ।
प्रथमैः प्रधानैः ।
प्रमथैर्गणैः ।
पर्युपासितः सेवितः ।
अत्र सदेवदिवसशब्दौ इन्द्रकन्दरशब्दौ गरिष्ठगोष्ठीशब्दौ प्रथमप्रमथशब्दौ परिउपासशब्दौ च द्वौ द्वौ अज्झल्समुदायौ सुसदृशावृच्चारितौ तेन छेकानुप्रासता ।
क्वचित्तु ऽनिन्ये तस्मिन्ऽइत्यत्र ऽनिन्ये ऽन्यस्मिन्ऽइति पाठः ।
तदा चैतदप्युदाहरणे ऽन्तर्भवतीति ।
अनुप्रासः ।
स च त्रिविधो वृत्तिसंश्रयात् ।
यद्वक्ष्यति-----
"सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु ।
पृथक्पृथगनुप्रासमुशन्ति कवयः सदा"इति ।
अस्यार्थः----
त्रिष्वेतेषु यथायोगं रसाद्यभिव्यक्त्यनुगुणेषु वर्णव्यवहारेषुयः सरूपाणां व्यञ्जनानां पृथक् पृथगुपनिबन्धस्तमनुप्रासं कवयः सदेच्छन्तीति ।
अतस्तास्तावद्वृत्त्यो रसाद्यभिव्यक्त्यनुगुणवर्णव्यवहारात्मिकाः प्रथममभिधीयन्ते ।
ताश्च तिस्रः, परुषोपनागरिकाग्राम्यत्वभेदात् ।
तत्र परुषा----
शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता ।
परषा नाम वृत्तिः स्यात् ह्लह्वह्याद्यैश्च संयुता
शकारषकारादियुक्तौ वर्णव्यवहारः परुषाख्या वृत्तिः ।
रेफोपलक्षिताः संयोगाः क्रर्कादयो रेफसंयोगाः ।
टकारोपलक्षितो वर्गष्टवर्गः टठडढणेति ।
अस्यां वृत्तौ यो ऽनुप्रासः स परुषानुप्रासः ।
तस्योदाहरणम्----
तत्र तोयाशयाशेषव्याकोशितकुशेशया ।
चकाशे शालिकिंशारुकपिशाशामुखा शरत् ॥ उक्स्स्_1.*3 ॥
तोयाशयेषु अशेषं साकल्येन व्याकोशितानि विकासितानि कुशेशयानि पद्मानि यया इति समासः ।
तथा शालीनां धान्यानां किंशारुभिः शूकैः कपिशानि पिञ्जराणि आशामुखानि दिगवकाशा यस्यामिति समासः ।
अयं च शकारस्य सारूप्येणोपनिबन्धात्परुषानुप्रासः ।
अपनागरिका-----
सरूपसंयोगयुतां मूर्ध्निवर्गान्त्ययोगिभिः ।
स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः
सरूपाणां वर्णानां ये संयोगाः क्कप्पच्च इत्यादयस्तैर्युक्ता ।
तथा वर्गान्त्यैर् ङञणनमैः ङ्कञ्चण्टन्तम्प-इत्यादिरूपतया उपरि ये युक्ताः कादयो मकारान्ताः स्पर्शास्तैर्युक्ता उपनागरिका वृत्तिः ।
एषा खलु नागरिकया वैदग्धीजुषा वनितया उपमीयते तत उपनागरिका ।
नागरिकया उपमिता उपनागरिकेति ।
"अवादयः ऋष्टाद्यर्थे तृतीयया"इति समासः ।
तस्यामुपनागरिकानुप्रासः ।
तस्योदाहरणं च---
सान्द्रारविन्दवृन्दोत्थमकरन्दाम्बुबिन्दुभिः ।
स्यन्दिभिः सुन्दरस्पन्दं नन्दितेन्दिन्दिरा क्वचित् ॥ उक्स्स्_1.*4 ॥
अत्र दकाराख्यः स्पर्शो नकारेणोपरि व्यवस्थितेन युक्तः सारूप्येणोपनिबद्धः ।
सान्द्रा घना अरविन्दवृन्दोत्था मकरन्दाम्बुबिन्दव इति संबन्धः ।
सुन्दरस्पन्दं स्पन्दिभिरिति सामान्यभूतः स्पन्दः सुन्दरस्पन्दमिति विशिष्टेन स्पन्देन विशेषितो रैपोषं पुष्णातीतिवत् ।
सुन्दरः स्पन्दोयस्मिन्निति हि सामान्यभूते
स्पन्दने अन्यपदार्थे सुन्दरताविशिष्टं स्पन्दनं वृत्तिपदार्थभूतम् ।
इन्दिन्दिरा भ्रमराः ॥
ग्राम्या-----
शेषैर्वणैर्यथायोगं कथितां कोमलाख्यया ।
ग्राम्यं वृर्त्ति प्रशंसन्ति काव्येष्वादृतबुद्धयः
परुषोपनागरिकोपयुक्तवर्णावशिष्टैर्वर्णैर्लकारादिभिरुपनिबध्यमाना ग्राम्या ।
तस्या एव च अपरं नामधेयं कोमलेति ।
कोमलाख्यया कथितामिति संबन्धः ।
तस्यां चानुप्रासो ग्राम्यानुप्रासः ।
तस्योदाहरणम्----
केलिलोलालिमालानां कलैः कोलाहलैः क्वचित् ।
कुर्वती काननारूढश्रीनूपुररवभ्रमम् ॥ उक्स्स्_1.*5 ॥
केलिलोलाः क्रीडालम्पटाः ।
कलैर्मधुरैः ।
भ्रमो भ्रान्तिर्विपर्ययप्रत्ययः ।
अत्र लकारककाररेफाः सारूप्येणोपनिबद्धाः ।
एवमेतास्तिस्रो वृत्तयो व्याख्याताः ।
तासु च रसाद्यभिव्यक्त्यानुगुण्येन पृथक् पृथगनुप्रासो निबध्यते तदाह----
सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु ।
पृथक्पृथगनुप्रासमुशन्ति कवयः सदा
अयं श्लोकः सोदाहरणो वृत्तिस्वरूपनिरूपणप्रसङ्गेन व्याख्यातः ।
लाटानुप्रासः----
स्वरूपार्थाविशेषे ऽपि पुनरुक्तिः फलान्तरात् ।
शब्दानां वा पदानां वा लाटानुप्रास इष्यते
स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत् ।
तदन्यस्य स्वतन्त्रत्वाद् द्वयोर्वैकपदाश्रयात्
स्वतन्त्रपदरूपेण द्वयोर्वापि प्रयोगतः ।
भिद्यते ऽनेकधा भेदैः पादाभ्यासक्रमेण च
शब्दानामनुपलभ्यमानसुप्तिङां तथा पदानामुपलभ्यमानसुप्तिङां, उभयेषां च शब्दपदानां स्वरूपस्य वर्णात्मनः अभिधेयस्य च निरन्तरशब्दव्यापारगोचरीकृतस्य वाच्यस्यार्थस्याभेदे ऽपि फलान्तरात्तात्पर्यभेदात् पुनरुक्तिः सा लाटदेशनिवासिजनवल्लभत्वाल्लाटानुप्रासो ऽभिधीयते ।
स च प्रथमं तावत्र्रिप्रकारः ।
द्वयोः स्वतन्त्रयोर्द्वयोः परतन्त्रयोः स्वतन्त्रपरतन्त्रयोश्च भावात् ।
तत्र यस्यावद्द्वयोः स्वतन्त्रयोः स द्विप्रकारः ।
एकैकस्मिन् पदे पदसमुदायात्मके च पादे भावात् ।
तदुक्तम्----
"स्वतन्त्रपदरूपेम द्वयोर्वापि प्रयोगतः ।
भिद्यते ऽनेकधा भेदैः पादाभ्यासक्रमेण च ॥
"इति ।
अत्र हि स्वतन्त्रपदात्मकत्वेन द्वयोः प्रयोगादेकैकपदाश्रयो लाटानुप्रासो ऽभिहितः ।
तस्योदाहरणम्-----
काशाः काशा इवोद्भान्ति सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुर्यूनां निम्नगा इव निम्नगाः ॥ उक्स्स्_1.*6 ॥
आचिक्षिपुरपत्दृतवन्तः ।
अत्र काशादयः शब्दा अपरैः काशादिभिः शब्दै एकरूपा एकाभिधेयाश्च ।
तात्पर्यभेदेन तु तेषां पुनरुक्तिः ।
तथा ह्यत्र एकेषां काशादिशब्दानां जातिभेदोपरक्तद्रव्यपरतया प्रयोगः ।
अपरेषां तु अनन्वयालङ्कारच्छायया उपमानान्तरव्यावृत्तिपरतया ।
अत्र च स्वातन्त्र्यं पदानां, काशादीनामुपलभ्यमानसुप्तिङ्रूपत्वात् ।
एकैकरूपतया चावृत्तेरुपनिबन्धः ।
पदसमुदायात्मकस्य तु पादस्य स्वरूपार्थाविशेषे तात्पर्यभेदेन पुनरुक्तौ पादाभ्यासपरिपाट्या स्वतन्त्रपदाश्रयो लाटानुप्रासो भवति ।
पादाभ्यासक्रमेण चेति क्रमग्रहणेन सकृद्द्विस्त्रिश्च पादाभ्यासे ये भेदाः संभवन्ति तत्स्वीकारेण पादाभ्यासे लाटानुप्रासस्य प्रवृत्तिः सूचिता ।
तस्योदाहरणम्----
स्त्रियो महति भर्तृभ्य आगस्यपि न चुक्रुधुः ।
भर्तारो ऽपि सति स्त्रीभ्य आगस्यपि न चुक्रुधुः ॥ उक्स्स्_1.*7 ॥
महत्यप्यागसीति संबन्धः ।
तथा च सत्यप्यागसीति भर्तृभ्य इति स्त्रीभ्य इति च ऽक्रुध द्रुहेऽति संप्रदानता ।
अत्र एकत्र पादे नायकगतापराधविषयत्वेन स्त्रीकर्तृकः क्रोधाभावः प्रतिपादितः ।
अपरत्र तु नायिकानां यो भर्तृप्रणयातिक्रमात्मको ऽपराधस्तद्विषयो नायककर्तृकः क्रोधाभावोभिहितः ।
अतस्तात्पर्यभेदः स्वरूपार्थाविशेषश्च ।
पदसमुदायात्मकस्य च पादस्याभ्यासः ।
एवमयं स्वतन्त्रपदाश्रयो लाटानुप्रासो द्विविधो ऽभिहितः ।
एकैकपदाश्रयः पदसमुदायाश्रयश्च स्वतन्त्रपदाश्रयो लाटानुप्रासः ।
द्वयोरनुपलभ्यमानसुप्तिडोः परतन्त्रयोः शब्दयोर्यो लाटानुप्रासस्तस्यापि द्वैविध्यं, पदद्वितयाश्रयत्वेन एकपदाधारत्वेन च ।
तदुक्तम्----
ऽस पदद्वितयस्थित्या द्वयोःऽइति ।
सो ऽनेकधा भेदैर्भिद्यते इति संबन्धः ।
तथा द्वयोर्वैकपदाश्रयादिति ।
पूर्वस्योदाहरणम्----
क्वचिटुत्फुल्लकमला कमलभ्रान्तषट्पदा ।
षट्पदक्वाममुखरा मुखरस्फारसारसा ॥ उक्स्स्_1.*8 ॥
सारसाः लक्ष्मणाख्याः पक्षिविशेषाः ।
अत्र कमलषट्पदमुखरशब्दानां स्वरूपार्थभेदे ऽपि तात्पर्यभेदेन पुनरुक्तिः पदद्वितयाश्रयित्वं च ।
तात्पर्यभेदश्चात्र कमलषट्पदशब्दयोः कारकशक्तिभेदात् ।
तथाहि ।
पूर्वः कमलशब्दो ऽत्र विकासक्रियाकर्तृत्वपरतयोपात्तः, उत्तरस्तु भ्रमणक्रियाकर्तृभूतषट्पदाधारत्वेन ।
तथा पूर्वः षट्पदशब्दो भ्रमणक्रियां प्रति कर्तृत्वेनोपवर्णितः, उत्तरस्तु क्वाणक्रियासंबन्धित्वेन ।
मुखरशब्दौ तु
विशेषणभूतं
सशब्दत्वं भिन्नार्थनिष्ठतयावगमयतः ।
तथाहि ।
पूर्वेण मुखरशब्देन शरन्निष्ठं मौखर्यमवगम्यते, अपरेण तु सारसनिष्ठम् ।
एवमयं पदद्वितयपरतन्त्रशब्दद्वयाश्रयो लाटानुप्रासो ऽभिहितः ।
एकपदाश्रयशब्दद्वितयवर्ति तु "द्वयोर्वैकपदाश्रयात्" इत्युक्तः ।
तस्योदाहरणम्----
जितान्यपुष्टकिञ्जल्ककिञ्जल्कश्रेणिशोभितम् ।
लेभे ऽवतंसतां नारीमुखेन्दुष्वसितोत्पलम् ॥ उक्स्स्_1.*9 ॥
अत्र नारीमुखेष्विति वदनानां चन्द्रेणोपमितत्वादसितोत्पलस्य शशकरूपता ध्वन्यते ।
किञ्जल्कशब्दयोश्चात्र स्वरूपार्थाभेद एकपदाश्रयत्वं तात्पर्यभेदश्च ।
एकस्य जीयमानतया उपादानात्, अपरस्य जयनक्रियाकर्तृभूतायासौ श्रेणिस्तत्संबन्धित्वेन ।
एवमयं परतन्त्रयोः शब्दयोर्लाटानुप्रासो द्विविधो निरूपितः ।
स्वतन्त्रपरतन्त्रयोस्तु यत्रैकस्य शब्दस्य पदान्तरानुप्रवेशः, अपरस्य तु स्वातन्त्र्येण पदरूपतयावस्थानं तत्र भवति ।
तदुक्तम्---ऽएकस्य पूर्ववत्तदन्यस्य स्वतन्त्रत्वात्ऽइति ।
एकस्य पूर्ववत्पदान्तराश्रयेणावस्थानादित्यर्थः ।
तस्योदाहरणम्---
पद्मिनीं पद्मिनीगाढस्पृहयागत्य मानसात् ।
अन्तर्दन्तुरयामासुर्हंसा हंसकुलालयात् ॥ उक्स्स्_1.*10 ॥
मानसात् सरोविशेषात् ।
दन्तुरयामासुः महत्त्वाच्छुक्लत्वाच्च उन्नतदन्ता इव चक्रुः ।
अत्र स्वरूपार्थाफभेदे ऽपि पद्मिनीशब्दयोर्हंसशब्दयोश्च तात्पर्यबेदात्पुनरुक्तिः ।
एकस्य पदान्तरानुप्रवेशः, अपरस्य च स्पृहाविषयप्रतिपादनार्थत्वात् ।
तथा एकस्य हंसशब्दस्य दन्तुरणक्रियाकर्तृभूतार्थाभिधायित्वात्, अपरस्य तु कुलसंबन्धित्वात् ।
एवमयं पञ्चविधो लाटानुप्रासः प्रतिपादितः ।
स्वतन्त्रपरतन्त्राणां तस्य प्रत्येकं द्विभेदत्वात् स्वतन्त्रपर तन्त्रयोश्च समुदितयोरेकप्रकारत्वात् ॥
रूपकम्---
श्रुत्या संबन्धविरहाद्यत्पदेन पदान्तरम् ।
गुणवृत्ति प्रधानेन युज्यते रूपकं तु तत्
बन्धस्तस्य यतः श्रुत्या श्रुत्यर्थाभ्यां च तेन तत् ।
समस्तवस्तुविषयमेकदेशविवर्ति च
समस्तवस्तुविषयं मालारूपकमुच्यते ।
यद्वैकदेशवृत्ति स्यात्पररूपेण रूपणात्
पदान्तरस्य गुणवृत्तेरपरेण पदेन योगे रूपकं भवति ।
नन्वेवं सति नीलमुत्पलमित्यत्रापि नीलशब्दस्य गुणवृत्तेरुत्पलशब्देन योगे रूपकताप्रसङ्ग इत्याशङ्क्योक्तं---श्रुत्या संबन्धविरहादिति ।
श्रुतिर्निरन्तरार्थनिष्ठः शब्दव्यापारः ।
तया श्रुत्या अनुपपद्यमानपदान्तरसंबन्धं सत् पदान्तरं गुणवृत्ति यत्रापरेण पदेन युज्यते तत्र रूपकता ।
यथा----
ज्योत्स्नाम्बुनेन्दुकुम्भेन ताराकुसुमशारितम् ।
क्रमशो रात्रिकन्याभिर्व्योमोद्यानमसिच्यत ॥ उक्स्स्_1.*11 ॥
इति ।
अत्राम्बुशब्दो निरन्तरार्थनिष्ठशब्दव्यापारगोचरीकृते उदकत्वे वर्तमानो ज्योत्स्नाशब्देन सामानाधिकरण्यं नानुभवति ।
अम्बुत्वज्योत्स्नात्वयोरेकार्थसमवायाभावात् ।
अतो ऽम्बुगताः शौक्ल्याह्लादकत्वप्रसरणशीलत्वादयो ये गुणास्तत्सदृशज्योत्स्नागतगुणवृत्तिः सन्नम्बुशब्दो ज्योत्स्नायां वर्तते ।
तेनाम्बुशब्दस्य श्रुत्या निरन्तरार्थनिष्ठेन अभिधाव्यापारेण यः पदान्तरेण ज्योत्स्नाशब्देन संबन्धस्तच्छून्यत्वाद्गुणवृत्तिता ।
अतो ऽत्र
रूपकता ।
नचैवं नीलमुत्पलमित्यादौ श्रुत्या संबन्धविरहाद्गुणवृत्तित्वं, किंतर्हि स्वत एवेति न रूपकताप्रसङ्गः ।
ननु विरुद्धार्थाभिधायिनोः समानाधिकरणयोः शब्दयोर्निरन्तरार्थनिष्ठेन अभिधाव्यापारेण अनुपप्द्यमानान्योन्यसमन्वयत्वाद्यद्येकस्य लक्षणया गुणवृत्तित्वमभिधीयते, एवं सति पर्यायेणात्र गुणवृत्तित्वं प्राप्नोति ।
नियमकरणाभावात् ।
ततश्च यथाम्बुशब्दस्य ज्योत्स्नाशब्दसामानाधिकरण्याद्गुणवृत्तित्वमुक्तं, तद्वज्ज्योत्स्नाशब्दस्यापि अम्बुशब्दसामानाधिकरण्याद्गुणवृत्तित्वं कथं न स्यादित्याशङ्क्योक्तं प्रधानेनेति ।
प्रधानार्थानुरोधेन उपसर्जनस्य लक्षणया गुणवृत्तित्वमुपपन्नम् ।
प्रधानवशवर्तित्वाद्गुणानामित्यभिप्रायः ।
अतश्च प्राकरणिकार्थाभिधायित्वात्प्रधानार्थविषयो यो ज्योत्स्नाशब्दः तदनुरोधेन अम्बुशब्दस्य अप्राकरणिकार्थत्वादप्रधानार्थस्य गुणवृत्तित्वमुपपन्नमिति न पर्यायेण ज्योत्स्नाम्बुशब्दयोः परस्परानुरोधेन गुणवृत्तित्पप्रसङ्गः ।
ननु च ज्योत्स्नाम्बुनेत्यत्र अम्बुनः प्राधान्यं ज्योत्स्नायाश्च गुणभावः ।
तथा हि ।
एतस्मिञ्श्लोके तद्भावाध्यवसानेन सेकावच्छादितरूपतया सेकात्मकत्वेन यासौ व्योम्नो व्याप्तिरसिच्यतेति प्रतिपादिता, तया स्वसाधनभूतं यत्तदम्भो ऽपेक्षितं तदत्र ज्योत्स्नया विशिष्यते ज्योत्स्नैवाम्ब्विति ।
यदत्र सेकसाधनत्वेनाम्बु अपेक्षितं तज्ज्योत्स्नैवेत्यर्थः ।
उक्तं च "उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः ।
यच्च प्रयुच्यते तद्रूपकमन्यत्समासोक्तम्"इति ।
एतयोरुभयोरिति ।
उपमानोपमेययोरित्यर्थः ।
तत्कथमिदमुक्तं ज्योत्स्नापदस्य प्राधान्यात्तद्वशेनाम्बुशब्दस्य गुणवृत्तित्वं कल्प्यते इति ।
उच्यते ।
अत्र खलु द्वे ऽवस्थे विद्येते ।
एका तावज्ज्योत्स्नाया अम्बूकरणावस्था ।
अपरा तु अम्बुत्वमापादिताया ज्योत्स्नायाः सेकसंबन्धरूपा ।
तत्र यदा तावज्ज्योत्स्ना अम्बुरूपत्वमापद्यते तदा प्राकरणिकत्वात् ज्योत्स्ना प्रधानम् ।
अम्बु च तद्विपर्ययाद्गुणः ।
तदानीं चाम्बुशब्दो ज्योत्स्नाशब्दानुरोधेनाम्बुगतशौक्ल्यादिगुणसदृशगुणयोगाल्लक्षणया ज्योत्स्नायां वृत्तिमनुभवति ।
तदा च तस्य प्रधानार्थानुरोधाद्गुणवृत्तित्वेन रूपकत्वमुक्तम् ।
यदा त्वसौ अम्बुशब्द आपादिताम्बुभावज्योत्स्नाभिधायी सन् सेकक्रियया समन्वयमापद्यमानो यदेतदत्र सेकसाधनत्वेनाम्बु उपयुज्यते तज्ज्योत्स्नैवेति ज्योत्स्नया विशिष्यते तदा तस्य न रूपकावस्था ।
पूर्वावस्थायामेवानुभूतगुणवृत्तित्वात् ।
अतस्तस्यामवस्थायामसौ अतिशयोक्तिच्छायां भजते ।
पूर्वावस्थापेक्षयात्वेतद्रूपकमुक्तम् ।
प्रधानानुरोधेन तत्र गुणेषु वर्तमानत्वात् ।
रूपकत्वं चात्राध्यारोप्यमाणगतेन रूपेण अध्यारोपविषयस्य वस्तुनो रूपवतः क्रियमाणत्वादन्वर्थं द्रष्टव्यम् ।
अत्र चोपमानवर्तिनो ये गुणास्तत्सदृशगुणदर्शनादुपमेय उपमानगतयोः शब्दरूपयोरारोपः ।
तत्र त्रयो दर्शनभेदाः ।
केचिदत्र शब्दारोपपूर्वकमर्थारोपं ब्रुवते, अपरे त्वर्थारोपपूर्वकं शब्दारोपम् ।
अन्यैस्तु शब्दारोपार्थारोपयोर्यौगपद्यमभिधीयते ।
अयमेव च पक्षो युक्त इव दृश्यते ।
तदाहुः---
"शब्दोपचारात्तद्रूपं रूपके कैश्चिदुच्यते ।
ताद्रूप्यारोपतश्चान्यैः शब्दारोपो ऽत्र कथ्यते ॥
उपमानगुणैस्तुल्यानुपमेयगतान् गुणान् ।
पश्यतां तु सकृद्भाति तत्र तच्छब्दरूपता ॥
इति ।
तत्रेति ।
उपमेये इत्यर्थः ।
तच्छब्दरूपतेति ।
उपमानशब्दारोप उपमानरूपारोपश्च ।
तस्य च रूपकस्य द्विप्रकारता ।
स्वकण्ठेन सकलरूपणाभिधानादेकः प्रकारः ।
तदुक्त्म्---"बन्धस्तस्य यतः श्रुत्या तेन तत्समस्तवस्तुविषयम्"इति ।
श्रुतिर्निरन्तरार्थनिष्ठो ऽभिधाव्यापारस्तस्योदाहरणं ऽज्योत्स्नाम्बुनाऽइत्याद्युक्तम् ।
शारितं शबलितम् ।
अत्र हि सर्वेषामेव रूप्यत्वेनोपात्तानां ज्योत्स्नेन्दुतारारात्रिव्योम्नां यथाक्रममम्बुकुम्भकुसुमकन्योद्यानानि रूपकत्वेन स्वकण्ठेनोपात्तानि, न त्वर्थाक्षिप्तं कस्यचिद्रूपणम् ।
तेन श्रुत्यैवात्र रूपणा ।
अतः समस्तवस्तुविषयत्वम् ।
समग्राणि ह्यत्र रूप्यत्वेनाभिमतानि वस्तूनि स्वकण्ठेनोपात्तस्य रूपकस्य विषयः ।
अयमसावेकः प्रकारः ।
यत्र तु किंचित्स्वकण्ठेन किंचिच्चार्थाद्रषणं भवति, तत्र श्रुत्यर्थाभ्यां रूपणादपरः प्रकारो भवति ।
तत्र चैकदेशविवर्तित्वम्, एकदेशविशेषेण
स्वकण्ठोक्त्या वर्तनात् ।
तदुक्तं ऽयतश्च श्रुत्यर्थाभ्यां तस्य बन्धस्तेन तदेकदेशविवर्ति चऽइति ।
तस्योदाहरणम्----
उत्पतद्भिः पतद्भिश्च पिच्छालीबालशालिभिः ।
राजहंसैरवीज्यन्त शरदैव सरोनृपाः ॥ उक्स्स्_1.*12 ॥
पिच्छाल्यः पक्षपङ्क्तयः ।
राजहंसा रक्तचञ्चुपादा हंसाः ।
अवीज्यन्तेति ।
वीजिर्धातुष्वपठितो ऽपि शिष्ठप्रयोगात् मिलिखचिक्लविक्षपिवद्धा तुतया द्रष्टव्यः ।
अत्र द्वे रूपणे स्वकण्ठेनाभिहिते पिच्छालीबालशालिभिरिति सरोनृपा इति च ।
तथा हि एकत्र पिच्छाल्यो बालरूपत्वेन रूपिताः, अपरत्र तु सरांसि नृपरूपत्वेन ।
राजहंसानां चामररूपत्वेन रूपणा अर्थाक्षिप्ता, शरदश्च प्रकृताया नायिकात्वेन ।
शरन्नायिकया कर्तृभूतया राजहंसचामरैः पिच्छालीबालशालिभिः सरोनृपा वीज्यन्ते स्मेति ह्यत्र वाक्यार्थः ।
एवमेतौ रूपकस्य समस्तवस्तुविषयैकदेशविवर्तिलक्षणौ द्वौ प्रकारावुक्तौ ।
यदि वा मालारूपकस्य समस्तवस्तुविषयता तत्र ह्येकस्मिन् रूप्ये समुच्चयेन अस्यन्ते क्षिप्यन्ते बहूनि रूपकाणि ।
तदुक्तं ----
ऽसमस्तवस्तुविषयं मालारूपकमुच्यते ।
ऽयद्वेति प्रकारान्तरोपक्षेपार्थः ।
तस्योदाहरणम्---
वनान्तदेवतावेण्यः पान्थस्त्रीकालशृङ्खलाः ।
मारप्रवीरासिलता भृङ्गमालाश्चकासिरे ॥ उक्स्स्_1.*13 ॥
वनान्ता वनैकदेशः ।
वेण्यः केशपाशाः ।
कालशृङ्खला अन्तकप्रयुक्ता आकर्षणशृङ्खलाः ।
मारप्रवीरा मन्मथसंबन्धिनो भटाः ।
अत्र भृङ्गमालानामेव केवलानां रूप्यत्वेनोपात्तानां तिस्रो रूपणाः कृताः वनान्तदेवतावेण्य इत्येवमादिना ।
तेनात्र समस्तवस्तुविषयता, एकस्मिन् रूप्ये समुच्चयेन बहूनां रूपणानां क्षिप्तत्वात्-----
एकदेशविवर्ति तु पररूपेण रूपणाद्भवति ।
तदुक्तं ऽएकदेशवृत्ति स्यात्पररूपेम रूपणात्ऽइति ।
तस्योदाहरणम् ।
आसारधाराविशिखैर्नभोभागप्रभासिभिः ।
प्रसाध्यते स्म धवलैराशाराज्यं बलाहकैः ॥ उक्स्स्_1.*14 ॥
आसारो वेगवद्वर्षम् ।
विशिखाः शराः ।
अत्र प्रसाध्यत इत्ययं शब्दः श्लेषच्छायया द्वयोरर्थयोर्वर्तते भूषणे उपार्जने च ।
तत्र भूषणं प्रकृतम् ।
शरत्समयो ह्यत्र प्रस्तुतः ।
तत्र च शुक्लैर्बलाहकैर्दिशो भूष्यन्ते ।
यदुपार्जनं तदप्रकृतत्वादत्र परमन्यत् ।
तस्य च परस्याप्रकृतस्य उपार्जनस्य यत्तद्रूपं कारककदम्बकं येन तद्रूपवत्क्त्रयते नृपविशिखराज्यसंग्रामभूम्यात्मकं तेनात्र यथाक्रमं बलाहकासारधारादिङभोभागानां रूप्यत्वेनाभिमतानां रूपणा विहिता ।
तेनात्रैकदेशवृत्तित्वम् ।
एकदेशवृत्तीत्यत्र हि एकदा अन्दा ईशः प्रभविष्णुर्यो वाक्यार्थस्तद्वृत्तत्वं रूपकस्याभिमतम् ।
विशेषोक्तिलक्षणे च भामहविवरणे भट्टोद्भटेन एकदेशशब्द एवं व्याख्यातो यथोहास्माभिर्निरूपितः तत्र विशेषोक्तिलक्षणम्----
"एकदेशस्य विगमे या गुणान्तरसंस्तुति ।
विशेषप्रथनायासौ विशेषोक्तिर्मता यथा"इति ।
तेनात्र विशेषोक्तिलक्षणवदेकदेशशब्देन अन्यदा प्रभविष्णुर्वाक्यार्थ उच्यते, अन्यत्र च अन्यदा प्रभविष्णूपार्जनम् ।
अप्रकृतं हि तत् श्लेषवशेनात्र नीतं, तेनात्रैकदेशवृत्तिता ॥
दीपकम्----
आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः ।
अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः
यत्रान्तर्गतोर्ऽथसामर्थ्यावसेयत्वादुपमानोपमेयभावो येषां तथाविधानां धर्मणामुपनिबन्धस्तत्र काव्यदीपकं भवति ।
तथाविधकाव्यविषयत्वाच्च दीपकस्य तत्काव्यं दीपकमित्युपचारात्सामानाधिकरण्यम् ।
अत्र च धर्माणामेकवारमुपनिबन्धो द्रष्टव्यः ।
असकृदुपादाने हि तेषां प्रतिवस्तूपमां वक्ष्यति ।
अत एव चैकदेशवर्तिनामपि तेषां धर्माणां यौ द्वौ उपमानोपमेयभावेन अवस्थितौ वाक्यार्थौ बहबो वा तथाविधास्तदुद्दीपनहेतुत्वाद्दीपकता ।
यावच्च तेषां धर्माणामुपमानोपमेयभावसमन्वयेनात्रोपनिबन्धस्तावद्बलात्प्राधान्येतरयोगित्वमापतति ।
उपमेयस्य ।
प्राकरणिकतया प्राधान्यादुपमानस्य च तादर्थ्येन
गुणभावात् ।
एवं च प्राधान्येतरयोगिन इत्ययमत्रानुवादः ।
प्राप्तार्थत्वात् ।
प्राधान्यं च इतरच्चाप्राधान्यम् ।
ताभ्यां योगः संबन्धो विद्यते येषां ते तथोक्ताः ।
अस्य च दीपकस्य त्रैविध्यम्, तेषां धर्माणामादिमध्यान्तवाक्यविषयत्वेनोपनिबन्धात् ।
तदुक्तम् ऽआदिमध्यान्तविषयाःऽइति ।
तत्रादिदीपकस्योदाहरणम्----
संजहार शरत्कालः कदम्बकुसुमश्रियः ।
प्रेयोवियोगिनीनां च निःशेषसुखसम्पदः ॥ उक्स्स्_1.*15 ॥
अत्र संहरणात्मा धर्मः कदम्बकुसुमशोभाकर्मकत्वेन विरहिणीसुखसम्पत्कर्मकत्वेन च उपनिबध्यमानो ऽन्तर्गतोपमः ।
शरत्समयस्योपवर्ण्यमानतया कदम्बकुसुमश्रीसंहरस्य प्राकरणिकार्थनिष्ठत्वादिव्रहिणीसुखसंपत्संहारस्य चाप्राकरणिकार्थविषयत्वात् ।
तेनात्रान्तर्गतोपमत्वम्, यथा प्रेयोवियोगिनीनां निःशेषाः सुखसम्पदः संजहार तथा कदम्बकुसुमश्रियो ऽपीति ।
शरत्कालशब्दस्य चात्र शरत्समयः श्लेषच्छायया अन्तकानुरञ्चितो वाच्यः ।
संहारस्यान्तककर्मत्वात् ।
अत्र च प्रथम एव वाक्ये संजहारेत्यस्योपनिबद्धस्य द्वितीयवाक्ये अनुषङ्गच्छायया उपजीव्यमानत्वादादिदीपकत्वम् ।
मध्यदीपकस्योदाहरणम्----
विदेशवसतिर्यातपतकाजनदर्शनम् ।
दुःखाय केवलमभूच्छरच्चासौ प्रवासिनाम् ॥ उक्स्स्_1.*16 ॥
यातपतिकाः प्रोषितभर्तृकाः ।
शरदः प्राकरणिकत्वाद्विदेशवसतियातपतिकाजनदर्शनयोश्चाप्राकरणिकत्वादत्रान्तर्गतोपमता ।
अत्र च यातपतिकाजनदर्शनं दुःखाय केवलमभूदिति मध्यमे वाक्ये प्रवासिदुः खैकहेतुत्वलक्षणो धर्म उपात्तः सन्नाद्यन्ताभ्यां वाक्याभ्यां पूर्ववदुपजीव्यते ।
तेन मध्यदीपकता ।
अन्तदीपकस्योदाहरणम्----
तदानीं स्फीतलावण्यचन्द्रिकाभरनिर्भरः ।
कान्ताननेन्दुरिन्दुश्च कसय नानन्दको ऽभवत् ॥ उक्स्स्_1.*17 ॥
तदानीं शरत्समये ।
अत्र इन्दुः प्राकरणिकः शरत्समयस्य उपवर्ण्यमानत्वात् ।
कान्ताननेन्दुस्त्वप्राकरणिकः ।
अन्ते च सर्वसुखहेतुत्वमुपनिबद्धं सत् पूर्वत्र उपजीव्यते ।
तेनात्रान्तदीपकता ।
एवमेतद्दीपकं लक्षितमुदाहृतं च ॥
ननु उपमाया ऽउपमा दीपकं चऽइति पूर्वमद्दिष्टत्वात् यथोद्देशलक्षणमिति न्यायात्त्स्या एव पूर्वं लक्षणं कर्तव्यम्, पश्चात्तु दीपकस्य ।
तत्कथमादौ दीपकं लक्षितमिति वक्तव्यम् ।
उच्यते ।
अनेन ग्रंथकृता स्वोपरचितकुमारसंभवैकदेशो ऽत्र उदाहरणत्वेनोपन्यस्तः ।
तक्ष पूर्वं दीपकस्योदाहरणानि ।
तदनुसन्धानाविच्छेदायात्र उद्देशक्रमः ।
परित्यक्तः ।
उद्देशस्तु तथा न कृतो वृत्तभङ्गभयात् ।
एवमुत्तरत्रापि लक्षणेषु उद्देशक्रमाननुसारणसमाधिर्वाच्यः ॥
उपमा----
यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः ।
मिथो विभिन्नकालादिशब्दयोरुपमा तु तत्
यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति ।
सदृशादिपदाश्लेषादन्यथेत्युदिता द्विधा
संक्षेपाभिहिताप्येषा साम्यवाचकविचुयतैः ।
साम्योपमेयतद्वाचिवियोगाच्च निबध्यते
उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात् ।
क्वचित्समासे तद्वाचिविरहेण क्वचिच्च सा
तथोपमानादाचारक्यच्प्रत्ययबलोक्तितः ।
क्वचित्सा कर्तुराचारे क्यङा सा च क्विपा क्वचित्
उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादगतः ।
तद्वाच्या सा वतिना च कर्म सामान्यवचनेन
षष्ठीसप्तम्यन्ताच्च यो वतिर्नामतस्तदभिधये ।
कल्पत्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिः
सादृश्यसंबन्धित्वेनोपादीयते यत्प्राकरणिकं तदुपमेयम् ।
न खलु प्राकरणिकस्यापि सादृश्यसंबन्धित्वेन अनुपादीयमानस्योपमेयता, यथा राज्ञः पुरुषमानयेत्यत्र पुरुषस्य ।
पुरुषो ह्यत्रानीयमानत्वेन चोद्यमानत्वात्सत्यपि प्राकरणिकत्वे सादृस्यसंबन्धित्वेनानुपादीयमानत्वान्नोपमेयः ।
सत्यपि च सादृश्यसंबन्धित्वेनोपादाने यस्य प्राकरणिकत्वं नास्ति तस्योपमानत्वं, न तूपमेयत्वमिति प्राकरणिकमित्युक्तम् ।
तदेवं सादृश्यसंबन्धित्वेनोपादीयमानं यत्प्राकरणिकं तदुपमेयम् ।
तद्ध्युपमानेन सादृश्यप्रतिपादनद्वारेण समीपे क्षिप्यते तस्मादुपमेयम् ।
अप्राकरणिकं तु तथाविधमेवोपमानम् ।
तयोरुपमानोपमेययोर्यत्साधर्म्यं समानो धर्मः तेन धर्मेण संबन्धो यः सा उपमानोपमेययोः सादृश्यद्वारेण साभीप्यपरिच्छेदहेतुत्वादुपमा ।
तस्याश्चालङ्काराधिकाराच्चेतोहारित्वं लब्धमेव ।
काव्यशोभावहानां धर्माणां गुणव्यतिरिक्तत्वे सत्यलङ्कारत्वात् ।
गुणाः खलु काव्यशोभाहेतवो धर्माः ।
ते च माधुर्यौजःप्रसादलक्षणाः येषां तु गुणोपजनितशोभे काव्ये शोभातिशयहेतुत्वं ते ऽलङ्काराः ।
यदवोचद्भट्टवामनः----
ऽकाव्यशोभायाः कर्तारो धर्मा गुणाः ।
तदतिशयहेतवस्त्वलङ्काराः"इति तेनालङकारत्वादेवोपमायाश्चेतोहारित्वं लब्धम् ।
अतश्चेतोहारीत्यनुवादः ।
प्राप्तार्थत्वात् ।
उपमानोपमेयभावश्च नात्यन्तं साधर्म्येण उपादाने सति भवति गौरिवायं गौरिति ।
अत उक्तं मिथोविभिन्नकालादिशब्दयोरिति ।
कालादयो ऽत्र शब्दप्रवृत्तिनिमित्तभूता विवक्षिताः ।
केषांचित्खलु शब्दानां स्वार्थे प्रवर्तमानानां कालः प्रवृत्तिनिमित्तम्, यथा वसन्तादीनाम ।
केषांचित्त दिक्, यथा प्राच्यादीनाम् ।
केषांचिज्जातिर्यथा गवादीनाम् ।
शुक्लप्रभृतीनां तु गुणः ।
गच्छत्यादीनां क्रिया ।
राजपुरुषादीनां स्वस्वामिभावादिः संबन्धः ।
एवमन्यदप्यनुसर्तव्यम् ।
मिथः परस्परं विभिन्नाः कालादयः प्रवृत्तिनिमित्तभूता ययोः शब्दयोस्तथाविधौ शब्दौ वाचकौ ययोरुपमानोपमेययोरिति बहुव्रीहिगर्भो बहुव्रीहिः ।
गौरिवायं गौरित्यभिधाने तु न प्रवृत्तिनिमित्तभेदः ।
गोत्वस्यैवैकस्य प्रवृत्तिनिमित्तत्वात् ।
तेन एवंविध उपमानोपमेयभावो न भवति ।
ऽउपमा तु तत्ऽइत्यत्र वाक्ये तुशब्दो ऽलङ्कारान्तरे व्यतिरेके ।
उपमा पुनरेवंप्रकारेत्यर्थः ।
एषा चोपमा द्विधा, पूर्णा लुप्ता च ।
पूर्णा यत्र चतुष्टयमुपादीयते उपमानमुपमेयं तयोश्च साधारणो धर्मः सौन्दर्यादिरूपमानोपमेयभावस्य द्योतक इवादिः ।
साच पूर्णा त्रिविधा, वाक्यसमासतद्धितावसेयत्वात् ।
तत्र वाक्यावसेयायाः श्रौतत्वार्थत्वभेदेन द्वैविध्यम् ।
अव्ययावसेया श्रौती ।
अव्ययं हि लुप्तविभक्तिकत्वेन उपमानोपमेययोरेकतरत्राप्यविश्रान्तत्वादुभयोरप्युपमानोपमेययोरुपमितिक्रियाविषयतया यथायोगं कर्मकरणभावात्मकं संबन्धमवद्योतयति ।
अतस्तत्र श्रौती उपमा ।
तदुक्तम्-----
ऽयथेवशब्दयोगेन श्रुत्यान्वयमर्हतिऽ
इति ।
यथेवशब्दौ चात्रोपलक्षणम् ।
अव्ययान्तरादपि वाशब्दादेः तेन रूपेण उपमानोपमेयभावस्यावगतेः ।
यथा-----
तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥
तत्र यथाशब्दयोगे तस्या उदाहरणम्-----
क्षणं कामज्वरोत्थित्यै भूयः संतापवृद्धये ।
वियोगिनामभूच्चान्द्री चन्द्रिका चन्दनं यथा ॥ उक्स्स्_1.*18 ॥
अत्र चान्द्री चन्द्रिका उपमेया ।
चन्दनमुपमानम् ।
कामज्वरोत्थितिहेतुत्वं संतापवृद्धिनिबन्धनत्वं चानवस्थितं साधारणो धर्मः ।
यथाशब्दश्चाव्ययत्वेन लुप्तविभक्तिकत्वादुपमानोपमेययोरेकतरस्मिन्नर्थे विश्रान्तः श्रौतेन रूपेणोभयाधारमुपमानोपमेयभावमवद्योतयति ।
तेनेयं संपूर्णा श्रौती च ।
एवमिवशब्दयोगे ऽप्युदाहरणं योज्यम् ।
नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः ।
तरुण्य इव भान्ति स्म चक्रवाकैः स्तनैरिव ॥ उक्स्स्_1.*19 ॥
एवमियमव्ययोपदर्शिता श्रौती संपूर्णा वाक्योपमोक्ता ।
या तूपमा सदृशादिभिः पदैः श्लिष्टा तस्यां न श्रौतेन रूपेण उभयानुयायितया उपमानोपमेयभावो ऽवगम्यते ।
अपि त्वर्थात् ।
सदृशादीनां पदानामुपमानोपमेययोरेकत्रैव विश्रान्तेः ।
अन्यत्र च तद्गतसादृश्यपर्यालोचनया तत्संबन्धित्वावगतेः ।
तेनासौ आर्थी ।
तदुक्तं ऽसदृशादिपदाश्लेषादन्यथाऽइति ।
अन्यथेति ।
अश्रौतेन रूपेणेत्यर्थः ।
तस्या उदाहरणम्----
प्रबोधाद्धवलं रात्रौ किञ्जल्कालीनषट्पदम् ।
पूर्णेन्दुबिम्बप्रतिममासीत्कुमुदकाननम् ॥ उक्स्स्_1.*20 ॥
अत्र कुमुदकाननं विकसितं किञ्जल्कालीनषट्पदत्वविशिष्टमुपमेयम्, पूर्णेन्दुबिम्बमुपमानम्, धवलत्वं साधारणो धर्मः ।
प्रतिमाशब्द उपमानोपमेयभावावगतिहेतुः ।
स च उपमाने विश्रान्तः ।
तथाहि ।
पूर्णोन्दुबिम्बं प्रतिमा प्रतिबिम्बं सदृशमस्येति बहूव्रीहिरत्र क्रियते ।
तेन प्रतिमाशब्द उपमाने विश्रान्तः ।
तेन चोपमाने विश्रान्तेनापि अर्थादुपमेयस्य सादृश्यमवगम्यते ।
सादृश्यस्योभयाधिष्ठानत्वात् ।
यदापि च पूर्णेन्दुबिम्बेन प्रतिममिति तृतीयातत्पुरुषस्तदाप्युपमेये खकण्ठेनाभिहितं सादृश्यम् ।
उपमाने च तस्यार्थात्प्रतिपत्तिः ।
अतो बहुव्रीहौ उपमानगतसादृश्यपर्यालोचनया उपमेयत्वमवगम्यते ।
तत्पुरुषे तु उपमेयवर्तिसादृश्यविचारेण उममानस्योपमानत्वावगतिरित्यार्थो ऽत्रोपमानोपमेयभावः ।
अत्र च उपमेयवर्तिकिञ्जल्कालीनषट्पदत्वाभिधानसामर्थ्यादपरमपि साधर्म्यमनभिहितमसितोदरत्वलक्षणमाक्षिप्तम् ।
यथा पूर्णेन्दुबिम्बं शशलाञ्छनत्वादसितोदरमेवं कुमुदकाननमपि किञ्जल्कालीनषट्पदत्वादिति ।
अतो ऽसितोदरत्वलक्षणं धर्ममपेक्ष्य लुप्तैकदेशत्वाल्लुप्तापीयमुपमा ।
ऽनेत्रैरिवोत्पलैःऽइत्यादौ तु यद्यपि नेत्रोत्पलादीनां समानधर्मा दीर्घत्वनीलत्वादयः स्वशब्देन नोपात्तास्तथापि भान्तित्यभिधीयमानार्थे तेषामनुप्रवेशात्संपूर्णत्वमेवोपमायाः, चतुष्टयोपलम्भात् ।
नेत्रादीनि ह्यत्रोपमानानि ।
उत्पलादीन्युपमेयानि ।
भानं दीर्घत्वनीलत्वादिविशेषणपर्यन्तं साधारणो धर्मः ।
इवशब्दश्च उपमानोपमेयभावावगतहेतुः ।
तेनेयमुपमासंपूर्णैव प्रबोधाद्धवलिमितीयं त्वसितोदरत्वापेक्षया लुप्तत्वेनाप्युक्ता ।
समासोपमा चैषा पूर्णेन्दुबिम्बप्रतिममिति समासस्य विहितत्वात् ।
यदा त्वत्र वाक्योपमा विवक्षिता भवति तदैतदेवोदाहरणं तदुदाहरणार्थत्वेन
अखण्डेनेन्दुना तुल्यमासीत्सुमुदकाननम् ॥ उक्स्स्_1.*21 ॥
इत्येवं परिणमयितव्यम् ॥
एवमेषा संपूर्णा वाक्यावगम्या द्विविधोपमा प्रतीपादिता श्रौती आर्थी च ।
समासावगम्या त्वार्थत्वेन एकप्रकारैवोक्ता ॥
या तु तद्धितावसेया संपूर्णा तस्या अपि द्वैविध्यं श्रौतत्वार्थत्वभेदेन ।
तत्र तस्येवेत्यनेन हि यो वतिर्विधीयते तस्य इवार्थे विधीयमानत्वादिवशब्दवच्छ्रौतेन रूपेण उभयानुयायितया
उपमानोपमेयभावावगतिनिबन्धनत्वम् ।
यः पुनस्तेन तुल्यमिति तुल्यार्थो वतिर्विधीयते ततो ब्राह्मणेन तुल्यमधीते ब्राह्मणवदधीते क्षत्रिय इत्युपमेये यत्तदध्ययनक्रियाद्वारेण विश्रान्तं तुल्यत्वं तत्पर्यालोचनया अर्थादुपमानस्योपमानत्वमवगम्यते ।
तेनार्थस्तत्र उपमानोपमेयभावः ।
तदुक्तम्----
ऽवतिना च कर्मसामान्यवचनेन ।
षष्ठीसप्तमयन्ताच्च यो वतिर्नामतस्तदभिधेयेऽइति ।
कर्मसामान्यवचनो वतिः ऽतेन तुल्यं क्रिया चेद्वतिःऽ; (पा. अ. 5. 1. 115.)
इति क्रियातुल्यत्वे ऽभिधानात् ।
तेन चाभिधीयते उपमा ।
वाच्येति पूर्वोपक्रान्तमत्रानुषज्यते ।
षष्ठ्यन्तात्सप्तम्यन्ताच्च नामतो नाम्नः प्रातीपदिकादिति संबन्धः ॥
तत्र पूर्वस्या उदाहरणम्-----
अपि सा सुमुखी तिष्ठेद्दृष्टेः पथि कथंचन ।
अप्रार्थितोपसंपन्ना पतितानभ्रवृष्टिवत् ॥ उक्स्स्_1.*22 ॥
अप्रार्थितोपसंपन्ना दृष्टेः पथि कथंचन पतिता तिष्ठेदिति संबन्धः ।
अत्रानभ्रवृष्टिरूपमानम्, सुमुखी उपमेया ।
अप्रार्थितोपसंपन्नत्वे सति दृष्टिगोचरपतितत्वेनावस्थानं साधारणो धर्मः ।
वतिश्च क्रियातुल्यत्वे विधीयमान उपमेये क्रियाद्वारेण शब्देन वृत्तेन विश्रान्तः संस्तुल्यत्वपर्यालोचनयोपमानस्योपमानत्वमवगमयति ।
ततो ऽत्रार्थादुपमानोपमेयभावः प्रतीयते ।
तेनेयं संपूर्णां आर्थीच तद्धितावसेया ।
द्वितीयस्या उदाहरणम्-----
किं स्युरुत्कलिका मद्वत्तस्या अपि निरर्गलाः ।
अकाण्डोड्डामरानङ्गहतकेन समर्थिताः ॥ उक्स्स्_1.*23 ॥
अकाण्डोड्डामरो ऽनवसरे उद्भटः ।
प्रचण्ड इति पाठान्तरम् ।
उत्कलिकाः उत्कण्ठाः ।
अत्रास्मदर्थ उपमानम् ।
तच्छब्दार्थ उपमेयः ।
मन्मथेन समर्पिता यास्ता निरर्गलाः उत्कलिकास्तत्कर्तृकं भवनं साधारणो धर्मः ।
वतिश्चेवार्थे विधीयमानत्वादिवशब्दवदुपमानोपमेययोरेकतरत्राप्यविश्रान्तः श्रौतेन रूपेणोपमानोपमेयभावमेव द्योतयति ।
तेनेयं संपूर्णा श्रौती च तद्धितावसेया ।
अत्र तु तस्या अपीति पाठे षष्ठ्यन्ताद्वतर्विधेयः ।
यदा तु तस्यामपीति पाठस्तदा सप्तम्यन्तात् ।
यदुक्तम् ऽउपमाने यः संशयः स उपमेयाद्य्वावर्ततऽइति ।
एवमेषा वाक्यसमासतद्धितावसेया संपूर्णा त्रिविधोपमा प्रतिपादिता ।
तत्र च वाक्यतद्धितावसेययोरुपमयोः प्रत्येकं श्रौतत्वार्थत्वभेदेन द्वैविध्यमुक्तम् ।
समासावसेयायास्त्वार्थत्वमेव ।
अतः पञ्चप्रकारैषा संपूर्णा ।
या तु लुप्तैकदेशत्वाल्लुप्तोपमा सा संक्षेपोपमा ।
तस्याश्च पञ्चविधत्वं वाक्यासमाससुब्धातुकृत्तद्धितावसेयत्वात् ।
तत्र वाक्ये या संक्षेपोपमा सा पूर्वमुदाहृता ऽअखण्डेनेन्दुना तुल्यमितिऽ; ।
अत्र ह्यसितोदरत्वस्य अनुपात्तत्वात्साधारणधर्मानुपादानाल्लुप्तैकदेशत्वमपि विद्यते ।
समासावसेया पुनः संक्षेपोपमा त्रिविधा ।
एकद्वित्रिलोपे भावात् ।
एकलोपे द्विविधा, साधारणधर्मवाचिन इवादेर्वानुपादानात् ।
तदुक्तं ऽसाम्यवाचकविच्युतेऽरिति ।
ऽतद्वाचिविरहेणेऽति च ।
साम्यवाचकः साधारणधर्मवाची ।
(साधारणधर्मः) सौन्दर्यादिः ।
तद्वाची उपमानोपमेयभाववाची च इवादिः ।
अत्र च सर्वत्र प्रकरणे ऽसंक्षेपाभिहिताप्येषाऽइति, ऽक्वचित्, समासऽइति, ऽनिबध्यतऽइति च त्रयं प्रत्येकं यथोपयोगमनुषज्यते ।
तत्र साम्यवाचिवियोगेन समासे या संक्षेपोपमा तस्याः पूर्वमेवोदाहरणमुक्तं ऽपूर्णेन्दुबिम्बप्रतिममिऽति ।
अत्र ह्यसितोदरत्वमर्थसामर्थ्यावसेयत्वाच्छबेदेन नोपात्तम् ॥
इवादिवियोगे तु तस्या उदाहरणम्----
इति काले कलोल्लापिकादम्बकुलसङ्कुले ।
त्रिदशाधीशशार्दूलः पश्चात्तापेन धूर्जटिः ॥ उक्स्स्_1.*24 ॥
तां शशिच्छायवदनां नीलोत्पलदलेक्षणाम् ।
सरोजकर्णिकागौरीं गौरीं प्रति मनो दधौ ॥ उक्स्स्_1.*25 ॥
कादम्बाः पक्षिभेदाः ।
सरोजकर्णिकागौरीं गौरीमित्यत्र सरोजकर्णिका उपमानं, गौरी उपमेया, गौरत्वं साधारणो धर्मः ।
तच्चत्रयं स्वकण्ठेनोपात्तम् ।
इवाद्यर्थस्तु उपमानस्य साधारणधर्मवाचिना सह "उपमानानि सामान्यवचनैः" (पा. अ. 2 । 1 । 55) इति यः समासस्तत्सामर्थ्यदवगम्यते ।
तेनेयमिवादिशब्दलोपाल्लुप्तैकदेशा ।
एवमेकलोपे सति द्विविधा समासोपमोक्ता ।
द्वितयलोपे त्वेकप्रकारा भवति, साधारणधर्मवाचिन इवादेश्च युगपदप्रयोगात् ।
तदुक्तं ऽउपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात्ऽ; ।
अत्र
साम्यशब्देन साम्यवाची शब्दो लक्ष्यते ।
साम्यविच्यवाच्चोपमाया असंभवात् ।
तस्या उदाहरणं ऽत्रिदशाधीशशार्दूलऽइति, नीलोत्पलदलेक्षणम्ऽइति च ।
ऽत्रिदशाधीशशार्दूलःऽइत्यत्र च त्रिदशाधिश उपमेयः, शार्दूल उपमानम् ।
तच्च द्वयं स्वकण्ठेनोपात्तम् ।
इवाद्यर्थः साधारणश्च धर्मस्तेजस्वित्वादिः सामर्थ्यादवसीयते ।
ऽनीलोत्पलदलेक्षणाम्ऽइत्यत्र तु नीलोत्पलपलाशानामुपमानत्वं, ईक्षणयोरुपमेयता ।
एतयोश्च स्वकण्ठेनो पादानम् ।
नीलत्वदीर्घत्वादिसाधारणो धर्म इवाद्यर्थश्च उपमानोपमेयभावात्मकः स्वशब्देन अनुपात्तो ऽपि समासवशेनार्थसामर्थ्यादवसीयते ।
ऽत्रिदशाधीशशार्दूलऽइत्यस्मात्तु ऽनीलोत्पलदलेक्षणामिऽत्यस्य बहुव्रीहित्वकृतो विशेषः ।
तत्र हि "उपमितं व्याघ्रादिभिः"इति तत्पुरुषो विहितः ।
एवमेषा साधारणधर्मवाचिन इवादेश्चाप्रयोगात् द्वितयलोपे समासे संक्षेपोपमोक्ता ।
त्रितयलोपे तु साधारणधर्मवाचिन उपमेयाभिधायिन उपमानोपमेयभाववाचिनश्च इवादेर्युगपदप्रयोगात्समासवर्त्तिनी संक्षेपोपमा भवति ।
तदुक्तं "साम्योपमेयतद्वाचिवियोगाच्च"इति ।
अत्रापि पूर्ववत्साम्योपमेयशब्दाभ्यां तद्वाची शब्दौ लक्ष्यते ।
तस्या उदाहरणं "शशिच्छायवदनामि"ति ।
अत्र हि शशिच्छायातुल्या छाया यस्य तथाविधं वदनं यस्या इति बहुव्रीहिगर्मे बहुव्रीहौ शशिकान्तिरुपमानं, वदनकान्तिरूपमेया ।
तयोश्च साधारणो धर्म आह्लादकत्वादिस्तुल्यत्वं चेति चतुष्टयमवगम्यते ।
शब्दस्पृष्टं तूपमानमेव शशिच्छायेति ।
तदितरस्योपमेयादेस्त्रितयस्य समाससामर्थ्येनार्थावसेयत्वात् ।
एवमेषा त्रितयलोपे समासवर्तिनी संक्षेपोपमा उदाहृता ।
तेदवमत्र चतुःप्रकारा लुप्ता समासोपमा प्रतिपादिता ।
एकलोपे द्वे, द्वितयलोपे एका, त्रितयलोपे चैकेति ।
सुब्धातुप्रत्ययावसेया पुनरुपमा त्रिविधा क्यच् क्यङ् क्विपू प्रत्ययावसेयत्वात् ।
क्यच्प्रत्ययावसेयापि त्रिविधा कर्मोपमानकत्वादधिकरणोपमानकत्वाच्च ।
तदुक्तं "तथोपमानादाचारे क्यच्प्रत्ययबलोक्तितः"इति ।
यथा समासे संक्षेपाभिहिता उपमा समाससमर्थ्यादवगम्यमाना निबध्यते तथा कस्मिंश्चिद्विषये उपमानात्कर्मणः अधिकरणाद्वा आचारार्थे यथाक्रमं सौत्र औपसंख्यानिकश्च यः क्यच्प्रत्ययस्तद्बलेन यासौ भणितिस्तत्सामर्थ्यादप्यवसीयमाना निबध्यते ।
तस्या उदाहरणं----
स दुःस्थीयन् कृतार्थो ऽपि निःशेषैश्वर्यसंपदा ।
निकामकमनीये ऽपि नरकीयति कानने ॥ उक्स्स्_1.*26 ॥
निःशेषैश्वर्यसंपदा कृतार्थो ऽपीति संबन्धः ।
अत्र दुःस्थमिवात्मानमाचरन्निति दुःस्थः कश्चिद्दारिद्षाद्युपप्लुत उपमानं, भगवदात्मा उपमेयः, आचाराख्यः साधारणो धर्मः क्यच्प्रत्ययोपात्तः ।
अत्र चोपमानसाधारणधर्मयोः शब्दस्पृष्टत्वं ।
उपमेयस्य उपमानोपमेयभावस्य च सामर्थ्यादवगतिः ।
तेनेयं द्वितयस्य गम्यमानार्थत्वाद्द्वितयलोपे सति सुब्धातूपमा ।
एवमियं कर्मोपमानिका सुब्धातूपमा उदाहृता ।
अधिकरणोपमानिका तु ऽनरकीयति काननेऽइति ।
अत्र नरक उपमानम्, काननमुपमेयम्, क्यच्प्रत्ययोपात्त्स्त्वाचारः साधारणो धर्मः ।
इवादयस्तु क्यच्प्रत्ययसामर्थेनोपमानोपमेयभावस्यावसेयत्वादप्रयुक्ताः ।
तेनेयं एकलोपे सति सुब्धातुपमा ।
एवमेषा क्यच्प्रत्ययावगम्या द्विविधा संक्षेपोपमोक्त ।
क्यङ्प्रत्ययसामर्थ्यावगम्या तु कर्त्रपमानिका संक्षेपोपमा भवति ।
तदाह"कर्तुराचारे क्यङा से"ति, "तथे"ति, "उपमानादाचार"इति ।
क्वचिदिति च पूर्वोक्तस्यात्रानुषङ्गः ।
कर्तुरुपमानादुत्तरेंणाचारविषयेण क्यङा सा संक्षेपोपमा क्वचिन्निबध्यत इत्यर्थः ।
तस्या उदाहरणम्----
कृशानुवज्जगत्त्स्य पश्यतस्तां प्रियां विना ।
खद्योतायितुमारब्धं तत्त्वज्ञानमहामहः ॥ उक्स्स्_1.*27 ॥
खद्योतो ज्योतिर्मालिका ।
अत्र खद्योतायितुमित्यादौ खद्योत उपमानम् ।
तत्त्वज्ञानं पदार्थखरूपयाथातथ्यपरिच्छेदः, तदात्मकं यत्तन्महदुत्कृष्टं महस्तेजस्तदुपमेयम् ।
क्यङ्कप्रत्ययोपात्तश्चाचारः साधारणो धर्मः ।
क्यङ्प्रत्ययसामर्थ्यावसेयत्वाच्चात्रेवादेरप्रयोगः ।
तेनेयमेकलोपेन सुब्धातूपमोपनिबद्धा ।
क्वचित् विषये कर्त्रुपमानिका सा संक्षेपोपमा क्विपा निबध्यते ।
स च क्विप् "सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः"इत्यनेन विधीयते ।
तदुक्तं "सा क्विपा क्वचिदि"ति ।
अत्रापि तथेति, उपमानादाचार इति, कर्तुरिति च त्रयमनुषज्यते ।
तस्या उदाहरणम्----
"कृशानुवज्जगदिऽजगदुपमेयम्, आचारश्च साधारणो धर्मः क्विप्सामर्थ्यदवगम्यते ।
अत्र चोपमानोपमेययोः शब्दोपात्तत्वादिवादीनामाचारस्य च अर्थसामार्थ्यवसेयत्वात्तद्द्वितयलोपः ।
न खल्वश्रूयमाणस्य क्विपोर्ऽथाभिधायिता वक्तुं शक्या ।
एवमेषा सुब्धात्ववसेया त्रिविधा संक्षेपोपमा प्रतिपादिता ।
क्यच्क्यङ्क्विप्परत्ययावसेयत्वात् ।
क्यच्प्रत्ययसामर्थ्यावसेया तु द्विविधा ।
कर्माधिकरणोपमानकत्वात् ।
क्यप्प्रत्ययावसेया त्वेकप्रकारा ।
क्विप्प्रत्ययावसेयाप्येकप्रकारैव भवति ।
तदेवमेषा चतुर्विधा सुब्धातुप्रत्ययावसेया संक्षेपोपमोक्ता ।
कृत्प्रत्ययसामर्थ्यावसेया संक्षेपोपमा द्विविधा, कर्मोपमानिका कर्त्रुपमानिका च ।
तदुक्तं ऽउपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादिगतस्तद्वाच्या सेऽति ।
कषादिगतः कषाद्यनुप्रयोगक इत्यर्थः ।
कर्मोपमानिकायास्तस्या उदाहरणम्----
तस्येतरमनोदाहमदहत्प्रज्वलन्मनः ।
उमां प्रति तपःशक्त्याकृष्टबुद्धेः स्मरानलः ॥ उक्स्स्_1.*28 ॥
अत्र इतरस्य प्राकृतस्य संबन्धि मन उपमानं, भगवन्मन उपमेयं, दह्यमानत्वं साधारणो धर्मः ।
तच्च त्रयं शब्दस्पृष्टम् ।
उपमानोपमेयभावस्त्वत्र णमुल्सामर्थ्यादिवादीनामप्रयोगे ऽपि गम्यते ।
तेनेयमेकलोपे संक्षेपोपमा कर्मोपमानिका कृत्प्रत्ययावसेया ।
कर्त्रुपमानिकायास्तु तस्या उदाहरणम्----
स दग्धविग्रहेणापि वीर्यमात्रस्थितात्मना ।
स्पृष्टः कामेन सामान्यप्राणिचिन्तमचिन्तयत् ॥ उक्स्स्_1.*29 ॥
विग्रहः शरीरम् ।
अत्र सामान्यभूतः प्राणी गुणातिशयशून्य उपप्रानं, तच्छब्दनिर्दिष्टश्च भगवानुपमेयः, चिन्तयितृत्वं साधारणो धर्मो, णमुल्सामर्थ्याच्च इवादेरप्रयोगे ऽप्युपमानोपमेयभावावसायः ।
तेनेयमेकलोपे सति कर्त्रुपमानिका संक्षेपोपमा कृत्प्रत्ययावसेया ।
एवमेषा कृत्प्रत्ययावसेया संक्षेपोपमा द्विविधा प्रतिपादता ।
या तु तद्धितसामर्थ्यावसेया वतिशब्दादवगम्यते, सा संपूर्णत्वात्पूर्वमुक्ता ।
अन्या त्वसंपूर्णा कल्पबादेः तद्धित्स्य प्रयोगादवसीयते ।
तदुक्तं ऽकल्पप्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिःऽइति ।
प्रभृतिशब्देनात्र ऽइवे प्रतिकृतौऽइत्यादिविहितानां कनादीनां परिग्रहः ।
तस्या उदाहरणम्-----
चण्डालकल्पे कन्दर्पप्लुष्टा मयि तिरोहिते ।
संजातातुलनैराश्या किं सा शोकान्मृता भवेत् ॥ उक्स्स्_1.*30 ॥
अत्र चण्डाल उपमानं, मयीत्यस्मदर्थ उपमेयः, कल्पप्प्रत्ययेन च सादृश्यमुपात्त्म् ।
प्रकृत्यर्थसदृशेर्ऽथे भगवत्कात्यायनदृशा कल्पबादीनां विधानात् क्रौर्यादिस्तु धर्मः स्वशब्दानुपात्तो ऽपि सामर्थ्यादत्रावसीयते ।
तेनेयमेकलोपे सति तद्धितावगम्या संक्षेपोपमा ।
एवमश्वक इत्यत्रापि द्रष्टव्यम् ।
इवार्थोपलक्षिते सदृशे कनो विधानात् ।
आयःशूलिक इत्यादौ तु त्रितयलोपेन तद्धितसामर्थादुपमावसायः ।
तथाहि, अत्रायःशूलेनान्विच्छतीति विगृह्य "अयःशूलदण्डाजिनाभ्या"मिति ठग्वधीयते ।
अत्र चायःशूलमुपमानं, अर्थान्वेषणोपायः कश्चिदुपमेयः तीक्ष्णत्वादिः साधारणो धर्मः उपमानोपमेयभावश्चेति चतुष्टयमवगम्यते ।
तन्मध्यात्स्वशब्दस्पुष्टमुपमानमयःशूलेनेति ।
शिष्टशब्दस्य तु त्रितयस्यात्रार्थसामर्थ्यादवगतिः ।
ननु चात्रोपमानेनायःशूलेनार्थान्वेषणोपायस्योपमेयस्य तद्भावाध्यवसानेनापादिताभेदस्य प्रतीयमानत्वादतिशयोक्तिरियं न तूपमा ।
तत्कथमेतदुपमानोदाहरणम् ।
उच्यते ।
यथा ऽशशिच्छायवदनाम्ऽइत्यत्र सत्यपि शशिच्छायाप्रच्छादितरूपत्वे वदनच्छायायाः कथञ्चिद्भेदप्रतिपत्तिपुरः-- सरीकारेणोपमाभेदत्वमुपन्यस्तं तथात्रापि भविष्यतीत्यदोषः ।
तेनायः--शूलिक इत्यत्र त्रितयलोपे सति तद्धितावसेया संक्षेपोपमा भवति एव् श्वा मुमूर्षति कूलं पिपतिपतीत्यादावपि यदि मरणपतनाद्यानुगुण्यस्य उपमेयभूतस्य तद्भावाध्यवसानात्सन्वाच्यया इच्छयोपमानभूतया समापादिताभेदस्य प्रतीयमानस्य भेदावगतिनिबन्धनं किञ्चिद्विद्यते तदोपमाभेदत्वं वाच्यम् ।
अन्यथा त्वतिशयोक्तिभेदतास्यावसेया ।
यदाह सन्विधौ भगवान्कात्यायनः--"आशङ्कायामचेतनेषूपसंख्यानम्""न वा तुल्यकारणात्वादिच्छाया हि प्रवृत्तित उपलब्धिरि"ति, "उपमानाद्वा सिद्धमिति" च ।
अत्र हि ऽन वा तुल्यकारणत्वादिऽत्यादिना तद्भावध्यवसानं सूचितम् ।
ऽउपमानाद्वा सिद्धमिऽति तूपमानोपमेयभावः प्रतिपादितः ।
इयं च घातोः सनो विधानात्तदन्तस्य च धातुत्वात्सुब्धातूपमावत् धातुधातूपमावसेया ।
एवं वर्तमानसामीप्यादावप्युपमाभेदत्वमतिशयोक्तिभेदत्वं वा यथाप्रतीति योज्यम् ।
चूर्णिकारस्य त्वेवमादौ तद्भावाध्यवसानसमाश्रयेम नातिशयोक्तिभेदत्वमेवेष्टम् ।
यदाह"न तिङन्तेनोपमानमस्ती"ति ।
अत एव दण्डिना "लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता"इत्यादेर्गर्भीकृतातिशयोत्प्रेक्षाबेदत्वमेव महता प्रपञ्चेनाभ्यधायि ।
तेन कदा देवदत्त ग्रामं गमिष्यसि, एष गच्छामीत्यादावपि वर्तमानसामीप्ये वर्तमानरूपतया भविष्यत्कालस्याध्यवसानादतिशयोक्तिभेदत्वमेव वाच्यम् ।
एवमन्यत्राप्यूह्यम् ।
एवमेषा वाक्यसमाससुब्धातुकृत्तद्धितावसेया संक्षेपो पमा पञ्चविधा प्रतिपादिता ।
संपूर्णा तु वाक्यासमासतद्धितभेदेन त्रिविधा पूर्वमुक्ता ।
आसामेव चावान्तरभेदा अन्ये निर्दिष्टाः ।
तथाहि, संपूर्णयोर्वाक्यतद्धितोपमयोः श्रौतत्वार्थत्वभेदेन प्रत्येकं द्वैविध्यमुक्तम् ।
संक्षेपोपमायाश्च समासोपमाया एकद्वयत्रयलोपेन चतुर्बिधत्वम् ।
एकलोपस्य हि तत्र द्वैविध्यमुक्तम्, इवादेः साधारणधर्मवाचिनश्च लोपत् सब्धातूपमायाश्चतुर्विधत्वम्, क्यच्क्यङ्क्विप्प्रत्यायावसेयत्वात् ।
क्यच्प्रत्यायावसेया हि कर्माधकरणोपमानकत्वेन द्विविधोक्ता ।
कृत्प्रत्यायावसेयायाश्च कर्तृकर्मोपमानकत्वेन द्विविधत्वम् ।
तदेवमेषा सप्तदशविधा ग्रन्थकृता उपमा प्रतिपादिता ।
तदाहुः---
कृत्तद्वितसमासेभ्यः सुब्धातोरथ वाक्यतः ।
पूर्णा लुप्तैकदेशा च गम्यते द्विविधोपमा ॥
एकद्वयत्रयाणां च लोपात्स्याल्लोपिनी त्रीधा ।
पूर्वौ भेदौ द्विधा चात्र तृतीयस्त्वेकरूपकः ॥
इति
पूर्वौ भेदौ द्विधा चात्रेति साधारणधर्मवाचिलोपाच्चैकलोपस्य द्वैविध्यम् ।
द्वितयलोपो ऽपि साधारणधर्मवाचीवादिवियोगात्तथा उपमेयवाचीवादिवियोगाद्द्विविधः ।
एषा चोपमा विचित्रभेदत्वे सत्यपि यत्रैव चेतोहारित्वमस्ति तत्रैवालङ्कारतां प्रतिपद्यते न सर्वत्रेत्युक्तम् ॥
प्रतिवस्तूपमा---
उपमानसंनिधाने साम्यवाच्युच्यते बुधैर्यत्र ।
उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता
यत्रोपमानोपमेययोः संनिधाने साम्यवाचिनः पदस्यासकृदुपादानं क्रियते सा परतिवस्तूपमा ।
ननु यदि साम्यवाचिनः पदस्य तत्रासकृदुपादानं क्रियते ततो ऽनेकवाक्यत्वमापतति ।
न चानेकस्मिन् वाक्ये इवादीनि प्रयुज्यन्ते, एकवाक्यनिष्ठतया तेषामभिधासामर्थ्यावसितत्वात् ।
अतश्चेवादीनामप्रयोगे कथं तत्रोपमानोपमेयभावावसाय इत्यासङ्क्याह----
प्राकरणिकेतरत्वस्थित्यैकश्चोपमेयतां लभते ।
उपमानत्वं चापर इत्युपमावाचिशून्यत्वम्
मूल पाठ: Kāvyālaṃkārasārasaṃgraha with Indurāja's Laghuvṛtti commentary · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0