भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकार · अध्याय 5

5.1

अथ प्रतिज्ञाहेत्वादि हीनं दुष्टं च वर्ण्यते
समासेन यथान्यायं तन्मात्रार्थप्रतीतये ॥

5.2

प्रायेण दुर्बोधतया शास्त्राद् बिभत्यमेधसः
तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ॥

5.3

स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते
प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥

5.4

न स शब्दो न तद्वाच्यं न स न्यायो न सा कला
जायते यन्न काव्याङ्गम् अहो भारो महान् कवेः ॥

5.5

सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते
असाधारणसामान्य विषयत्वं तयोः किल ॥

5.6

प्रत्यक्षं कल्पनापोढं ततो ऽर्थादिति केचन
कल्पनां नामजात्यादि योजनां प्रतिजानते ॥

5.7

समारोपः किलैतावान् सदर्थालम्बनं च तत्
जात्याद्यपोहे वृत्तिः क्व क्व विशेषः कुतश्च सः ॥

5.8

तदपोहेषु च तथा सिद्धा सा बुद्धिगोचरा
अवस्तुकं चेद्वितथं प्रत्यक्षं तत्त्ववृत्ति हि ॥

5.9

ग्राह्यग्राहकभेदेन विज्ञानांशो मतो यदि
विज्ञानमात्रसादृश्याद् विशेषो ऽस्य विकल्पना ॥

5.10

अर्थादेवेति रूपादेस् तत एवेति नान्यतः
अन्यथा घटविज्ञानम् अन्येन व्यपदिश्यते ॥

5.11

त्रिरूपाल्लिङ्गतो ज्ञानम् अनुमानं च केचन
तद्विदो नान्तरीयार्थ दर्शनं चापरे विदुः ॥

5.12

विवादास्पदधर्मेण धर्मी कृतविशेषणः
पक्षस्तस्य च निर्देशः प्रतिज्ञेत्यभिधीयते ॥

5.13

तदर्थहेतुसिद्धान्त सर्वागमविरोधिनी
प्रसिद्धधर्मा प्रत्यक्ष बाधिनी चेति दुष्यति ॥

5.14

तयैव हि तदर्थस्य विरोधकरणं यथा
यतिर्मम पिता बाल्यात् सूनुर्यस्याहमौरसः ॥

5.15

अस्त्यात्मा प्रकृतिर्वेति ज्ञेया हेत्वपवादिनी
धर्मिणो ऽस्याप्रसिद्धत्वात् तद्धर्मो ऽपि न सेत्स्यति ॥

5.16

शाश्वतो ऽशाश्वतो वेति प्रसिद्धे धर्मिणि ध्वनौ
जायते भेदविषयो विवादो वादिनोर्मिथः ॥

5.17

स्वसिद्धान्तविरोधित्वाद् विज्ञेया तद्विरोधिनी
कणभक्षो यथा शब्दम् आचक्षीताविनश्वरम् ॥

5.18

सर्वशास्त्रविरुद्धत्वात् सर्वागमविरोधिनी
यथा शुचिस्तनुस्त्रीणि प्रमाणानि न सन्ति वा ॥

5.19

आकुमारमसन्दिग्ध धर्माहितविशेषणा
प्रसिद्धधर्मेति मता श्रोत्रग्राह्यो ध्वनिर्यथा ॥

5.20

प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते
यथा शीतो ऽनलो नास्ति रूपमुष्णः क्षपाकरः ॥

5.21

सन् द्वयोः सदृशे सिद्धो व्यावृत्तस्तद्विपक्षतः
हेतुस्त्रिलक्षणो ज्ञेयो हेत्वाभासो विपर्ययात् ॥

5.22

सन् द्वयोरिति यः सिद्धः स्वपक्षपरपक्षयोः
अभिन्नलक्षणः पक्षः फलभेदादयं द्विधा ॥

5.23

परपक्षानुपादाने तद्वृत्तेश्चानुदाहृतौ
कथमन्यतरासिद्ध हेत्वाभासव्यवस्थितिः ॥

5.24

साध्यधर्मानुगमतः सदृशस्तत्र यश्च सन्
अन्यो ऽप्यसावेक इव सामान्यादुपचर्यते ॥

5.25

विपक्षस्तद्विसदृशो व्यावृत्तस्तत्र यो ह्यसन्
इति द्वयैकानुगति व्यावृत्ती लक्ष्मसाधुता ॥

5.26

साध्यसाधनधर्माभ्यां सिद्धो दृष्टान्त उच्यते
तद्विपर्ययतो वापि तदाभस्तदवृत्तितः ॥

5.27

साध्येन लिङ्गानुगतिस् तदभावे च नास्तिता
ख्याप्यते येन दृष्टान्तः स किलान्यैर्द्विधोच्यते ॥

5.28

दूषणं न्यूनताद्युक्तिर् न्यूनं हेत्वादिनाथ वा
तन्मूलत्वात्कथायाश्च न्यूनं नेष्टं प्रतिज्ञया ॥

5.29

जातयो दूषणाभासास् ताः साधर्म्यसमादयः
तासां प्रपञ्चो बहुधा भूयस्त्वादिह नोदितः ॥

5.30

अपरं वक्ष्यते न्याय लक्षणं काव्यसंश्रयम्
इदं तु शास्त्रगर्भेषु काव्येष्वभिहितं यथा ॥

5.31

अथ नित्याविनाभावि दृष्टं जगति कारणम्
कारणं चेन्न तन्नित्यं नित्यं चेत्कारणं न तत् ॥

5.32

लक्ष्म प्रयोगदोषाणां भेदेनानेन वर्त्मना
सन्धादिसाधनासिद्ध्यै शास्त्रेषूदितमन्यथा ॥

5.33

तज्ज्ञैः काव्यप्रयोगेषु तत्प्रादुष्कृतमन्यथा
तत्र लोकाश्रयं काव्यम् आगमास्तत्त्वदर्शिनः ॥

5.34

असिसंकाशमाकाशं शब्दो दूरानुपात्ययम्
सदैव वारि सिन्धूनाम् अहो स्थेमा महार्चिषः ॥

5.35

रूपादीनां यथा द्रव्यम् आश्रयो नश्यतीति च
इष्टकार्याभ्युपगमं प्रतिज्ञां प्रतिजानते ॥

5.36

धर्मार्थकामकोपानां संश्रयात् सा चतुर्विधा
जरामेष बिभर्मीति प्रतिज्ञाय पितुर्यथा
तथैव पुरुणाभारि सा स्याद्धर्मनिबन्धनी ॥

5.37

उपलप्स्ये स्वयं सीताम् इति भर्तृनिदेशतः
हनुमता प्रतिज्ञाय सा ज्ञातेत्यर्थसंश्रया ॥

5.38

आहरिष्याम्यमूमद्य महासेनात्मजामिति
कृत्वा प्रतिज्ञां वत्सेन हृतेति मदनाश्रया ॥

5.39

भ्रातुर्भ्रातृव्यमुन्मथ्य पास्याम्यस्यासृगाहवे
प्रतिज्ञाय यथा भीमस् तच्चकारावशो रुषा ॥

5.40

कार्यो ऽन्यत्र प्रतिज्ञायाः प्रयोगो न कथं चन
परित्यागश्च कर्तव्यो नासां चतसृणामपि ॥

5.41

प्रायोपवेशाय यथा प्रतिज्ञाय सुयोधनः
राज्याय पुनरुत्तस्थाव् इति धर्मविरोधिनी ॥

5.42

आहूतो न निवर्ते ऽहं द्यूतायेति युधिष्ठिरः
कृत्वा सन्धां शकुनिना दिदेवेत्यर्थबाधिनी ॥

5.43

अद्यारभ्य निवत्स्यामि मुनिवद्वचनादिति
पितुः प्रियाय यां भीष्मश् चक्रे सा कामबाधिनी ॥

5.44

अत्याजयद्यथा रामः सर्वक्षत्रवधाश्रयाम्
जामदग्न्यं युधा जित्वा सा ज्ञेया कोपबाधिनी ॥

5.45

अथाभ्युपगमप्राप्तिः सन्धाभ्युपगमाद्विना
अनुक्तमपि यत्रार्थाद् अभ्युपैति यथोच्यते ॥

5.46

किमिन्द्रियद्विषा ज्ञेयं को निराक्रियते ऽरिभिः
को वा गत्वरमर्थिभ्यो न यच्छति धनं लघु ॥

5.47

किमित्ययं तु यः क्षेपः सौकर्यं दर्शयत्यसौ
हेतुस्त्रिलक्ष्मैव मतः काव्येष्वपि सुमेधसाम् ॥

5.48

अन्वयव्यतिरेकौ हि केवलावर्थसिद्धये
यथाभितो वनाभोगम् एतदस्ति महत् सरः
कूजनात्कुररीणां च कमलानां च सौरभात् ॥

5.49

अन्यधर्मो ऽपि तत्सिद्धिं सम्बन्धेन करोत्ययम्
धूमादभ्रंकषात्साग्नेः प्रदेशस्यानुमामिव ॥

5.50

अपृथक्कृतसाध्यो ऽपि हेतुश्चात्र प्रतीयते
अन्वयव्यतिरेकाभ्यां विनैवार्थगतिर्यथा ॥

5.51

दीप्रदीपा निशा जज्ञे व्यपवृत्तदिवाकरा
हेतुः प्रदीप्रदीपत्वम् अपवृत्तौ रवेरिह ॥

5.52

तस्यापि सुधियामिष्टा दोषाः प्रागुदितास्त्रयः
अज्ञानसंशयज्ञान विपर्ययकृतो यथा ॥

5.53

काशा हरन्ति हृदयम् अमी कुसुमसौरभात्
अपामभ्यर्णवर्तित्वाद् एते ज्ञेयाः शरारयः ॥

5.54

असौ शुक्लान्तनेत्रत्वाच् चकोर इति गृह्यताम्
तुल्यजातावदृष्टत्वात् साधयतचकोरताम् ॥

5.55

उक्तस्यार्थस्य दृष्टान्तः प्रतिबिम्बनिदर्शनम्
ननूपमानुमैवास्तु न हेत्वनभिधानतः ॥

5.56

साध्यसाधनयोरुक्तिर् उक्तादन्यत्र नेष्यते
मुखं पद्ममिवेत्यत्र किं साध्यं किं च साधनम् ॥

5.57

इति प्रयोगस्य यथा कलावपि भवानिह
श्रेयान् वृद्धानुशिष्टत्वात् पूर्वे कृतयुगे यथा ॥

5.58

यत्र दृष्टान्तमात्रेण व्यज्येते साध्यसाधने
तमाहुः शुद्धदृष्टान्तं तन्मात्राविष्कृतेर्यथा ॥

5.59

भरतस्त्वं दिलीपस्त्वं त्वमेवैलः पुरूरवाः
त्वमेव वीर प्रद्युम्नस् त्वमेव नरवाहनः ॥

5.60

कथमेकपदेनैव व्यजेरन्नस्य ते गुणाः
इति प्रयुञ्जते सन्तः केचिद्विस्तरभीरवः ॥

5.61

पदमेकं वरं साधु नार्वाचीननिबन्धनम्
वैपरीत्याद्विपर्यासं कीर्तेरपि करोति तत् ॥

5.62

अहृद्यमसुनिर्भेदं रसवत्त्वे ऽप्यपेशलम्
काव्यं कपित्थमामं यत् केषांचित्तादृशं यथा ॥

5.63

प्रजाजनश्रेष्ठवरिष्ठभूभृच् छिरोर्चितांघ्रेः पृथुकीर्तिधिष्ण्य
अहिघ्नपद्मस्य जलारिधाम्नस् तवैव नान्यस्य सुतस्य वृत्तम् ॥

5.64

अंशुमद्भिश्च मणिभिः फलनिम्नैश्च शाखिभिः
फुल्लैश्च कुसुमैरन्ये वाचो ऽलंकुर्वते यथा ॥

5.65

शुभमरकतपद्मरागचित्रे सफलसपल्लवभूरिचारुवृक्षे
बहुकुसुमविभूषिते स तस्थौ सुरमुनिसिद्धयुते सुमेरुपृष्ठे ॥

5.66

तदेभिरङ्गैर्भूष्यन्ते भूषणोपवनस्रजः
वाचां वक्रार्थशब्दोक्तिर् अलंकाराय कल्पते ॥

5.67

विरुद्धपदमस्वर्थं बहुपूरणमाकुलम्
कुर्वन्ति काव्यमपरे व्यायताभीप्सया यथा ॥

5.68

एलातक्कोलनागस्फुटबकुललताचन्दनस्पन्दनाढ्यो मुक्ताकर्पूरचक्रागरुकमनशिलास्थासकव्याप्ततीरः
शङ्खव्राताकुलो ऽन्तस्तिमिमकरकुलाकीर्णवीचीप्रतानो दध्रे यस्याम्बुराशिः शशिकुमुदसुधाक्षीरशुद्धां सुकीर्तिम् ॥

5.69

इति निगदितास्तास्ता वाचामलङ्कृतयो मया बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च
प्रथितवचसः सन्तो ऽभिज्ञाः प्रमाणमिहापरे गुरुतरधियामस्वाराधं मनो ऽकृतबुद्धिभिः ॥

मूल पाठ: Kāvyālaṃkāra · Edition: : Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri. Madras, Mylapore : Sri Balamanorama Press, 1956. (Sri Balamanorama Series, 54) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc