भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकार · अध्याय 4

4.1

अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम्
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धि च ॥

4.2

देशकालकलालोक न्यायागमविरोधि च
प्रतिज्ञाहेतुदृष्टान्त हीनं दुष्टं च नेष्यते ॥

4.3

अपार्थमित्यपेतार्थं स चार्थः पदवाक्ययोः
अर्थवान् वर्णसंघातः सुप्तिङन्तं पदं पुनः ॥

4.4

पदानामेव संघातः सापेक्षाणां परस्परम्
निराकाङ्क्षं च तद्वाक्यम् एकवस्तुनिबन्धनम् ॥

4.5

क्रमवृत्तिषु वर्णेषु संघातादि न युज्यते
बुद्धौ तु सम्भवत्येतद् अन्यत्वे ऽपि प्रतिक्षणम् ॥

4.6

धीरन्त्यशब्दविषया वृत्तवर्णाहितस्मृतिः
वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ॥

4.7

अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम्
गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ॥

4.8

समुदायार्थशून्यं यत् तदपार्थकमिष्यते
दाडिमानि दशापूपाः षडित्यादि यथोदितम् ॥

4.9

विरुद्धार्थं मतं व्यर्थं विरुद्धं तूपदिश्यते
पूर्वापरार्थव्याघातात् विपर्ययकरं यथा ॥

4.10

सखि मानं प्रिये धेहि लघुतामस्य मा गमः
भर्तुश्छन्दानुवर्त्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ॥

4.11

उपासितगुरुत्वात्त्वं विजितेन्द्रयशत्रुषु
श्रेयसो विनयाधानम् अधुनातिष्ठ केवलम् ॥

4.12

यदभिन्नार्थमन्योन्यं तदेकार्थं प्रचक्षते
पुनरुक्तमिदं प्राहुर् अन्ये शब्दार्थभेदतः ॥

4.13

न शब्दपुनरुक्तं तु स्थौल्यादत्रोपवर्ण्यते
कथमाक्षिप्तचित्तः सन्न् उक्तमेवाभिधास्यते ॥

4.14

भयशोकाभ्यसूयासु हर्षविस्मययोरपि
यथाह गच्छ गच्छेति पुनरुक्तं न तद्विदुः ॥

4.15

अत्रार्थपुनरुक्तं यत् तदेवैकार्थमिष्यते
उक्तस्य पुनराख्याने कार्यासम्भवतो यथा ॥

4.16

तामुत्कमनसं नूनं करोति ध्वनिरम्भसाम्
सौधेषु घनमुक्तानां प्रणालीमुखपातिनाम् ॥

4.17

श्रुतेः सामान्यधर्माणां विशेषस्यानुदाहृतेः
अप्रतिष्ठं यदत्रेति तज्ज्ञानं संशयं विदुः ॥

4.18

ससंशयमिति प्राहुस् ततस्तज्जननं वचः
इष्टं निश्चितये वाक्यं न दोलायेत तद्यथा ॥

4.19

व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः
विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥

4.20

यथोपदेशं क्रमशो निर्देशो ऽत्र क्रमो मतः
तदपेतं विपर्यासाद् इत्याख्यातमपक्रमम् ॥

4.21

विदधानौ किरीटेन्दू श्यामाभ्रहिमसच्छवी
रथाङ्गशूले बिभ्राणौ पातां वः शम्भुशार्ङ्गिणौ ॥

4.22

सूत्रकृत्पादकारेष्ट प्रयोगाद्यो ऽन्यथा भवेत्
तमाप्तश्रावकासिद्धेः शब्दहीनं विदुर्यथा ॥

4.23

स्फुरत्तडिद्वलयिनो वितताम्भोगरीयसः
तेजस्तिरयतः सौरं घनान् पश्य दिवो ऽभितः ॥

4.24

यतिश्छन्दो ऽधिरूढानां शब्दानां या विचारणा
तदपेतं यतिभ्रष्टम् इति निर्दिश्यते यथा ॥

4.25add

विद्युत्वन्तस्तमालासितवपुष इमे वारिवाहा ध्वनन्ति ॥

4.25

गुरोर्लघोश्च वर्णस्य यो ऽस्थाने रचनाविधिः
तन्न्यूनाधिकता वापि भिन्नवृत्तमिदं यथा ॥

4.26

भ्रमति भ्रमरमाला काननेषून्मदासौ ।
विरहितरमणीको ऽर्हस्यद्य गन्तुम् ॥

4.27

कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी
पातां वः शम्भुशर्वाण्याव् इति प्राहुर्विसन्ध्यदः ॥

4.28

या देशे द्रव्यसम्भूतिर् अपि वा नोपदिश्यते
तत्तद्विरोधि विज्ञेयं स्वभावात्तद्यथोच्यते ॥

4.29

मलये कन्दरोपान्त रूढकालागुरुद्रुमे
सुगन्धिकुसुमानम्रा राजन्ते देवदारवः ॥

4.30

षण्णामृतूनां भेदेन कालः षोढेव भिद्यते
तद्विरोधकृदित्याहुर् विपर्यासादिदं यथा ॥

4.31

उदूढशिशिरासारान् प्रावृषेण्यान् नभस्वतः
फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥

4.32

कला सङ्कलना प्रज्ञा शिल्पान्यस्याश्च गोचरः
विपर्यस्तं तथैवाहुस् तद्विरोधकरं यथा ॥

4.33

ऋषभात्पञ्चमस्तस्मात् सषड्जं धैवतं स्मृतम्
अयं हि मध्यमग्रामो मध्यमे पीडितर्षभः ॥

4.34

इति साधारितं मोहाद् अन्यथैवावगच्छति
अन्यस्वपि कलास्वेवम् अभिधेया विरोधिता ॥

4.35

स्थास्नुजङ्गमभेदेन लोकं तत्त्वविदो विदुः
स च तद्व्यवहारो ऽत्र तद्विरोधकरं यथा ॥

4.36

तेषां कटतटभ्रष्टैर् गजानां मदबिन्दुभिः
प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥

4.37

धावतां सैन्यवाहानां फेनवारि मुखाच्च्युतम्
चकार जानुदध्नापान् प्रतिदिङ्मुखमध्वनः ॥

4.38

न्यायः शास्त्रं त्रिवर्गोक्तिर् दण्डनीतिं च तां विदुः
अतो न्यायविरोधीष्टम् अपेतं यत्तया यथा ॥

4.39

विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम्
तस्यैव कृतिनः पश्चाद् अभ्यधाच्चारशून्यताम् ॥

4.40

अन्तर्योधशताकीर्णं सालङ्कायननेतृकम्
तथाविधं गजच्छद्म नाज्ञासीत्स स्वभूगतम् ॥

4.41

यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये
अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥

4.42

शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः
मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ॥

4.43

हतो ऽनेन मम भ्राता मम पुत्रः पिता मम
मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥

4.44

अस्यन्तो विविधान्याजाव् आयुधान्यपराधिनम्
एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥

4.45

नमो ऽस्तु तेभ्यो विद्वद्भ्यो ये ऽभिप्रायं कवेरिमम्
शास्त्रलोकावपास्यैवं नयन्ति नयवेदिनः ॥

4.46

सचेतसो वनेभस्य चर्मणा निर्मितस्य च
विशेषं वेद बालो ऽपि कष्टं किं नु कथं नु तत् ॥

4.47

आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता
तद्विरोधि तदाचार व्यतिक्रमणतो यथा ॥

4.48

भूभृतां पीतसोमानां न्याय्ये वर्त्मनि तिष्ठताम्
अलंकरिष्णुना वंशं गुरौ सति जिगीषुणा ॥

4.49

अभार्योढेन संस्कारम् अन्तरेण द्विजन्मना
नरवाहनदत्तेन वेश्यावान् निशि पीडितः ॥

4.50

न दूषणायामुदाहृतो विधिर् न चाभिमानेन किमु प्रतीतये
कृतात्मनां तत्त्वदृशां च मादृशो जनो ऽभिसन्धिं क इवावभोत्स्यते ॥

मूल पाठ: Kāvyālaṃkāra · Edition: : Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri. Madras, Mylapore : Sri Balamanorama Press, 1956. (Sri Balamanorama Series, 54) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc