काव्यालंकार · अध्याय 6
सूत्राम्भसं पदावर्तं पारायणरसातलम्
धातूणादिगणग्राहं ध्यानग्रहबृहत्प्लवम् ॥
धीरैरालोकितप्रान्तम् अमेधोभिरसूयितम्
सदोपभुक्तं सर्वाभिर् अन्यविद्याकरेणुभिः ॥
नापारयित्वा दुर्गाधम् अमुं व्याकरणार्णवम्
शब्दरत्नं स्वयंगम्यम् अलं कर्तुमयं जनम् ॥
तस्य चाधिगमे यत्नः कार्यं काव्यं विधित्सता
परप्रत्ययतो यत्तु क्रियते तेन का रतिः ॥
नान्यप्रत्ययशब्दा वाग् आविभाति मुदे सताम्
परेण घृतमुक्तेव सरसा कुसुमावली ॥
मुख्यस्तावदयं न्यायो यत् स्वशक्त्या प्रवर्तते
अन्यसारस्वता नाम सन्त्यन्योक्तानुवादिनः ॥
प्रतीतिरर्थेषु यतस् तं शब्दं ब्रुवते ऽपरे
धूमभासोरपि प्राप्ता शब्दताग्न्यनुमां प्रति ॥
नन्वकारादिवर्णानां समुदायो ऽभिधेयवान्
अर्थप्रतीतये गीतः शब्द इत्यभिधीयते ॥
प्रत्येकमसमर्थानां समुदायो ऽर्थवान् कथम्
वर्णानां क्रमवृत्तित्वान् न्याया नापि च संहतिः ॥
न चापि समुदायिभ्यः समुदायो ऽतिरिच्यते
दारुभित्तिभुवो ऽतीत्य किमन्यत्सद्म कल्प्यते ॥
तस्मात्कूटस्थ इत्येषा शाब्दी वः कल्पना वृथा
प्रत्यक्षमनुमानं वा यत्र तत्परमार्थतः ॥
शपथैरपि चादेयं वचो न स्फोटवादिनाम्
नमःकुसुममस्तीति श्रद्दध्यात् कः सचेतनः ॥
इत्यन्त ईदृशा वर्णा ईदृगर्थाभिधायिनः
व्यवहाराय लोकस्य प्रागित्थं समयः कृतः ॥
स कूटस्थो ऽनपायी च नादादन्यश्च कथ्यते
मन्दाः साङ्केतिकानर्थान् मन्यन्ते पारमार्थिकान् ॥
विनश्वरो ऽस्तु नित्यो वा सम्बन्धो ऽर्थेन वा सता
नमो ऽस्तु तेभ्यो विद्वद्भ्यः प्रमाणं ये ऽस्य निश्चितौ ॥
अन्यापोहेन शब्दो ऽर्थम् आहेत्यन्ये प्रचक्षते
अन्यापोहश्च नामान्य पदार्थापाकृतिः किल ॥
यदि गौरित्ययं शब्दः कृतार्थो ऽन्यनिराकृतौ
जनको गवि गोबुद्धेर् मृग्यतामपरो ध्वनिः ॥
अर्थज्ञानफलाः शब्दा न चैकस्य फलद्वयम्
अपवादविधिज्ञाने फले चैकस्य वः कथम् ॥
पुरा गौरिति विज्ञानं गोशब्दश्रवणाद्भवेत्
येनागोप्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ॥
वर्णभेदादिदं भिन्नं वर्णाः स्वांशविकल्पतः
के शब्दाः किं च तद्वाच्यम् इत्यहो वर्त्म दुस्तरम् ॥
द्रव्यक्रियाजातिगुण भेदात् ते च चतुर्विधाः
यदृच्छाशब्दमप्यन्ये डित्थादिं प्रतिजानते ॥
नानाभाषाविषयिणाम् अपर्यन्तार्थवर्तिनाम्
इयत्ता केन वामीषां विशेषादवधार्यते ॥
वक्रवाचां कवीनां ये प्रयोगं प्रति साधवः
प्रयोक्तुं ये न युक्ताश्च तद्विवेको ऽयमुच्यते ॥
नाप्रयुक्तं प्रयुञ्जीत चेतःसम्मोहकारिणम्
तुल्यार्थत्वे ऽपि हि ब्रूयात् को हन्तिं गतिवाचिनम् ॥
श्रौत्रादिं न तु दुर्बोधं न दुष्टादिमपेशलम्
ग्राम्यं न पिण्डीशूरादिं न डित्थादिमपार्थकम् ॥
नाप्रतीतान्यथार्थत्वं धात्वनेकार्थतावशात्
न लेशज्ञापकाकृष्टं स हन्ति ध्याति वा यथा ॥
न शिष्टैरुक्तमित्येव न तन्त्रान्तरसाधितम्
छन्दोवदिति चोत्सर्गान् न चापि च्छान्दसं वदेत् ॥
क्रमागतं श्रुतिसुखं शब्दमर्थ्यमुदीरयेत्
अतिशेते ह्यलंकारम् अन्यं व्यञ्जनचारुता ॥
सिद्धो यश्चोपसंख्यानाद् इष्ट्या यश्चोपपादितः
तमाद्रियेत प्रायेण न तु योगविभागजम् ॥
इयं चन्द्रमुखी कन्या प्रकृत्यैव मनोहरा
अस्यां सुवर्णालंकारः पुष्णाति नितरां श्रियम् ॥
वृद्धिपक्षं प्रयुञ्जीत संक्रमे ऽपि मृजेर्यथा
मार्जन्त्यधररागं ते पतन्तो बाष्पबिन्दवः ॥
सरूपशेषं तु पुमान् स्त्रिया यत्र च शिष्यते
यथाह वरुणाविन्द्रौ भवौ शर्वौ मृडाविति ॥
यथा पटयतीत्यादि णिच्प्रातिपदिकात्ततः
णाविष्ठवदितीष्ट्या च तथा क्रशयतीत्यपि ॥
प्रयुञ्जीताव्ययीभावम् अदन्तं नाप्यपञ्चमी
तृतीयासप्तमीपक्षे नालुग्विषयमानयेत् ॥
तिष्ठद्गुप्रभृतौ वाच्यौ नक्तंदिवसगोचरौ
यथा विद्वानधीते ऽसौ तिष्ठद्गु च वहद्गु च ॥
शिष्टप्रयोगमात्रेण न्यासकारमतेन वा
तृचा समस्तषष्ठीकं न कथंचिदुदाहरेत् ॥
सूत्रज्ञापकमात्रेण वृत्रहन्ता यथोदितः
अकेन च न कुर्वीत वृत्तिं तद्गमको यथा ॥
पञ्चराजीति च यथा प्रयुञ्जीत द्विगुं स्त्रियाम्
नपुंसकं तत्पुरुषं पुरुहूतसभं यथा ॥
सर्वेभ्यश्च भृशादिभ्यो वदेल्लुप्तहलं यथा
प्रियोन्मनायते सा ते किं शठाभिमनायसे ॥
तृतीयैकवचः षष्ठ्याम् आमन्तं च वदेत् क्विपि
यथोदितं बलभिदा सुरुचां विद्युतामिव ॥
असन्तमपि यद्वाक्यं तत्तथैव प्रयोजयेत्
यथोच्यते ऽम्भसा भासा यशसामम्भसामिति ॥
पुंसि स्त्रियां च क्वस्वन्तम् इच्छन्त्यच्छान्दसं किल
उपेयुषामपि दिवं यथा न व्येति चारुता ॥
इभकुम्भनिभे बाला दधुषी कञ्चुकं स्तने
रतिखेदपरिश्रान्ता जहार हृदयं नृणाम् ॥
शबलादिभ्यो ऽतितरां भाति णिज्विहितो यथा
बलाकाः पश्य सुश्रेणि घनाञ्छबलयन्त्यमूः ॥
शिशिरासारकणिका सदृशः सेतुगन्धवाट्
त्वां वीजयति सुश्रेणि रतिखेदालसेक्षणाम् ॥
एवं णिचः प्रयोगस्तु सर्वत्रालंकृतिः परा
लिङ्गत्रयोपपन्नं च ताच्छील्यविषयं णिनिम् ॥
तस्य हारी स्तनाभोगो वदनं हारि सुन्दरम्
हारिणी तनुरत्यन्तं कियन्न हरते मनः ॥
ताच्छील्यादिषु चेष्यन्ते सर्व एव तृनादयः
विशेषेण च तत्रेष्टा युच्कुरज्वरजिष्णुचः ॥
क्तिन्नन्तं च प्रयुञ्जीत संगतिः संहतिर्यथा
शाकारौ जागुरिष्टौ च जागर्या जागरा यथा ॥
उपासनेति च युचं नित्यमासेः प्रयोजयेत्
ल्युटं च कर्तृविषयं देवनो रमणो यथा ॥
अणन्तादपि ङीबिष्टो लक्ष्मीः पौरन्दरी यथा
अञ्महारजनाल्लाक्षा रोचनाभ्यां तथा च ठक् ॥
ड्मतुबिष्टं च कुमुदाद् यथेयं भूः कुमुद्वती
ठक् चापि तेन जयतीत्य् आक्षिकः शास्त्रिको यथा ॥
हितप्रकरणे णं च सर्वशब्दात् प्रयुञ्जते
ततश्छमिष्ट्या च यथा सार्वः सर्वीय इत्यपि ॥
वदेदिमनिजन्तं च पटिमा लघिमा यथा
विशेषेणेयसुन्निष्टो ज्यायानाप कनीयसीम् ॥
द्वयसज्दघ्नचाविष्टौ प्रमाणविषयौ यथा
जानुदघ्नी सरिन्नारी नितम्बद्वयसं सरः ॥
मतुप्प्रकरणे ज्योत्स्ना तमिस्राशृङ्गिणादयः
इनच्च फलबर्हाभ्यां फलिनो बर्हिणो यथा ॥
इनिः प्रयुक्तः प्रायेण तथा ठंश्च मनीषिभिः
तत्रापि मेखालामाला मायानां सुतरां मतौ ॥
अभ्यस्ताज्झेरदादेशे दधतीत्यादयो ऽपि च
रोदिति स्वपितीत्यादि सहेटा सार्वधातुकम् ॥
अभ्यस्तेषु प्रयोक्तव्यम् अदन्तं घुभृञोः शतुः
असौ दधदलंकारं स्रजं बिभ्रच्च शोभते ॥
[न तवर्गं शकारेण क्वचित् सं]योगिनं वदेत्
यथैतच्छ्याममाभाति वनं वनजलोचने ॥
नैकत्रैकारभूयस्तं गतो यातो हतो यथा
सावर्ण्यवज्झयो हस्य ब्रूयान्नान्यत्र पद्धतेः ॥
सालातुरीयमतमेतदनुक्रमेण को वक्ष्यतीति विरतो ऽहमतो विचारात्
शब्दार्णवस्य यदि कश्चिदुपैति पारं भीमाम्भसश्च जलधेरिति विस्मयो ऽसौ ॥
विद्यानां सततमपाश्रयो ऽपरासां तासूक्तान्न च विरुणद्धि कांश्चिदर्थान्
श्रद्धेयं जगति मतं हि पाणिनीयं माध्यस्थ्याद्भवति न कस्यचित्प्रमाणम् ॥
अवलोक्य मतानि सत्कवीनाम् अवगम्य स्वधिया च काव्यलक्ष्म
सुजनावमयाय भामहेन ग्रथितं रक्रिलगोमिसूनुनेदम् ॥
षष्ट्या शरीरं निर्णीतं शतषष्ट्या त्वलङ्कृतिः
पञ्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ॥
षष्ट्या शब्दस्य शुद्धिः स्याद् इत्येवं वस्तुपञ्चकम्
उक्तं षड्भिः परिच्छेदैर् भामहेन क्रमेण वः ॥
मूल पाठ: Kāvyālaṃkāra · Edition: : Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri. Madras, Mylapore : Sri Balamanorama Press, 1956. (Sri Balamanorama Series, 54) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0