भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकार · अध्याय 3

3.1

प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम्
द्विप्रकारमुदात्तं च भेदैः श्लिष्टमपि त्रिभिः ॥

3.2

अपह्नुतिं विशेषोक्तं विरोधं तुल्ययोगिताम्
अप्रस्तुतप्रशंसां च व्याजस्तुतिनिदर्शने ॥

3.3

उपमारूपकं चान्यद् उपमेयोपमामपि
सहोक्तिपरिवृत्ती च ससंदेहमनन्वयम् ॥

3.4

उत्प्रेक्षावयवं चान्ये संसृष्टिमपि चापरे
भाविकत्वं च निजगुर् अलंकारं सुमेधसः ॥

3.5

प्रेयो गृहागतं कृष्णम् अवादीद्विदुरो यथा
अद्य या मम गोविन्द जाता त्वयि गृहागते
कालेनैषा भवेत् प्रीतिस् तवैवागमनात् पुनः ॥

3.6

रसवद्दर्शितस्पष्ट शृङ्गारादिरसं यथा
देवी समागमद्धर्म मस्करिण्यतिरोहिता ॥

3.7

ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः
द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः ॥

3.8

पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते
उवाच रत्नाहरणे चैद्यं शार्ङ्गधनुर्यथा ॥

3.9

गृहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः
न भुञ्जते द्विजास्तच्च रसदाननिवृत्तये ॥

3.10

समाहितं राजमित्रे यथा क्षत्रिययोषिताम्
रामप्रसत्त्यै यान्तीनां पुरो ऽदृश्यत नारदः ॥

3.11

उदात्तं शक्तिमान् रामो गुरुवाक्यानुरोधकः
विहायोपनतं राज्यं यथा वनमुपागतम् ॥

3.12

एतदेवापरे ऽन्येन व्याख्यानेनान्यथा विदुः
नानारत्नादियुक्तं यत् तत्किलोदात्तमुच्यते ॥

3.13

चाणक्यो नक्तमुपयान्न् अन्दक्रीडागृहं यथा
शशिकान्तोपलच्छन्नं विवेद पयसां कणैः ॥

3.14

उपमानेन यत्तत्त्वम् उपमेयस्य साध्यते
गुणक्रियाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥

3.15

लक्षणं रूपके ऽपीदं लक्ष्यते काममत्र तु
इष्टः प्रयोगो युगपद् उपमानोपमेययोः ॥

3.16

शीकराम्भोमदसृजस् तुङ्गा जलददन्तिनः
इत्यत्र मेघकरिणां निर्देशः क्रियते समम् ॥

3.17

श्लेषादेवार्थवचसोर् अस्य च क्रियते भिदा
तत्सहोक्त्युपमाहेतु निर्देशात्त्रिविधं यथा ॥

3.18

छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः
मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥

3.19

उन्नता लोकदयिता महान्तः प्राज्यवर्षिणः
शमयन्ति क्षितेस्तापं सुराजानो घना इव ॥

3.20

रत्नवत्त्वादगाधत्वात् स्वमर्यादाविलङ्घनात्
बहुसत्त्वाश्रयत्वाच्च सदृशस्त्वमुदन्वता ॥

3.21

अपह्नुतिरभीष्टा च किंचिदन्तर्गतोपमा
भूतार्थापह्नवादस्याः क्रियते चाभिधा यथा ॥

3.22

नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥

3.23

एकदेशस्य विगमे या गुणान्तरसंस्थितिः
विशेषप्रथनायासौ विशेषोक्तिर्मता यथा ॥

3.24

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः
हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥

3.25

गुणस्य वा क्रियाया वा विरुद्धान्यक्रियाभिधा
या विशेषाभिधानाय विरोधं तं विदुर्बुधाः ॥

3.26

उपान्तरूढोपवनच् छायाशीतापि धूरसौ
विदूरदेशानपि वः सन्तापयति विद्विषः ॥

3.27

न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया
तुल्यकार्यक्रियायोगाद् इत्युक्ता तुल्ययोगिता ॥

3.28

शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः
यदलङ्घितमर्यादाश् चलन्तीं बिभृथ क्षितिम् ॥

3.29

अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः
अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा ॥

3.30

प्रीणितप्रणयि स्वादु काले परिणतं बहु
विना पुरुषकारेण फलं पश्यत शाखिनाम् ॥

3.31

दूराधिकगुणस्तोत्र व्यपदेशेन तुल्यताम्
किंचिद्विधित्सोर्या निन्दा व्याजस्तुतिरसौ यथा ॥

3.32

रामः सप्ताभिनत् सालान् गिरिं क्रौञ्चं भृगूत्तमः
शतांशेनापि भवता किं तयोः सदृशं कृतम् ॥

3.33

क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात्
ज्ञेया निदर्शना नाम यथेववतिभिर्विना ॥

3.34

अयं मन्दद्युतिर्भास्वान् अस्तं प्रति यियासति
उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥

3.35

उपमानेन तद्भावम् उपमेयस्य साधयन्
यां वदत्युपमामेतद् उपमारूपकं यथा ॥

3.36

समग्रगगनायाम मानदण्डो रथाङ्गिनः
पादो जयति सिद्धस्त्री मुखेन्दुनवदर्पणः ॥

3.37

उपमानोपमेयत्वं यत्र पर्यायतो भवेत्
उपमेयोपमां नाम ब्रुवते तां यथोदितम् ॥

3.38

सुगन्धि नयनानन्दि मदिरामदपाटलम्
अम्भोजमिव वक्त्रं ते त्वदास्यमिव पङ्कजम् ॥

3.39

तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रये
पदेनैकेन कथ्यते सहोक्तिः सा मता यथा ॥

3.40

हिमपाताविलदिशो गाढालिङ्गनहेतवः
वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह ॥

3.41

विशिष्टस्य यदादानम् अन्यापोहेन वस्तुनः
अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥

3.42

प्रदाय वित्तमर्थिभ्यः स यशोधनमाअदित
सतां विश्वजनीनानाम् इदमस्खलितं व्रतम् ॥

3.43

उपमानेन तत्त्वं च भेदं च वदतः पुनः
ससन्देहं वचः स्तुत्यै ससन्देहं विदुर्यथा ॥

3.44

किमयं शशी न स दिवा विराजते कुसुमायुधो न धनुरस्य कौसुमम्
इति विस्मयाद्विमृशतो ऽपि मे मतिस् त्वयि वीक्षते न लभते ऽर्थनिश्चयम् ॥

3.45

यत्र तेनैव तस्य स्याद् उपमानोपमेयता
असादृश्यविवक्षातस् तमित्याहुरनन्वयम् ॥

3.46

ताम्बूलरागवलयं स्फुरद्दशनदीधिति
इन्दीवराभनयनं तवेव वदनं तव ॥

3.47

श्लिष्टस्यार्थेन संयुक्तः किंचिदुत्प्रेक्षयान्वितः
रूपकार्थेन च पुनर् उत्प्रेक्षावयवो यथा ॥

3.48

तुल्योदयावसानत्वाद् गते ऽस्तं प्रति भास्वति
वासाय वासरः क्लान्तो विशतीव तमोगृहम् ॥

3.49

वरा विभूषा संसृष्टिर् बह्वलङ्कारयोगतः
रचिता रत्नमालेव सा चैवमुदिता यथा ॥

3.50

गाम्भीर्यलावण्यवतोर् युवयोः प्राज्यरत्नयोः
सुखसेव्यो जनानां त्वं दुष्टग्राहो ऽम्भसां पतिः ॥

3.51

अनलङ्कृतकान्तं ते वदनं वनजद्युति
निशाकृतः प्रकृत्यैव चारोः का वास्त्यलङ्कृतिः ॥

3.52

अन्येषामपि कर्तव्या संसृष्टिरनया दिशा
कियदुद्घट्टितज्ञेभ्यः शक्यं कथयितुं मया ॥

3.53

भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम्
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः ॥

3.54

चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता
शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते ॥

3.55

आशीरपि च केषांचिद् अलङ्कारतया मता
सौहृदय्याविरोधोक्तौ प्रयोगो ऽस्याश्च तद्यथा ॥

3.56

अस्मिञ् जहीहि सुहृदि प्रणयाभ्यसूयाम् आश्लिष्य गाढममुमानतमादरेण
विन्ध्यं महानिव घनः समये ऽभिवर्षन्न् आनन्दजैर्नयनवारिभिरुक्षतु त्वाम् ॥

3.57

मदान्धमातङ्गविभिन्नसाला हतप्रवीरा द्रुतभीतपौराः
त्वत्तेजसा दग्धसमस्तशोभा द्विषां पुरः पश्यतु राजलोकः ॥

3.58

गिरामलङ्कारविधिः सविस्तरः स्वयं विनिश्चित्य धिया मयोदितः
अनेन वागर्थविदामलङ्कृता विभाति नारीव विदग्धमण्डना ॥

मूल पाठ: Kāvyālaṃkāra · Edition: : Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri. Madras, Mylapore : Sri Balamanorama Press, 1956. (Sri Balamanorama Series, 54) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc