काव्यालंकार · अध्याय 2
माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः
समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥
केचिदोजो ऽभिधित्सन्तः समस्यन्ति बहून्यपि
यथा मन्दारकुसुम रेणुपिञ्जरितालका ॥
श्रव्यं नातिसमस्तार्थं काव्यं मधुरमिष्यते
आविद्वदङ्गनाबाल प्रतीतार्थं प्रसादवत् ॥
अनुप्रासः सयमको रूपकं दीपकोपमे
इति वाचामलंकाराः पञ्चैवान्यैरुदाहृताः ॥
सरूपवर्णविन्यासम् अनुप्रासं प्रचक्षते
किं तया चिन्तया कान्ते नितान्तेति यथोदितम् ॥
ग्राम्यानुप्रासमन्यत्तु मन्यन्ते सुधियो ऽपरे
स लोलमालानीलालि कुलाकुलगलो बलः ॥
नानार्थवन्तो ऽनुप्रासा न चाप्यसदृशाक्षराः
युक्त्यानया मध्यमया जायन्ते चारवो गिरः ॥
लाटीयमप्यनुप्रासम् इहेच्छन्त्यपरे यथा
दृष्टिं दृष्टिसुखां धेहि चन्द्रश्चन्द्रमुखोदितः ॥
आदिमध्यान्तयमकं पादाभ्यासं तथावली
समस्तपादयमकम् इत्येतत् पञ्चधोच्यते ॥
सन्दष्टकसमुद्गादेर् अत्रैवान्तर्गतिर्मता
आदौ मध्यान्तयोर्वा स्याद् इति पञ्चैव तद्यथा ॥
साधुना साधुना तेन राजता राजता भृता
सहितं सहितं कर्तुं संगतं संगतं जनम् ॥
साधुः संसाराद्बिभ्यदस्मादसारात् कृत्वा क्लेशान्तं याति वर्त्म प्रशान्तम्
जातिं व्याधीनां दुर्दमानामधीनां वाञ्छञ्ज्यायस्त्वं छिन्धि मुक्तानयस्त्वम् ॥
न ते धिर्धीर भोगेषु रमणीयेषु संगता
मुनीनपि हरन्त्येते रमणी येषु संगता ॥
सितासिताक्षीं सुपयोधराधरां सुसंमदां व्यक्तमदां ललामदाम्
घनाघना नीलघना घनालकां प्रियामिमामुत्सुकयन्ति यन्ति च ॥
अमी नृपा दत्तसमग्रशासनाः कदाचिदप्यप्रतिबद्धशासनाः
कृतागसां मार्गभिदां च शासनाः पितृक्रमाध्यासिततादृशासनाः ॥
अनन्तरैकान्तरयोर् एवं पादान्तयोरपि
कृत्स्नं च सर्वपादेषु दुष्करं साधु तादृशम् ॥
तुल्यश्रुतीनां भिन्नानाम् अभिधेयैः परस्परम्
वर्णानां यः पुनर्वादो यमकं तन्निगद्यते ॥
प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि च
प्रसादि स्वभिधानं च यमकं कृतिनां मतम् ॥
नानाधात्वर्थगम्भीरा यमकव्यपदेशिनी
प्रहेलिका सा ह्युदिता रामशर्माच्युतोत्तरे ॥
काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत्
उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ॥
उपमानेन यत्तत्त्वम् उपमेयस्य रूप्यते
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥
समस्तवस्तुविषयम् एकदेशविवर्ति च
द्विधा रूपकमुद्दिष्टम् एतत्तच्चोच्यते यथा ॥
शीकराम्भोमदसृजस् तुङ्गा जलददन्तिनः
निर्यान्तो मदयन्तीमे शक्रकार्मुकवारणाः ॥
तडिद्वलयकक्ष्याणां बलाकामालभारिणाम्
पयोमुचां ध्वनिर्धीरो दुनोति मम तां प्रियाम् ॥
आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते
एकस्यैव त्र्यवस्थत्वाद् इति तद्भिद्यते त्रिधा ॥
अमूनि कुर्वते ऽन्वर्थाम् अस्याख्यामर्थदीपनात्
त्रिभिर्निदर्शनैश्चेदं त्रिधा निर्दिश्यते यथा ॥
मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम्
स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥
मालिनीरंशुकभृतः स्त्रियो ऽलंकुरुते मधुः
हारीतशुकवाचश्च भूधराणामुपत्यकाः ॥
चीरीमवतीररण्यानीः सरितः शुष्यदम्भसः
प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ॥
विरुद्धेनोपमानेन देशकालक्रियादिभिः
उपमेयस्य यत्साम्यं गुणलेशेन सोपमा ॥
यथेवशब्दौ सादृश्यम् आहतुर्व्यतिरेकिणोः
दूर्वाकाण्डमिव श्यामं तन्वी श्यामालता यथा ॥
विना यथेवशब्दाभ्यां समासाभिहिता परा
यथा कमलपत्राक्षी शशाङ्कवदनेति च ॥
वतिनापि क्रियासाम्यं तद्वदेवाभिधीयते
द्विजातिवदधीते ऽसौ गुरुवच्चानुशास्ति नः ॥
समानवस्तुन्यासेन प्रतिवस्तूपमोच्यते
यथेवानभिधाने ऽपि गुणसाम्यप्रतीतितः ॥
साधुसाधारणत्वादिर् गुणो ऽत्र व्यतिरिच्यते
स साम्यमापादयति विरोधे ऽपि तयोर्यथा ॥
कियन्तः सन्ति गुणिनः साधुसाधारणश्रियः
स्वादुपाकफलानम्राः कियन्तो वाध्वशाखिनः ॥
यदुक्तं त्रिप्रकारत्वं तस्याः कैश्चिन्महात्मभिः
निन्दाप्रशंसाचिख्यासा भेदादत्राभिधीयते ॥
सामान्यगुणनिर्देशात् त्रयमप्युदितं ननु
मालोपमादिः सर्वो ऽपि न ज्यायान् विस्तरो मुधा ॥
हीनतासम्भवो लिङ्ग वचोभेदो विपर्ययः
उपमानाधिकत्वं च तेनासदृशतापि च ॥
त एत उपमादोषाः सप्त मेधाविनोदिताः
सोदाहरणलक्ष्माणो वर्ण्यन्ते ऽत्र च ते पृथक् ॥
स मारुताकम्पितपीतवासा बिभ्रत्सलीलं शशिभासमब्जम्
यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे ॥
शक्रचापग्रहादत्र दर्शितं किल कार्मुकम्
वासःशङ्खानुपादानाद् धीनमित्यभिधीयते ॥
सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित्
यथोपपत्ति कृतिभिर् उपमासु प्रयुज्यते ॥
अखण्डमण्डलः क्वेन्दुः क्व कान्ताननमद्युति
यत्किंचित्कान्तिसामान्याच् छशिनैवोपमीयते ॥
किं च काव्यानि नेयानि लक्षणेन महात्मनाम्
दृष्टं वा सर्वसारूप्यं राजमित्रे यथोदितम् ॥
सूर्यांशसंमीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु
साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ॥
निष्पेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः
जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणो ऽर्कात् ॥
कथं पातो ऽम्बुधाराणां ज्वलन्तीनां विवस्वतः
असम्भवादयं युक्त्या तेनासम्भव उच्यते ॥
तत्रासम्भविनार्थेन कः कुर्यादुपमां कृती
को नाम वह्निनौपम्यं कुर्वीत शशलक्ष्मणः ॥
यस्यातिशयवानर्थः कथं सो ऽसम्भवो मतः
इष्टं चातिशयार्थत्वम् उपमोत्प्रेक्षयोर्यथा ॥
पुञ्जीभूतमिव ध्वान्तम् एष भाति मतङ्गजः
सरः शरत्प्रसन्नाम्भो नभःखण्डमिवोज्झितम् ॥
अथ लिङ्गवचोभेदाव् उच्येते सविपर्ययौ
हीनाधिकत्वात् स द्वेधा त्रयमप्युच्यते यथा ॥
अविगाह्यो ऽसि नारीणाम् अनन्यमनसामपि
विषमोपलभिन्नोर्मिर् आपगेवोत्तितीर्षतः ॥
क्वचिदग्रे प्रसरता क्वचिदापत्य निघ्नता
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥
अयं पद्मासनासीनश् चक्रवाको विराजते
युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥
ननूपमीयते पाणिः कमलेन विकासिना
अधरो विद्रुमच्छेद भासा बिम्बफलेन च ॥
उच्यते काममस्तीदं किं तु स्त्रीपुंसयोरयम्
विधिर्नाभिमतो ऽन्यैस्तु त्रयाणामपि नेष्यते ॥
स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥
शशिनो ग्रहणादेतद् आधिक्यं किल न ह्ययम्
निर्दिष्ट उपमेये ऽर्थे वाच्यो वा जलजो ऽत्र तु ॥
न सर्वसारूप्यमिति विस्तरेणोदितो विधिः
अभिप्रायात्कवेर्नात्र विधेया जलजे मतिः ॥
आधिक्यमुपमानानां न्याय्यं नाधिकता भवेत्
गोक्षीरकुन्दहलिनां विशुद्ध्या सदृशं यशः ॥
एकेनैवोपमानेन ननु सादृश्यमुच्यते
उक्तार्थस्य प्रयोगो हि गुरुमर्थं न पुष्यति ॥
वने ऽथ तस्मिन्वनितानुयायिनः प्रवृत्तदानार्द्रकटा मतङ्गजाः
विचित्रबर्हाभरणाश्च बर्हिणो बभुर्दिवीवामलविग्रहा ग्रहाः ॥
ग्रहैरपि गजादीनां यदि सादृश्यमुच्यते
तथापि तेषां तैरस्ति कान्तिर्वाप्युग्रतापि वा ॥
इत्युक्त उपमाभेदो वक्ष्यते चापरः पुनः
उपमादेरलंकाराद् विशेषो ऽन्यो ऽभिधीयते ॥
आक्षेपो ऽर्थान्तरन्यासो व्यतिरेको विभावना
समासातिशयोक्ती च षडलंकृतयो ऽपराः ॥
वक्ष्यमाणोक्तविषयस् तत्राक्षेपो द्विधा मतः
एकरूपतया शेषा निर्देक्ष्यन्ते यथाक्रमम् ॥
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया
आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा ॥
अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः
इयदेवास्त्वतो ऽन्येन किमुक्तेनाप्रियेण ते ॥
स्वविक्रमाक्रान्तभुवश् चित्रं यन्न तवोद्धतिः
को वा हेतुरलं सिन्धोर् विकारकरणं प्रति ॥
उपन्यसनमन्यस्य यदर्थस्योदितादृते
ज्ञेयः सो ऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥
परानीकानि भीमानि विविक्षोर्न तव व्यथा
साधु वासाधु वागामि पुंसामात्मैव शंसति ॥
हिशब्देनापि हेत्वर्थ प्रथनादुक्तसिद्धये
अयमर्थान्तरन्यासः सुतरां व्यज्यते यथा ॥
वहन्ति गिरयो मेघान् अभ्युपेतान् गुरूनपि
गरीयानेव हि गुरून् बिभर्ति प्रणयागतान् ॥
उपमानवतो ऽर्थस्य यद्विशेषनिदर्शनम्
व्यतिरेकं तमिच्छन्ति विशेषापादनाद्यथा ॥
सितासिते पक्ष्मवती नेत्रे ते ताम्रराजिनी
एकान्तशुभ्रश्यामे तु पुण्डरीकासितोत्पले ॥
क्रियायाः प्रतिषेधे या तत्फलस्य विभावना
ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥
अपीतमत्ताः शिखिनो दिशो ऽनुत्कण्ठिताकुलाः
नीपो ऽविलिप्तसुरभिर् अभ्रष्टकलुषं जलम् ॥
यत्रोक्ते गम्यते ऽन्यो ऽर्थस् तत्समानविशेषणः
सा समासोक्तिरुद्दिष्टा संक्षिप्तार्थतया यथा ॥
स्कन्धवानृजुरव्यालः स्थिरो ऽनेकमहाफलः
जातस्तरुरयं चोच्चैः पातितश्च नभस्वता ॥
निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम्
मन्यन्ते ऽतिशयोक्तिं ताम् अलङ्कारतया यथा ॥
स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः
अन्वमीयन्त भृङ्गालि वाचा सप्तच्छदद्रुमाः ॥
अपां यदि त्वक्छिथिला च्युता स्यात् फणिनामिव
तदा शुक्लांशुकानि स्युर् अङ्गेष्वम्भसि योषिताम् ॥
इत्येवमादिरुदिता गुणातिशययोगतः
सर्वैवातिशयोक्तिस्तु तर्कयेत्तां यथागमम् ॥
सैष सर्वैव वक्रोक्तिर् अनयार्थो विभाव्यते
यत्नो ऽस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना ॥
हेतुश्च सूक्ष्मो लेशो ऽथ नालंकारतया मतः
समुदायाभिधानस्य वक्रोक्त्यनभिधानतः ॥
गतो ऽस्तमर्को भातीन्दुर् यान्ति वासाय पक्षिणः
इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते ॥
यथासंख्यमथोत्प्रेक्षाम् अलङ्कारद्वयं विदुः
संख्यानमिति मेधाविन् ओत्प्रेक्षाभिहिता क्वचित् ॥
भूयसामुपदिष्टानाम् अर्थानामसधर्मणाम्
क्रमशो यो ऽनुनिर्देशो यथासंख्यं तदुच्यते ॥
पद्मेन्दुभृङ्गमातङ्ग पुंस्कोकिलकलापिनः
वक्त्रकान्तीक्षणगति वाणीवालैस्त्वया जिताः ॥
अविवक्षितसामान्या किंचिच्चोपमया सह
अतद्गुणक्रियायोगाद् उत्प्रेक्षातिशयान्विता ॥
किंशुकव्यपदेशेन तरुमारुह्य सर्वतः
दग्धादग्धमरण्यान्याः पश्यतीव विभावसुः ॥
स्वभावोक्तिरलङ्कार इति केचित् प्रचक्षते
अर्थस्य तदवस्थत्वं स्वभावो ऽभिहितो यथा ॥
आक्रोशन्नाह्वयन्नन्यान् आधावन्मण्डलै रुदन्
गा वारयति दण्डेन डिम्भः सस्यावतारणीः ॥
समासेनोदितमिदं धीखेदायैव विस्तरः
असंगृहीतमप्यन्यद् अभ्यूह्यमनया दिशा ॥
स्वयं कृतैरेव निदर्शनैरियं मया प्रकॢप्ता खलु वागलङ्कृतिः
अतः परं चारुरनेकधापरो गिरामलङ्कारविधिर्विधास्यते ॥
मूल पाठ: Kāvyālaṃkāra · Edition: : Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri. Madras, Mylapore : Sri Balamanorama Press, 1956. (Sri Balamanorama Series, 54) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0