भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकार · अध्याय 1

1.1

प्रणम्य सार्वं सर्वज्ञं मनोवाक्कायकर्मभिः
काव्यालंकार इत्येष यथाबुद्धि विधास्यते ॥

1.2

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च
प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम् ॥

1.3

अधनस्येव दातृत्वं क्लीबस्येवास्त्रकौशलम्
अज्ञस्येव प्रगल्भत्वम् अकवेः शास्त्रवेदनम् ॥

1.4

विनयेन विना का श्रीः का निशा शशिना विना
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥

1.5

गुरूपदेशादध्येतुं शास्त्रं जडधियो ऽप्यलम्
काव्यं तु जायते जातु कस्यचित् प्रतिभावतः ॥

1.6

उपेयुषामपि दिवं सन्निबन्धविधायिनाम्
आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥

1.7

रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥

1.8

अतो ऽभिवाञ्छता कीर्तिं स्थेयसीमाभुवः स्थितेः
यत्नो विदितवेद्येन विधेयः काव्यलक्षणः ॥

1.9

शब्दश्छन्दो ऽभिधानार्था इतिहासाश्रयाः कथाः
लोको युक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः ॥

1.10

शब्दाभिधेये विज्ञाय कृत्वा तद्विदुपासनम्
विलोक्यान्यनिबन्धांश्च कार्यः काव्यक्रियादरः ॥

1.11

सर्वथा पदमप्येकं न निगाद्यमवद्यवत्
विलक्ष्मणा हि काव्येन दुःसुतेनेव निन्द्यते ॥

1.12

नाकवित्वमधर्माय व्याधये दण्डनाय वा
कुकवित्वं पुनः साक्षान् मृतिमाहुर्मनीषिणः ॥

1.13

रूपकादिरलंकारस् तस्यान्यैर्बहुधोदितः
न कान्तमपि निर्भूषं विभाति वनितामुखम् ॥

1.14

रूपकादिमलंकारं बाह्यमाचक्षते परे
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥

1.15

तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी
शब्दाभिधेयालंकार भेदादिष्टं द्वयं तु नः ॥

1.16

शब्दार्थौ सहितौ काव्यं गद्यं पद्यं च तद्द्विधा
संस्कृतं प्राकृतं चान्यद् अपभ्रंश इति त्रिधा ॥

1.17

वृत्तदेवादिचरित शंसि चोत्पाद्यवस्तु च
कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥

1.18

सर्गबन्धो ऽभिनेयार्थं तथैवाख्यायिकाकथे
अनिबद्धं च काव्यादि तत्पुनः पञ्चधोच्यते ॥

1.19

सर्गबन्धो महाकाव्यं महतां च महच्च यत्
अग्राम्यशब्दमर्थ्यं च सालंकारं सदाश्रयम् ॥

1.20

मन्त्रदूतप्रयाणाजि नायकाभ्युदयैश्च यत्
पञ्चभिः सन्धिभिर्युक्तं नातिव्याख्येयमृद्धिमत् ॥

1.21

चतुर्वर्गाभिधाने ऽपि भूयसार्थोपदेशकृत्
युक्तं लोकस्वभावेन रसैश्च सकलैः पृथक् ॥

1.22

नायकं प्रागुपन्यस्य वंशवीर्यश्रुतादिभिः
न तस्यैव वधं ब्रूयाद् अन्योत्कर्षाभिधित्सया ॥

1.23

यदि काव्यशरीरस्य न स व्यापितयेष्यते
न चाभ्युदयभाक्तस्य मुधादौ ग्रहणस्तवौ ॥

1.24

नाटकं द्विपदीशम्या रासकस्कन्धकादि यत्
उक्तं तदभिनेयार्थम् उक्तो ऽन्यैस्तस्य विस्तरः ॥

1.25

संस्कृतानाकुलश्रव्य शब्दार्थपदवृत्तिना
गद्येन युक्तोदात्तार्था सोच्छ्वासाख्यायिका मता ॥

1.26

वृत्तमाख्यायते तस्यां नायकेन स्वचेष्टितम्
वक्त्रं चापरवक्त्रं च काले भाव्यार्थशंसि च ॥

1.27

कवेरभिप्रायकृतैः कथनैः कैश्चिदङ्किता
कन्याहरणसंग्राम विप्रलम्भोदयान्विता ॥

1.28

न वक्त्रापरवक्त्राभ्यां युक्ता नोच्छासवत्यपि
संस्कृतासंस्कृता चेष्टा कथापभ्रंशभाक् तथा ॥

1.29

अन्यैः स्वचरितं तस्यां नायकेन तु नोच्यते
स्वगुणाविष्कृतिं कुर्याद् अभिजातः कथं जनः ॥

1.30

अनिबद्धं पुनर्गाथा श्लोकमात्रादि तत्पुनः
युक्तं वक्रस्वभावोक्त्या सर्वमेवैतदिष्यते ॥

1.31

वैदर्भमन्यदस्तीति मन्यन्ते सुधियो ऽपरे
तदेव च किल ज्यायः सदर्थमपि नापरम् ॥

1.32

गौडीयमिदमेतत्तु वैदर्भमिति किं पृथक्
गतानुगतिकन्यायान् नानाख्येयममेधसाम् ॥

1.33

ननु चाश्मकवंशादि वैदर्भमिति कथ्यते
कामं तथास्तु प्रायेण संज्ञेच्छातो विधीयते ॥

1.34

अपुष्टार्थमवक्त्रोक्ति प्रसन्नमृजु कोमलम्
भिन्नं गेयमिवेदं तु केवलं श्रुतिपेशलम् ॥

1.35

अलंकारवदग्राम्यम् अर्थ्यं न्याय्यमनाकुलम्
गौडीयमपि साधीयो वैदर्भमिति नान्यथा ॥

1.36

न नितान्तादिमात्रेण जायते चारुता गिराम्
वक्राभिधेयशब्दोक्तिर् इष्टा वाचामलंकृतिः ॥

1.37

नेयार्थं क्लिष्टमन्यार्थम् अवाचकमयुक्तिमत्
गूढशब्दाभिधानं च कवयो न प्रयुञ्जते ॥

1.38

नेयार्थं नीयते युक्तो यस्यार्थः कृतिभिर्बलात्
शब्दन्यायानुपारूढः कथंचित्स्वाभिसन्धिना ॥

1.39

मायेव भद्रेति यथा सा चासाध्वी प्रकल्पना
वेणुदाकेरिति च तां नयन्ति वचनाद्विना ॥

1.40

क्लिष्टं व्यवहितं विद्याद् अन्यार्थं विगमे यथा
विजह्रुस्तस्य ताः शोकं क्रीडायां विकृतं च तत् ॥

1.41

हिमापहामित्रधरैर् व्याप्तं व्योमेत्यवाचकम्
साक्षादरूढं वाच्ये ऽर्थे नाभिधानं प्रतीयते ॥

1.42

अयुक्तिमद् यथा दूता जलभृन्मारुतेन्दवः
तथा भ्रमरहारीत चक्रवाकशुकादयः ॥

1.43

अवाचो ऽव्यक्तवाचश्च दूरदेशविचारिणः
कथं दूत्यं प्रपद्येरन्न् इति युक्त्या न युज्यते ॥

1.44

यदि चोत्कण्ठया यत्तद् उन्मत्त इव भाषते
तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥

1.45

गूढशब्दाभिधानं च न प्रयोज्यं कथंचन
सुधियामपि नैवेदम् उपकाराय कल्पते ॥

1.46

असितर्तितुगद्रिच्छित् स्वःक्षितां पतिरद्विदृक्
अमिद्भिः शुभ्रदृग्दृष्टैर् द्विषो जेघ्नीयिषीष्ट वः ॥

1.47

श्रुतिदुष्टार्थदुष्टे च कल्पनादुष्टमित्यपि
श्रुतिकष्टं तथैवाहुर् वाचं दोषं चतुर्विधम् ॥

1.48

विड्वर्चोविष्ठितक्लिन्नच् छिन्नवान्तप्रवृत्तयः
प्रचारधर्षितोद्गार विसर्गहदयन्त्रिताः ॥

1.49

हिरण्यरेताः सम्बाधः पेलवोपस्थिताण्डजाः
वाक्काटवादयश्चेति श्रुतिदुष्टा मता गिरः ॥

1.50

अर्थदुष्टं पुनर्ज्ञेयं यत्रोक्ते जायते मतिः
असभ्यवस्तुविषया शब्दैस्तद्वाचिभिर्यथा ॥

1.51

हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः
पतनं जायते ऽवश्यं कृच्छ्रेण पुनरुन्नतिः ॥

1.52

पदद्वयस्य सन्धाने यदनिष्टं प्रकल्पते
तदाहुः कल्पनादुष्टं स शौर्याभरणो यथा ॥

1.53

यथा.अजिह्लददित्यादि श्रुतिकष्टं च तद्विदुः
न तद् इच्छन्ति कृतिनो गण्डमप्यपरे किल ॥

1.54

सन्निवेशविशेषात्तु दुरुक्तमपि शोभते
नीलं पलाशमाबद्धम् अन्तराले स्रजामिव ॥

1.55

किंचिदाश्रयसौन्दर्याद् धत्ते शोभामसाध्वपि
कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ॥

1.56

आपाण्डुगण्डमेतत्ते वदनं वनजेक्षणे
संगमात् पाण्डुशब्दस्य गण्डः साधु यथोदितम् ॥

1.57

अनयान्यद् अपि ज्ञेयं दिशा युक्तमसाध्वपि
यथा विक्लिन्नगण्डानां करिणां मदवारिभिः ॥

1.58

मदक्लिन्नकपोलानां द्विरदानां चतुःशती
यथा तद्वदसाधीयः साधीयश्च प्रयोजयेत् ॥

1.59

एतद् ग्राह्यं सुरभि कुसुमं ग्राम्यम् एतन्निधेयं धत्ते शोभां विरचितमिदं स्थानमस्यैतदस्य
मालाकारो रचयति यथा साधु विज्ञाय मालां योज्यं काव्येष्ववहितधिया तद्वदेवाभिधानम् ॥

मूल पाठ: Kāvyālaṃkāra · Edition: : Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri. Madras, Mylapore : Sri Balamanorama Press, 1956. (Sri Balamanorama Series, 54) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc