भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · श्लोक 98-117

98

अथ भूमिचलने शान्तिरुच्यते-
[अथ यत्रैतद्भूमिचलो भवति तत्र जुहुयात् ॥ कौश्स्_13,6{98}.1 ॥
अच्युता द्यौरच्युतमन्तरिक्षमच्युता भूमिर्दिशो अच्युता इमाः । अच्युतोऽयं रोधावरोधाद् ध्रुवो राष्ट्रे प्रति तिष्ठाति जिष्णुः । यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते । यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः । यथा देवो दिवि स्तनयन् वि राजति यथा वर्षं वर्षकामाय वर्षति । यथापः पृथिवीमा विविशुरेवायं ध्रुवो अच्युतो अस्तु जिष्णुः । यथा पुरीषं नद्यः समुद्रमहोरात्रे अप्रमादं क्षरन्ति । एवा विशः सम्मनसो हवं मेऽप्रमादमिहोपा यन्तु सर्वाः । दृंहतां देवी सह देवताभिर्ध्रुवा दृढाच्युता मे अस्तु भूमिः । सर्वपाप्मानमपनुद्यास्मदमित्रान्मे द्विषतोऽनु विध्यतु । पृथिव्यै स्वाहा इति हुत्वा ॥ कौश्स्_13,6{98}.2 ॥
आ त्वाहार्षम् (6.87) ध्रुवा द्यौः (6.88) सत्यं बृहत् (12.1) इत्येतेनानुवाकेन जुहुयात् ॥ कौश्स्_13,6{98}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,6{98}.4 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽअच्युता द्यौःऽ इति सूक्तेनाज्यं जुहुयात् । ऽआ त्वाहार्षम्ऽ, ऽध्रुवा द्यौःऽ, ऽसत्यं बृहत्ऽ इत्येतेनानुवाकेन जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । भूमिचलने शान्तिः समाप्ता ॥ षष्ठी कण्डिका

99

अथादित्यग्रहे शान्तिरुच्यते-
[अथ यत्रैतदादित्यं तमो गृह्णाति तत्र जुहुयात् ॥ कौश्स्_13,7{99}.1 ॥
दिव्यं चित्रमृतूया कल्पयन्तमृतूनामग्रं भ्रमयन्नुदेति । तदादित्यः प्रतरन्नेतु सर्वत आप इमाल्लोकाननुसञ्चरन्ति । ओषधीभिः संविदाविन्द्राग्नी त्वाभि रक्षताम् । ऋतेन सत्यवाकेन तेन सर्वं तमो जहि ॥ आदित्याय स्वाहा इति हुत्वा ॥ कौश्स्_13,7{99}.2 ॥
विषासहिं सहमानम् (17.1) इत्येतेन सूक्तेन जुहुयात ॥ कौश्स्_13,7{99}.3 ॥
रोहितैरुपतिष्ठते ॥ कौश्स्_13,7{99}.4 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,7{99}.5 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽदिव्यं चित्रम्ऽ इति द्वाभ्यामाज्यं जुहुयात् । ऽविषासहिम्ऽ इत्यनुवाकेन वा । रोहितैरुपतिष्ठते । ततः पार्वणाद्युत्तरतन्त्रम् । इत्यादिग्रहणे शान्तिः समाप्ता ॥ सप्तमी कण्डिका

100

अथ सोमग्रहणे शान्तिरुच्यते-
[अथ यत्रैतच्चन्द्रमसमुपप्लवति तत्र जुहुयात् ॥ कौश्स्_13,8{100}.1 ॥
राहू राजानं त्सरति स्वरन्तमैनमिह हन्ति पूर्वः । सहस्रमस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु ॥ चन्द्राय स्वाहा इति हुत्वा ॥ कौश्स्_13,8{100}.2 ॥
शकधूमं नक्षत्राणि (6.128) इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,8{100}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,8{100}.4 ॥]
शान्त्युदकं कृत्वा तत आज्यभागान्तं कृत्वा ऽराहू राजानम्ऽ इत्यृचा, ऽशकधूमम्ऽ इति सूक्तेन चाज्यं जुहुयात् । ऽविषासहिं सहमानम्ऽ इति सूक्तेन वा रोहितैरुपतिष्ठते । पार्वणाद्युत्तरतन्त्रम् । समाप्ता सोमग्रहणे शान्तिः ॥ अष्टमी कण्डिका

101

अथ औषसी न भवति तत्र शान्तिरुच्यते-
[अथ यत्रैतदौषसी नोदेति तत्र जुहुयात् ॥ कौश्स्_13,9{101}.1 ॥
उदेतु श्रीरुषसः कल्पयन्ती पूल्यान् कृत्वा पलित एतु चारः । ऋतून् बिभ्रती बहुधा विरूपान् मह्यं भव्यं विदुषी कल्पयाति ॥ औषस्यै स्वाहा इति हुत्वा ॥ कौश्स्_13,9{101}.2 ॥
दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ कौश्स्_13,9{101}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,9{101}.4 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽउदेतु श्रीरुषसःऽ इत्यृचा मातृनामगणेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । औषसी दीप्तिर्न दृश्यते तदा एषा शान्तिः ॥ नवमी कण्डिका

102

अथ संवत्सरे दारुणे शान्तिरुच्यते-
[अथ यत्रैतत् समा दारुणा भवति तत्र जुहुयात् ॥ कौश्स्_13,10{102}.1 ॥
या समा रुशत्येति प्राजापत्यान् वि धूनुते । तृप्तिं यां देवता विदुस्तां त्वा सं कल्पयामसि ॥ व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीम् । तां त्वा सं कल्पयामसि ॥ यत्ते घोरं यत्ते विषं तद् द्विषत्सु नि दध्मस्यमुष्मिन् इति ब्रूयात् ॥ कौश्स्_13,10{102}.2 ॥
शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा इति हुत्वा ॥ कौश्स्_13,10{102}.3 ॥
समास्त्वाग्ने (2.6) इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,10{102}.4 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,10{102}.5 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽया समा रुशतीऽ इति तिसृभिः ऽसमास्त्वाग्नेऽ इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । संवत्सर उग्र मकरे सम्प्राप्ते रोगे वा समुत्पन्ने परराष्ट्रभये सस्तेने चौरभये दारुणे संवत्सरे शान्तिः समाप्ता ॥ दशमी कण्डिका

103

अथोपतारकशान्तिरुच्यते-
[अथ यत्रैतदुपतारकाः शङ्कन्ते तत्र जुहुयात् ॥ कौश्स्_13,11{103}.1 ॥
रेवतीः शुभ्रा इषिरा मदन्तीस्त्वचो धूममनु ताः सं विशन्तु । परेणापः पृथिवीं सं विशन्त्वाप इमाल्लोकाननुसञ्चरन्तु ॥ अद्भ्यः स्वाहा इति हुत्वा ॥ कौश्स्_13,11{103}.2 ॥
समुत्पतन्तु (4.15) प्र नभस्व (7.18) इति वर्षीर्जुहुयात् ॥ कौश्स्_13,11{103}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,11{103}.4 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽरेवतीः शुभ्राःऽ इत्यृचा, ऽसमुत्पतन्तुऽ ऽप्र नभस्वऽ इति सूक्ताभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । अवर्षणे ग्रहनक्षत्राणां समापे (?) क्षेत्रे च दर्शने च शान्तिः समाप्ता ॥ एकादशी कण्डिका

104

ब्राह्मण-आयुधग्रहणे शान्तिरुच्यते-
[अथ यत्रैतद् ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात् ॥ कौश्स्_13,12{104}.1 ॥
य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश्चरानिह । देवा वयं मनुष्यास्ते देवाः प्र विशामसि ॥ इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वतः । इन्द्राय स्वाहा इति हुत्वा ॥ कौश्स्_13,12{104}.2 ॥
मा नो विदन् (1.19) नमो देववधेभ्यः (6.13) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ कौश्स्_13,12{104}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,12{104}.4 ॥]
शान्त्युदकं कृत्वा मातृनामानुयोजनं कृत्वा ततः वेद्यादि आज्यभागान्तं कृत्वा ऽय आसुराःऽ इति द्वाभ्यां ऽमा नो विदन्ऽ ऽनमो देववधेभ्यःऽ इति द्वाभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । ब्राह्मणशस्त्रग्रहणे शान्तिः समाप्ता ॥ द्वादशी कण्डिका

105

देवताद्भुतशान्तिरुच्यते-
[अथ यत्रैतद् दैवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति य आसुरा मनुष्याः, मा नो विदन् (1.19) नमो देववधेभ्यः (6.13) इत्यभयैर्जुहुयात् ॥ कौश्स्_13,13{105}.1 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,13{105}.2 ॥]
शान्त्युदकं चातनादिश्च तत आज्यभागान्तं कृत्वा ऽय आसुराःऽ ऽमा नो विदन्ऽ, ऽनमो देववधेभ्यःऽ इत्याज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । देवता नृत्यन्ति च्योतन्ति हसन्ति गायन्ति प्रस्थिज्यन्ति प्रधूपयन्ति उन्मीलयन्ति लोहितं स्रवन्ति प्रादुर्भवन्ति गमनं कुर्वन्ति सर्वदेवताप्रतिमायां पाषाणप्रभृतिरजतहिरण्यस्फटिकप्रभृतिलिङ्गवासुदेवशङ्करसरस्वतीत्यादिप्रभृतयः अन्यानि वा बहूनि विधान्यानि रूपाणि कुर्वन्ति देवताप्रभृतयः । देवताद्भुतशान्तिः समाप्ता ॥ त्रयोदशी कण्डिका

106

अथ लाङ्गलसंसर्गे शान्तिरुच्यते-
[अथ यत्रैतल्लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा ॥ कौश्स्_13,14{106}.1 ॥
अरण्यस्यार्धमभिव्रज्य ॥ कौश्स्_13,14{106}.2 ॥
प्राचीं सीतां स्थापयित्वा ॥ कौश्स्_13,14{106}.3 ॥
सीताया मध्ये प्राञ्चमिध्ममुपसमाधाय ॥ कौश्स्_13,14{106}.4 ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन् कृत्वा ॥ कौश्स्_13,14{106}.5 ॥
अथ जुहोति वित्तिरसि पुष्टिरसि श्रीरसि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि स्वाहा ॥ कौश्स्_13,14{106}.6 ॥
कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी । कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ उर्वीं त्वाहुर्मनुष्याः श्रियं त्वा मनसो विदुः । आशयेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः ॥ पर्जन्यपत्नि हरिण्यभिजितास्यभि नो वद । कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे ॥ याभिर्देवा असुरानकल्पयन् यातून् मनून् गन्धर्वान् राक्षसांश्च । ताभिर्नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा ॥ हिरण्यस्रक् पुष्करिणी श्यामा सर्वाङ्गशोभनी । कृषिर्हिरण्यप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि । विश्वस्त्वा रासन्तां प्रदिशोऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह ॥ भर्त्री देवानामुत मर्त्यानां भर्त्री प्रजानामुत मानुषाणाम् । हस्तिभिरितरासैः क्षेत्रसारथिभिः सह । हिरण्यैरश्वैरा गोभिः प्रत्यष्टा श्रीरियं मयि ॥ कौश्स्_13,14{106}.7 ॥
अत्र शुनासीराण्यनुयोजयेत ॥ कौश्स्_13,14{106}.8 ॥
वरमनड्वाहमिति समानम् ॥ कौश्स्_13,14{106}.9 ॥]
अरण्ये गत्वा तत्र प्राचीं सीतां स्थापयित्वा सीताया मध्ये शान्त्युदकादि आज्यभागान्तं कृत्वा ततः शम्याः परिधीन् कृत्वा ततः पुरोडाशं जुहोति । अवदायावदाय चतुरवत्तहोमः पुरोडाशस्य । ऽवित्तिरसि पुष्टिरसिऽ इति सूक्तेन । ततः सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनान्यनुयोजयेत् । मातृनामानि सर्वत्र । शान्त्युदके अनुयोजने विशेषः । ऽसीरा युञ्जन्तिऽ (3.17) इति सूक्तं ऽयस्येदमा रजःऽ (6.33) इति सूक्तं ऽसत्यं बृहत्ऽ (12.1) इत्यनुवाकः एतानि शान्त्युदके अनुयोजयेत् । शान्त्युदकेन कारयितुश्च आचमनं प्रोक्षणम् । सीरं प्रोक्षयेत् । ऋचा क्षेत्र च । पार्वणाद्युत्तरतन्त्रम् । तस्मिन् क्षेत्रे कर्मप्रयोगः । सीतामध्ये लाङ्गलसंसर्गे पुच्छसंसर्गे च लाङ्गलाद्भुतशान्तिः ॥ चतुर्दशी कण्डिका

107

रज्जुकर्तने शान्तिरुच्यते-
[अथ यत्रैतत् सृजन्त्योर्वा कृन्तन्त्योर्वा नाना तन्तू संसृजतः मनायै तन्तुं प्रथमम् इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,15{107}.1 ॥
मनायै तन्तुं प्रथमं पश्येदन्या अतन्वत । तन्नारीः प्रब्रवीमि वः साध्वीर्वः सन्तूर्वरीः ॥ साधुर्वस्तन्तुर्भवतु साधुरेतु रथो वृतः । अथो होर्वरीर्यूयं प्रातर्वोढवे धावत ॥ खर्गला इव पत्वरीरपामुग्रमिवायनम् । पतन्तु पत्वरीरिवोर्वरीः साधुना पथा ॥ अवाच्यौ ते तोतुद्येते तोदेनाश्वतराविव । प्र स्तोममुर्वरीणां शशयानामस्ताविषम् ॥ नारी पञ्चमयूखं सूत्रवत् कृणुते वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर ॥ कौश्स्_13,15{107}.2 ॥
वासः कर्त्रे दद्यात् ॥ कौश्स्_13,15{107}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,15{107}.4 ॥]
शान्त्युदकादि आज्यं चागारे कृत्वा ऽमनायै तन्तुम्ऽ इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वासः कर्त्रे दद्यात् । धेनुं कांसवसनं सर्वत्र दद्यात् । अयुद्वये नृत्यमानभवति कर्त्यमाने सूचकद्वयं यद्द्विधा भवति । समाप्ता सूत्रे च द्विःसम्भवे शान्तिः ॥ पञ्चदशी कण्डिका

108

अथाग्निसंसर्गे लौकिके शान्तिरुच्यते-
[अथ यत्रैतदग्निनाग्निः संसृज्यते भवतं नः समनसौ समोकसौ इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,16{108}.1 ॥
भवतं नः समनसौ समोकसावरेपसौ । मा हिंसिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतमद्य नः ॥ अग्निनाग्निः संसृज्यते कविर्बृहस्पतिर्युवा हव्यवाड् जुह्वास्यः ॥ त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता । सखा सख्या समिध्यसे ॥ पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ समीची माहनी पातामायुष्मत्या ऋचो मा सत्सि । तनूपात् साम्नो वसुविदं लोकमनुसञ्चराणि ॥ कौश्स्_13,16{108}.2 ॥
रुक्मं कर्त्रे दद्यात् ॥ कौश्स्_13,16{108}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,16{108}.4 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽभवतं नः समनसौऽ इत्येतेन सूक्तेन जुहुयात् । रुक्मं च कर्त्रे दद्यात् । पार्वणाद्युत्तरतन्त्रम् । धेनुं कांसवसनं च सर्वत्र । लौकिकाग्निसंसर्गे शान्तिः समाप्ता ॥ षोडशी कण्डिका

109

अथ गोद्वियमलजनने शान्तिरुच्यते-
[अथ यत्रैतदयमसूर्यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा ॥ कौश्स्_13,17{109}.1 ॥
तस्या एव गोर्दुग्धे स्थालीपाकं श्रपयित्वा ॥ कौश्स्_13,17{109}.2 ॥
प्राञ्चमिध्ममुपसमाधाय ॥ कौश्स्_13,17{109}.3 ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य ॥ कौश्स्_13,17{109}.4 ॥
एकैकयैषा सृष्ट्या सं बभूव (3.28) इत्येतेन सूक्तेनाज्यं जुह्वन् ॥ कौश्स्_13,17{109}.5 ॥
उदपात्रे सम्पातानानयति ॥ कौश्स्_13,17{109}.6 ॥
उत्तमं सम्पातमोदने प्रत्यानयति ॥ कौश्स्_13,17{109}.7 ॥
ततो गां च प्राशयति वत्सौ चोदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ कौश्स्_13,17{109}.8 ॥
तां तस्यैव दद्यात् ॥ कौश्स्_13,17{109}.9 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,17{109}.10 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा शान्त्युदकेन गां वत्सौ च प्रोक्ष्य ततः गां दोहयित्वा तेन दुग्धेन स्थालीपाकं श्रपयित्वा ऽएकैकयैषा सृष्ट्या सं बभूवऽ इत्येतेन सूक्तेनाज्यं जुहुयात् । उदपात्रे सम्पातानानयति । ऽयत्रा सुहार्दाम्ऽ (3.28.6) इत्यृचा उत्तमं सम्पातमोदने प्रत्यानयति । तत ओदनं गां वत्सौ च प्राशयति । तत उदपात्रेणाचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । गां वत्सौ च कर्त्रे दद्यात् । सर्वत्र कंसवसनं गौः दक्षिणा वरां धेनुं च । गोयमलजनने अद्भुतशान्तिः समाप्ता ॥ सप्तदशी कण्डिका

110

अथाश्वा वा गर्दभी वा यमलजनने शान्तिरुच्यते-
[अथ चेद्वडवा वा गर्दभी वा स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय ॥ कौश्स्_13,18{110}.1 ॥
एवं परिस्तीर्य ॥ कौश्स्_13,18{110}.2 ॥
एवमुपसाद्य ॥ कौश्स्_13,18{110}.3 ॥
एतेनैव सूक्तेनाज्यं जुह्वन् ॥ कौश्स्_13,18{110}.4 ॥
उदपात्रे सम्पातानानयति ॥ कौश्स्_13,18{110}.5 ॥
उदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ कौश्स्_13,18{110}.6 ॥
तां तस्यैव दद्यात् ॥ कौश्स्_13,18{110}.7 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,18{110}.8 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽएकैकयैषा सृष्ट्या सं बभूवऽ इति सूक्तेनाज्यं जुह्वन्नुदपात्रे सम्पातानानयति । उदपात्रेणाश्वादि आचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । अश्वा वा गर्दभी वा यमलजनने शान्तिः समाप्ता । केचित् पूर्वं शान्त्युदकं कुर्वन्ति केचित् पश्चात् शान्त्युदकं कुर्वन्ति । तां तस्यैव दद्यात् । सर्वत्र शान्त्युदके चातनान्यनुयोजयेत् मातृनामानि च । सर्वत्र वरां धेनुं कर्त्रे दद्यात् । सर्वत्र कंसवसनं दक्षिणा । सर्वत्र श्राद्धं कुर्यात् । सर्वत्र एषा दक्षिणा दातव्या । उक्ता दक्षिणा सापि तं दातव्या ॥ अष्टादशी कण्डिका

111

अथ मानुषीयमलजनने शान्तिरुच्यते-
[अथ चेन्मानुषी स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय ॥ कौश्स्_13,19{111}.1 ॥
एवं परिस्तीर्य ॥ कौश्स्_13,19{111}.2 ॥
एवमुपसाद्य ॥ कौश्स्_13,19{111}.3 ॥
उपस्थे जातकावाधाय ॥ कौश्स्_13,19{111}.4 ॥
एतेनैव सूक्तेनाज्यं जुह्वन् ॥ कौश्स्_13,19{111}.5 ॥
अमीषां मूर्ध्नि स मातुः पुत्रयोरित्यनुपूर्वं सम्पातानानयति ॥ कौश्स्_13,19{111}.6 ॥
उदपात्र उत्तरान् सम्पातान् ॥ कौश्स्_13,19{111}.7 ॥
उदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ कौश्स्_13,19{111}.8 ॥
तां तस्यैव दद्यात् ॥ कौश्स्_13,19{111}.9 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,19{111}.10 ॥
तस्या निष्क्रयो यथार्हं यथासम्पद्वा ॥ कौश्स्_13,19{111}.11 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽएकैकयैषाऽ इति सूक्तेनाज्यं जुह्वन् मानुषीपुत्रयोर्मूर्ध्नि सम्पातानानयति । यथापूर्वमुदपात्रे उत्तरसम्पातानानयति । उदपात्रेणाचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । शान्त्युदकादि कंसादीनि च । यमलजननीं स्त्रियं कर्त्रे दद्यात् । तस्या निष्क्रयो यथार्हं यथासम्पद्वा । मानुषीयमलजनने शान्तिः समाप्ता ॥ एकोनविंशी कण्डिका

112

अथ लोहिते गोदुग्धे शान्तिरुच्यते-
[अथ यत्रैतद् धेनवो लोहितं दुहते यः पौरुषेयेण क्रविषा समङ्क्ते (8.3.15-18) इत्येताभिश्चतसृभिर्जुहुयात् ॥ कौश्स्_13,20{112}.1 ॥
वरां धेनुं कर्त्रे दद्यात् ॥ कौश्स्_13,20{112}.2 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,20{112}.3 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽयः पौरुषेयेण क्रविषा समङ्क्तेऽ इत्येताभिश्चतसृभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वरमनड्वाहनिवृत्तिः । अन्यां वरां धेनुं कर्त्रे दद्यात् । कंसादीनि च । लोहितदुग्धे अद्भुतशान्तिः समाप्ता ॥ विंशी कण्डिका

113

अथानड्वाहो धेनुं धयति तत्र शान्तिरुच्यते-
[अथ यत्रैतदनड्वान् धेनुं धयति तत्र जुहुयात् ॥ कौश्स्_13,21{113}.1 ॥
अनड्वान् धेनुमधयदिन्द्रो गो रूपमाविशत् । स मे भूतिं च पुष्टिं च दीर्घमायुश्च धेहि नः । इन्द्राय स्वाहा इति हुत्वा ॥ कौश्स्_13,21{113}.2 ॥
मा नो विदन् (1.19), नमो देववधेभ्यः (6.13) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ कौश्स्_13,21{113}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,21{113}.4 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽअनड्वान् धेनुम्ऽ इत्यृचा ऽमा नो विदन्ऽ, ऽनमो देववधेभ्यःऽ इत्येताभ्यां सूक्ताभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ एकविंशी कण्डिका

114

अथ धेनुर्धेनुं धयति शान्तिरुच्यते-
[अथ यत्रैतद् धेनुर्धेनुं धयति तत्र जुहुयात् ॥ कौश्स्_13,22{114}.1 ॥
योगक्षेमं धेनुं वाजपत्नीमिन्द्राग्निभ्यां प्रेषिते जञ्जभाने । तस्मान्मामग्ने परि पाहि घोरात् प्र नो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ कौश्स्_13,22{114}.2 ॥
दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ कौश्स्_13,22{114}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,22{114}.4 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽयोगक्षेमं धेनुम्ऽ इति ऽदिव्यो गन्धर्वःऽ इति मातृनामगणेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । धेनुर्धेनुं धयति शान्तिः समाप्ता ॥ द्वाविंशी कण्डिका

115

अथ यत्रैतद् गौर्वाश्वो वाश्वतरो वा पुरुषो वा आकाशफेनं भक्षयति तत्र शान्तिरुच्यते-
[अथ यत्रैतद् गौर्वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनमवगन्धयति तत्र जुहुयात् ॥ कौश्स्_13,23{115}.1 ॥
पयो देवेषु पय ओषधीषु पय आशासु पयोऽन्तरिक्षे । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥
पयो यदप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥ यन्मृगेषु पय आविष्टमस्ति यदेजति पतति यत्पतत्रिषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥ यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि । तेषामीशानं वशिनी नो अद्य प्रदत्ता द्यावापृथिवी अहृणीयमाना इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,23{115}.2 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,23{115}.3 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽपयो देवेषुऽ सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । गौर्वाश्वो वाश्वतरो वा पुरुषो वेत्यादि फेनं भक्षयति तत्राद्भुतशान्तिः समाप्ता ॥ त्रयोविंशी कण्डिका

116

अथ यत्रैतत् पिपीलिका अनाचाररूपा दृश्यन्ते तत्र शान्तिरुच्यते-
[अथ यत्रैतत् पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात् ॥ कौश्स्_13,24{116}.1 ॥
भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा ॥ शतारुणाय स्वाहा ॥ कौश्स्_13,24{116}.2 ॥
यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा ॥ यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा ॥ यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा ॥ य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा ॥ यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा ॥ यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा ॥ य ऊर्ध्वायां दिश्यरुणपिपीलिकानां राजा तस्मै स्वाहा ॥ कौश्स्_13,24{116}.3 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽभुवाय स्वाहाऽ इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । रक्ता कृष्णा पीता वा बहुशः पिपीलिका भवन्ति तत्र शान्तिः ॥
अथ पिपीलिकाभिचार उच्यते-
[ताश्चेदेतावता न शाम्येयुस्तत उत्तरमग्निमुपसमाधाय ॥ कौश्स्_13,24{116}.4 ॥
शरमयं बर्हिरुभयतः परिछिन्नं प्रसव्यं परिस्तीर्य ॥ कौश्स्_13,24{116}.5 ॥
विषावध्वस्तमिङ्गिडमाज्यं शाकपलाशेनोत्पूतं बाधकेन स्रुवेण जुहोति ॥ कौश्स्_13,24{116}.6 ॥
उत्तिष्ठत निर्द्रवत न व इहास्त्वित्यञ्चनम् । इन्द्रो वः सर्वासां साकं गर्भानाण्डानि भेत्स्यति ॥ फड्ढताः पिपीलिकाः इति ॥ कौश्स्_13,24{116}.7 ॥
इन्द्रो वो यमो वो वरुणो वोऽग्निर्वो वायुर्वः सूर्यो वश्चन्द्रो वः प्रजापतिर्व ईशानो वः इति ॥ कौश्स्_13,24{116}.8 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा शरमयं बर्हिरुभयतः परिच्छिन्नं प्रसव्यं परिस्तरणं विषावध्वस्तमिङ्गिडमाज्यम् । शाकपलाशेनाज्यस्य उत्पवनं बाधकेन स्रुवेण होमः । ऽउत्तिष्ठत निर्द्रवतम्ऽ इति सूक्तेन इङ्गिडं जुहोति । यथार्थमुदर्कान् योजयेत् । ऽउक्तानुक्तस्यऽ इति पञ्चपटलिकायामुक्तं पुनरुक्तलक्षणम् । ऽअनुषङ्गो वाक्परिसमाप्तिःऽ मीमांसायाम् । ऽयमो वः सर्वासां साकम्ऽ । ऽवरुणो वः सर्वासाम्ऽ । ऽअग्निर्वः सर्वासाम्ऽ । ऽवायुर्वः सर्वासाम्ऽ । ऽसूर्यो वः सर्वासाम्ऽ । ऽचन्द्रो वः सर्वासाम्ऽ । ऽप्रजापतिर्वः सर्वासाम्ऽ । ऽईशानो वः सर्वासाम्ऽ । ऽसाकं गर्भानाण्डानि भेत्स्यति । फड्ढताः पिपीलिकाःऽ । प्रतिमन्त्रम् उच्चारयति । पार्वणाद्युत्तरतन्त्रम् । पिपीलिकाभिचारशान्तिः समाप्ता । अन्या यदि पिपीलिका दृष्ट्वा व्याधिं जनयति रक्तकृष्णश्वेतपीतनीला अनेकविधाः पिपीलिका गृहे भवन्ति । अग्निशरणे वा क्षेत्रे वा नगरे वा ग्रामे वा अपि बहुशो भवन्ति । अन्नमध्ये रसमध्ये घृते वा आजात्वता दृश्यन्ते तत्राभिचारः क्रियते ॥ चतुर्विंशी कण्डिका

117

अथ मक्षिकाशान्तिरुच्यते-
[अथ यत्रैतन्नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात् ॥ कौश्स्_13,25{117}.1 ॥
या मत्यैः सरथं यान्ति घोरा मृत्योर्दूत्यः क्रविशः सं बभूवुः । शिवं चक्षुरुत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे ॥ शान्तं चक्षुरुत वायसीनां या चासां घोरा मनसो विसृष्टिः । मनसस्पते तन्वा मा पाहि घोरान्मा वि रिक्षि तन्वा मा प्रजया मा पशुभिर्वायवे स्वाहा इति हुत्वा ॥ कौश्स्_13,25{117}.2 ॥
वात आ वातु भेषजम् इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,25{117}.3 ॥
वात आ वातु भेषजं शम्भु मयोभु नो हृदे । प्र ण आयूंषि तार्षत् ॥ उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि ॥ यददो वात ते गृहे निहितं भेषजं गुहा । तस्य नो धेहि जीवसे इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,25{117}.4 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,25{117}.5 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽया मत्यैः सरथम्ऽ इति सूक्तेन ऽवात आ वातु भेषजम्ऽ इति सूक्तेन च द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । नीलमक्षिका गृहे पतति अन्यवर्णा वा भवन्ति मक्षिकाशान्तिः समाप्ता ॥ पञ्चविंशी कण्डिका

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc