कौशिकपद्धति · श्लोक 78-97
[शर्म वर्म (14.2.21) इति रोहितचर्माहरन्तम् ॥ कौश्स्_10,4{78}.1 ॥]
ऽशर्म वर्मऽ इत्यृचा रोहितचर्मानुमन्त्रयते ॥
[चर्म चोपस्तृणीथन (14.2.22) इत्युपस्तृणन्तम् ॥ कौश्स्_10,4{78}.2 ॥]
ऽचर्म चोपस्तृणीथनऽ इति पादेनोपस्तृणन्तम् ॥
[यं बल्बजम् (14.2.22) इति बल्बजं न्यस्यन्तम् ॥ कौश्स्_10,4{78}.3 ॥]
ऽयं बल्बजम्ऽ इति पादेन चर्मोपरि बल्बजं स्तृणाति ॥
[उप स्तृणीहि (14.2.23) इत्युपस्तृणन्तम् ॥ कौश्स्_10,4{78}.4 ॥]
ऽउप स्तृणीहि बल्बजम्ऽ इत्यर्धर्चेनानुमन्त्रयते बल्बजं स्तृणन्तम् ॥
[तदा रोहतु (14.2.22) इत्यारोहयति ॥ कौश्स्_10,4{78}.5 ॥]
ऽतदा रोहतुऽ इत्यर्धर्चेन बल्बजस्तृते चर्मणि वधूमारोहयति ॥
[तत्रोपविश्य (14.2.23) इत्युपवेशयति ॥ कौश्स्_10,4{78}.6 ॥]
ऽतत्रोपविश्यऽ इत्यर्धर्चेन तत्र चर्मण्युपवेशयति ॥
दक्षिणोत्तरमुपस्थं कुरुते ॥ कौश्स्_10,4{78}.7 ॥
[सुज्यैष्ठ्यः (14.2.24) इति कल्याणनामानं ब्राह्मणायनमुपस्थ उपवेशयति ॥ कौश्स्_10,4{78}.8 ॥]
ऽसुज्यैष्ठ्यःऽ इति पादेन ब्राह्मणायनं कुमारं वध्वा उपस्थ उपवेशयति ॥
[वि तिष्ठन्ताम् (14.2.25) इति प्रमदनं प्रमायोत्थापयति ॥ कौश्स्_10,4{78}.9 ॥]
ऽवि तिष्ठन्ताम्ऽ इत्यृचा कुमाराय फलं मोदकादि दत्त्वा तत उत्थापयति ॥
[तेन भूतेन (6.78) तुभ्यमग्रे (14.2.1-5) शुम्भनी (14.2.45) अग्निर्जनविन्मह्यं जायामिमामदात् सोमो वसुविन्मह्यं जायामिमामदात् पूषा जातिविन्मह्यं जायामिमामदादिन्द्रः सहीयान्मह्यं जायामिमामदादग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे जातिविदे स्वाहेन्द्राय सहीयसे स्वाहा इति आगछतः (6.82) सविता प्रसवानाम् (5.24) इति ॥ कौश्स्_10,4{78}.10 ॥
मूर्ध्नोः सम्पातानानयति ॥ कौश्स्_10,4{78}.11 ॥]
ततोऽभ्यातानान्तं कृत्वा ऽतेन भूतेनऽ इति सूक्तं, ऽतुभ्यमग्रेऽ इति पञ्च, ऽशुम्भनीऽ इत्येका, ऽअग्निर्जनविन्मह्यम्ऽ इत्येकावसानं पूर्वं कल्पजं सूक्तं, ऽआगच्छतःऽ इति तृचं सूक्तं, ऽसविता प्रसवानाम्ऽ इति सूक्तं एतैः सूक्तैराज्यं जुह्वत् वरवध्वोः क्रमेण मूर्ध्नोः सम्पातानानयति ॥
[उदपात्र उत्तरान् ॥ कौश्स्_10,4{78}.12 ॥]
उदपात्र उत्तरसम्पातानानयति ॥
[शुम्भन्याञ्जल्योर्निनयति ॥ कौश्स्_10,4{78}.13 ॥]
तत उदपात्रं वरवध्वोरञ्जल्योर्निनयति ऽशुम्भनीऽ इत्यृचा ॥
[तेन भूतेन (6.78) इति समशनम् ॥ कौश्स्_10,4{78}.14 ॥
रसानाशयति स्थालीपाकं च ॥ कौश्स्_10,4{78}.15 ॥]
ऽतेन भूतेन हविषाऽ इति सूक्तेन रसं सम्पात्याभिमन्त्र्य ततः स्थालीपाकं सम्पात्याभिमन्त्र्य तेनैव सूक्तेन ततो रसं स्थालीपाकं च जायापती उपसर्पति । एकस्मिन् भाजने सहोपविश्य मिष्टमन्नं सहाशनं कुर्यात् ॥
[यवानामाज्यमिश्राणां पूर्णाञ्जलिं जुहोति ॥ कौश्स्_10,4{78}.16 ॥]
ऽतेन भूतेनऽ इति सूक्तेन यवानामाज्यमिश्राणां पूर्वाञ्जलिं जुहोति । ततोऽभ्यातानाद्युत्तरतन्त्रम् । ऽशर्म वर्मऽ इत्यादिविधिः पितृगृहे विवाहाग्नौ कर्तव्यः । चतुर्थिकाकर्म विधिषु पितृगृहे कार्यम् । इत्युद्वाहः समाप्तः ॥ चतुर्थी कण्डिका
अथ चतुर्थिकाकर्म उच्यते-
[सप्त मर्यादाः (5.1.6) इति तिसृणां प्रातरावपते ॥ कौश्स्_10,5{79}.1 ॥]
ऽसप्त मर्यादाःऽ इत्यृचा वरः व्रीहीन् जुहोति विवाहाग्नौ । तन्त्रविकल्पः हस्तहोमत्वात् । यवान् वेति तिलान् वेति ॥
[अक्ष्यौ नौ (7.36.1) इति समाञ्जाते ॥ कौश्स्_10,5{79}.2 ॥]
ऽअक्ष्यौ नौऽ इत्यृचा परस्परं वरवध्वौ अक्षिणी अङ्क्ते । सर्वत्र मन्त्रं कर्ता ब्रूयात् ॥
[महीमू षु (7.6.2) इति तल्पमालम्भयति ॥ कौश्स्_10,5{79}.3 ॥]
ऽमहीमू षुऽ इत्यृचा तल्पं खट्वामालम्भयति ॥
[आ रोह तल्पम् (14.2.31) इत्यारोहयति ॥ कौश्स्_10,5{79}.4 ॥]
ऽआ रोह तल्पम्ऽ इत्यृचा वरवधू तस्मिन् शयन उपवेशयति ॥
[तत्रोपविश्य (14.2.23) इत्युपवेशयति ॥ कौश्स्_10,5{79}.5 ॥]
ऽतत्रोपविश्यऽ इत्यर्धर्चेन उपवेशयति ॥
[देवा अग्रे (14.2.32) इति संवेशयति ॥ कौश्स्_10,5{79}.6 ॥]
ऽदेवा अग्रेऽ इत्यृचा वरवधू संवेशयति तस्मिन् तल्पे ॥
[अभि त्वा (7.37) इत्यभिछादयति ॥ कौश्स्_10,5{79}.7 ॥]
ऽअभि त्वा मनुजातेनऽ इत्यृचा वरवधू वस्त्रेणाच्छादयति ॥
[सं पितरौ (14.2.37-40) इति समावेशयति ॥ कौश्स्_10,5{79}.8 ॥]
ऽसं पितरौऽ इति चतसृभिरृग्भिः अभिमुखौ करोति ॥
[इहेमौ (14.2.64) इति त्रिः सन्नुदति ॥ कौश्स्_10,5{79}.9 ॥]
ऽइहेमौऽ इत्यृचा वरः वधूकण्ठग्रहणं करोति त्रिः ॥
[मदुघमणिमौक्षेऽपनीय इयं वीरुद् (1.34) अमोऽहम् (14.2.71-72) इति संस्पृशतः ॥ कौश्स्_10,5{79}.10 ॥]
ऽइयं वीरुद्ऽ इति सूक्तम्, ऽअमोऽहमस्मिऽ इति द्वे ऋचौ एतैरृग्भिरभिमन्त्र्य मदुघमणिमौक्षे प्रक्षिप्य परस्परं वरवध्वौ समालम्भतः । आह पैठीनसिः श्लोकम्-
आवपेत् सुरभिर्गन्धान् क्षीरे सर्पिष्यथोदके.
एतदायतनमित्याहुरौक्षं तु मधुना सह ॥
[ब्रह्म जज्ञानम् (4.1.1; 5.6.1) इत्यङ्गुष्ठेन व्यचस्करोति ॥ कौश्स्_10,5{79}.11 ॥]
ऽब्रह्म जज्ञानम्ऽ इत्यृचा वरः अङ्गुष्ठेन प्रजननदेशं तुदति ॥
[स्योनाद्योनेः (14.2.43) इत्युत्थापयति ॥ कौश्स्_10,5{79}.12 ॥]
ऽस्योनाद्योनेःऽ इत्यृचा खट्वाया उत्थापयति ॥
[परिधापनीयाभ्यामहतेनाछादयति ॥ कौश्स्_10,5{79}.13 ॥]
शौचं कारयित्वा ऽया अकृन्तन्ऽ (14.1.45) ऽत्वष्टाः वासःऽ (14.1.53) इति द्वाभ्यामहतवस्त्रमभिमन्त्र्य परिधापयति वरः वधूम् ॥
[बृहस्पतिः (14.1.55-56) इति शष्पेणाभिघार्य व्रीहियवाभ्यामभिनिधाय दर्भपिञ्जूल्या सीमन्तं विचृतति ॥ कौश्स्_10,5{79}.14 ॥]
ऽबृहस्पतिः प्रथमः सूर्यायाःऽ इति द्वाभ्यां वधूसीमन्ते शष्पं निदधाति । तूष्णीं व्रीहियवौ सीमन्ते निदधाति । आज्येन सह दर्भपिञ्जूल्या सीमन्तं विचृतति ॥
[शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते ॥ कौश्स्_10,5{79}.15 ॥]
शणशकलेन वधूकेशान् वेष्ट्य तिस्रो रात्रीः प्रति सुप्तः ॥
[अनुवाकाभ्यामन्वारब्धाभ्यामुपदधीत ॥ कौश्स्_10,5{79}.16 ॥]
ततः तन्त्रं कृत्वा ऽसत्येनोत्तभिताऽ (14.1, 2) इति सर्वेण काण्डेनाज्यं जुहोति । तन्त्रे । आज्यं वा समिधो वा पुरोडाशं वा । व्रीहियवतिलादि जुहोति । सर्वत्र तन्त्रविकल्पः । तन्त्रे सर्वत्र हस्तहोमे अन्वालम्भनम् । ऽअनुवाकाभ्यामन्वारब्धाभ्यामुपदधीतऽ इति प्रायश्चित्तमेतत् । यदि चतुर्थिकाकर्ममध्ये रजस्वला वधूः भवति तदेदं प्रायश्चित्तम् । नित्यमपि भवति । चतुर्थिकां नित्यं कुर्यात् ॥
[इहेदसाथ (14.1.32) इत्येतया शुल्कमपाकृत्य ॥ कौश्स्_10,5{79}.17 ॥]
ऽइहेदसाथऽ इत्येतया शुल्कद्रव्यं पृथक् करोति ॥
[द्वाभ्यां निवर्तयति इह मम राध्यतामत्र तव इति ॥ कौश्स्_10,5{79}.18 ॥]
ऽइहेदसाथऽ (14.1.32-33) इति द्वाभ्यां निवर्तयति । ऽइदं द्रव्यं तव इदं मम राध्यताम्ऽ ॥
[यथा वा मन्यन्ते ॥ कौश्स्_10,5{79}.19 ॥
परा देहि (14.1.25-30) इति वाधूयं ददतमनुमन्त्रयते ॥ कौश्स्_10,5{79}.20 ॥]
ऽपरा देहिऽ इति षड्भिरृग्भिर्वाधूयं ददतमनुमन्त्रयते ॥
[देवैर्दत्तम् (14.2.41-42) इति प्रतिगृह्णाति ॥ कौश्स्_10,5{79}.21 ॥]
ऽदेवैर्दत्तम्ऽ इति द्वाभ्यां वाधूयं कर्ता प्रतिगृह्णाति ॥
[अपास्मत्तमः (14.2.48) इति स्थाणावासजति ॥ कौश्स्_10,5{79}.22 ॥]
ऽअपास्मत्तमःऽ इत्यृचा स्थूण आसजति ॥
[यावतीः कृत्याः (14.2.49) इति व्रजेत् ॥ कौश्स्_10,5{79}.23 ॥]
तद्वस्त्रं गृहीत्वा ऽयावतीः कृत्याःऽ इत्यृचा वस्त्रं विसर्जयति ॥
[या मे प्रियतमा (14.2.50) इति वृक्षं प्रतिछादयति ॥ कौश्स्_10,5{79}.24 ॥]
ऽया मे प्रियतमाऽ इत्यृचा वृक्षं प्रतिच्छादयति कर्ता ॥
[शुम्भन्याल्पुत्य ॥ कौश्स्_10,5{79}.25 ॥]
ऽशुम्भनीऽ (14.2.45) इत्यृचा स्नानं सर्वे कुर्वन्ति ॥
[ये अन्ताः (14.2.51) इत्याछादयति ॥ कौश्स्_10,5{79}.26 ॥]
ततो ऽये अन्ताःऽ इत्यृचा वाधूयेनाच्छादयति ॥
[नवं वसानः (14.2.44) इत्याव्रजति ॥ कौश्स्_10,5{79}.27 ॥
पूर्वापरं यत्र नाधिगछेत् ब्रह्मापरम् (14.1.64) इति कुर्यात् ॥ कौश्स्_10,5{79}.28 ॥
गौर्दक्षिणा प्रतीवाहः ॥ कौश्स्_10,5{79}.29 ॥]
ऽनवं वसानःऽ इत्यृचं जपित्वा कर्ता । सर्वे गृहमागच्छन्ति । वेदिमध्ये कर्ता उपविशति । अभ्यातानाद्युत्तरतन्त्रम् । इति चतुर्थिकाकर्म । विवाहे उद्वाहे सति एका गौर्दक्षिणा । यदि मन्त्रप्रमाणं न जानाति तदा ऽब्रह्मापरम्ऽ इत्यृचा सर्वं कर्तव्यम् ॥
[जीवं रुदन्ति (14.1.46) यदीमे केशिनः (14.2.59-62) इति जुहोति ॥ कौश्स्_10,5{79}.30 ॥
एष सौर्यो विवाहः ॥ कौश्स्_10,5{79}.31 ॥
ब्रह्मापरम् (14.1.64) इति ब्राह्म्यः ॥ कौश्स्_10,5{79}.32 ॥]
कुमार्यां नीयमानायां पितृगृहाद्यदि रोदनं भवति तदेदं प्रायश्चित्तम् । अभ्यातानान्तं कृत्वा ऽजीवं रुदन्तिऽ इत्येकया, ऽयदीमे केशिनःऽ इति चतसृभिरेताभिराज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । रुदनप्रायश्चित्तम् ॥
[आवृतः प्राजापत्याः प्राजापत्याः ॥ कौश्स्_10,5{79}.33 ॥]
आवृताः प्राजापत्य इति । शूद्रस्य विवाहे सर्वं तूष्णीं कार्यमाज्यादि । विवाह उद्वाहानि समाप्तानि ॥
अग्न्याधेयं च यात्रार्थं धर्मपुत्रार्थमेव च.
भार्या संस्कारमुद्वाहं दशमे प्राह नो गुरुः ॥
पञ्चमी कण्डिका
इति कौशिकपद्धतौ दशमोऽध्यायः ॥
अथ एकादशोऽध्यायः
[पितृमेधः]
[अथ पितृमेधं व्याख्यास्यामः ॥ कौश्स्_11,1{80}.1 ॥]
अथ अन्तेष्टिपितृमेधं व्याख्यास्यामः ॥
[दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम् ॥ कौश्स्_11,1{80}.2 ॥]
ऽवृक्षवर्जिते देशे दहननिधानं कर्तव्यम्ऽ इति ब्राह्मणेनोक्तम् । आहिताग्नेरेकाग्नेश्चायं संस्कारः ॥
[दुर्बलीभवन्तं शालातृणेषु दर्भानास्तीर्य स्योनास्मै भव (18.2.19-21) इत्यवरोहयति ॥ कौश्स्_11,1{80}.3 ॥
मन्त्रोक्तावनुमन्त्रयते ॥ कौश्स्_11,1{80}.4 ॥]
दुर्बलीभवन्तं मुमूर्षन्तमग्निहोत्रशालायामावसथ्यशालायां वा शालातृणान्यास्तीर्य तेषूपरि दर्भान् स्तृणाति । ऽस्योनास्मै भवऽ इति तिसृभिरृग्भिः तं पुरुषं दर्भेषु स्वापयति । इदं कर्म मरणकाले ॥
अथ यदि काकपिपीलिकासर्पव्याघ्रशृङ्गिश्वापदादिषु दंष्ट्रादंशदोषान्म्रियेत तदेदं प्रायश्चित्तमुच्यते-
[यत्ते कृष्णः (18.3.55) इत्यवदीपयति ॥ कौश्स्_11,1{80}.5 ॥]
ऽयत्ते कृष्णः शकुनःऽ इत्यृचा तस्य दष्टव्रणमग्निना दहति ॥
अथ सम्भारा उच्यन्ते-
[आहिताग्नौ प्रेते सम्भारान् सम्भरति ॥ कौश्स्_11,1{80}.6 ॥
आज्यं च पृषदाज्यं चाजं च गां च ॥ कौश्स्_11,1{80}.7 ॥
वसनं पञ्चमम् ॥ कौश्स्_11,1{80}.8 ॥
हिरण्यं पृष्ठम् ॥ कौश्स्_11,1{80}.9 ॥]
आज्यं च पृषदाज्यं च । अजं च गां च । वसनं च । हिरण्यशकलानि सप्त ॥
[शरीरं नान्वालभते ॥ कौश्स्_11,1{80}.10 ॥
अन्यं चेष्टन्तमनुमन्त्रयते ॥ कौश्स्_11,1{80}.11 ॥]
गोत्रिणः शरीरस्पर्शं कुर्वन्ति । सर्वत्र कर्ता ब्रूयात् दूरस्थः । आहिताग्नेरेकाग्नेश्च मृते सति गृहे कर्म उच्यते । केचिद् वनं नीत्वा वक्ष्यमाणं कर्म कुर्वन्ति ॥
[शान्त्युदकं करोत्यसकलं चातनानां चान्वावपते ॥ कौश्स्_11,1{80}.12 ॥]
अथ शान्त्युदकं करोति कर्ता । न सकलम् । प्रतीकत्रयेण ओषधित्रयेण च । चातनप्रतीकत्रयं शान्त्युदक अनुयोजयेत् ॥
[शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति ॥ कौश्स्_11,1{80}.13 ॥]
अनेन शान्त्युदकेन उदकमिश्रितेन केशश्मश्रुरोमनखानि संहारयति ॥
[आप्लावयन्ति ॥ कौश्स्_11,1{80}.14 ॥]
आप्लवनं च कारयति । सर्वं प्रेतस्य कुर्युर्गोत्रिणः न कर्ता ॥
[अनुलिम्पन्ति ॥ कौश्स्_11,1{80}.15 ॥]
चन्दनाद्यनुलिम्पन्ति ॥
स्रजोऽभिहरन्ति ॥ कौश्स्_11,1{80}.16 ॥
[एवं स्नातमलङ्कृतमहतेनावाग्दशेन वसनेन प्रछादयति एतत्ते देवः (18.4.31) एतत्त्वा वासः प्रथमं न्वागन् (18.2.57) इति ॥ कौश्स्_11,1{80}.17 ॥]
एवं स्नातमलङ्कृतमहतेनावाग्दशेन वसनेन पादौ प्रच्छादयति । ऽएतत् ते देवःऽ इत्यृचा, ऽएतत् त्वा वासःऽ इत्यृचा एताभ्यां द्वाभ्यां वासमभिमन्त्रयते । यत् लोकाः स्मरन्ति तत् सर्वं कुर्यात् ॥
[अपेमम् (18.2.27) इत्यग्निषु जुहोति ॥ कौश्स्_11,1{80}.18 ॥]
अथाग्निविहारं कुर्यात् । ततः ऽअपेमम्ऽ इत्यृचा त्रिष्वग्निष्वाज्यं जुहोति एकाग्नौ च ॥
उखाः कुर्वन्ति ॥ कौश्स्_11,1{80}.19 ॥
[ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति ॥ कौश्स्_11,1{80}.20 ॥
ताः पृथगग्निभिः सन्तापयन्त्या शकृदादीपनात् ॥ कौश्स्_11,1{80}.21 ॥]
ताः शकृदाऽऽभ्यन्तरं लिम्पन्ति । शुष्केण पूरयित्वाऽऽहवनीये गार्हपत्ये दक्षिणाग्नौ च पृथगग्निभिः सन्तापयत्या शकृदादीपनात् ॥
[तेषां हरणानुपूर्वमाहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम् ॥ कौश्स्_11,1{80}.22 ॥]
ताः उखा एवं नीयन्ते प्रेतेन सह रथेन पुरुषैर्वा अग्निसहिताः । अग्ने आहवनीयं कृत्वा ततो दक्षिणाग्निं ततो गार्हपत्यमेवं हरणानुपूर्व्या नीयन्ते । एतत् सर्वं गृहे कर्म ॥
अथ देशान्तरमृते आहिताग्नेरेकाग्नेश्च कर्मोच्यते-
[अथ विदेशे प्रेतस्य आ रोहत जनित्रीं जातवेदसः (18.4.1) इति पृथगरणीष्वग्नीन् समारोपयन्ति ॥ कौश्स्_11,1{80}.23 ॥]
ऽआ रोहत जनित्रीं जातवेदसःऽ इत्यृचाऽरणिद्वयं प्रतापयति त्रिष्वग्निषु । त्रिर्मन्त्रावृत्तिः । प्रतापेन अग्निसमारोपणम् । योजनशतेऽपि समारोपणे नापनीयन्ते । प्रेतसमीपे पात्राणि च । मन्थनं कृत्वा अन्तेष्टिकर्म कुर्यात् ॥
तेषु यथोक्तं करोति ॥ कौश्स्_11,1{80}.24 ॥
वक्ष्यमाणं कर्म । अथ देशान्तरमृते शरीरनाशे वा लौकिकाग्निदग्धे वा अस्थीनि कृष्णाजिने कृत्वा पात्रचयनादि कर्म कुर्यात् । अस्थिनाशे पलाशवृन्तत्रीणि शतानि षष्टि चाङ्कुराणां कृष्णाजिने कृत्वा अन्तेष्टिकर्म कुर्यात् । आहिताग्नेरेकाग्नेश्च इदं कर्म । समारोपणम् । अथवा मृतशरीरमग्निसमीप आनीयते तत्र संस्कारः । अथवा अग्नयः प्रेतसमीप आनीयन्ते । तत्र विधिरुच्यते । यस्मिन् पक्षे समारोपणं क्रियते स पक्ष उच्यते । उभयोरपि पक्षयोः समारोपणं वा । अग्निहोत्रहवनं कुर्यात् ॥
अग्निहोत्रहवनविधानमुच्यते-
[अपि वान्यवत्साया वा सन्धिनीक्षीरेणैकशलाकेन वा मन्थेनाग्निहोत्रं जुहोत्या दहनात् ॥ कौश्स्_11,1{80}.25 ॥]
अपि वान्यवत्सायाः सन्धिनीक्षीरेण वा अग्निहोत्रं जुहोति आ दहनात् । उक्तं होमविधानमाहिताग्नेरेकाग्नेश्च । एकशलाकेन वा मन्थेनाग्निहोत्रं जुह्वति ॥
दर्शपूर्णमासयोर्विधानमुच्यते-
[दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः ॥ कौश्स्_11,1{80}.26 ॥]
अथ तूष्णीं निर्वपति । कृष्णतण्डुलानाम् । तस्या आज्येन नान्तर्न बहिः । मध्ये जुहुयात् अग्नेः ॥
पलालानि बर्हिः ॥ कौश्स्_11,1{80}.27 ॥
[तिल्पिञ्ज्या इध्माः ॥ कौश्स्_11,1{80}.28 ॥]
तिल्पिञ्ज्यानाम् इध्मग्रहणम् ॥
[ग्रहानाज्यभागौ पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य ॥ कौश्स्_11,1{80}.29 ॥
प्राणापानावरुद्ध्यै निधनाभिर्जुहुयात् ॥ कौश्स्_11,1{80}.30 ॥]
अग्निहोत्रहोमं कुर्यात् । आज्यभागयोः पुरस्ताद्धोमसंस्थितहोमेषु स्वाहाकारं कुर्यात् सर्वत्र । स्वधाकारं कुर्यादन्यत्र । ब्राह्मणा वा प्राणापानाववरुध्य निधनाभिः स्वाहाहोमः । स्वाहाकारवषट्कारवर्जं अन्तेष्टिपितृमेधे सर्वत्रापि विना कर्तव्यम् । देशान्तरमृतस्य दर्भाज्याग्निहोत्रं वा समारोपणं समाप्तम् ॥
अथ प्रकृतमुच्यते-
[अथोभयोः उत्तिष्ठ (18.3.8) इत्युत्थापयति ॥ कौश्स्_11,1{80}.31 ॥]
उखाप्रदीपनानन्तरं प्रेतोत्थापनकर्म उच्यते । अथोभयोः एकं विहितं कर्म उच्यते । उत्थापनम् । ऽउत्तिष्ठ प्रेहिऽ इत्येका, ऽप्रेहि प्रेहिऽ (18.1.54) इत्येका, ऽप्र च्यवस्वऽ (18.3.9) इत्येका, ऽउदवन्तीऽ (18.2.48-49) इति द्वे, ऽइत एत उदारुहन्ऽ (18.1.61-2.3) इति चतस्रः, ऽअग्नीषोमा पथिकृताऽ (18.2.53-55) इति तिस्रः, ऽइदं पूर्वम्ऽ (18.4.44) इत्येका एताः त्रयोदश उत्थापनीसञ्ज्ञाः । उत्थापनीभिरृग्भिः प्रेतमुत्थाप्य शकटे करोति शयने वा ॥
[प्र च्यवस्व (18.3.9) इति त्रिः संहापयतिं यावत्कृत्वश्चोत्थापयति ॥ कौश्स्_11,1{80}.32 ॥]
ऽप्र च्यवस्वऽ इत्यृचा प्रेतस्य गात्राणीतश्चेतश्च करोति ॥
[एवमेव कूदीं जघने निबध्य ॥ कौश्स्_11,1{80}.33 ॥]
पश्चात्कटिप्रदेशे रज्ज्वां बद्ध्वा निबध्य गच्छति ॥
[इमौ युनज्मि (18.2.56) इति गावौ युनक्ति पुरुषौ वा ॥ कौश्स्_11,1{80}.34 ॥]
ऽइमौ युनज्मिऽ इत्यृचा वृषभौ अभिमन्त्र्य शकटे युनक्ति अन्यः शयने पुरुषान् वा अनयर्चा ॥
[उत्तिष्ठ (18.3.8) प्रेहि (18.1.54) प्र च्यवस्व (18.3.9) उदन्वती (18.2.48) इत एते (18.1.61) अग्नीषोमा (18.2.53) इदं पूर्वम् (18.4.44) इति हरिणीभिर्हरेयुः अति द्रव (18.2.11-18) इत्यष्टभिः ॥ कौश्स्_11,1{80}.35 ॥]
अथ हरिणी उच्यते । ऽअति द्रवऽ इत्यष्टौ ऋचो हरिणीत्युच्यते । दहनदेशे नीयमानं हरिणीभिरभिमन्त्रयेत् प्रेतं दूरस्थः कर्ता ॥
[इदं ते (18.3.7) इत्यग्निमग्रतः ॥ कौश्स्_11,1{80}.36 ॥]
ऽइदं त एकम्ऽ इत्यृचा अग्नयः प्रेतस्याग्रे कृत्वाभिमन्त्रयते । एकाग्निं च शकटे बद्ध्वा । पात्राण्यग्रतः कृत्वा ॥
[प्रजानत्यघ्न्ये (18.3.4) इति जघन्यं गामेधमग्निं परिणीय ॥ कौश्स्_11,1{80}.37 ॥]
ऽप्रजानत्यघ्न्ये जीवऽ इत्यृचा गां लौकिकाग्निं सारस्वतहोमार्थं परिणीय एधमग्निं परिणीय दहनदेशे गत्वा ॥
[स्योनास्मै भव (18.2.19) इत्युत्तरतोऽग्नेः शरीरं निदधाति ॥ कौश्स्_11,1{80}.38 ॥]
ऽस्योनास्मै भवऽ इत्यृचा उत्तरतोऽग्नेः प्रेतस्य शरीरं निदधाति अधः । पाणिं चाग्निसमीपे निदधाति । दहनस्थान इदं कर्म करोति ॥
अध्वर्यव इष्टिं निर्वपन्ति ॥ कौश्स्_11,1{80}.39 ॥
[तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य ॥ कौश्स्_11,1{80}.40 ॥
प्राणापानावरुद्ध्यै निधनाभिर्जुहुयात् ॥ कौश्स्_11,1{80}.41 ॥]
यदि अन्तेष्टिः कृता भवति ततः प्रयोगसमाप्तिः अस्मिन् स्थाने.
तत्र भूमौ संस्कार उच्यते -
[अथोभयोः अपेत (18.1.55) ददामि (18.2.37) इति शान्त्युदकं कृत्वा सम्प्रोक्षणीभ्यां काम्पीलशाखया दहनं सम्प्रोक्ष्य ॥ कौश्स्_11,1{80}.42 ॥]
ऽअपेत वीतऽ, ऽददाम्यस्मैऽ इति द्वाभ्यां काम्पीलशाखया दहनस्थानं सम्प्रोक्ष्य ॥
[उदीरताम् (18.1.44) इत्युद्धृत्याभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य प्राग्दक्षिणमेधश्चिन्वन्ति ॥ कौश्स्_11,1{80}.43 ॥]
ऽउदीरताम्ऽ इत्यृचा उद्धृत्याभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य दहनस्थानम् । पूर्वदक्षिणकोणाभिमुखानि काष्ठानि चिन्वन्ति ॥
[इयं नारी (18.3.1) इति पत्नीमुपसंवेशयति ॥ कौश्स्_11,1{80}.44 ॥]
अन्यः ऽइयं नारीऽ इत्यृचा पत्नीं प्रेतेन सह संवेशयति सहगमनार्थम् । तथा च पुराणे
पतिना सह मरणे लोकानन्त्यमवाप्नुयात्.
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥
[उदीर्ष्व (18.3.2) इत्युत्थापयति ॥ कौश्स्_11,1{80}.45 ॥]
अथ यदि उत्तिष्ठति तदा ऽउदीर्ष्वऽ इत्यृचाभिमन्त्र्योत्थापयति ॥
[यद्धिरण्यं बिभर्ति तद्दक्षिणे पाणावादायाज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयति इदं हिरण्यम् (18.4.56) इति ॥ कौश्स्_11,1{80}.46 ॥]
ऽइदं हिरण्यम्ऽ इत्यर्धर्चेन यद्धिरण्यं बिभर्ति तद् दक्षिणे पाणावादायाज्येनाभिघार्याभिमन्त्र्य ज्येष्ठेन पुत्रेणाऽऽदापयति ॥
[स्वर्गं यतः (18.4.56) इति दक्षिणं हस्तं निर्मार्जयति ॥ कौश्स्_11,1{80}.47 ॥]
ऽस्वर्गं यतःऽ इत्यर्धर्चेन प्रेतहस्तं मार्जयति पुत्रः ॥
[दण्डं हस्तात् (18.2.59) इति मन्त्रोक्तं ब्राह्मणस्यादापयति ॥ कौश्स्_11,1{80}.48 ॥]
ऽदण्डं हस्तात्ऽ इत्यृचा वेणुयष्टिं प्रेतहस्ताद् गृह्णाति पुत्रः । मन्त्रं कर्ता सर्वत्र ॥
[धनुर्हस्तात् (18.2.60) इति क्षत्रियस्य ॥ कौश्स्_11,1{80}.49 ॥]
ऽधनुर्हस्तात्ऽ इत्यृचा क्षत्रियहस्ताद्धनुर्गृह्णाति ॥
[अष्ट्राम् इति वैश्यस्य ॥ कौश्स्_11,1{80}.50 ॥]
ऽआष्ट्रं हस्तात्ऽ इति मन्त्रविकारं कृत्वा सह विशा वर्चसा बलेन प्रेताद्दण्डं गृह्णाति वैश्यपुत्रः ॥
[इदं पितृभ्यः (18.1.46) इति दर्भानेधान् स्तृणाति ॥ कौश्स्_11,1{80}.51 ॥]
ऽइदं पितृभ्यःऽ इत्यर्धर्चेन चितोपरि दर्भान् स्तृणाति ॥
[तत्रैनमुत्तानमादधीत ईजानश्चित्तमारुक्षदग्निं (18.4.14-15) इति ॥ कौश्स्_11,1{80}.52 ॥]
तत्र चितौ प्रेतमुत्तानमादधाति । ऽईजानश्चित्तमारुक्षदग्निम्ऽ इति द्वाभ्यामृग्भ्यां दूरस्थः कर्ताऽनुमन्त्रयते ॥
[प्राच्यां त्वा दिशि (18.3.30) इति प्रतिदिशम् ॥ कौश्स्_11,1{80}.53 ॥]
पूर्वदक्षिणतः प्रेतशिरः कुर्यात् । ऽप्राच्यां त्वा दिशिऽ इत्येताभिरृग्भिः प्रेतमभिमन्त्रयते स्थानस्थितम् ॥
[नेत्युपरिबभ्रवः ॥ कौश्स्_11,1{80}.54 ॥]
केचित् प्रतिदिशं शिरः कुर्वन्ति । तन्नेत्युपरिबभ्रव आचार्यः ॥
[अनुमन्त्रयते ॥ कौश्स्_11,1{80}.55 ॥]
अनुमन्त्रणं कुर्यादित्यर्थः ॥
अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलान्यवास्यति अमृतमस्यमृतत्वायामृतस्मिन् धेहि इति ॥ कौश्स्_11,1{80}.56 ॥
मन्त्रेण सप्तवारान् मन्त्रावृत्तिः । एकाग्नेरपि यथासम्भवं योजयितव्यम् ॥ एकादशेऽध्याये प्रथमा कण्डिका
[अथाहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य ॥ कौश्स्_11,2{81}.1 ॥]
आहिताग्नेरधिकारः । चक्षुषी श्रोत्रे नासिके मुखं च सप्त प्राणाः । आहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य ॥
[तत्रैनमुत्तानमाधाय ॥ कौश्स्_11,2{81}.2 ॥]
तत्र प्रेतमुत्तानमाधाय ॥
अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधाति ॥ कौश्स्_11,2{81}.3 ॥
चतुर्गृहीत्वा निदधति प्रेताङ्गेषु ॥
पात्रचयनमुच्यते -
दक्षिणे हस्ते जुहूम् ॥ कौश्स्_11,2{81}.4 ॥
सव्य उपभृतम् ॥ कौश्स्_11,2{81}.5 ॥
[कण्ठे ध्रुवां मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवम् ॥ कौश्स्_11,2{81}.6 ॥]
कण्ठे ध्रुवां मुखेऽग्निहोत्रहवणीम् । नासिकयोः अग्निहोत्रस्रुवं पृषदाज्येन पूरयित्वा निधाय ॥
[तान्यनुमन्त्रयते जुहूर्दाधार द्यां, ध्रुव आ रोह (18.4.5-6) इति ॥ कौश्स्_11,2{81}.7 ॥]
ऽजुहूर्दाधार द्याम्ऽ इत्येका, ऽध्रुव आ रोहऽ इत्येका । एताभ्यां पात्राण्यनुमन्त्रयते । सकृन्मन्त्रः ॥
ललाटे प्राशित्रहरणम् ॥ कौश्स्_11,2{81}.8 ॥
द्वे तूष्णीम् ॥
[इममग्ने चमसम् (18.3.53-54) इति शिरसीडाचमसम् ॥ कौश्स्_11,2{81}.9 ॥]
इडापात्रीं शिरसि निधाय ऽइममग्ने चमसम्ऽ इति द्वाभ्यामनुमन्त्रयते ॥
[देवा यज्ञम् (18.4.2-4) इत्युरसि पुरोडाशम् ॥ कौश्स्_11,2{81}.10 ॥]
ऽदेवा यज्ञम्ऽ इति तिसृभिर्हृदये पुरोडाशमनुमन्त्रयते यदि पुरोडाशो भवति ॥
दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम् ॥ कौश्स्_11,2{81}.11 ॥
[उदरे पात्रीम् ॥ कौश्स्_11,2{81}.12 ॥]
उदरे पिष्टपात्री ॥
[अष्ठीवतोरुलूखलमुसलम् ॥ कौश्स्_11,2{81}.13 ॥]
अष्ठीवतो जानुः प्रसिद्धस्तत्रोलूखलं मुसलं च ॥
[श्रोण्योः शकटम् ॥ कौश्स्_11,2{81}.14 ॥]
श्रोणिप्रदेशे शकटम् ॥
[अन्तरेणोरू अन्यानि यज्ञपात्राणि ॥ कौश्स्_11,2{81}.15 ॥]
अन्तरेणोरू अन्यानि यज्ञपात्राणि जङ्घ्योर्मध्ये अन्यानि प्रणीताचमस-होतृचमस-ब्रह्मचमस-यजमानचमस-अन्तर्धानकट- पूर्णपात्र-षडवत्तादीनि पृषदाज्येन पूरयित्वा निदध्यात् तूष्णीम् ॥
पादयोः शूर्पम् ॥ कौश्स्_11,2{81}.16 ॥
[अपो मृन्मयान्युपहरन्ति ॥ कौश्स्_11,2{81}.17 ॥]
मृन्मयानि अप्सुमध्ये निदध्यात् ॥
[अयस्मयानि निदधति ॥ कौश्स्_11,2{81}.18 ॥]
लोहमयानि भूमौ निखनति तूष्णीम् ॥
[अमा पुत्रा च दृषत् ॥ कौश्स्_11,2{81}.19 ॥]
अश्ममयानि स्वधितिदात्रपर्श्वादि दृषदुपलकं भूमौ निदध्यात् । एकाग्नेराहिताग्नेरधिकारः ॥
[अथोभयोः अपश्यं युवतिं, प्रजानत्यघ्न्ये (18.3.3-4) इति जघन्यां गां प्रसव्यं परिणीयमानामनुमन्त्रयते ॥ कौश्स्_11,2{81}.20 ॥]
ऽअपश्यं युवतिम्ऽ इति द्वाभ्यामृग्भ्यां चितौ पार्श्वतः अपसव्यं गां परिणीयमानामनुमन्त्रयते ॥
[तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति ॥ कौश्स्_11,2{81}.21 ॥]
गां निरृतिदेशे जघनप्रदेशे लकुटेन घातयित्वा मारयन्ति । यथा हन्यमाना गौः उपविशति तथा कर्तव्यम् । शूद्रीजातस्य पुत्रस्य एतत् कर्म । नान्यो मारयति ॥
[तस्याः पृष्ठतो वृक्कावुद्धार्य पाण्योरस्यादधति अति द्रव श्वानौ (18.2.11-13) इति ॥ कौश्स्_11,2{81}.22 ॥
दक्षिणे दक्षिणं सव्ये सव्यम् ॥ कौश्स्_11,2{81}.23 ॥]
गोष्ठदेशाद् वृक्कावुद्धार्य प्रेतहस्तयोर्ददाति दक्षिणे दक्षिणं सव्ये सव्यम् । ऽअति द्रवऽ इति तिसृभिरनुमन्त्रयते कर्ता दूरस्थः ॥
[हृदये हृदयम् ॥ कौश्स्_11,2{81}.24 ॥]
गोहृदयं प्रेतहृदये ददाति ॥
[अग्नेर्वर्म (18.2.58) इति वपया सप्तछिद्रया मुखं प्रछादयन्ति ॥ कौश्स्_11,2{81}.25 ॥]
ऽअग्नेर्वर्मऽ इत्यृचा वपया सप्तछिद्रया प्रेतमुखं छादयति ॥
यथागात्रं गात्राणि ॥ कौश्स्_11,2{81}.26 ॥
दक्षिणैर्दक्षिणानि सव्यैः सव्यानि ॥ कौश्स्_11,2{81}.27 ॥
[अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्य ॥ कौश्स्_11,2{81}.28 ॥]
अनुबद्धशिरःपादेन चर्मणा प्रेतमवच्छाद्य ॥
[अजो भागः (18.2.8-9), उत्त्वा वहन्तु (18.2.22) इति दक्षिणतोऽजं बध्नाति ॥ कौश्स्_11,2{81}.29 ॥]
ततः ऽअजो भागःऽ इति द्वे ऽउत्त्वा वहन्तुऽ इत्येका एताभिस्तिसृभिर्दक्षिणपार्श्वे चितौ अजं पशुं बध्नाति । यथा दह्यते तथा बध्नाति । तत्रोच्यते । तथा च माहकिः अजो हन्यते दह्यते ॥
[अस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहा इत्युरसि गृह्ये जुहोति ॥ कौश्स्_11,2{81}.30 ॥]
एकाग्निं प्रेतहृदये कृत्वा ऽअस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहाऽ इत्यनेन मन्त्रेणाज्यं जुहोति कर्ताऽस्पृष्टः सन् अथवा गोत्रिणः ॥
[तथाग्निषु जुहोति अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा इति ॥ कौश्स्_11,2{81}.31 ॥]
अथाहवनीयादिषु जुहोति ऽअग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहाऽ इति । ऽअग्नये स्वाहाऽ इति त्रिभिः स्वाहाकारैराज्यं जुहोति । इति तिस्रस्तिस्र आहुतीः ॥
दक्षिणाग्नावित्येके ॥ कौश्स्_11,2{81}.32 ॥
खण्डकल्पं मन्यन्ते । प्रेतं वेदिमध्ये यथादिक्षु अग्नयः ॥
[मैनमग्ने वि दहः (18.2.4-7) शं तप (18.2.36) आ रभस्व (18.3.71-73) प्रजानन्तः (2.34.5) इति कनिष्ठ आदीपयति ॥ कौश्स्_11,2{81}.33 ॥]
अथ पुत्रोऽग्निं ददाति । प्रेतस्य पिण्डदानं कृत्वा अप्रदक्षिणमुदकधारां भ्रामयित्वा करकैः प्रेते त्रिः शब्दं कृत्वा भूमौ प्रक्षिपति ततोऽग्निं ददाति । एतैर्मन्त्रै स्वयं पठित्वा न कर्ता । ऽमैनमग्नेऽ इति चतस्रः, ऽशं तप मातितपऽ इत्यृचा ऽआ रभस्व जातवेदःऽ इति त्रिभिः ऽप्रजानन्तः प्रति गृह्णन्तुऽ इत्येका, एताभिरृग्भिः कनिष्ठपुत्रो गोत्रिणो वा अन्यो वा आदीपयति । ततो देवहेडनेनानुवाकेन स्रुवेणाज्यं जुहोति ॥
[आदीप्ते स्रुवेण यामान् होमाञ्जुहोति परेयिवासं प्रवतो महीः (18.1.49) इति ॥ कौश्स्_11,2{81}.34 ॥
यमो नो गातुं प्रथमो विवेद (18.1.50) इति द्वे प्रथमे ॥ कौश्स्_11,2{81}.35 ॥
अङ्गिरसो नः पितरो नवग्वाः (18.1.58-61) इति संहिताः सप्त ॥ कौश्स्_11,2{81}.36 ॥
यो ममार प्रथमो मर्त्यानाम् (18.3.13) ये नः पितुः पितरो ये पितामहाः (18.2.49) इत्येकादश ॥ कौश्स्_11,2{81}.37 ॥]
प्रज्वलिते चितौ कर्ता आदीप्ते सति स्रुवेण खादिरेण याम्यान् होमान् जुहोति । एकीभूतेष्वग्निषु । एकाग्नेरपि । ऽपरेयिवांसम्ऽ, ऽयमो नो गातुम्ऽ इति द्वे इति प्रथमः पक्षः । ऽअङ्गिरसो नः पितरो नवग्वाःऽ इति संहताः सप्त इति द्वितीयः पक्षः । ऽपरेयिवांसम्ऽ इति द्वे ऽअङ्गिरसो नः पितरःऽ इति सप्त ऽये नः पितुः पितरो ये पितामहाःऽ इति द्वे एताः समस्ता एकादश तृतीयः पक्षः । एतैः समुच्चितैराज्यं जुहोति । एकेन पक्षेण । अथ सप्त नव एकादशादि ब्राह्मणाः पूर्वाभिमुखोपविष्टाः ऽओ चित् सखायम्ऽ (18.1-4) इति काण्डं सकलं जपन्ति । विवाहे सूर्यवत् ॥
[अथ सारस्वताः ॥ कौश्स्_11,2{81}.38 ॥
सरस्वतीं देवयन्तो हवन्ते, सरस्वतीं पितरो हवन्ते, सरस्वति या सरथं ययाथ (18.1.41-43) सरस्वति व्रतेषु ते, इदं ते हव्यं घृतवत् सरस्वति (7.68.1-2) इन्द्रो मा मरुत्वान् (18.3.25) इति ॥ कौश्स्_11,2{81}.39 ॥
दक्षिणतोऽन्यस्मिन्ननुष्ठाता जुहोति ॥ कौश्स्_11,2{81}.40 ॥]
अथ सारस्वतान् होमान् कर्ता करोति । ऽसरस्वतीं देवयन्तो हवन्तेऽ इत्येका, ऽसरस्वतीं पितरो हवन्तेऽ इत्येका, ऽसरस्वति या सरथम्ऽ इत्येका, ऽसरस्वति व्रतेषु तेऽ इत्येका, ऽइदं ते हव्यम्ऽ इत्येका, ऽइन्द्रो मा मरुत्वान्ऽ इति पञ्चभिः एतैराज्यं जुहोति चितौ । एते सारस्वताः । दक्षिणतः कनिष्ठपुत्रो यामसारस्वतान् होमान् करोति । अथ कर्ता । सर्वे होमाः पित्र्युपवीतिना कर्तव्याः । कर्म वा सारस्वतं यज्ञोपवीतिना कर्तव्यम् ॥
[सर्वैरुपतिष्ठन्ति त्रीणि प्रभृतिभिर्वा ॥ कौश्स्_11,2{81}.41 ॥]
अथ सर्वे बान्धवाः ऽओ चित्सखायम्ऽ (18.1-4) इति काण्डेनोपतिष्ठन्ते । अथवा ऽसहस्रणीथाः कवयःऽ (18.2.18) इतिप्रभृतय उपतिष्ठन्ते । ऽत्रीणि पदानिऽ (18.3.40) इत्यादि उपतिष्ठन्ते दह्यमाने गोत्रिणः ॥
[अपि वानुष्ठानीभिः ॥ कौश्स्_11,2{81}.42 ॥
एता अनुष्ठान्यः ॥ कौश्स्_11,2{81}.43 ॥
मैनमग्ने वि दहः (18.2.4) इतिप्रभृति अव सृज (18.2.10) इति वर्जयित्वा सहस्रणीथाः (18.2.18) इत्यातः ॥ कौश्स्_11,2{81}.44 ॥]
अथवा ऽमैनमग्ने वि दहऽ इत्यादि ऽअव सृजऽ इत्येकां वर्जयित्वा ऽसहस्रणीथाःऽ इत्यन्तम् । एता अनुष्ठान्यः । एतैरुपतिष्ठन्ते ॥
[आ रोहत जनित्रीं जातवेदसः (18.4.1-15) इति पञ्चदशभिराहिताग्निम् ॥ कौश्स्_11,2{81}.45 ॥]
ऽआ रोहत जनित्रीं जातवेदसःऽ इति पञ्चदशभिरृग्भिराहिताग्निं चितौ उपतिष्ठन्ते । अथवा एतत् कर्म आहिताग्नेरेकाग्नौ । अथ उभयोः कर्म उच्यते ॥
[मित्रावरुणा परि मामधाताम् (18.3.12) इति पाणी प्रक्षालयते ॥ कौश्स्_11,2{81}.46 ॥]
ऽमित्रावरुणा परि मामधाताम्ऽ इत्यृचा सर्वे पाणी प्रक्षालयन्ते ॥
[वर्चसा माम् (18.3.10) इत्याचामति ॥ कौश्स्_11,2{81}.47 ॥]
ऽवर्चसा माम्ऽ इत्यृचा सर्वे आचामयन्ति ॥
[विवस्वान्नः (18.3.61-62) इत्युत्तरतोऽन्यस्मिन्ननुष्ठाता जुहोति ॥ कौश्स्_11,2{81}.48 ॥]
ततः कर्ता ऽविवस्वानःऽ इति द्वाभ्यामुत्तरतः अन्यस्मिन्ननुष्ठाता जुहोति । समाप्तं दहनकर्म ॥ द्वितीया कण्डिका
अथ प्रथमे दिवसे पुत्रगोत्रिणां शान्तिरुच्यते -
[यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृताम् ॥ कौश्स्_11,3{82}.1 ॥]
उदकाञ्जलिं प्रेताय दत्त्वा स्नानं च कृत्वा ततः कर्म कुर्यात् । गोत्रिणो वा लघुपुत्रो वा । प्राङ्मुखानां यज्ञोपवीतिनां सर्वेषां भवन्ति ॥
[अथैषां सप्तसप्त शर्कराः पाणिष्वावपते ॥ कौश्स्_11,3{82}.2 ॥]
सप्तसप्त शर्कराः पाणिष्वावपते ॥
[तासामेकैकां सव्येनावाचीनहस्तेनावकिरन्तोऽनवेक्षमाणा व्रजन्ति ॥ कौश्स्_11,3{82}.3 ॥]
स्त्रियो वा पुरुषस्य च कनिष्ठादि तासामेकैकां सव्येन वा दक्षिणेन वाऽवाचीनहस्तेनावकिरन्ति । ततः अनवेक्षमाणा व्रजन्ति ॥
[अपाघेनानुमन्त्रयते ॥ कौश्स्_11,3{82}.4 ॥
सर्वेऽग्रतो ब्रह्मणो व्रजन्ति ॥ कौश्स्_11,3{82}.5 ॥
मा प्र गाम (13.1.59) इति जपन्त उदकान्ते व्यघापाघे जपन्ति ॥ कौश्स्_11,3{82}.6 ॥
पश्चादवसिञ्चति ॥ कौश्स्_11,3{82}.7 ॥
उदुत्तमम् (18.4.69) इति ज्येष्ठः ॥ कौश्स्_11,3{82}.8 ॥]
ऽअप नः शोशुचदघम्ऽ (4.33) इति सूक्तेनानुमन्त्रयते कर्ता । सर्वे बान्धवा अग्रे व्रजन्तः ऽमा प्र गामऽ इत्यृचं जपन्तः । कर्ता पश्चाद् बान्धवानाम् । चतुर्थेऽहनि शुचित्वम् । कर्ता दूरस्थो मन्त्रं ब्रूयात् । उदकान्ते व्यघापाघे जपन्ति । गच्छतामुदकसमीपे ऽवि देवाःऽ (3.31) ऽअप नः शोशुचत्ऽ इति सूक्तद्वयं ब्रह्मा जपति । सूक्तद्वयं व्यघापाघाभ्याम् । ऽउदुत्तमम्ऽ इति ब्राह्मणाः सर्वे स्वयमवसिञ्चति स्नानं कुर्वन्ति ॥
[पयस्वतीः (18.3.56) इति ब्रह्मोक्ताः पिञ्जूलीरावपति ॥ कौश्स्_11,3{82}.9 ॥]
ऽपयस्वतीरोषधयःऽ इत्यृचा ब्राह्मणाः सर्वे स्नानं कुर्वन्ति । ततः एकविंशा दर्भपिञ्जूलीः नद्यां ह्रदे वावपति ब्रह्मा ॥
[शान्त्युदकेनाचम्याभ्युक्ष्य अश्वावतीम् (18.2.31) इति नदीं तारयते ॥ कौश्स्_11,3{82}.10 ॥]
तत्र शान्त्युदकं करोति । सर्वेषामाचमनं ददाति । अभ्युक्ष्य ऽअश्वावतीम्ऽ इत्यृचा नदीं तरतोऽनुमन्त्रयते ॥
[नक्षत्रं दृष्ट्वोपतिष्ठते नक्षत्राणां मा सङ्काशश्च प्रतीकाशश्चावताम् इति ॥ कौश्स्_11,3{82}.11 ॥]
बहिः स्थित्वा नक्षत्रं दृष्ट्वोपतिष्ठते ऽनक्षत्राणां मा सङ्काशश्चऽ इति मन्त्रेण ॥
[शाम्याकीः समिध आधायाग्रतो ब्रह्मा जपति ॥ कौश्स्_11,3{82}.12 ॥
यस्य त्रया गतमनुप्रयन्ति देवा मनुष्याः पशवश्च सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर्नो नयतु द्विषते मा रधाम इति शान्त्युदकेनाचम्याभ्युक्ष्य ॥ कौश्स्_11,3{82}.13 ॥]
शाम्याकीः समिध आदाय ततः सर्वे आगच्छन्ति । ततोऽग्रे ब्रह्मा भूत्वा ऽयस्य त्रया गतम्ऽ इति मन्त्रं जपति । ततः शान्त्युदकेनाचमनं कुर्वन्ति गृहसमीपे सर्वे ॥
[निस्सालाम् (2.14) इति शालानिवेशनं सम्प्रोक्ष्य ॥ कौश्स्_11,3{82}.14 ॥
ऊर्जं बिभ्रत् (7.60.1-6) इति प्रपादयति ॥ कौश्स्_11,3{82}.15 ॥]
ऽनिःसालाम्ऽ इति शालां सम्प्रोक्ष्य कर्ता ऽऊर्जं बिभ्रत्ऽ इति षडर्चेन बान्धवान् गृहे प्रवेशयति ॥
[नदीमालम्भयति गामग्निमश्मानं च ॥ कौश्स्_11,3{82}.16 ॥]
ताः पिञ्जूलीः आलम्भयति । गाम् । अग्निः लौकिकः । एकाग्नेर्वा । अश्मानं च । एतान्यालम्भयते ॥
[यवोऽसि यवयास्मदूद्वेषो यवयारातिम् इति यवान् ॥ कौश्स्_11,3{82}.17 ॥]
ऽयवोऽसि यवयऽ इति मन्त्रेण यवानालम्भन्ते सर्वे ॥
[खल्वकास्य इति खल्वान् खलकुलांश्च ॥ कौश्स्_11,3{82}.18 ॥]
ऽखल्वकास्यऽ इति मन्त्रेण खल्वकान् कुलत्थांश्चालभन्ते ॥
[व्यघापाघाभ्यां शाम्याकीराधापयति ॥ कौश्स्_11,3{82}.19 ॥]
ऽवि देवाःऽ (3.31) ऽअप नः शोशुचदघम्ऽ (4.33) इति सूक्ताभ्यां शाम्याकीः समिध आदधाति कर्ता लौकिके वा एकाग्नौ वा । गोत्रिणां चतुरहमशुचित्वम् ॥
[तासां धूमं भक्षयन्ति ॥ कौश्स्_11,3{82}.20 ॥]
तासां धूमं भक्षयन्ति बान्धवाः । यदि पुत्रस्याग्निस्तदा एकाग्नौ अथवा लौकिके । प्रथमेऽहनि एतत् कर्म । समाप्तमेतत्कर्म ॥
अथ द्वितीयेऽहनि कर्मोच्यते-
[यद्यत् क्रव्याद् गृह्येद्यदि क्रव्यादा नान्तेऽपरेद्युः । दिवो नभः शुक्रं पयो दुहाना इषमूर्जं पिन्वमानाः ॥ अपां योनिमपाध्वं स्वधा याश्चकृषे जीवंस्तास्ते सन्तु मधुश्रुतः इत्यग्नौ स्थालीपाकं निपृणाति ॥ कौश्स्_11,3{82}.21 ॥]
ऽदिवो नमःऽ इत्यृचाग्निं प्रज्वाल्य स्थालीपाकं सकृत् सर्वहुतं करोति दहनसन्निधौ । न तन्त्रम् । दहने वा सकृत् सर्वहुतं करोति स्थालीपाकम् ॥
[आदहने चापिवान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति वैश्वानरे हविरिदं जुहोमि (18.4.35) इति ॥ कौश्स्_11,3{82}.22 ॥]
अथवा अन्यवत्सां गां दोहयित्वा तस्याः पृष्ठे जुहोति ऽवैश्वानरे हविःऽ इत्येकया ॥
तस्याः पयसि ॥ कौश्स्_11,3{82}.23 ॥
स्थालीपाक इत्येके ॥ कौश्स्_11,3{82}.24 ॥
श्रपयित्वेत्येके आचार्या मन्यन्ते । समाप्तं द्वितीयेऽहनि कर्म । तृतीये नास्ति कर्म ॥
चतुर्थेऽहनि कर्मोच्यते-
[ये अग्नयः (3.21) इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां तृतीयस्यामस्थीन्यभिजुहोति ॥ कौश्स्_11,3{82}.25 ॥]
ऽये अग्नयःऽ इति दशर्चेन सूक्तेन पालाश्या दर्व्या मन्थं सक्तुमन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां प्रत्यृचम् अस्थीन्युपरि होमं कुर्यात् ॥
[उप द्याम् (18.3.5-6) शं ते नीहारः (18.3.60) इति मन्त्रोक्तान्यवदाय ॥ कौश्स्_11,3{82}.26 ॥
क्षीरोत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्योदकेन वैश्यस्य ॥ कौश्स्_11,3{82}.27 ॥]
ऽउप द्यामुष वेतसम्ऽ इति द्वे, ऽशं ते नीहारःऽ इत्येका एताभिरृग्भिर्मन्त्रोक्तानामोषधीनामुदकं क्षीरं चैकत्र कृत्वाभिमन्त्र्य ब्राह्मणस्यास्थीनि निषिञ्चति । मन्त्रोक्ता ओषधय उच्यन्ते । वेतसश्च । कर्णश्च । नदीफेनश्च । अवका चागरुहेरुका च । बृहद्दूर्वा च । आकाशफेनश्च । मण्डूकपर्णी च । शुक्तिका च । एता मन्त्रोक्ता ओषधयः । मधूदकेन क्षत्रियस्य तेनैव मन्त्रेण मन्त्रोक्ताश्च । उदकेनौषधिसहितेन तेनैव मन्त्रेण वैश्यस्य ॥
[अव सृज (18.2.10) इत्यनुमन्त्रयते ॥ कौश्स्_11,3{82}.28 ॥]
एकाग्नेश्चाहिताग्नेश्च दहनम् ऽअव सृजऽ इत्यृचानुमन्त्रयते ॥
[मा ते मनः (18.2.24) यत्ते अङ्गम् (18.2.26) इति सञ्चिनोति पच्छः ॥ कौश्स्_11,3{82}.29 ॥]
अथ पिण्डप्रदानं सञ्चयनश्राद्धमेकोद्दिष्टं च कृत्वा ततः सञ्चयनं करोति । ऽमा ते मनःऽ इत्यृचा ऽयत्ते अङ्गम्ऽ इत्यृचा एताभ्यामस्थीन्यभिमन्त्र्य कलशे निदधाति । पालाशपत्रेण वा गृहीत्वा पच्छः पादतः ॥
प्रथमं शीर्षकपालानि ॥ कौश्स्_11,3{82}.30 ॥
[पश्चात् कलशे समोप्य सर्वसुरभिचूर्णैरवकीर्योत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ कौश्स्_11,3{82}.31 ॥]
पश्चात् कलशे निदधाति । पश्चात् सर्वौषधिचूर्णानि च कलशे निदधाति उत्थापनीभिः कलशमुत्थाप्य हरिणीभिर्हरेयुः । ऽउत्तिष्ठऽ (18.3.8), ऽप्रेहिऽ (18.1.54), ऽप्रच्यवस्वऽ (18.3.9), ऽउदन्वतीऽ (18.2.48-49), ऽइत एतेऽ (18.1.61), ऽअग्नीषोमाऽ (18.2.53), ऽइदं पूर्वम्ऽ (18.4.44) इत्युत्थापनीः । ऽअति द्रवऽ (18.2.11-18) इत्यष्टाभिर्हरिणीभिः ॥
[मा त्वा वृक्षः (18.2.25) इति वृक्षमूले निदधाति ॥ कौश्स्_11,3{82}.32 ॥]
ऽमा त्वा वृक्षःऽ इत्यृचास्थिकलशं मूले निखनति ॥
[स्योनास्मै भव (18.2.19) इति भूमौ त्रिरात्रमरसाशिनः कर्माणि कुर्वते ॥ कौश्स्_11,3{82}.33 ॥]
अथवा ऽस्योनास्मै भवऽ इत्यृचाभिमन्त्र्य यदि भूमौ निखनति तदानया । समाप्तं सञ्चयनं चतुर्थेऽहनि । केचित् ऽयवीयःप्रथमानि कर्माणिऽ (कौश्स् 82.1) इत्यादि चतुर्थे दिवसे कुर्वन्ति । सर्वत्र उभयोः कर्म । तथा च माहकिः - ऽआवसथ्याग्निहोतृकयोः समानं सर्वं कर्म भवतिऽ । चतुर्थेऽहनि केचिद् ऽयवीयःप्रथमानि कर्माणिऽ (कौश्स् 82.1) इत्यादि अत्र कुर्वन्ति । उभयोः । तथा च याज्ञवल्क्यः । ऽद्वारे उपविश्य निम्बपत्राणिऽ इत्यादि शुचिर्भूत्वा ततः कर्माधिकारः । केचिद् यथापठितं सूत्रं तथा सर्वमेव कुर्वन्ति । ततः प्रभृति गोत्रिणां माङ्गल्यं कुर्वन्ति । यथाकुलधर्मेण वा । आवसथ्याग्निशेषं गृहे धारयित्वा अरणिर्वा निधायामावास्यायां क्रव्याच्छमनं कुर्यात् पुत्रो यद्याहिताग्निर्भवति । अथ गोत्रिणः त्रिरात्रमरसाशिनः कर्माणि नित्यनैमित्तिककाम्यानि कुर्वन्ति ॥
[दशरात्र इत्येके ॥ कौश्स्_11,3{82}.34 ॥
यथाकुलधर्मं वा ॥ कौश्स्_11,3{82}.35 ॥]
दशरात्र इत्येके । यथाकुलधर्मेण वा ॥
[ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा विवस्वान्नः (18.3.61-62) इति जुहोति ॥ कौश्स्_11,3{82}.36 ॥]
चतुर्थेऽहनि अस्थिसञ्चयनं कृत्वा गृहे आगत्य ततः कर्ता वैवस्वतदेवताकं स्थालीपाकं श्रपयित्वाज्यभागान्तं कृत्वा ऽविवस्वान्नःऽ इति द्वाभ्यां प्रत्यृचं द्वे आहुती जुहोति ॥
[युक्ताभ्यां तृतीयाम् ॥ कौश्स्_11,3{82}.37 ॥]
युक्ताभ्यां तृतीयामाहुतिम् ॥
[आनुमतीं चुतर्थीम् ॥ कौश्स्_11,3{82}.38 ॥]
अनुमतये स्वाहेति चतुर्थीम् ॥
[शेषं शान्त्युदकेनोपसिच्याभिमन्त्र्य प्राशयति ॥ कौश्स्_11,3{82}.39 ॥]
शान्त्युदकं कृत्वा हुतशेषं स्थालीपाकं शान्त्युदकेनोपसिच्य ऽविवस्वान्नःऽ इति द्वाभ्यामभिमन्त्र्य प्राशयति । समानोदका गोत्रिणः दशपुरुषात् सप्तपुरुषाद्वा यथा ते समानोदकाः ॥
[आ प्र च्यवेथाम् (18.4.49) इति गावावुपयच्छति ॥ कौश्स्_11,3{82}.40 ॥]
अथ दक्षिणां ददाति । ऽआ प्र च्यवेथाम्ऽ इत्यृचा प्रेतवहनवृषभौ अभिमन्त्र्य गृह्णाति कर्ता । दश गावो दक्षिणा । अपरिमिता वा द्वाविंशत्या वा यथाशक्ति ॥
[एयमगन् (18.4.50) इति दशगवावरार्ध्या दक्षिणा ॥ कौश्स्_11,3{82}.41 ॥]
ऽएयमगन्ऽ इत्यृचा दक्षिणा अभिमन्त्र्य गृह्णाति । चतुर्थेऽहनि इदं कर्म । एकादशे वा । समाप्तं चतुरहकर्म ॥
अथ कर्तुर्यमव्रतमुच्यते-
[द्वादशरात्रं कर्ता यमव्रतं चरेत् ॥ कौश्स्_11,3{82}.42 ॥]
यमव्रतं कर्ता चरेत् द्वादशरात्रम् ॥
एकचैलस्त्रिचैलो वा ॥ कौश्स्_11,3{82}.43 ॥
हविष्यभक्षः ॥ कौश्स्_11,3{82}.44 ॥
[सायम्प्रातरुपस्पृशेत् ॥ कौश्स्_11,3{82}.45 ॥]
सायम्प्रातः स्नानं कुर्यात् ॥
[ब्रह्मचारी व्रत्यधः शयीत ॥ कौश्स्_11,3{82}.46 ॥
स्वस्त्ययनानि प्रयुञ्जीत ॥ कौश्स्_11,3{82}.47 ॥]
सायम्प्रातर्यज्ञोपवीती भूत्वा कर्म कुर्यात् । स्वस्त्ययनान्युच्यन्ते । ऽविवस्वान्नःऽ (18.3.61-62) इति द्वे, ऽइन्द्र क्रतुं नःऽ (18.3.67) इत्येका, ऽप्रास्मत् पाशान्ऽ (18.4.70) इत्येका, ऽत्यमू षुऽ (7.85) ऽत्रातारम्ऽ (7.86) ऽआ मन्द्रैःऽ (7.117) इति, ऽयो अग्नौऽ (7.87) इत्यृचा, ऽप्राणाय नमःऽ (11.4.1) इत्यृचा, ऽप्राण मा मत्ऽ (11.4.26) इत्येका, ऽनमस्ते घोषिणीभ्यःऽ (11.2.31) इत्येका, ऽस्वस्ति नो अस्त्वभयं नःऽ (19.8.7) इत्यर्धर्चं, ऽपृथिवी शान्तिःऽ (19.9.14) एतानि स्वस्त्ययनानि जपेत् । यमकाण्डपठने अन्तेष्टिपितृमेधकरणे एतस्मिन् प्रकरणे सर्वत्रायं स्वस्त्ययनानि । समाप्तं सञ्चयनम् । अन्तेष्टिकर्म । पात्रचयनं च । यमव्रतं च ॥ एकादशे तृतीया कण्डिका
अथ पितृमेध उच्यते । ऽपितृमेधः संवत्सरे कुर्यात्ऽ इति श्रुतिः । अथवा ऽसंवत्सरामध्ये कुर्यात्ऽ इति । माघकालादिकाला वक्ष्यन्ते-
[पितॄन् निधास्यन् सम्भारान् सम्भरति ॥ कौश्स्_11,4{83}.1 ॥]
पित्र्युपवीती अन्तेष्टिपितृकर्म कुर्यात् ॥
[एकादश चरूञ्चक्रकृतान् कारयति ॥ कौश्स्_11,4{83}.2 ॥
शतातृण्णसहस्रातृण्णौ च पाशीमूषं सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम् ॥ कौश्स्_11,4{83}.3 ॥]
मृण्मयं शतच्छिद्रं सहस्रच्छिद्रं च द्वितीयं मृण्मये द्वे कुर्यात् । सुखकिरम् । सिकताः । शङ्खः प्रसिद्धः । शालूकानि प्रसिद्धानि । सुरभिसर्वौषधिचूर्णम् । शमीपत्रचूर्णं च । शान्तवृक्षस्य नावम् । त्रिपादं शिवयम् ॥
[द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कूंश्चतुरः परिधीन् वारणं शामीलमौदुम्बरं पालाशं वृक्षस्य शान्तौषधीः ॥ कौश्स्_11,4{83}.4 ॥]
निःशीयमाने जीर्णवाससी द्वे । नीललोहितसूत्रे प्रसिद्धे । प्रसव्यं रज्जुम् । शान्तवृक्षस्य चतुरः शङ्कून् । चतुरः परिधीन् । वारणं शामीलमौदुम्बरं पालाशम् एतेषां वृक्षाणां शङ्क्वः परिधयश्च । शान्तवृक्षाद्वा । द्वे शान्तपुटिका । एते सम्भारा आहर्तव्याः । इति पितृनिधानसम्भाराः ॥
अथ पितृनिधानकाल उच्यते-
[माघे निदध्यात् माऽघं भूत् इति ॥ कौश्स्_11,4{83}.5 ॥]
पापं कुले मा भवत् । माघमासे अमावास्यायां निदध्यात् ॥
[शरदि निदध्यात् शाम्यत्वघम् इति ॥ कौश्स्_11,4{83}.6 ॥
निदाघे निदध्यात् निदह्यतामघम् इति ॥ कौश्स्_11,4{83}.7 ॥
अमावास्यायां निदघ्यादमा हि पितरो भवन्ति ॥ कौश्स्_11,4{83}.8 ॥]
अथवा शरदि निदाघे उष्णकाले निदध्यात् । इति काला उक्ता निधानस्य ॥
[अथावसानम् ॥ कौश्स्_11,4{83}.9 ॥]
अस्थिगृह्यमुच्यते । तत् स्थानमुच्यते ॥
[तद्यत् समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम् ॥ कौश्स्_11,4{83}.10 ॥
यत्राकण्टका वृक्षाश्चौषधयश्च ॥ कौश्स्_11,4{83}.11 ॥]
यत्र शान्तवृक्षा ओषधयश्च तत्र कुर्यात् । अवसानस्थानमेवंविधं कुर्यात् । इत्यवसानस्थानम् ॥
[उन्नतं स्वर्गकामस्य ॥ कौश्स्_11,4{83}.12 ॥]
उन्नतं स्वर्गकामस्य चयनं कुर्यात् ॥
अथ चतुर्दश्यामिदं कर्म वक्ष्यते-
[श्वोऽमावास्येति गां कारयते ॥ कौश्स्_11,4{83}.13 ॥]
श्वोऽमावास्ये प्रभाते कर्म कुर्यात् । चतुर्दश्यां गां मारयति । न कर्ता ॥
[तस्याः सव्यं चापघनं प्रपाकं च निधाय ॥ कौश्स्_11,4{83}.14 ॥
भिक्षां कारयति ॥ कौश्स्_11,4{83}.15 ॥]
तस्याः सव्यसक्थिजघनरक्तपित्तौदरमांसानि वर्जयित्वा शेषाणि मांसानि स्थापयित्वा वशाविधानेन । शकः (?) अग्रे विनियोगो भविष्यति । समांसः पिण्डपितृयज्ञः ॥
[ग्रामे यामसारस्वतान् होमान् हुत्वा ॥ कौश्स्_11,4{83}.16 ॥]
ग्राममध्ये मण्डपं कृत्वा तत्रैकाग्नेर्यामसारस्वतान् होमान् हुत्वा अरणीभ्यामग्निं मथित्वा । केचिद् गोमारणकर्म वर्जयन्ति । तन्त्रं वा ॥
[सम्प्रोक्षणीभ्यां काम्पीलशाखया निवेशनमनुचर्य ॥ कौश्स्_11,4{83}.17 ॥]
सम्प्रोक्षणीभ्यां काम्पीलशाखया निवेशनस्थानं शोधयित्वा ऽअपेत वीतऽ (18.1.55) ऽददाम्यस्मैऽ (18.2.37) इति द्वाभ्यां शान्त्युदकं कृत्वा निवेशनं सम्प्रोक्षति ॥
[प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य ॥ कौश्स्_11,4{83}.18 ॥]
प्राग्दक्षिणं शाखां प्रविध्य । ततः सीरेण कर्षयित्वा शाखाभिः परिवार्य वेष्टयित्वा । अवसानस्थानकर्म ॥
अथास्थिकर्मोच्यते-
[पुनर्देहि (18.3.70) इति वृक्षमूलादादत्ते ॥ कौश्स्_11,4{83}.19 ॥]
ऽपुनर्देहि वनस्पतेऽ इत्यृचा वृक्षमूलादादत्ते ॥
[यत्ते कृष्णः (18.3.55) इति भूमेर्वसने समोप्य सर्वसुरभिचूर्णैरवकीर्योत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ कौश्स्_11,4{83}.20 ॥]
यदि भूमौ ऽयत्ते कृष्णःऽ इत्यृचा भूमेरादत्ते । अस्थीनि वसने समोप्य बन्धनं कृत्वा सर्वसुरभिचूर्णैरवकीर्य ततो ग्रन्थिं कृत्वा तत उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः । ततो वक्ष्यमाणं कर्म कुर्यात् ॥
अथास्थिनाशे प्रायश्चित्तकर्मोच्यते-
[अविदन्तो देशात् पांसून् ॥ कौश्स्_11,4{83}.21 ॥]
अस्थिनाशे तद्देशात् पांसुं गृहीत्वा वसने समोप्य तत उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः । ऽउत्तिष्ठ प्रेहिऽ (18.3.8), ऽप्र च्यवस्वऽ (18.3.9), ऽउदन्वतीऽ (18.2.48), ऽइत एतेऽ (18.1.61), ऽअग्नीषोमाऽ (18.2.53), ऽइदं पूर्वम्ऽ (18.4.44) इत्युत्थापनीः । ऽअति द्रवऽ (18.2.11-18) इत्यष्टाभिर्हरिणीः ॥
[अपि वोदकान्ते वसनमास्तीर्य असौ इति ह्वयेत् ॥ कौश्स्_11,4{83}.22 ॥]
अथवोदकान्ते वसनमास्तीर्य ऽअसौऽ इति वपेत् ॥
तत्र यो जन्तुर्निपतेत् तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ कौश्स्_11,4{83}.23 ॥
[अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम् ॥ कौश्स्_11,4{83}.24 ॥]
अथवा त्रीणि शतानि षष्टिश्च पालाशत्सरूणां तैः पुरुषं कल्पयित्वा तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः । शरीरदग्धेऽस्थिनाशे च एतत् प्रायश्चित्तं भवति । समाप्तं देशान्तरमृतेऽस्थिनाशे च ॥
[ग्रामे दक्षिणोद्गद्वारं विमितं दर्भैरास्तारयति ॥ कौश्स्_11,4{83}.25 ॥]
ग्राममध्ये यो मण्डपः पूर्वं कृतः तस्योत्तरद्वारं दक्षिणद्वारं च कुर्यात् । ततः मण्डपं दर्भैः संस्तारयति ॥
[उत्तरं जीवसञ्चरो दक्षिणं पितृसञ्चरः ॥ कौश्स्_11,4{83}.26 ॥]
उत्तरेण मनुष्याः सञ्चरन्ति । दक्षिणेन पित्रस्थीनि ॥
[अनस्तमित आ यात (18.4.62) इत्यायापयति ॥ कौश्स्_11,4{83}.27 ॥]
तस्मिन् मण्डप अनस्तमित आदित्य इदं कर्म कुर्यात् । ऽआ यात पितरःऽ इत्यृचास्थीनि मण्डपे प्रवेशयति दक्षिणद्वारे ॥
[आच्या जानु (18.1.52) इत्युपवेशयति ॥ कौश्स्_11,4{83}.28 ॥]
ऽआच्या जानुऽ इत्यृचा त्रिपादे पिटके उपवेशयति अस्थिपुत्तलकम् ॥
[सं विशन्तु (18.2.29) इति संवेशयति ॥ कौश्स्_11,4{83}.29 ॥]
ऽसं विशन्तुऽ इत्यृचा संवेशयति ॥
[एतद्वः पितरः पात्रम् इति त्रीण्युदकंसान् निनयति ॥ कौश्स्_11,4{83}.30 ॥]
ऽएतद्वः पितरः पात्रम्ऽ इति मन्त्रेण त्रीनुदकपूर्णान् कंसपात्रान् अस्थ्यभिमुखो निनयेत् । त्रिर्मन्त्रावृत्तिः । तस्मिन् मण्डपे ॥
[त्रीन् स्नातानुलिप्तान् ब्राह्मणान् मधुमन्थं पाययति ॥ कौश्स्_11,4{83}.31 ॥
ब्रह्मणे मधुपर्कमाहारयति ॥ कौश्स्_11,4{83}.32 ॥
गां वेदयन्ते ॥ कौश्स्_11,4{83}.33 ॥
कुरुत इत्याह ॥ कौश्स्_11,4{83}.34 ॥
तस्या दक्षिणमर्धं ब्राह्मणान् भोजयति सव्यं पितॄन् ॥ कौश्स्_11,4{83}.35 ॥]
ब्रह्मणे मधुपर्कमाहारयति कर्ता पूर्वं गोविकल्पेन । यदि गां करोति तस्या दक्षिणमर्धं ब्राह्मणान् भोजयति । सव्यं पितृहोमेन योजयितव्यम् । वशाविधानेन ऽपितृभ्यः स्वधाऽ इति प्रधानमन्त्रः ॥ एकादशे चतुर्थी कण्डिका
[वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधा इति वपायास्त्रिर्जुहोति ॥ कौश्स्_11,5{84}.1 ॥]
ऽवह वपाम्ऽ इति वपायास्त्रिर्जुहोति ॥
[इमं यम (18.1.60) इति यमाय चतुर्थीम् ॥ कौश्स्_11,5{84}.2 ॥]
ऽइमं यमऽ इत्यृचा यमाय चतुर्थीम् । समाप्तं गोवधं पितृदैवतम् ॥
[एकविंशत्या यवैः कृशरं रन्धयति युतमन्यत् प्रपाकं च ॥ कौश्स्_11,5{84}.3 ॥]
ततः चरुद्वयं सयवमयवं च कर्ता श्रपयति । एकविंशत्या यवैः कृशरं रन्धयति । सयवं चरुं श्रपयति ॥
[सयवस्य जीवाः प्राश्नन्ति ॥ कौश्स्_11,5{84}.4 ॥]
सयवस्य चरोः स्वगोत्रजा भोजनं कुर्वन्ति ॥
[अथेतरस्य पिण्डं निपृणाति ॥ कौश्स्_11,5{84}.5 ॥]
यथाशक्ति प्रपाकादि अयवकृशरेणास्थिसमीपे पिण्डदानं कुर्वन्ति । पिण्डशेषमस्थिकर्ता भुञ्जते ॥
[यं ते मन्थम् (18.4.42) इति मन्त्रोक्तं विमिते निपृणाति ॥ कौश्स्_11,5{84}.6 ॥
तदुद्गतोष्महर्तारो दासा भुञ्जते ॥ कौश्स्_11,5{84}.7 ॥
वीणा वदन्तु इत्याह ॥ कौश्स्_11,5{84}.8 ॥]
स्वदासाश्च । ततः कर्ता प्रैषं ददाति गोत्रिणान् । वीणां वादयेत् । वाद्यानि वादयेत् ॥
[महयत पितॄन् इति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति ॥ कौश्स्_11,5{84}.9 ॥]
रिक्तकुम्भम् अस्थ्यग्रे मण्डपमध्ये निधापयेत् सर्वे तं द्रुत्य जरदुपानद्भ्यामाघ्नन्ति सह कर्ता ॥
[कस्ये मृजानाः (18.3.17) इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणानूरूनाघ्नानाः ॥ कौश्स्_11,5{84}.10 ॥]
ऽकस्ये मृजानाःऽ इत्यृचा कर्ता मन्त्रं ब्रूयात् । त्रिरपसव्यं परिकीर्णकेशा मुक्तकेशा इत्यर्थः । परियन्ति भ्रमन्तीत्यर्थः । दक्षिणानूरूनाघ्नानाः सर्वे गोत्रिणः । त्रिर्मन्त्रावृत्तिः ॥
एवं मध्यरात्रेऽपररात्रे च ॥ कौश्स्_11,5{84}.11 ॥
[पुरा विवासात् समांसः पिण्डपितृयज्ञः ॥ कौश्स्_11,5{84}.12 ॥]
पुरा विवासात् प्रभातात् इत्यर्थः । ततो मांसेन पितृयज्ञः कार्यः । पिण्डपितृयज्ञविधानं लौकिककृतमांसेन । इति ग्राममध्ये मण्डपे चतुर्दश्यां रात्र्यामेतत् कर्म कर्तव्यम् ॥
अथामावास्यायां प्रभाते कर्मोच्यते-
[उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ कौश्स्_11,5{84}.13 ॥]
तान्यस्थीनि मण्डपादुत्थाप्य उत्थापनीभिः हरिणीभिर्हरेयुः । ततः त्रिपादे निधाय ॥
अथावसानमुच्यते-
[अथावसायेति पश्चात्पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्योऽपराणि यवीयसाम् ॥ कौश्स्_11,5{84}.14 ॥]
पश्चात् पूर्वकृतेभ्यः पितृभ्यश्चयनं कर्तव्यम् । पूर्वाणि । पूर्वेभ्योऽपराणि यवीयकार्याणि ॥
[प्राग्दक्षिणां दिशमभ्युत्तरामपरां दिशमभि तिष्ठन्ति ॥ कौश्स्_11,5{84}.15 ॥]
श्मशानानि प्राग्दक्षिणां दिशमभिमुखान्यारभ्याणि । उत्तरस्यां दिशि समाप्यन्ते । ग्रामस्यापि दक्षिणेन कर्तव्यानि ॥
[यथा चितिं तथा श्मशानं दक्षिणापरां दिशमभि प्रवणम् ॥ कौश्स्_11,5{84}.16 ॥]
यथा चितिं तथा श्मशाने धर्मा भवन्ति । ऽउदीरताम्ऽ (कौश्स् 80.43) इत्यादि । ऽसम्प्रोक्षणीभ्याम्ऽ (कौश्स् 80.42) इत्युक्तम् । ऽअति धन्वानीत्यवसाऽ (कौश्स् 43.3) इत्युक्तम् । दक्षिणाप्रवणदेशे श्माशानानि कार्याणि ॥ एकादशे पञ्चमी कण्डिका
अथ मानमुच्यते-
[अथ मानानि ॥ कौश्स्_11,6{85}.1 ॥
दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः ॥ कौश्स्_11,6{85}.2 ॥
प्रादेशेन धनुषा च इमां मात्रां मिमीमहे (18.2.38-44) इति ॥ कौश्स्_11,6{85}.3 ॥]
खातस्य । दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः प्रादेशेन धनुषा वा । एभिः प्रमाणैर्मन्तव्याः । ऽइमां मात्रां मिमीमहेऽ इति सप्तभिरृग्भिः प्रतिदिशं मीयमानमनुमन्त्रयते ॥
सप्त दक्षिणतो मिमीते सप्तोत्तरतः पञ्च पुरस्तात् त्रीणि पश्चात् ॥ कौश्स्_11,6{85}.4 ॥
एवंविधं मण्डपं मिमीते । अथवा
नव दक्षिणतो मिमीते नवोत्तरतः सप्त पुरस्तात् पञ्च पश्चात् ॥ कौश्स्_11,6{85}.5 ॥
अथवा
एकादश दक्षिणतो मिमीत एकादशोत्तरतो नव पुरस्तात् सप्त पश्चात् ॥ कौश्स्_11,6{85}.6 ॥
एते पक्षाः श्मशानचयनस्य भवन्ति ॥
[एकादशभिर्देवदर्शिनाम् ॥ कौश्स्_11,6{85}.7 ॥]
अथर्वशाखानामेकपक्षः ॥
[अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम् ॥ कौश्स्_11,6{85}.8 ॥]
अयुग्ममानानि कुर्यात् । परिमण्डलानि वर्तुलानि चतुरस्राणि वा श्मशानानि कार्याणि विकल्पेन शौनकिनाम् ॥
[तथा हि दृश्यन्ते ॥ कौश्स्_11,6{85}.9 ॥
यावान् पुरुष ऊर्ध्वबाहुस्तावानग्निश्चितः ॥ कौश्स्_11,6{85}.10 ॥]
यावान् पुरुषः ऊर्ध्वबाहुस्तावानग्निचितः ऊर्ध्वचयनम् । द्विपुरुषं वा ऊर्ध्वबाहुः कुर्यात् ॥
[सव्यानि दक्षिणाद्वाराण्ययुग्मशिलान्ययुग्मेष्टिकानि च ॥ कौश्स्_11,6{85}.11 ॥]
अपसव्यं चेतव्यम् । दक्षिणतः सम्भारहरणम् । दक्षिणाद्वाराणि कर्तव्यानि । अयुग्मशिलैश्चेतव्यम् । अयुग्मेष्टिकाभिर्वा श्मशानं कर्तव्यम् ॥
[इमां मात्रां मिमीमहे (18.2.38-44) इति दक्षिणतः सव्यरज्जुं मीत्वा ॥ कौश्स्_11,6{85}.12 ॥
वारयतामघम् इति वारणं परिधिं परिदधाति शङ्कुं च निचृतति ॥ कौश्स्_11,6{85}.13 ॥]
तस्मिन् भूमौ ऽइमां मात्रां मिमीमहेऽ इति सप्तभिर्दक्षिणतः सव्यरज्जुं मीत्वा ऽवारयतामघम्ऽ इति मन्त्रेण वारणं परिधिं परिदधाति । शङ्कुं च निचृतति । प्रतिदिङ्मन्त्रावृत्तिः ॥
[पुरस्तान्मीत्वा शमेभ्योऽस्त्वघम् इति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति ॥ कौश्स्_11,6{85}.14 ॥
उत्तरतो मीत्वा शाम्यत्वघम् इत्यौदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति ॥ कौश्स्_11,6{85}.15 ॥
पश्चान्मीत्वा शान्तमघम् इति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति ॥ कौश्स्_11,6{85}.16 ॥]
ततः पुरस्तात् । तत उत्तरतः । ततः पश्चात् । शङ्क्वः परिधयश्च प्रतिदिशं कार्याः । ऽशमेभ्यस्त्वघम्ऽ इति शामीलं पुरस्तात् । ऽशाम्यत्वघम्ऽ इत्युत्तरतः । ऽशान्तमघम्ऽ इति पालाशं पश्चात् ॥
[अमासि (18.2.45-47) इत्यनुमन्त्रयते ॥ कौश्स्_11,6{85}.17 ॥]
ततः ऽअमासि मात्राम्ऽ इति तिसृभिः श्मशानमनुमन्त्रयते ॥
[अक्ष्णया लोहितसूत्रेण निबध्य ॥ कौश्स्_11,6{85}.18 ॥
स्तुहि श्रुतम् (18.1.40) इति मध्ये गर्तं खात्वा पाशिसिकतोषोदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति ॥ कौश्स्_11,6{85}.19 ॥]
ततः तस्मिन् श्मशानेऽक्ष्णया लोहितसूत्रेण निबध्य ऽस्तुहि श्रुतम्ऽ इति गर्तं खनति । तद्गर्ते पाशिसिकताखुकिरशङ्खशालूकोदुम्बरसर्वसुरभिशमीचूर्णानि निवपति ॥
[निःशीयतामघम् इति निःशीयमानमास्तृणाति ॥ कौश्स्_11,6{85}.20 ॥]
ऽनिःशीयतामघम्ऽ इति मन्त्रेण निःशीयमानं जीर्णवस्त्रं गर्ते स्तृणाति ॥
असम्प्रत्यघम् ॥ कौश्स्_11,6{85}.21 ॥
[वि लुम्पतामघम् इति परिचैलं दूर्शं विलुम्पति ॥ कौश्स्_11,6{85}.22 ॥]
ऽवि लुम्पतामघम्ऽ इति मन्त्रेण द्वितीयं परिचैलं तत्रैव बहिर्धारयति । धारयित्वा अग्रे कर्म भविष्यति तेन वस्त्रेण ॥
उक्तो होमो दक्षिणत स्तरणं च ॥ कौश्स्_11,6{85}.23 ॥
ऽइन्द्रो मा मरुत्वान्ऽ (18.3.25-37) इत्येताभिराज्यं जुहुयात् गर्ते । ऽइदं पितृभ्यःऽ (18.1.46) इत्यृचा गर्ते दर्भान् स्तृणाति ॥
[एतदा रोह (18.3.73) ददामि (18.2.37) इति कनिष्ठो निवपति ॥ कौश्स्_11,6{85}.24 ॥]
ऽएतदा रोहऽ ऽददाम्यस्मैऽ इति द्वाभ्यां कनिष्ठपुत्रः तस्मिन् गर्ते अस्थीनि निवपति निदधाति । मन्त्रं कर्ता ब्रूयात् ॥
[एदं बर्हिः (18.4.52) इति स्थितसूनुर्यथापरु सञ्चिनोति ॥ कौश्स्_11,6{85}.25 ॥]
ऽएदं बर्हिःऽ इत्यृचा कुले ज्येष्ठोऽस्थीनि यथापरु सञ्चिनोति । पुरुषगात्राणिवत् ॥
[मा ते मनः (18.2.24) यत्ते अङ्गम् (18.2.26) इन्द्रो मा (18.3.25) उदपूः (18.3.37) इत्यातोऽनुमन्त्रयते ॥ कौश्स्_11,6{85}.26 ॥]
ऽमा ते मनःऽ ऽयत्ते अङ्गम्ऽ ऽइन्द्रो मा मरुत्वान्ऽ इति ऽउदपूःऽ इत्यातः एताभिरनुमन्त्रयते ॥
[धानाः सलिङ्गाभिरावपति ॥ कौश्स्_11,6{85}.27 ॥]
ऽयास्ते धानाःऽ (18.3.69; 18.4.26) इति द्वे, ऽधाना धेनुरभवत्ऽ (18.4.32) इत्येका, ऽएतास्ते असौ धेनवःऽ (18.4.33) इत्येका, ऽएनीर्धानाःऽ (18.4.34) इत्येका ऽयास्ते धाना अनुऽ (18.4.43) इत्येका एताभिस्तिलमिश्रा धानाः तस्मिन्नस्थिषूपरि आदधाति ॥ षष्ठी कण्डिका
[इदं कसाम्बु (18.4.37) इति सजातानवेक्षयति ॥ कौश्स्_11,7{86}.1 ॥]
ऽइदं कसाम्बुऽ इत्यृचा तान्यस्थीनि गर्तस्थितानि सर्वे गोत्रिणः अवेक्षन्ते । कर्ता मन्त्रं ब्रूयात् ॥
[ये च जीवाः (18.4.57) ये ते पूर्वे परागताः (18.3.72) इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति ॥ कौश्स्_11,7{86}.2 ॥]
ऽये च जीवाःऽ इत्येका, ऽये ते पूर्वे परागताःऽ इत्येका इति द्वाभ्यां द्वौ चरू सर्पिर्मधुभ्यां पूरयित्वाभिमन्त्र्य शीर्षदेशे निदधाति अस्थिसमीपे ॥
[अपूपवान् (18.4.16-24) इति मन्त्रोक्तं दिक्ष्वष्टमदेशेषु निदधति ॥ कौश्स्_11,7{86}.3 ॥
मध्ये पचन्तम् ॥ कौश्स्_11,7{86}.4 ॥]
ऽअपूपवान्ऽ इति नवभिरृग्भिः पश्चिमदिशि प्रभृति अष्टौ चरवः । प्रतिदिशं निदधाति । एकं मध्ये निधाय ततोऽभिमन्त्रयते । प्रतिमन्त्रं क्षीरादिपूर्णाः मन्त्रोक्ता अपूपापिधानाः सर्वे कर्तव्याः । प्रसव्या दातव्याः ॥
[सहस्रधारम् (18.4.36) शतधारम् (18.4.29-30) इत्यद्भिरभिविष्यन्द्य ॥ कौश्स्_11,7{86}.5 ॥]
ऽसहस्रधारम्ऽ इत्येका, ऽशतधारम्ऽ इति द्वे एताभिः शतच्छिद्रे सहस्रच्छिद्रे चरुपात्रमध्ये निधायोपरि तत उदकमभिमन्त्र्य तेनोदकेनाप्लावयत्यस्थीनि ॥
[पर्णो राजा (18.4.53) इति मध्यमपलाशैरभिनिदधाति ॥ कौश्स्_11,7{86}.6 ॥]
ऽपर्णो राजाऽ इत्यृचा मध्यमपलाशपत्रैः शतच्छिद्रसहस्रच्छिद्रादि चरवश्च सर्वम् आच्छादयन्ति । मन्त्रं कर्ता ब्रूयात् ॥
[ऊर्जो भागः (18.4.54) इत्यश्मभिः ॥ कौश्स्_11,7{86}.7 ॥]
ऽऊर्जो भागःऽ इत्यृचाश्मभिः पाषाणैर्वा इष्टकाभिर्वा आच्छादयति । चरवश्च गृहवत् चेतव्याः ॥
[उत्ते स्तभ्नामि (18.3.52) इति लोगान् यथापरु ॥ कौश्स्_11,7{86}.8 ॥]
ऽउत्ते स्तभ्नामिऽ इत्यृचा लोष्टेन च चरुमस्थीनि च पूरयति निधानक्रमेण ॥
[निःशीयतामघम् इति निःशीयमानेनावछाद्य दर्भैरवस्तीर्य ॥ कौश्स्_11,7{86}.9 ॥]
ऽनिःशीयतामघम्ऽ इति मन्त्रेण जीर्णवस्त्रमाच्छादयति । दर्भैरवस्तीर्य श्मशानमस्थ्युपरि द्वितीयं वस्त्रं स्तृणाति ॥
[इदमिद्वा उ ना (18.2.50-52) उप सर्प (18.3.49-51) असौ है (18.4.66-67) इति चिन्वन्ति ॥ कौश्स्_11,7{86}.10 ॥]
ऽइदमिद्वाऽ इति तिस्रः, ऽउप सर्पऽ इति तिस्रः, ऽअसौ हा इह तेऽ इति द्वे एताभिरृग्भिः श्मशानं पितृगृहं शिलाभिर्विषमाभिः इष्टकाभिर्वा प्रसव्यं चिन्वन्ति । देवगृहे च दक्षिणं द्वारं करोति । कर्तानुमन्त्रयते ॥
[यथा यमाय (18.4.55) इति संश्रित्य ॥ कौश्स्_11,7{86}.11 ॥]
ऽयथा यमायऽ इत्यृचा श्मशानं घ्नन्ति कुटयन्ति । सर्वत्र कर्ता मन्त्रम् । पितृगृहमुच्चैः कृत्वा । ऽउन्नतं स्वर्गकामस्यऽ इति
श्रुतिः ॥
[शृणात्वघम् इत्युपरि शरस्तम्बमादधाति ॥ कौश्स्_11,7{86}.12 ॥]
ऽशृणात्वघम्ऽ इति मन्त्रेण श्मशानोपरि शरस्तम्बमादधाति । समूलमार्द्रं यथा वर्धते ॥
प्रतिषिद्धमेकेषाम् ॥ कौश्स्_11,7{86}.13 ॥
[अकल्माषाणां काण्डानामष्टाङ्गुलीं तेजनीम् अन्तर्हितमघम् इति ग्रामदेशादुच्छ्रयति ॥ कौश्स्_11,7{86}.14 ॥]
तथा विकल्पः शरस्तम्बस्य । ऽअन्तर्हितमघम्ऽ इति मन्त्रेण कल्माषाणां काष्ठानामष्टाङ्गुलां कटिकामभिमन्त्र्य ग्रामश्मशानयोरन्तर्धानं करोति ॥
[प्रसव्यं पिरिषिच्य कुम्भान् भिन्दन्ति ॥ कौश्स्_11,7{86}.15 ॥]
कुशेन प्रसव्यं त्रिः परिषिच्य कुम्भान् भिन्दन्ति । पश्चिमायां दिशि स्फोटयन्ति ॥
[समेत (7.21.1) इत्यपरस्यां श्मशानस्रक्त्यां धुवनान्युपयछन्ते ॥ कौश्स्_11,7{86}.16 ॥]
ऽसमेत विश्वेऽ इत्यनया ऋचा सर्वे बान्धवाः अपरस्यां श्मशानस्रक्त्यां धुवनान्युपयच्छन्ति । ऽत्रिः प्रसव्यं परिकीर्णकेशाः परियन्ति दक्षिणानूरूनाध्नानाःऽ इति धुवनानि सर्वे बान्धवाः कुर्वन्ति ॥
[पश्चादुत्तरतोऽग्नेः वर्चसा माम् (18.3.10-11) विवस्वान् (18.3.61) इन्द्र क्रतुम् (18.3.67) इत्यातः ॥ कौश्स्_11,7{86}.17 ॥]
ततः ऽवर्चसा माम्ऽ इति द्वे ऽविवस्वानःऽ इत्यादि ऽइन्द्र क्रतुं नःऽ इत्यन्तम् एतैः पश्चात् स्थित उपतिष्ठन्ते कर्ता गोत्रिणश्च ॥
[समिन्धते (18.4.41-42) इति पश्चात् सङ्कसुकमुद्दीपयति ॥ कौश्स्_11,7{86}.18 ॥]
ऽसमिन्धते अमर्त्यम्ऽ इति द्वाभ्यामृग्भ्यां ग्राममध्ये यन्मण्डपं कृतं तत् आनीय श्मशानपश्चाद्देशे प्रज्वालयति दहति । सङ्कसुकशब्देन यामसारस्वतान् हुत्वा उत्तरं जीवशरदे दक्षिणं यज्जुनं तत् सङ्कसुकशब्देनोच्यते । तं ज्वालयति । श्मशानचित्यस्य कर्म समाप्तम् । अनेन विधानेनास्थिचयनं कुर्यात् । पुत्रो वा गोत्रिणो वा इदं कर्म कारयति स्वर्गमिच्छता ॥
[अस्मिन् वयम् (12.2.13), यद्रिप्रं (12.2.40), सीसे मृड्ढ्वं (12.2.19) इत्यभ्यवनेजयति ॥ कौश्स्_11,7{86}.19 ॥]
ऽअस्मिन् वयम्ऽ, ऽयद्रिप्रम्ऽ, ऽसीसे मृड्ढ्वम्ऽ इत्यादि क्रव्याच्छमनेन व्याख्यातम् ॥
कृष्णोर्णया पाणिपादान् निमृज्य ॥ कौश्स्_11,7{86}.20 ॥
सर्वे गोत्रिणः ॥
इमे जीवाः (12.2.22) उदीचीनैः (12.2.29) इति मन्त्रोक्तम् ॥ कौश्स्_11,7{86}.21 ॥
त्रिः सप्त (12.2.29) इति कूद्या पदानि योपयित्वा श्मशानात् ॥ कौश्स्_11,7{86}.22 ॥
दहनमपि श्मशानमुच्यते ॥
मृत्योः पदम् (12.2.30) इति द्वितीयया नावः ॥ कौश्स्_11,7{86}.23 ॥
परं मृत्योः (12.2.21) इति प्राग्दक्षिणं कूदीं प्रविध्य ॥ कौश्स्_11,7{86}.24 ॥
सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा ॥ कौश्स्_11,7{86}.25 ॥
आरोहत सवितुर्नावमेताम् (12.2.48) सुत्रामाणम् (7.6.3) महीमू षु (7.6.2) इति सहिरण्यां सयवां नावमारोहयति ॥ कौश्स्_11,7{86}.26 ॥
अश्मन्वती रीयते (12.2.26) उत्तिष्ठता प्र तरता सुखायः (12.2.27) इत्युदीचस्तारयति ॥ कौश्स्_11,7{86}.27 ॥
[शर्कराद्या समिदाधानात् ॥ कौश्स्_11,7{86}.28 ॥
वैवस्वतादि समानम् ॥ कौश्स्_11,7{86}.29 ॥]
उत्तरतो गर्तः इति क्रव्याच्छमनं च कृत्वा । ततो ऽयवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृताम्ऽ (कौश्स् 82.1) । अथैषां सप्त शर्कराः पाणिष्वावपति इत्यादि सर्वं कुर्यात् । ऽशाम्याकीरादधाति । तासां धूमं भक्षयन्तिऽ (कौश्स् 82.19-20) इत्येवमन्तं सर्वं कुर्वन्ति गोत्रिणः । ऽवैवस्वतं स्थालीपाकं श्रपयित्वाऽ (कौश्स् 82.36) इत्यादि । वृषभद्वयं दशगवावरार्ध्या आचार्यदक्षिणा । द्वादशरात्रं कर्ता यमव्रतान्तं (कौश्स् 82.42) सर्वं भवति ॥
[प्राप्य गृहान् समानः पिण्डपितृयज्ञः ॥ कौश्स्_11,7{86}.30 ॥]
प्राप्य गृहान् समान एकः पिण्डपितृयज्ञः कार्यः सर्वेषां गोत्रिणां विधानेन । ततः सामावास्यायां निधानममावास्यायां क्रव्याच्छमनं कुर्यादिति । केचिल्लौकिकेऽपि पिण्डपितृयज्ञं कुर्वन्ति । समाप्तः पितृमेधः । एकाग्न्याहिताग्न्योरुभयोः पितृमेध अधिकारः । अन्तेष्टिः पात्रचयनं देशान्तरविधानं पितृमेधश्च ॥ एकादशे सप्तमी कण्डिका
अथ पिण्डपितृयज्ञः ॥ कौश्स्_11,8{87}.1 ॥
[अमावास्यायां सायं न्यह्नेऽहनि विज्ञायते ॥ कौश्स्_11,8{87}.2 ॥]
अमावास्यायामपराह्णे कुर्यात् ॥
[मित्रावरुणा परि मामधाताम् (18.3.12) इति पाणी प्रक्षालयते ॥ कौश्स्_11,8{87}.3 ॥]
वैश्वदेवं कृत्वा ऽअव्यसश्चऽ (19.68) इति जपित्वा ऽमित्रावरुणा परि मामधाताम्ऽ इत्यृचा पाणी प्रक्षालयते ॥
[वर्चसा माम् (18.3.10) इत्याचामति ॥ कौश्स्_11,8{87}.4 ॥]
ऽवर्चसा माम्ऽ इत्यृचाचामयति ॥
[पुनः सव्येनाचमनादपसव्यं कृत्वा प्रैषकृतं समादिशति ॥ कौश्स्_11,8{87}.5 ॥]
ततः तूष्णीं पुनः सव्येनाचमनं करोति । ततः पित्र्युपवीती भूत्वा वक्ष्यमाणं कर्म करोति । परिचारकाय प्रैषं ददाति ॥
[उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षाल्य बर्हिरुदकुम्भमाहर इति ॥ कौश्स्_11,8{87}.6 ॥]
उलूखलमुसलं शूर्पं चरुं कांस्यपात्रमुदकुम्भं दर्भान् व्रीहीन् समिधः नेक्षणादिकमाहरेति ॥
[यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान् निर्वपति ॥ कौश्स्_11,8{87}.7 ॥
इदमग्नये कव्यवाहनाय स्वधा पितृभ्यः पृथिविषद्भ्यः इति इदं सोमाय पितृमते स्वधा पितृभ्यः सोमवद्भ्यः पितृभ्यः वा अन्तरिक्षसद्भ्यः इति इदं यमाय पितृमते स्वधा पितृभ्यश्च दिविषद्भ्यः इति त्रीनवाचीनकाशीन् निर्वपति ॥ कौश्स्_11,8{87}.8 ॥]
ततः यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रं निधाय ततो निर्वपति तण्डुलमुष्टिम् । ऽइदमग्नये कव्यवाहनायऽ इत्येतैर्मन्त्रैस्त्रीन् अधोमुष्टीन् निर्वपति । ततः पित्र्युपवीती ऽइदमग्नये कव्यवाहनायऽ इति त्रिः सम्प्रोक्षणम् ॥
[उलूखल ओप्य त्रिरवहन्ति इदं वः पितरो हविः इति ॥ कौश्स्_11,8{87}.9 ॥
यथा हविस्तथा परिचरति ॥ कौश्स्_11,8{87}.10 ॥
हविर्ह्येव पितृयज्ञः ॥ कौश्स्_11,8{87}.11 ॥]
तत उलूखल ओप्य त्रिरवहन्ति ऽइदं वः पितरो हविःऽ इति मन्त्रेण । ततः शूर्पेण निष्पवनम् ॥
[प्रैषकृतं समादिशति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलानावपस्व नेक्षणेन योधयन्नास्व मा शिरो ग्रहीः ॥ कौश्स्_11,8{87}.12 ॥]
ततस्तण्डुलप्रक्षालनम् । ऽचरुं प्रक्षालयाधिश्रयऽ इति प्रैषः । चरोरधिश्रयणम् । ऽअप ओप्यऽ चरोरुदकासेकः । ऽतण्डुलानावपस्वऽ तण्डुलावपनम् । ऽपरि त्वाग्नेऽ (7.71.1) इत्यृचा पर्यग्निकरणम् । नेक्षणेन त्रिष्प्रदक्षिणमुदायौति चरुम् । यथोत्पूतं भवति तथा कुर्यात् ॥
[शिरोग्रहं परिचक्षते ॥ कौश्स्_11,8{87}.13 ॥]
शिरोग्रहणं न कुर्यात् ॥
[बाह्येनोपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः उदीरताम् (18.1.44) इति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् ॥ कौश्स्_11,8{87}.14 ॥]
अग्निशालाया बाह्येनोपनिष्क्रम्य यज्ञोपवीती भूत्वा दक्षिणपूर्वमन्तर्देशाभिमुख ऽउदीरताम्ऽ इत्यृचा कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् ॥
अवागङ्गुरिं पर्वमात्रीमित्येके ॥ कौश्स्_11,8{87}.15 ॥
[अपहता असुरा रक्षांसि ये पितृषदः इति प्राग्दक्षिणं पांसूनुदूहति ॥ कौश्स्_11,8{87}.16 ॥]
ऽअपहता असुरा रक्षांसि ये पितृषदःऽ इति यजुषा प्राग्दक्षिणं पांसून् उदूहति ॥
[कर्षूं च पाणी च प्रक्षाल्य एतद् वः पितरः पात्रम् इति कर्षूम् उदकेन पूरयित्वा ॥ कौश्स्_11,8{87}.17 ॥]
कर्षूं च पाणी च प्रक्षाल्य ततो निर्वापपवित्रं गृहीत्वा कांस्योदकपात्रं कल्पयित्वा कर्षूमध्ये निनयति ऽएतद् वः पितरः पात्रम्ऽ इति मन्त्रेण ॥
[अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चमुद्वास्य ॥ कौश्स्_11,8{87}.18 ॥]
ततो मध्ये प्रविश्य मस्तुना नवनीतेन वा प्रतिनीय चरौ प्रक्षिपेत् । दक्षिणत उद्वासयति ॥
[द्वे काष्ठे गृहीत्वा उशन्तः (18.1.56-57) इत्यादीपयति ॥ कौश्स्_11,8{87}.19 ॥]
द्वे काष्ठे गृहीत्वा ऽउशन्तःऽ इति द्वाभ्यामृग्भ्यामादीपयति ॥
[आदीप्तयोरेकं प्रतिनिदधाति ॥ कौश्स्_11,8{87}.20 ॥
इहैवैधि धनसनिः (18.4.38) इत्येकं हृत्वा ॥ कौश्स्_11,8{87}.21 ॥]
एकं दीप्तकाष्ठं गृहीत्वा ऽइहैवैधिऽ इत्यृचा पांसूपरि निदधाति ॥
[पांसुष्वाधायोपसमादधाति ये निखाताः (18.2.34-35) समिन्धते (18.4.41) ये तातृषुः, ये सत्यासः (18.3.47-48) इति ॥ कौश्स्_11,8{87}.22 ॥]
ऽये निखाताःऽ इति द्वे ऽसमिन्धतेऽ इत्येका, ऽये तातृषुःऽ इत्येका, ऽये सत्यासःऽ इत्येका एतैः पञ्चभिः पञ्च समिध आदधाति । ततः ॥
सम्भारानुपसादयति ॥ कौश्स्_11,8{87}.23 ॥
[पर्युक्षणीं बर्हिरुदकुम्भं कंसं दर्विमाज्यमायवनं चरुं वासांस्याञ्जनमभ्यञ्जनमिति ॥ कौश्स्_11,8{87}.24 ॥]
पर्युक्षणीं बर्हिः उदकुम्भं कांस्यभाजनम् । दर्विम् । आज्यम् । आयवनम् । चरुम् । वासांसि । आञ्जनम् । अभ्यञ्जनम् । एतानि सर्वाणि पात्राणि उपसाद्य ॥
[यदत्रोपसमाहार्यं भवति तदुपसमाहृत्य ॥ कौश्स्_11,8{87}.25 ॥
अतो यज्ञोपवीती पित्र्युपवीती बर्हिर्गृहीत्वा विचृत्य सन्नहनं दक्षिणापरमष्टमदेशमभ्यवास्येत् ॥ कौश्स्_11,8{87}.26 ॥]
ततः पित्र्युपवीती सकृदाच्छिन्नं बर्हिर्गृहीत्वा विचृत्य सन्नहनं दक्षिणापरदेशे निरस्यति तूष्णीम् ॥
[बर्हिरुदकेन सम्प्रोक्ष्य बर्हिषदः पितरः (18.1.51) उपहूता नः पितरः (18.3.45) अग्निष्वात्ताः पितरः (18.3.44) ये नः पितुः पितरः (18.3.46) येऽस्माकम् (18.4.68) इति प्रस्तृणाति ॥ कौश्स्_11,8{87}.27 ॥]
बर्हिरुदकेन सम्प्रोक्ष्य ऽबर्हिषदः पितरःऽ इत्यृचा, ऽउपहूता नः पितरःऽ इत्यृचा ऽअग्निष्वात्ताः पितरःऽ इत्येका, ऽये नः पितुः पितरःऽ इत्येका, ऽयेऽस्माकं पितरःऽ इत्यर्द्धर्चः एताभिर्बर्हिः स्तृणाति । बर्हिषि आवाहनं करोति ॥
[आयापनादीनि त्रीणि ॥ कौश्स्_11,8{87}.28 ॥]
ऽआ यात पितरःऽ (18.4.62) इत्यृचा ऽआच्या जानुऽ (18.1.52) इत्यृचा ऽसं विशन्तुऽ (18.2.29) इत्यृचा एतैः तिलान् विकीर्य ॥
[उदीरताम् (18.1.44-46) इति तिसृभिरुदपात्राण्यन्वृचं निनयेत् ॥ कौश्स्_11,8{87}.29 ॥]
ऽउदीरताम्ऽ इति तिसृभिरुदपात्राणि एकैकयर्चा बर्हिषि निनयति ॥
[अतः पित्र्युपवीती यज्ञोपवीती ये दस्यवः (18.2.28) इत्युभयत आदीप्तमुल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति ॥ कौश्स्_11,8{87}.30 ॥
पर्युक्ष्य ॥ कौश्स्_11,8{87}.31 ॥]
ततो यज्ञोपवीती ऽये दस्यवःऽ इत्युभयत आदीप्तमुल्मुकं परिहृत्य निरस्यति । पर्युक्ष्य ॥ एकादशे अष्टमी कण्डिका
[ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्व तानग्ने अप सेध दूरान् सत्या नः पितॄणां सन्त्वाशिषः स्वाहा स्वधा इति हुत्वा कुम्भीपाकमभिघारयति ॥ कौश्स्_11,9{88}.1 ॥]
ऽये रूपाणिऽ इत्यृचाज्यं स्रुवेण जुहोति । ततः कुम्भीपाकमभिघारयति तूष्णीम् ॥
[अग्नये कव्यवाहनाय इति जुहोति ॥ कौश्स्_11,9{88}.2 ॥]
ततः ऽअग्नये कव्यवाहनाय स्वधा पितृभ्यःऽ इति चरुं जुहोति ॥
यथानिरुप्तं द्वितीयाम् ॥ कौश्स्_11,9{88}.3 ॥
[यमाय पितृमते स्वधा पितृभ्यः इति तृतीयाम् ॥ कौश्स्_11,9{88}.4 ॥]
ऽयमाय पितृमते स्वधाऽ इति तृतीयाम् ॥
[यद्वो अग्निः (18.4.64) इति सायवनांस्तण्डुलान् ॥ कौश्स्_11,9{88}.5 ॥]
ऽयद्वो अग्निःऽ इति सायवनांस्तण्डुलान् जुहोति ॥
[सं बर्हिः (7.98.1) इति सदर्भांस्तण्डुलान् पर्युक्ष्य ॥ कौश्स्_11,9{88}.6 ॥]
ऽसं बर्हिःऽ इत्यृचा सदर्भान् तण्डुलान् जुहोति । ततः पर्युक्षणम् ॥
[अतो यज्ञोपवीती पित्र्युपवीती दर्व्योद्धरति ॥ कौश्स्_11,9{88}.7 ॥]
ततः पित्र्युपवीती दर्व्योद्धरति भाजने ॥
[द्यौर्दर्विरक्षितापरिमितानुपदस्ता सा यथा द्यौर्दर्विरक्षितापरिमितानुपदस्तैवा प्रततामहस्येयं दर्विरक्षितापरिमितानुपदस्ता ॥ कौश्स्_11,9{88}.8 ॥
अन्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता सा यथान्तरिक्षं दर्विरक्षितापरिमितानुपदस्तैवा ततामहस्येयं दर्विरक्षितापरिमितानुपदस्ता ॥ कौश्स्_11,9{88}.9 ॥
पृथिवी दर्विरक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विरक्षितापरिमितानुपदस्तैवा ततस्येयं दर्विरक्षितापरिमितानुपदस्ता इति ॥ कौश्स्_11,9{88}.10 ॥]
ऽद्यौर्दर्विरक्षितापरिमिताऽ इति त्रिभिः । प्रतिमन्त्रमुद्धरणम् ॥
[उद्धृत्याज्येन सन्नीय त्रीन् पिण्डान् संहतान् निदधाति एतत्ते प्रततामह (18.4.75-77) इति ॥ कौश्स्_11,9{88}.11 ॥]
ततः उद्धृत्याज्येन सन्नीय ऽएतत्ते प्रततामहऽ इति त्रिभिरृग्भिः त्रीन् पिण्डान् संहितान् निदधाति बर्हिषि ॥
दक्षिणतः पत्नीभ्यः इदं वः पत्न्यः इति ॥ कौश्स्_11,9{88}.12 ॥
[इदमाशंसूनामिदमाशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां येषां वयं दातारो ये चास्माकमुपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्यमस्तु इति त्रिः प्रसव्यं तण्डुलैः परिकिरति ॥ कौश्स्_11,9{88}.13 ॥]
ऽइदमाशंसूनाम्ऽ इति त्रिः प्रसव्यं तण्डुलैः परिकिरति ॥
[पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य अङ्ध्वं पितरः इति न्यस्यति ॥ कौश्स्_11,9{88}.14 ॥]
ऽअङ्ध्वं पितरःऽ इति मन्त्रेण पिञ्जूलीराञ्जनं घृताक्तं कृत्वा पिण्डेषु निदधाति ॥
[वद्ध्वं पितरो मा वोऽतोऽन्यत् पितरो योयुवत इति सूत्राणि ॥ कौश्स्_11,9{88}.15 ॥]
ऽवद्ध्वं पितरःऽ इति सूत्रं निदधाति ॥
[अञ्जते व्यञ्जते (18.3.18) इत्यभ्यञ्जनम् ॥ कौश्स्_11,9{88}.16 ॥]
ऽअञ्जते व्यञ्जतेऽ इत्यृचा घृतेनाभिघारयति ॥
[आज्येनाविछिन्नं पिण्डानभिघारयति ये च जीवाः (18.4.57), ये ते पूर्वे परागताः (18.3.72) इति ॥ कौश्स्_11,9{88}.17 ॥]
ऽये च जीवाःऽ इति घृतेनाभिघारयति पिण्डान् । ऽये ते पूर्वे परागताःऽ इत्यृचा पिण्डोपरि धारां निनयति ॥
[अत्र पितरो मादयध्वं यथाभागं यथालोकमावृषायध्वम् इति ॥ कौश्स्_11,9{88}.18 ॥]
ऽअत्र पितरःऽ इति प्रतिपिण्डं जपति ॥
[अत्र पत्न्यो मादयध्वं यथाभागं यथालोकमावृषायध्वम् इति ॥ कौश्स्_11,9{88}.19 ॥]
ऽअत्र पत्न्यःऽ इति पत्नीपिण्डे जपति ॥
[योऽसावन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य तिस्रस्तामीस्ताम्यति ॥ कौश्स्_11,9{88}.20 ॥]
योऽसावन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य त्रीन् प्राणायामान् कुर्यात् ॥
[प्रतिपर्यावृत्य अमीमदन्त पितरो यथाभागं यथालोकमावृषायिषत इति ॥ कौश्स्_11,9{88}.21 ॥
अमीमदन्त पत्न्यो यथाभागं यथालोकमावृषायिषत इति ॥ कौश्स्_11,9{88}.22 ॥]
पुनः ऽअमीमदन्तऽ इति पिण्डेषूपतिष्ठते ॥
[आपो अग्निम् (18.4.40) इत्यद्भिरग्निमवसिच्य ॥ कौश्स्_11,9{88}.23 ॥]
ऽआपो अग्निम्ऽ इत्यृचा अद्भिरग्निमवसिच्य
[पुत्रं पौत्रमभितर्पयन्तीः (18.4.39) इति आचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तु इति प्रसव्यं परिषिच्य ॥ कौश्स्_11,9{88}.24 ॥]
ऽपुत्रं पौत्रम्ऽ इत्यृचा ऽआचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तुऽ इति भाजनं प्रक्षाल्य तेन पिण्डोपरि सव्यं परिषिच्य ॥
[वीरान् मे प्रततामहा दत्त वीरान् मे ततामहा दत्त वीरान् मे पितरो दत्त पितॄन् वीरान् याचति ॥ कौश्स्_11,9{88}.25 ॥]
ऽवीरान् मे प्रततामहाऽ इति पिण्डानुपतिष्ठते ॥
नमो वः पितरः (18.4.81) इत्युपतिष्ठते ॥ कौश्स्_11,9{88}.26 ॥
[अक्षन् (18.4.61) इत्युत्तरसिचमवधूय ॥ कौश्स्_11,9{88}.27 ॥]
ऽअक्षन्नमीमदन्तऽ इत्यृचा उत्तरसिचमवकुर्यात्.
[परा यात (18.4.63) इति परायापयति ॥ कौश्स्_11,9{88}.28 ॥]
ऽपरा यातऽ इत्यृचा पितॄन् विसर्जयेत् ॥
[अतः पित्र्युपवीती यज्ञोपवीती यन्न इदं पितृभिः सह मनोऽभूत् तदुपाह्वयामि इति मन उपाह्वयति ॥ कौश्स्_11,9{88}.29 ॥]
ततः यज्ञोपवीती ॥ एकादशे नवमी कण्डिका
[मनो न्वा ह्वामहे नाराशंसेन स्तोमेन । पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥ ये सजाताः सुमनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिन् गोष्ठे शतं समाः इति ॥ कौश्स्_11,10{89}.1 ॥]
ऽयन्न इदम्ऽ इति ऽमनो न्वा ह्वामहेऽ इति सूक्तं हृदयमन्वालभ्य जपेत् ॥
यच्चरुस्थाल्यामोदनावशिष्टं भवति तस्योष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात् ॥ कौश्स्_11,10{89}.2 ॥
यदि ब्राह्मणो न लभ्येताप्स्वभ्यवहरेत् ॥ कौश्स्_11,10{89}.3 ॥
निजाय दासायेत्येके ॥ कौश्स्_11,10{89}.4 ॥
[मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयछति ॥ कौश्स्_11,10{89}.5 ॥
आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् ॥ आ त्वारुक्षद्वृषभः पृश्निरग्नियो मेधाविनं पितरो गर्भमा दधुः । आ त्वायं पुरुषो गमेत् पुरुषः पुरुषादधि । स ते श्रैष्ठ्याय जायतां स सोमे साम गायतु इति ॥ कौश्स्_11,10{89}.6 ॥]
ऽआ धत्त पितरःऽ इति सूक्तेन मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयच्छति प्राशनार्थम् ॥
[यद्यन्या द्वितीया भवत्यपरं तस्यै ॥ कौश्स्_11,10{89}.7 ॥]
पितुः पिण्डं द्वितीयापत्न्यै प्रयच्छति तेनैव मन्त्रेण ॥
[प्राग्रतमं श्रोत्रियाय ॥ कौश्स्_11,10{89}.8 ॥]
प्राग्रतमं पिण्डं श्रोत्रियाय ददाति ॥
[अथ यस्य भार्या दासी वा प्रद्राविणी भवति येऽमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति तांस्तस्यै प्रयछति ॥ कौश्स्_11,10{89}.9 ॥
अर्वाच्युपसङ्क्रमे मा पराच्युप वस्तथा । अन्नं प्राणस्य बन्धनं तेन बध्नामि त्वा मयि इति ॥ कौश्स्_11,10{89}.10 ॥]
ऽअर्वाच्युपसङ्क्रमेऽ इत्यृचा पश्चिमतण्डुलान् दास्यै प्रयच्छति ॥
[पर्युक्षणीं समिधश्चादाय मा प्र गाम् (13.1.59-60) इत्याव्रज्य ऊर्जं बिभ्रत् (7.60.1-6) इति गृहानुपतिष्ठते ॥ कौश्स्_11,10{89}.11 ॥]
पर्युक्षणीं समिधश्चादाय ऽमा प्र गामऽ इति द्वाभ्यां जपित्वा गृहे व्रजति । तत ऽऊर्जं बिभ्रत्ऽ इति षड्भिर्गृहानुपतिष्ठते ॥
[रमध्वं मा बिभीतनास्मिन् गोष्ठे करीषिणः । ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम ॥ ऊर्जं मे देवा अददुरूर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षमूर्जस्वन्तो गृहा मम ॥ पयो मे देवा अददुः पयो मनुष्या उत । पयः पितृभ्यः आहार्षं पयस्वन्तो गृहा मम ॥ वीर्यं मे देवा अददुर्वीर्यं मनुष्या उत । वीर्यं पितृभ्यः आहार्षं वीरवन्तो गृहा मम इति ॥ कौश्स्_11,10{89}.12 ॥]
ऽरमध्वं मा बिभीतनऽ इति सूक्तेनोपतिष्ठते ॥
[अन्तरुपातीत्य समिधोऽभ्यादधाति । अयं नो अग्निरध्यक्षोऽयं नो वसुवित्तमः । अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥ अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे । इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः । त्वमग्न ईडितः
(18.3.42) आ त्वाग्न इधीमहि (18.4.88) इति ॥ कौश्स्_11,10{89}.13 ॥]
ततोऽग्निहोत्रशालायां प्रविश्य दक्षिणाग्नौ समिध आदधाति प्रत्यृचं ऽअयं नो अग्निःऽ इति द्वे, ऽत्वमग्नेऽ इत्येका ऽआ त्वाग्नेऽ इत्येका एतैः समिध आदधाति ॥
[अभूद् दूतः (18.4.65) इत्यग्निं प्रत्यानयति ॥ कौश्स्_11,10{89}.14 ॥]
ऽअभूद् दूतःऽ इत्यृचाग्निं प्रत्यानयति ॥
यदि सर्वः प्रणीतः स्याद् दक्षिणाग्नौ त्वेतदाहिताग्नेः ॥ कौश्स्_11,10{89}.15 ॥
[गृह्येष्वनाहिताग्नेः ॥ कौश्स्_11,10{89}.16 ॥]
गृह्येष्वनाहिताग्नेर्होमः ॥
[इदं चिन्मे कृतमस्तीदं चिच्छक्नवानि । पितरश्चिन्मा वेदन् इति ॥ कौश्स्_11,10{89}.17 ॥
यो ह यजते तं देवा विदुर्यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस्तं पितरः ॥ कौश्स्_11,10{89}.18 ॥]
ऽइदं चिन्मे कृतमस्तिऽ इति मन्त्रेणाग्निमुपतिष्ठते । ऽयस्मात् कोशात्ऽ (19.72) इति । पिण्डपितृयज्ञः समाप्तः ॥
प्रतिपत्त्यर्थं शरीरस्य पितृमेधस्य कर्मणः.
विधिरेकादशे सार्धं पितृयज्ञस्य कीर्तितः ॥
एकादशे दशमी कण्डिका
इति कौशिकपद्धतौ एकादशोऽध्यायः ॥
अथ द्वादशोऽध्यायः
[मधुपर्कः]
अथ मधुपर्क उच्यते । आचार्ये गहमागते इदं कर्म करोति ॥
[मधुपर्कमाहारयिष्यन् दर्भानाहरति ॥ कौश्स्_12,1{90}.1 ॥]
दाता वदति । मधुपर्कमाहारयिष्यन्निति । तत आचार्यो वदति । दर्भानाहारयेति । पुनर्दाता वदति ॥
[अथ विष्टरान् कारयति ॥ कौश्स्_12,1{90}.2 ॥]
अथ विष्टरान् कुरु । तत आचार्यो विष्टरान् करोति मन्त्रेण ॥
[स खल्वेकशाखमेव प्रथमं पाद्यं द्विशाखमासनं त्रिशाखं मधुपर्काय ॥ कौश्स्_12,1{90}.3 ॥]
एकशाखं द्विशाखं त्रिशाखं चेति विष्टरत्रयं करोति ॥
[स यावतो मन्येत तावत उपादाय विविच्य सम्पर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्यादित्युपोत्कृष्य मध्यदेशेऽभिसन्नह्यति ॥ कौश्स्_12,1{90}.4 ॥
ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वा इति सन्नह्यति ॥ कौश्स्_12,1{90}.5 ॥
अथ ह सृजति अतिसृष्टो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ कौश्स्_12,1{90}.6 ॥]
ऽऋतेन त्वाऽ इति सन्नहनम् । मध्यदेशे ग्रन्थिं करोति । ऽअतिसृष्टो द्वेष्टाऽ इति मन्त्रेण विष्टरान् करोति । प्रतिविष्टरं मन्त्रावृत्तिः ॥
[अस्य च दातुः इति दातारमीक्षते ॥ कौश्स्_12,1{90}.7 ॥]
विष्टरान् कृत्वा ऽअस्य च दातुःऽ इति दातारमीक्षते ॥
[अथोदकमाहारयति पाद्यं भो इति ॥ कौश्स्_12,1{90}.8 ॥]
अथोदकमानयति । ततो दाता कुरुते ऽपाद्यं भोऽ इति ॥
[हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति मयि ब्रह्म च तपश्च धारयाणि इति ॥ कौश्स्_12,1{90}.9 ॥]
ऽहिरण्यवर्णाःऽ (1.33) इति सूक्तं जपित्वा पुनः आचार्य उदकमभिमन्त्रयते । ऽमयि ब्रह्म चऽ इति मन्त्रेण स्वयं दक्षिणं पादं प्रक्षालयति ॥
[दक्षिणे प्रक्षालिते सव्यं प्रकर्षति मयि क्षत्रं च विशश्च धारयाणि इति ॥ कौश्स्_12,1{90}.10 ॥]
ऽमयि क्षत्रं चऽ इति सव्यं प्रक्षालयति ॥
[प्रक्षालितावनुमन्त्रयते इमौ पादाववनिक्तौ ब्राह्मणं यशसावताम् । आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे ॥ कौश्स्_12,1{90}.11 ॥]
ततः स्वपादावभिमन्त्रयते । ऽइमौ पादाववनिक्तौऽ इत्यृचा आचार्यः ॥
अस्य च दातुः इति दातारमीक्षते ॥ कौश्स्_12,1{90}.12 ॥ अथासनमाहारयति.
दाता वदति-
सविष्टरमासनं भो इति ॥ कौश्स्_12,1{90}.13 ॥
तस्मिन् प्रत्यङ्मुख उपविशति ॥ कौश्स्_12,1{90}.14 ॥
[विमृग्वरीं पृथिवीम् (12.1.29) इत्येतया विष्टरे पादौ प्रतिष्ठाप्य अधिष्ठितो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ कौश्स्_12,1{90}.15 ॥]
ऽविमृग्वरीम्ऽ इति मन्त्रेण द्विशाखं विष्टरमासने निदधाति । एकशाखं पादयोर्निदधाति । विष्टरे पादौ प्रतिष्ठाप्य ऽअधिष्ठितो द्वेष्टाऽ इति मन्त्रेण ॥
अस्य च दातुः इति दातारमीक्षते ॥ कौश्स्_12,1{90}.16 ॥ अथोदकमाहारयति.
दाता वदति-
अर्घ्यं भो इति ॥ कौश्स्_12,1{90}.17 ॥
[तत्प्रतिमन्त्रयते अन्नानां मुखमसि मुखमहं श्रेष्ठः समानानां भूयासम् । आपोऽमृत स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्वश्वावद्गोमन्मय्यस्तु पुष्टमो भूर्भुवः स्वर् जनद् ओम् इति ॥ कौश्स्_12,1{90}.18 ॥
तूष्णीमध्यात्मं निनयति ॥ कौश्स्_12,1{90}.19 ॥]
ऽअन्नानां मुखमसिऽ इति मन्त्रेण पुष्पाक्षतोदपात्रमभिमन्त्र्य आचार्यहस्ते निनयति तूष्णीम् ॥
तेजोऽस्यमृतमसि इति ललाटमालभते ॥ कौश्स्_12,1{90}.20 ॥ अथोदकमाहारयति.
दाता वदति-
आचमनीयं भो इति ॥ कौश्स्_12,1{90}.21 ॥
[जीवाभिराचम्य ॥ कौश्स्_12,1{90}.22 ॥]
तत आचार्य आचमनं करोति । कारापयति ऽजीवा स्थऽ (19.69) इति सूक्तेन ॥
अथास्मै मधुपर्कं वेदयन्ते.
ततो दाता वदति-
द्व्यनुचरो मधुपर्को भो इति ॥ कौश्स्_12,1{90}.23 ॥
त्रिशाखं मधुपर्काय ॥
द्वाभ्यां शाखाभ्यामधस्तादेकयोपरिष्टात् सापिधानम् ॥ कौश्स्_12,1{90}.24 ॥
[मधु वाता ऋतायते इत्येताभिरेवाभिमन्त्रणम् ॥ कौश्स्_12,1{90}.25 ॥
तथा प्रतिमन्त्रणम् ॥ कौश्स्_12,1{90}.26 ॥]
द्वादशेऽध्याये प्रथमा कण्डिका
[मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्गावो भवन्तु नः ॥ मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः । माध्वीर्नः सन्त्वोषधीः ॥ मधुमान्नो वनस्पतिर्मधुमा;म् अस्तु सूर्यः । मधु द्यौरस्तु नः पिता ॥ कौश्स्_12,2{91}.1 ॥]
ऽमधु वाता ऋतायतेऽ इत्येताभिरेवाभिमन्त्रणम् । तथा प्रतिमन्त्रणम् । आचार्यः प्रतिमन्त्रणं करोति ॥
[तत् सूर्यस्य त्वा चक्षुषा प्रतीक्षे इति प्रतीक्षते ॥ कौश्स्_12,2{91}.2 ॥]
ऽसूर्यस्य त्वाऽ इति मन्त्रेण मधुपर्कं प्रतीक्षते ॥
[अयुतोऽहं, देवस्य त्वा सवितुः (19.51.1-2) इति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति ॥ कौश्स्_12,2{91}.3 ॥]
ऽअयुतोऽहंऽ, ऽदेवस्य त्वाऽ इति द्वाभ्यां प्रतिगृह्णाति । सन्मुखं प्राग्दण्डं निदधाति ॥
[पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थे इति भूमौ प्रतिष्ठाप्य ॥ कौश्स्_12,2{91}.4 ॥
द्वाभ्यामङ्गुलिभ्यां प्रदक्षिणमाचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च सङ्गृह्य प्राश्नाति ॥ कौश्स्_12,2{91}.5 ॥]
ऽपृथिव्यास्त्वाऽ इति मन्त्रेण भूमौ प्रतिष्ठाप्य ततः पूर्वाभिमुखो भूत्वा मधुपर्कं प्राश्नाति भोजनवत् । प्राङ्मुखोऽन्नानि भुञ्जीत । द्वाभ्यामङ्गुलीभ्यां प्रदक्षिणमाचाल्यानामिकाङ्गुल्याङ्गुष्ठेन च सङ्गृह्य प्राश्नाति ॥
[ओं भूस्तत्सवितुर्वरेण्यं भूः स्वाहा इति प्रथमम् ॥ कौश्स्_12,2{91}.6 ॥
भर्गो देवस्य धीमहि भुवः स्वाहा इति द्वितीयम् ॥ कौश्स्_12,2{91}.7 ॥
धियो यो नः प्रचोदयात् स्वः स्वाहा इति तृतीयम् ॥ कौश्स्_12,2{91}.8 ॥
वयं देवस्य धीमहि जनत् स्वाहा इति चतुर्थम् ॥ कौश्स्_12,2{91}.9 ॥
तुरं देवस्य भोजनं वृधत् स्वाहा इति पञ्चमम् ॥ कौश्स्_12,2{91}.10 ॥
करत् स्वाहा इति षष्ठम् ॥ कौश्स्_12,2{91}.11 ॥
रुहत् स्वाहा इति सप्तमम् ॥ कौश्स्_12,2{91}.12 ॥
महत् स्वाहा इत्यष्टमम् ॥ कौश्स्_12,2{91}.13 ॥
तत् स्वाहा इति नवमम् ॥ कौश्स्_12,2{91}.14 ॥
शं स्वाहा इति दशमम् ॥ कौश्स्_12,2{91}.15 ॥
ओम् इत्येकादशम् ॥ कौश्स्_12,2{91}.16 ॥]
ऽओम् भूस्तत्सवितुःऽ इत्येकादश मन्त्राः । प्रतिमन्त्रं प्राश्नाति ॥
[तूष्णीं द्वादशम् ॥ कौश्स्_12,2{91}.17 ॥]
तूष्णीं द्वादशं प्राश्नाति ॥
तस्य भूयोमात्रमिव भुक्त्वा ब्राह्मणाय श्रोत्रियाय प्रयछेत् ॥ कौश्स्_12,2{91}.18 ॥
[श्रोत्रियालाभे वृषलाय प्रयछेत् ॥ कौश्स्_12,2{91}.19 ॥
अथाप्ययं निगमो भवति सोममेतत् पिबत यत् किं चाश्नीत ब्राह्मणाः । मा ब्राह्मणायोछिष्टं दात मां सोमं पात्वसोमपः इति ॥ कौश्स्_12,2{91}.20 ॥]
अन्यस्य वा । द्वादशेऽध्याये द्वितीया कण्डिका
[दधि च मधु च ब्राह्मो मधुपर्कः ॥ कौश्स्_12,3{92}.1 ॥
पायस ऐन्द्रो मधुपर्कः ॥ कौश्स्_12,3{92}.2 ॥
मधु चाज्यं च सौम्यो मधुपर्कः ॥ कौश्स्_12,3{92}.3 ॥
मन्थश्चाज्यं च पौष्णो मधुपर्कः ॥ कौश्स्_12,3{92}.4 ॥
क्षीरं चाज्यं च सारस्वतो मधुपर्कः ॥ कौश्स्_12,3{92}.5 ॥
सुरा चाज्यं च मौसलो मधुपर्कः ॥ कौश्स्_12,3{92}.6 ॥
स खल्वेष द्वये भवति सौत्रामण्यां च राजसूये च ॥ कौश्स्_12,3{92}.7 ॥
उदकं चाज्यं च वारुणो मधुपर्कः ॥ कौश्स्_12,3{92}.8 ॥
तैलं चाज्यं च श्रावणो मधुपर्कः ॥ कौश्स्_12,3{92}.9 ॥
तैलश्च पिण्डश्च पारिव्राजको मधुपर्कः ॥ कौश्स्_12,3{92}.10 ॥
इति खल्वेष नवविधो मधुपर्को भवति ॥ कौश्स्_12,3{92}.11 ॥]
ऽदधि चऽ इत्यादि नवविधं मधुपर्कं जानीयात् ॥
अथास्मै गां वेदयन्ते.
दाता ब्रूते-
गौर्भो इति ॥ कौश्स्_12,3{92}.12 ॥
[तान् प्रतिमन्त्रयते । भूतमसि भवदस्यन्नं प्राणो बहुर्भव । ज्येष्ठं यन्नाम नामत ओं भूर्भुवः स्वर्जनदोम् इति ॥ कौश्स्_12,3{92}.13 ॥]
आचार्योऽपि प्रतिमन्त्रयते । ऽभूतमसि भवदस्यन्नम्ऽ इति मन्त्रेण ॥
[अतिसृजति मातादित्यानां दुहिता वसूनां स्वसा रुद्राणाममृतस्य नाभिः । प्र णो वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । ओं तृणानि गौरत्तु इत्याह ॥ कौश्स्_12,3{92}.14 ॥]
गां विसर्जयति ऽमातादित्यानाम्ऽ इति मन्त्रेण । आचार्यो ब्रूते ऽतृणानि गौःऽ इति । तृणानि ददाति गवे ॥
सूयवसात् (7.73.11) इति प्रतिष्ठमानामनुमन्त्रयते ॥ कौश्स्_12,3{92}.15 ॥
नालोहितो मधुपर्को भवति ॥ कौश्स्_12,3{92}.16 ॥
नानुज्ञानमधीमहे इति कुरुत इत्येव ब्रूयात् ॥ कौश्स्_12,3{92}.17 ॥
स्वधिते मैनं हिंसीः इति शस्त्रं प्रयछति ॥ कौश्स्_12,3{92}.18 ॥
पाष्मानमेव जहि इति शस्त्रं कर्तारमनुमन्त्रयते ॥ कौश्स्_12,3{92}.19 ॥
आग्नेयीं वपां कुर्युः ॥ कौश्स्_12,3{92}.20 ॥
अपि वा ब्राह्मण एव प्राश्नीयात् । तद्देवतं हि तद्धविर्भवति ॥ कौश्स्_12,3{92}.21 ॥
अथास्मै स्नानमनुलेपनं माल्याभ्यञ्जनमिति ॥ कौश्स्_12,3{92}.22 ॥
[यदत्रोपसमाहार्यं भवति तदुपसमाहृत्य ॥ कौश्स्_12,3{92}.23 ॥]
वस्त्रालङ्कारादि सर्वं समाहृत्य ददाति ॥
अथोपासकाः प्राप्य उपासकाः स्मो भो इति वेदयन्ते ॥ कौश्स्_12,3{92}.24 ॥
[तान् प्रतिमन्त्रयते भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नोऽन्ये भूयांसो जायन्ताम् ॥ कौश्स्_12,3{92}.25 ॥]
भेदकार आचार्यः प्रतिमन्त्रयते ऽभूयांसो भूयास्मऽ इति मन्त्रेण ॥
अस्य च दातुः इति दातारमीक्षते ॥ कौश्स्_12,3{92}.26 ॥
आचार्यः ॥
अथान्नाहाराः प्राप्य अन्नाहाराः स्मो भो इति वेदयन्ते ॥ कौश्स्_12,3{92}.27 ॥
दाता वदति ॥
[तान् प्रतिमन्त्रयते अन्नादा भूयास्म ये च नोऽन्नादान् कार्ष्टापि च नोऽन्येऽन्नादा भूयांसो जायन्ताम् ॥ कौश्स्_12,3{92}.28 ॥]
आचार्योऽनुमन्त्रयते ऽअन्नादा भूयास्म ये च नःऽ इति मन्त्रेण । खर्जकलमकभक्तादि ॥
अस्य च दातुः इति दातारमीक्षते ॥ कौश्स्_12,3{92}.29 ॥
[आहृतेंऽन्ने जुहोति यत् काम कामयमाना इत्येतया ॥ कौश्स्_12,3{92}.30 ॥
यत् काम कामायमाना इदं कृण्मसि ते हविः । तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा इति ॥ कौश्स्_12,3{92}.31 ॥]
आहृतेऽन्ने सति भक्ते जुहोति ऽयत् काम कामऽ इत्यृचा विवाहे तन्त्राग्नौ जुहोति । अन्यत्र हस्तहोमत्वात् तन्त्रविकल्पः ॥
[एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषोऽतिथिकल्प एषोऽतिथिकल्पः ॥ कौश्स्_12,3{92}.32 ॥]
अभ्यागताय मधुपर्को देयः । अतिथये मधुपर्को देयः । अन्येभ्यः स्वधर्मस्थितेभ्यश्च चातुर्वर्णिकेभ्यो द्रव्याढ्येभ्यश्चतुराश्रमिभ्यश्च गृहागते मधुपर्को देयः । मधुपर्कः समाप्तः । षडर्घ्या मधुपर्किणः । गुर्वाद्यागते गृहे मधुपर्कसूत्रं प्रयोजनम् ॥ द्वादशेऽध्याये तृतीया कण्डिका
इति कौशिकपद्धतौ द्वादशोऽध्यायः ॥
अथ त्रयोदशोऽध्यायः
[अद्भुतानि]
अथाद्भुतकर्मपरिभाषा उच्यन्ते-
अथाद्भुतानि ॥ कौश्स्_13,1{93}.1 ॥
लोकविरुद्धं दृश्यते तदद्भुतमित्युच्यते ॥
वर्षे ॥ कौश्स्_13,1{93}.2 ॥
रुधिरादिविकृतिदोषः ॥
यक्षेषु ॥ कौश्स्_13,1{93}.3 ॥
यक्षराक्षसपिशाचादिदर्शने सति ॥
गोमायुवदने ॥ कौश्स्_13,1{93}.4 ॥
मण्डूकद्वयातिवदने ॥
कुले कलहिनि ॥ कौश्स्_13,1{93}.5 ॥
स्वकुले परकुले च कलहे उत्पन्ने ॥
[भूमिचले ॥ कौश्स्_13,1{93}.6 ॥]
भूमिचलने भूमिकम्पे ॥
आदित्योपल्पवे ॥ कौश्स्_13,1{93}.7 ॥
आदित्यग्रहे ॥
चन्द्रमसश्च ॥ कौश्स्_13,1{93}.8 ॥
चन्द्रग्रहणे ॥
[औषस्यामनुद्यत्याम् ॥ कौश्स्_13,1{93}.9 ॥]
उषायामनुद्यत्याम् उषाकाल अनुदित आदित्ये ॥
समायां दारुणायाम् ॥ कौश्स्_13,1{93}.10 ॥
दारुणसंवत्सरे दुर्भिक्षे मरके वा अनावृष्टिर्वा भये सति ॥
[उपतारकशङ्कायाम् ॥ कौश्स्_13,1{93}.11 ॥]
उषातारकशङ्कायाम् । उषातारकग्रहनक्षत्रादिसमीपे दृश्यते नक्षत्रम् ॥
ब्राह्मणेष्वायुधिषु ॥ कौश्स्_13,1{93}.12 ॥
आयुधग्रहणे सति ॥
दैवतेषु नृत्यत्सु च्योतत्सु हसत्सु गायत्सु ॥ कौश्स्_13,1{93}.13 ॥
अन्यानि वा रूपाणि कुर्वन्ति देवताः ॥
लाङ्गलयोः संसर्गे ॥ कौश्स्_13,1{93}.14 ॥
लाङ्गले द्वे संसर्गे भवतः ॥
[रज्ज्वोस्तन्त्वोश्च ॥ कौश्स्_13,1{93}.15 ॥]
रज्ज्वोस्तन्त्वो रज्जुर्वा सूत्रं वल्यमाने द्वे भवतः ॥
अग्निसंसर्गे ॥ कौश्स्_13,1{93}.16 ॥
लौकिकाग्निद्वये संसर्गे ॥
[यमवत्सायां गवि ॥ कौश्स्_13,1{93}.17 ॥]
यमलवत्सायां गवि ॥
[वडवागर्दभ्योर्मानुष्यां च ॥ कौश्स्_13,1{93}.18 ॥]
यमलजनने वडवागर्दभ्योः । मानुषीयमलजनने इदं समीकर्म ॥
यत्र धेनवो लोहितं दुहते ॥ कौश्स्_13,1{93}.19 ॥
लोहितदोहने गोऽश्वाजामहिषीगर्दभोष्ट्रादिषु रक्तदुग्धे ॥
अनडुहि धेनुं धयति ॥ कौश्स्_13,1{93}.20 ॥
वृषभो गां धयति ॥
[धेनौ धेनुं धयन्त्याम् ॥ कौश्स्_13,1{93}.21 ॥]
धेनुर्धेनुं धयति परस्परं पिबति ॥
आकाशफेने ॥ कौश्स्_13,1{93}.22 ॥
गौर्वाऽश्वो वाऽश्वतरो वा पुरुषो वा आकाशफेनं पिबति ॥
पिपीलिकानाचारे ॥ कौश्स्_13,1{93}.23 ॥
श्वेतकृष्णरक्तवर्णादि बहुशो गृहे सन्ति ॥
[नीलमक्षानाचारे ॥ कौश्स्_13,1{93}.24 ॥]
नीलमक्षा अतिशयेन बहुशः । मक्षिकाः प्रसिद्धाः ॥
[मधुमक्षानाचारे ॥ कौश्स्_13,1{93}.25 ॥]
मधुजालं गृह उत्पद्यते मधुमक्षा ॥
[अनाज्ञाते ॥ कौश्स्_13,1{93}.26 ॥]
अनाज्ञातमद्भुतं दृश्यते । यदद्भुते न पठितं तदज्ञातमद्भुतम् । अथवा लौकिकं जुगुप्सितं वाऽदृष्टं वा ॥
अवदीर्णे ॥ कौश्स्_13,1{93}.27 ॥
स्वयं गृहादि अवदीर्णे सति ॥
अनुदक उदकोन्मीले ॥ कौश्स्_13,1{93}.28 ॥
मरुदेशे उदकं भवति । अथवा स्थले सर्वत्रोदकं सन्दृश्यते मृगतृष्णावत् ॥
तिलेषु समतैलेषु ॥ कौश्स्_13,1{93}.29 ॥
तिलाः समतैला भवन्ति ॥
हविःष्वभिमृष्टेषु ॥ कौश्स्_13,1{93}.30 ॥
वपां हवींषि वा वयांसि द्विपदचतुष्पदं वा गृहीत्वा गच्छेयुः ॥
प्रसव्येष्वावर्तेषु ॥ कौश्स्_13,1{93}.31 ॥
कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृत्तौ ॥
[यूपे विरोहति ॥ कौश्स्_13,1{93}.32 ॥]
यूपो विरोहति । यूपशब्दः काष्ठवाची । यज्ञप्रायश्चित्ते यूपग्रहणात् ॥
उल्कायाम् ॥ कौश्स्_13,1{93}.33 ॥
दिवा उल्कापातः सन्ध्यायां च ॥
[धूमकेतौ सप्तर्षीनुपधूपयति ॥ कौश्स्_13,1{93}.34 ॥]
धूमकेतुः सप्तऋषीनुपधूपयति । केतुचारः पठितः । केतुशब्दग्रहणेन सर्वत्र धूमकेतुरुच्यते ॥
नक्षत्रेषु पतापतेषु ॥ कौश्स्_13,1{93}.35 ॥
रात्रौ नक्षत्रपातेषु बहुशः ॥
[मांसमुखे निपतति ॥ कौश्स्_13,1{93}.36 ॥]
मांसमुखा गृहे पतन्ति मांसं वा पतति ॥
अनग्नाववभासे ॥ कौश्स्_13,1{93}.37 ॥
अग्निर्दृश्यते । गृहादिषु अग्निदृश्या ज्वाला दृश्यते ॥
अग्नौ श्वसति ॥ कौश्स्_13,1{93}.38 ॥
उच्छ्वासो वा शब्दकरणं भवति वा ॥
सर्पिषि तैले मधुनि च विष्यन्दे ॥ कौश्स्_13,1{93}.39 ॥
यदि घृतादि स्थीयते स्यन्दते वा स्रवति वा ॥
[ग्राम्येऽग्नौ शालां दहति ॥ कौश्स्_13,1{93}.40 ॥]
ग्राम्योऽग्निः शालां दहति ग्रामनगरशालादिदाह्ये लौकिकेनाग्निना ॥
आगन्तौ च ॥ कौश्स्_13,1{93}.41 ॥
विद्युते वा सूर्यप्रज्वलिते वा गृहं दहति आगन्तुर्वा ॥
[वंशे स्फोटति ॥ कौश्स्_13,1{93}.42 ॥]
वंशः स्फोटयति वंशस्फोटनं बलहरणभङ्गद्वारभङ्गकपाटादिभङ्गेषु ॥
कुम्भोदधाने विकसत्युखायां सक्तुधान्यां च ॥ कौश्स्_13,1{93}.43 ॥
उदकुम्भे स्वयं भग्ने उदकधानमलिञ्जरे भग्ने उखादिभाण्डे सक्तुधान्यां हण्डिका ॥ त्रयोदशेऽध्याये प्रथमा कण्डिका
[अथ यत्रैतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद् हिरण्यं यानि चाप्यन्यानि घोराणि वर्षाणि वर्षन्ति तत् पराभवति कुलं वा ग्रामो वा जनपदो वा ॥ कौश्स्_13,2{94}.1 ॥]
ऽअथ यत्रैतानिऽ इत्यादि प्रतिनिमित्तशान्तिं वक्ष्यामः । अथाद्भुतशान्तिर्यत्र न क्रियते तत्र दोषो भवति । ऽतत् पराभवतिऽ इत्यादि परिभाषा उच्यते । अथाद्भुतं यत्र भवति तत् पराभवति विनश्यति । विनाशार्थे अद्भुतं देवाः सृजन्ति । तथा चोक्तं सृजन्ति दिव्या देवाद्भुतानि प्रागुपसर्गप्रतिबोधनार्थम् । विनाशे समुपस्थिते । कुलं वा ग्रामो वा जनपदो वा कुले ग्रामे नगरे वा राष्ट्रे वा यत्राद्भुतं दृश्यते तत्सर्वं विनश्यति ॥
[तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणमिछेत् ॥ कौश्स्_13,2{94}.2 ॥
एष ह वै विद्वान् यद् भृग्वङ्गिरोवित् ॥ कौश्स्_13,2{94}.3 ॥
एते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद् भृग्वङ्गिरसः ॥ कौश्स्_13,2{94}.4 ॥]
तत्र गृहस्थो वा ग्रामपतिर्वा राजा वा भूमिपतिः । यद् भृग्वङ्गिरस अथर्वाङ्गिरस इत्यर्थः ॥
स आह उपकल्पयध्वम् इति ॥ कौश्स्_13,2{94}.5 ॥
तदुपकल्पयन्ते कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ कौश्स्_13,2{94}.6 ॥
बाह्ये तन्त्रप्रयोगः ॥
त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम् ॥ कौश्स्_13,2{94}.7 ॥
अपि चेदेव यदा कदाचिदार्ताय कुर्यात् ॥ कौश्स्_13,2{94}.8 ॥
स्नातोऽहतवसनः सुरभिर्व्रतवान् कर्मण्य उपवसत्येकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा ॥ कौश्स्_13,2{94}.9 ॥
[द्वादश्याः प्रातर्यत्रैवादः पतितं भवति तत उत्तरमग्निमुपसमाधाय ॥ कौश्स्_13,2{94}.10 ॥
परिसमूह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ कौश्स्_13,2{94}.11 ॥
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ ॥ कौश्स्_13,2{94}.12 ॥]
ततो द्वितीयेऽहनि प्रातः कर्मप्रयोगः । प्रथमत अयुतहोमलक्षहोमौ वा ईशानयागग्रहयागनक्षत्रयागनिरृतियागमण्डपसंस्कारवास्तुसंस्कारादि । उत्तरतः सर्वकर्मप्रयोगः । इति सर्वकर्मसु परिभाषा समाप्ता ॥
अथ वर्षाद्भुते शान्तिरुच्यते-
[अथ जुहोति ॥ कौश्स्_13,2{94}.13 ॥
घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद्धिरण्यम् । द्विषन्तमेता अनु यन्तु वृष्टयोऽपां वृष्टयो बहुलाः सन्तु मह्यम् ॥ लोहितवर्षं मधुपांसुवर्षं यद्वा वर्षं घोरमनिष्टमन्यत् । द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा इति हुत्वा ॥ कौश्स्_13,2{94}.14 ॥]
आज्यभागान्तं कृत्वा ऽघृतस्य धाराऽ इति द्वाभ्यामाज्यं जुहुयात् ॥
[दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ कौश्स्_13,2{94}.15 ॥]
ऽदिव्यो गन्धर्वःऽ इत्यादि मातृनाम्ना गणेनाज्यं जुहुयात् । सर्वत्र शान्त्युदकं योजयेत् । सर्वत्र चातनान्यनुयोजयेत् । मातृनामानि चानुयोजयेत् । वरां धेनुं कर्त्रे दद्यात् । सर्वत्र कंसवसनं गौर्दक्षिणा । ब्राह्मणान् भक्तेनोपेप्सन्ति । ततः पार्वणाद्युत्तरतन्त्रम् ॥
वरमनड्वाहं ब्राह्मणः कर्त्रे दद्यात् ॥ कौश्स्_13,2{94}.16 ॥
सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ कौश्स्_13,2{94}.17 ॥
[सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,2{94}.18 ॥]
धेन्वादीनि सर्वत्र कांस्यादीनि च दक्षिणा वा । घृतवर्षे । मांसवर्षे । मधुवर्षे । हिरण्यवर्षे । पांसुवर्षे । सर्पमत्स्यपक्षिणो यदाभ्यवर्षन्ति । अस्थीनि रुधिरं वसा मज्जा पाषाणास्त्रैर्वा (?) कीटानि अन्याश्चान्यं च घोरं वर्षणं दधि पयो तैलं च पक्वान्नविकाराश्च । अन्येषां घोराणां वर्षणे इदं कर्म कुर्यात् । समाप्ता विकृतवर्षाद्भूतशान्तिः ॥ द्वितीया
कण्डिका
अथ यक्षाद्भुतशान्तिरुच्यते-
[अथ यत्रैतानि यक्षाणि दृश्यन्ते तद्यथैतन्मर्कटः श्वापदो वायसः पुरुषरूपमिति तदेवमाशङ्क्यमेव भवति ॥ कौश्स्_13,3{95}.1 ॥
तत्र जुहुयात् ॥ कौश्स्_13,3{95}.2 ॥
यन्मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पताति । पुरुषरक्षसमिषिरं यत्पताति द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा इति हुत्वा ॥ कौश्स्_13,3{95}.3 ॥
दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ कौश्स्_13,3{95}.4 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,3{95}.5 ॥]
शान्त्युदकं कृत्वा कारयिताचमनं प्रोक्षणं कृत्वाज्यभागान्तं कृत्वा ऽयन्मर्कटः श्वापदःऽ इत्यृचाज्यं जुहुयात् । मातृनामगणेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । यक्षशब्देन सर्पश्वापदौ वायसः पुरुषरूपा एते दृश्यन्ते । रक्षो वा हस्तिनो वा सूकरो वा कूपे घटे वारण्ये वा गृहे वा रक्षोरूपं दृष्ट्वा वपुस्तत्क्षणादेव न दृश्यते । तत्सर्वं यक्ष इत्युच्यते । समाप्ता यक्षाद्भुतशान्तिः ॥ तृतीया कण्डिका
अथ गोमायुवदने शान्तिरुच्यते-
[अथ ह गोमायू नाम मण्डूकौ यत्र वदतस्तद्यन्मन्यन्ते ऽमां प्रति वदतो मां प्रति वदतःऽ इति तदेवमाशङ्क्यमेव भवति ॥ कौश्स्_13,4{96}.1 ॥
तत्र जुहुयात् ॥ कौश्स्_13,4{96}.2 ॥
यद् गोमायू वदतो जातवेदोऽन्यया वाचाभि जञ्जभातः । रथन्तरं बृहच्च सामैतद् द्विषन्तमेतावभि नानदैताम् ॥ रथन्तरेण त्वा बृहच्छमयामि बृहता त्वा रथन्तरं शमयामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ कौश्स्_13,4{96}.3 ॥
दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ कौश्स्_13,4{96}.4 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,4{96}.5 ॥]
शान्त्युदकं कृत्वा तत आज्यभागान्तं कृत्वा ऽयद् गोमायूऽ इति द्वयं मातृनामगणेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । मण्डुकद्वयं वा । सते गृहे वा बहिर्वा अभिमुखः गोमायुः । अद्भुतशान्तिः समाप्ता ॥ चतुर्थी कण्डिका
अथ कुलकलहे अद्भुतशान्तिरुच्यते-
[अथ यत्रैतत् कुलं कलहि भवति तन्निरृतिगृहीतमित्याचक्षते ॥ कौश्स्_13,5{97}.1 ॥
तत्र जुहुयात् ॥ कौश्स्_13,5{97}.2 ॥
आरादरातिम् (8.2.12-13) इति द्वे ॥ कौश्स्_13,5{97}.3 ॥
अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे । अया नो धेहि भेषजं स्वाहा इत्यग्नौ हुत्वा ॥ कौश्स्_13,5{97}.4 ॥
तत्रैवैतान् होमाञ्जुहुयात् ॥ कौश्स्_13,5{97}.5 ॥
आरादग्निं क्रव्यादे निरूहञ्जीवातवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्राह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ कौश्स्_13,5{97}.6 ॥
अपेत एतु निरृतिः इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,5{97}.7 ॥
अपेत एतु निरृतिर्नेहास्या अपि किञ्चन । अपास्याः सत्वनः पाशान् मृत्यूनेकशतं नुदे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस्ते यज्ञस्य मायया सर्वा;म् अप यजामसि ॥ निरितो यन्तु नैरृत्या मृत्यव एकशतं परः । सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे ॥ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ ब्रह्म भ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद् ब्रह्मास्मदप हन्तु शमलं तमश्च ॥ कौश्स्_13,5{97}.8 ॥
वरमनड्वाहमिति समानम् ॥ कौश्स्_13,5{97}.9 ॥]
शान्त्युदकं चातनमातृनामान्यनुयोजितं कृत्वा आचमनादि आज्यभागान्तं कृत्वा ऽआरादरातिम्ऽ इति द्वे, ऽअयाश्चाग्नेऽ इत्यृचा, ऽआरादग्निम्ऽ इति द्वे, ऽअपेत एतुऽ इति सूक्तेनाज्यं जुहुयात् । तत उत्तरतन्त्रम् । कुलयुद्धे राजकुलग्रामयुद्धे जातिब्राह्मणक्षत्रियवैश्यशूद्रादियुद्धे स्त्रीणां युद्धे कलहे च पुरुषाणां युद्धे कलहे च स्वकुले चापरस्य युद्धे कलहे च । कलहाद्भुतशान्तिः ॥ पञ्चमी कण्डिका
मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0