कौशिकपद्धति · श्लोक 118-137
अथ मधुजालके गृहे लग्न शान्तिरुच्यते-
[अथ यत्रैतन्मधुमक्षिका अनाचाररूपा दृश्यन्ते मधु वाता ऋतायते (कौश्स् 91.1) इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,26{118}.1 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,26{118}.2 ॥]
शान्त्युदकमाज्यभागान्तं कृत्वा ऽमधु वाता ऋतायतेऽ इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । मधुजालके गृहे लग्नेऽभ्यन्तरे बहिर्वा दृष्टदेशे वा लग्ने तत्र शान्तिः समाप्ता ॥ षड्विंशी कण्डिका
अथ सर्वाद्भुतेषु शान्तिरुच्यते-
[अथ यत्रैतदनाज्ञातमद्भुतं दृश्यते तत्र जुहुयात् ॥ कौश्स्_13,27{119}.1 ॥
यदनाज्ञातमनाम्नातमर्थस्य कर्मणो मिथः । अग्ने त्वं नस्तस्मात् पाहि स हि वेत्थ यथायथम् ॥ अग्नये स्वाहा ॥ कौश्स्_13,27{119}.2 ॥
वायो, सूर्य, चन्द्र इति च ॥ कौश्स्_13,27{119}.3 ॥
पुरुषसम्मितोऽर्थः कर्मार्थः पुरुषसम्मितः । वायुर्मा तस्मात् पातु स हि वेत्थ यथायथम् ॥ वायवे स्वाहा ॥ कौश्स्_13,27{119}.4 ॥
अग्निर्मा, सूर्यो मा, चन्द्रो मा इति च ॥ कौश्स्_13,27{119}.5 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽयदाज्ञातम्ऽ इति ऽपुरुषसम्मितःऽ सूक्ताभ्यामाज्यं जुहुयात् । ऽयथार्थमुदर्कान् योजयेत्ऽ (कौश्स् 8.22) इत्यत्रैवोक्तम् । ऽअनुषङ्गो वाक्यपरिसमाप्तिःऽ (जैसू 2.1.48) इति मीमांसायाम् । ऽउक्तानुक्तस्यऽ इत्युक्तं पञ्चपटलिकायाम् । पार्वणाद्युत्तरतन्त्रम् ॥
अनाज्ञातेऽद्भुते यद् ग्रन्थे न पठ्यते तत् सर्वमनाज्ञातमित्युच्यते । यदपि परिशिष्टेषु पठ्यते सर्वे गृहे प्रविष्टे सर्वमेवाल्पकं दृष्ट्वा सर्वसम्मितो वायुं सम्भ्रमे उदकप्रादुर्भावे गमनेषु धनुःसन्ध्योल्काः परिवेषाः विद्युद्दण्डाशनिपरिप्रपरिघार्द्धे निर्घाते रजोवर्ष-उपलवर्षदक्षिमधुघृतवर्षमज्जारुधिरवर्षतिहीनगभस्ती द्वे मार्गे विद्युत् वित्तक्षये सोमस्य क्षये पूर्णपूरणे क्षयस्यवभासा सद्योपररात्रादि दिग्दाहोपधूपनग्रहवैषम्यमारोहणमाक्रमणं गन्धर्वनगरमारुतप्रकोपः तिथिकरणमुहूर्तनक्षत्रयोगध्रुवककानि ग्रहादीनां समवियोगः । प्रतिस्रोतगामिन्यो नद्यः । प्रस्रवणानि च । प्रासादतोरणाट्टालध्वजछत्रे च वायसाः समवायाद् वृकशकटारोहणम् । वृषदंशाभिघातमज्जनम् । सुलभममुलूकप्रतिगर्जनम् । श्येनाश्च तानि गृध्रादीनां ध्वजालिङ्घनम् । विकृताश्च मानुषो मनुजा मनुषप्रभवाः स्त्रियो वा बालं वा वृद्धं वा प्रलापाः युवानः वा युवतरः प्रलपति प्रदीप्तेन्द्रिययष्टिपादभङ्गे द्रव्ये द्विच्छायाप्रतिच्छायामृज्यतमपृक्तम् । अत ऊर्ध्वं छायाम् अधछायामध्यछायोर्ध्वछाया अकस्माच्चैत्यवृक्षस्तम्भपतने विरोहणात् स्कन्धरोहे मष्टत्यछिन्नपर्ण प्रमा वा शुष्को वा शुष्कशाखिनो धूमरजतौदकप्रादुर्भावगमनेषु वनस्पतिषु वनतरुषु बाहुशस्त्रभङ्गे वा इन्द्रनीलगोपुराट्टालकादि ध्वजछत्रादीनां भङ्गेषु वा भङ्गः उचितान्यभ्युच्छेदनेऽनुचितानां प्रवर्तने दृढभङ्गे वा शुष्कविरोहे गृहे वल्मीके शयनदेशे गर्भास्तस्योत्पत्तौ विपरीतौ मित्रप्रीतौ च देवतार्चनयोः अनयोः छेदने यत्र च राजा प्रसृत्यादिषु च भवन्ति । भवन्ति चात्र श्लोकाः-
यदा तु प्रकृतिः सोमः विपरीतं हि दृश्यति.
मध्ये छिद्रमिति दृश्येत् मरणं राजगोचरम् ॥
यदा तु प्रतिपत्सोमः प्रकृत्या विकृतो भवेत्.
अनुद्भिन्नो विलूने वा राज्ञो मरणमादिशेत् ॥
आयुधाकाररूपाणि शतवर्णाकृतीनि च.
पञ्चवर्णानि चाभ्राणि तथा दण्डनिभानि च ॥
यदा चन्द्रार्कयोर्मध्ये कृष्णं भवति मण्डलम्.
सं शङ्कुरिति विज्ञेयो ग्रहः परमदारुणः ॥
तत्र राजा वधं विन्द्यात् सर्वभूतभयावहम्.
तत्र कुर्यान्महाशान्तिममृतां विश्वभेषजीम् ॥
अथ यस्मिन्नेव जनपदे गोब्राह्मणसूतसांवत्सरवैद्यानां परिव्राजकचारणवानप्रस्थब्रह्मचारिणां स्त्रीणां वाप्यपरः प्रवर्तन्ते तद्भुतं विद्यात् । तत् कर्मसङ्करं यजनव्यवहारयज्ञसङ्करं च भवतः । यत्र च धर्मोऽधर्मेण पीड्यते तत्र धर्मो अधर्मेषु तदाद्भुतं विद्यात् । ब्राह्मणक्षत्रियवैश्यशूद्रादि परस्परं बाधते एतेषु यदि शान्तिं न कुर्यात् तदा महाद्भुतानि भवन्ति । देवताप्रादुर्भावगमनेषु परवन्ते च अनृते गवां रोगे प्रवृत्ते । दुर्भिक्षे च जनपदादिविनाशे आदित्यभेदेषु मूषिकेषु प्रवृत्तेषु कीटपतङ्गे मत्कुणयूकालिक्षापक्षिणे प्रवृत्ते राजकुलवादे अश्वास्त्रं शस्त्रं वा गृहसर्वगजवाजिवस्त्रालङ्कारपीठिकाव्यञ्जनानि अग्निना प्रदहेत अरिष्टदर्शने शान्तिभेदः । पृथिव्यामन्तरिक्षे दिव्ये च एषा शान्तिः । सेवितं राजमश्वानां पक्षिणां मृगाणां षण्मुखानां तथा रूपाणि विकृतानि यत्रारण्यं च पथि च तथा राजा दर्वीनां कृतत्रिताक्षीणां ग्रामे कुले वा यदि वापि देशे राजन्यमान्येषु तथा द्विजेषु भावः पशूनां विकृतौ रूपः तथा मानुषे च.
अथ स्वनक्षत्रं अहोपहतमुल्काभिहतं ग्रस्तं निरस्तमुपधूपितं वा यदस्योज्जन्मनक्षत्रं कर्मनक्षत्रमभिषेचनीयं जनपदनक्षत्रं राजष्टमे चन्द्रमसः स्थाने वज्रेऽवसृष्टे स्कम्भे वावसृष्टे स्कन्धे वावसृष्टे नानारूपबहुरूपे शृङ्गिणि वादित्येन किलवति चेम्बुदनि चोल्काभिहते कम्बु धुवति षवति हसति हासे भासे नादे शब्दे वासते च वैश्वानरप्रज्वलिते अन्तरिक्षे च भस्म अस्थि अङ्गारा गृहे वा शिरसि वा पतन्ति वीध्री चेन्द्रधनुषि रात्रौ वीध्र एव तु चन्द्रार्कनक्षत्रग्रहतारादि परिखे काककपोतगृध्रयक्षराक्षसपिशाचश्वापदेषु रात्रौ वदत्सु गायत्सु वाद्यत्सु वाते प्रादुर्भावगमने चक्रध्वजवेश्मावसवप्रसादाग्रां वा कूप उदधाने चोद्गिरति नदति विद्योतति रथयन्त्रप्रवहणवादित्राणि सूक्तादयोद्गारा धूमर्चि वा प्रादुर्भावलिङ्गाङ्गविलिङ्गे राज्ञः प्रादुर्भावे वा राज्ञी राजा काकोलूककृकलासगृहगोधिकावासेनाधिपतिते राजछत्रे भग्ने ध्वजे शुक्रस्य भग्ने राज्ञे दण्डस्य भग्ने हस्तिन्यां च मत्तायां ग्रामे च प्रसूतायां राजरथश्च राजाधिरूढो भग्नाक्षः सप्तरात्रौ राज्ञो हन्ति । पुरोहितविनाशे वा सेनापतिनाशे हस्तिनं महिषीविनाशे कुमारविनाशे पशुमानुषे वा विकारः । द्विशीर्षा प्रतिशीर्षा वा पादहस्ति तथैव च द्विनासिकः तथा हीनाधिकाङ्गुलिविनाशे तैस्तु जायते । तथा पादजङ्घयोः कर्णनासिकाविनाशे शिरच्छेदस्तु जायते ॥
बीजं यत्र प्ररोहेत फलमध्ये प्रमादतः.
मध्वाज्यदधिदुग्धेषु भक्षमाणे विलेपने.
यन्त्रवाहनहर्म्येषु भवनेष्वायुधेषु च.
काकोलूककपोतानामद्वीर्वा दर्शनं भवेत्.
अन्ये च प्रश्नानामगमे मृगपक्षिणाम्.
कृष्णयुग्मानां दर्शनं गृहे वामिततेजसः.
सर्पाणां दर्शनं चैव सरीसृपगणस्य वा.
विकारा यत्र दृश्यन्ते क्षीरौदनहविःषु वा.
आयुर्जनानां पुरुषस्य तथायुष्यस्य युञ्जनात्.
यान्ति यानान्ययुक्तानि विना वातैर्नृभिस्तथा.
युक्तानि वा न गच्छन्ति नरेन्द्राणां महद्भयम्.
भेर्यो मृदङ्गाः पटहा वाद्यन्ते वाप्यनाहताः.
आहताश्च न वाद्यन्ते अचलानि चलन्ति वा.
अरण्ये तूर्यनिर्घोषो यदि श्रूयेत नाभसः.
गोष्ठो वा नृत्यते यत्र हस्ते दर्वी कदाचन.
पतते मुसलं यत्र हन्यमाने विशेषतः.
उलूखलं शूर्पं वा धूयते स्वयम्.
पाषाणः कूपं पर्वताप्रसर्पणे.
गोलाङ्गलानां संसर्गे विकारश्चन्द्रसूर्ययोः.
नारी वा धयते नारीं जायते तण्डुलं भयम्.
प्रत्याहारं विसर्पन्ति स्तम्बपाषाणपादपाः.
शकुनानां पयसि तथैव मृगपक्षिणाम्.
अमानुषाणां व्याहारे स्थावराणां व्यतिक्रमे.
योनिव्यतिकरे वैधा मांसशोणितवर्षणे.
अनग्निज्वलने चैव तथा नाभ्रवर्षणे.
शस्त्रप्रज्वलने चैव चैत्यशुष्कावरोहणे.
लिङ्गायतनचित्राणां रोदने गर्जने तथा.
उदधाने तडागानां ज्वलने गर्जितेऽपि वा.
मत्स्यसर्पद्विजातीनां रसानां च प्रवर्षणे.
गीतवादित्रशब्दास्तु यत्र स्युरनिमित्ततः.
ये चान्ये किञ्चिदुत्पाता जायन्ते विकृतात्मकाः.
तेषां सर्वेषामुत्पातानामेषा शान्तिर्विधीयते.
चन्द्रप्रातिपदिके ग्रहयुद्धे ग्रहसङ्ग्रहे राहुचारे केतुचारे राहुकेतुलक्षणे कूमविभागे मण्डलेषु दिग्दाहेषु उल्कापतनेषु विद्युत्पतनेषु विद्युद्दर्शनेषु निर्घातपतनेषु चन्द्रसूर्ययोः परिवेषे नक्षत्रग्रहोत्पातलक्षणे उत्पातलक्षणे सद्योवृष्टिलक्षणे अद्भुतशान्तिपठितेषु स्वप्नाध्यायपठितेषु दुःस्वप्नेषु सर्वेषु यदाज्ञाता शान्तिः । अथर्वहृदयेषु अद्भुतेषु पठितेषु भार्गवीयेषु पठितेषु गार्ग्यपठितेषु अद्भुतेषु बार्हस्पत्यग्रन्थेषु पठितेषु उशनसग्रन्थेषु पठितेषु महाद्भुतेषु पठितेषु इतिहासपुराणे ज्योतिःशास्त्रे अश्ववैद्यके नरवैद्यकेषु पठितेषु अद्भुतेषु सर्वाद्भुतेषु एषा शान्तिः । अथवा महाशान्तिरमृता घृतकम्बलं कोटिहोमः सर्वाद्भुतेषु कौशिकापठितेषु एषा शान्तिः महाशान्तिर्वा विकल्पात् इति भाष्यकारः ॥ सप्तविंशी कण्डिका
अग्निशरणे वा समज्यायां वावदरणे शान्तिरुच्यते-
[अथ यत्रैतद्ग्रामे वावसाने वाग्निशरणे वा समज्यायां वावदीर्येत चतस्रो धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी ॥ कौश्स्_13,28{120}.1 ॥
तासामेतद् द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति ॥ कौश्स्_13,28{120}.2 ॥
द्वादश्याः प्रातर्यत्रैवादोऽवदीर्णं भवति तत उत्तरमग्निमुपसमाधाय ॥ कौश्स्_13,28{120}.3 ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन सन्नीय ॥ कौश्स्_13,28{120}.4 ॥
अग्निर्भूम्याम् (12.1.19-21) इति तिसृभिरभिमन्त्र्यालभ्य ॥ कौश्स्_13,28{120}.5 ॥
अथ जुहुयात् ॥ कौश्स्_13,28{120}.6 ॥
तथा दक्षिणार्धे ॥ कौश्स्_13,28{120}.7 ॥
तथा पश्चार्धे ॥ कौश्स्_13,28{120}.8 ॥
उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर्जुहुयात् ॥ कौश्स्_13,28{120}.9 ॥
अवदीर्णे सम्पातानानीय संस्थाप्य होमान् ॥ कौश्स्_13,28{120}.10 ॥
अवदीर्णं शान्त्युदकेन सम्प्रोक्ष्य ॥ कौश्स्_13,28{120}.11 ॥
ता एव ब्राह्मणो दद्यात् ॥ कौश्स्_13,28{120}.12 ॥
सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ कौश्स्_13,28{120}.13 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,28{120}.14 ॥]
चतस्रो धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी । तासामेतद् द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति । द्वादश्याः प्रातर्यत्रैवादोऽवदीर्णं भवति तत उत्तरतः शान्त्युदकादि आज्यभागान्तं कृत्वा श्वेताया आज्येन ओदनं सन्नीय ततः ऽअग्निर्भूम्याम्ऽ इति तिसृभिरन्वालभ्य गृहं ततः पूर्वतो जुहोति । तथा कृष्णाया दक्षिणार्धे तथा रोहिण्या दक्षिणार्धे तथा सुरूपाया दक्षिणार्धे तस्मिन्नेवाग्नौ ओदनमाज्येन सन्नीय ततो वास्तोष्पत्येन गणेनाज्यं जुह्वन्नवदीर्णदेशं सम्पातानानयति । पार्वणाद्युत्तरतन्त्रम् । ततोऽवदीर्णं शान्त्युदकेन सम्प्रोक्ष्य गां ददाति । सर्वत्र धेन्वादीनि च । गृहे पतिते ग्रामे वा श्मशाने वा अग्निशरणे वा क्षेत्रभूमिपातने भूमिच्छिद्रदर्शने भूमिपाते गृहपाते ग्रामादिपतने एषा शान्तिः । अथवा चतुर्दिक्षु चत्वारि वा तन्त्राणि यथासङ्ख्यम् । श्वेताकृष्णादि प्रतिदिशं जुहोति । पूर्वार्धे जुहोति । पूर्वतन्त्रे दक्षिणा धेनुः सर्वत्र । तन्त्रोपवेशनखिम् (?) तन्त्रे वेद्युत्तरवेदितन्त्रम् । ततः शङ्खाद्याः सम्पाताः । सर्वस्मिन् तन्त्रे भवति दारिलमतम् । पूर्वं समाप्य तन्त्रं ततो दक्षिणतः पश्चादुत्तरतः । समाप्य तन्त्रं शान्त्युदकेन सम्प्रोक्ष्य ता गा ब्राह्मणो दद्यात् । सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा । वरं धेन्वादि सर्वत्र दद्यात् । गृहग्रामजनपदे च शान्तिः समाप्ता । अष्टाविंशी कण्डिका
अथ यत्रैतदनुदकदेशे उदकातिशयो भवति तत्र शान्तिरुच्यते-
[अथ यत्रैतदनुदक उदकोन्मीलो भवति हिरण्यवर्णाः (1.33) इत्यपां सूक्तैर्जुहुयात् ॥ कौश्स्_13,29{121}.1 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,29{121}.2 ॥]
शान्त्युदकाद्याज्यभागान्तं कृत्वा ऽहिरण्यवर्णाःऽ ऽयददःऽ (3.13) इत्यपां सूक्तैः सर्वैः आज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । अनुदकदेशे यद्यतिशयेन उदकं दृश्यते । उदकोन्मीलनशान्तिः समाप्ता ॥ ऊनत्रिंशी कण्डिका
अथ तिलाः समतला भवन्ति तत्र शान्तिरुच्यते-
[अथ यत्रैतत् तिलाः समतैला भवन्ति तत्र जुहुयात् ॥ कौश्स्_13,30{122}.1 ॥
अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा ॥ कौश्स्_13,30{122}.2 ॥
स यं द्विष्यात् तस्याशायां लोहितं ते प्र सिञ्चामि इति दक्षिणामुखः प्रसिञ्चेत् ॥ कौश्स्_13,30{122}.3 ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा ऽअनूनाय स्वाहाऽ इत्येतैश्चतुर्भिराज्यं जुहोति । स यं द्विष्यात् इति मन्त्रेण दक्षिणामुखो भूत्वा शान्त्युदकेन तिलान् सिञ्चेत् । पार्वणाद्युत्तरतन्त्रम् । यदा तैलं न भवति तदा शान्तिः । तिलाः समतैलभवने शान्तिः समाप्ता ॥ त्रिंशी कण्डिका
अथ वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगच्छेयुस्तत्र शान्तिरुच्यते-
[अथ यत्रैतद्वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगछेयुः ये अग्नयः (3.21) नमो देववधेभ्यः (6.13) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ कौश्स्_13,31{123}.1 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,31{123}.2 ॥]
शान्त्युदकाद्याज्यभागान्तं कृत्वा ऽये अग्नयःऽ, ऽनमो देववधेभ्यःऽ इत्येताभ्यां सूक्ताभ्यामाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वपादि गच्छेयुः शान्तिः ॥ एकत्रिंशी कण्डिका
अथ कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्ते शान्तिरुच्यते-
[अथ यत्रैतत् कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्तस्तत्र जुहुयात् ॥ कौश्स्_13,32{124}.1 ॥
त्वष्टा रूपाणि बहुधा विकुर्वञ्जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा ॥ कौश्स्_13,32{124}.2 ॥
अन्तर्गर्भेषु बहुधा सं तनोति जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा ॥ कौश्स्_13,32{124}.3 ॥
यद्युन्मृष्टं यदि वाभिमृष्टं तिरश्चीनर्थ उत मर्मृजन्ते । शिवं तद्देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः ॥ त्वष्ट्रे स्वाहा ॥ कौश्स्_13,32{124}.4 ॥
सव्यावृत्तान्युत या विश्वरूपा प्रत्यग्वृत्तान्युत या ते परुःषु । तान्यस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु ॥ त्वष्ट्रे स्वाहा इति हुत्वा ॥ कौश्स्_13,32{124}.5 ॥
त्वष्टा मे दैव्यं वचः (6.4) इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,32{124}.6 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,32{124}.7 ॥]
शान्त्युदकाद्याज्यतन्त्रं कृत्वा ऽत्वष्टा रूपाणि बहुधाऽ इति सूक्तेनाज्यं जुहुयात् । ऽत्वष्टा मे दैव्यं वचःऽ इत्येतेन सूक्तेन जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ द्वात्रिंशी कण्डिका
अथ यूपो विरोहति शान्तिरुच्यते-
[अथ यत्रैतद्यूपो विरोहति तत्र जुहुयात् ॥ कौश्स्_13,33{125}.1 ॥
यूपो विरोहञ्छतशाखो अध्वरः समावृतो मोहयिष्यन्यजमानस्य लोकान् । वेदाभिगुप्तो ब्रह्मणा परिवृतोऽथर्वभिः शान्तः सुकृतामेतु लोकम् ॥ यूपो ह्यरुक्षद्द्विषतां वधाय न मे यज्ञो यजमानश्च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥ वनस्पतये स्वाहा इति हुत्वा ॥ कौश्स्_13,33{125}.2 ॥
वनस्पतिः सह देवैर्न आगन् (12.3.15) इति जुहुयात् ॥ कौश्स्_13,33{125}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,33{125}.4 ॥]
शान्त्युदकाद्याज्यभागान्तं कृत्वा ऽयूपो विरोहञ्छतशाखःऽ इत्येतेनाज्यं जुहुयात् । ऽवनस्पतिः सह देवैर्नऽ इत्यृचा जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ त्रयस्त्रिंशी कण्डिका
अथ दिवोल्का पतति तदयोगक्षेमाशङ्कं भवत्यवृष्ट्याशङ्कं वा शान्तिरुच्यते-
[अथ यत्रैतद् दिवोल्का पतति तदयोगक्षेमाशङ्कं भवत्यवृष्ट्याशङ्कं वा ॥ कौश्स्_13,34{126}.1 ॥ तत्र]
राजा भूमिपतिर्विद्वांसं ब्रह्माणं वृणीयात् ॥ कौश्स्_13,34{126}.2 ॥
स वृतोऽरण्यस्यार्धमभिव्रज्य तत्र द्वादशरात्रमनुशुष्येत् ॥ कौश्स्_13,34{126}.3 ॥
स खलु पूर्वं नवरात्रमारण्यशाकमूलफलभक्षश्चाथोत्तरं त्रिरात्रं नान्यदुदकात् ॥ कौश्स्_13,34{126}.4 ॥
श्वो भूते सप्त धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी नीली पाटला सुरूपा बहुरूपा सप्तमी ॥ कौश्स्_13,34{126}.5 ॥
तासामेतद् द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति ॥ कौश्स्_13,34{126}.6 ॥
[द्वादश्याः प्रातर्यत्रैवासौ पतिता भवति तत उत्तरमग्निमुपसमाधाय ॥ कौश्स्_13,34{126}.7 ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः ॥ कौश्स्_13,34{126}.8 ॥
अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोघ्नैश्च सूक्तैः यामाहुस्तारकैषा विकेशी (5.17.4) इत्येतेन सूक्तेनाज्यं जुह्वन् ॥ कौश्स्_13,34{126}.9 ॥
अवपतिते सम्पातानानीय संस्थाप्य होमान् ॥ कौश्स्_13,34{126}.10 ॥]
द्वादश्याः प्रातर्यत्रैवासौ पतिता भवति ततः शान्त्युदकादि आज्यभागान्तं कृत्वा अमुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण होमं कुर्यात् । ऽस्तुवानम् (1.7)ऽ, ऽइदं हविः (1.8)ऽ इत्यादिचातनगणेन ऽयामाहुस्तारकैषा विकेशीऽ (5.17.4-18) इति सूक्तेन । सूक्तसमाप्तिं यावद् ग्रहणम् । एतैराज्यं जुहोति । अवपतिते सम्पातानानीय । उल्कादेशे सम्पाताः । पार्वणाद्युत्तरतन्त्रम् ॥
अवपतितं शान्त्युदकेन सम्प्रोक्ष्य ॥ कौश्स्_13,34{126}.11 ॥
ता एव ब्राह्मणो दद्यात् ॥ कौश्स्_13,34{126}.12 ॥
सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ कौश्स्_13,34{126}.13 ॥
[सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,34{126}.14 ॥]
सर्वत्र धेन्वादीनि च कंसवसनं च । उल्कापाते वा महानक्षत्रपाते च दिवा अहनि दिवा उल्कापातने शान्तिः समाप्ता ॥ चतुस्त्रिंशी कण्डिका
अथ धूमकेतुशान्तिरुच्यते-
[अथ यत्रैतद् धूमकेतुः सप्तर्षीनुपधूपयति तदयोगक्षेमाशङ्कमित्युक्तम् ॥ कौश्स्_13,35{127}.1 ॥
पञ्च पशवस्तायन्ते वारुणः कृष्णो गौर्वाजो वाविर्वा हरिर्वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश्च क्षीरौदनोऽपां नप्त्र उद्रः ॥ कौश्स्_13,35{127}.2 ॥
उतेयं भूमिः (4.16.3) इति त्रिर्वरुणमभिष्टूय ॥ कौश्स्_13,35{127}.3 ॥
अप्सु ते राजन् (7.83.1-4) इति चतसृभिर्वारुणस्य जुहुयात् ॥ कौश्स्_13,35{127}.4 ॥
वायवा रुन्धि नो मृगानस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठमा कृधि वातो हि रशनाकृतः इति वायव्यस्य ॥ कौश्स्_13,35{127}.5 ॥
आशानाम् (1.31) इति दिश्यस्य ॥ कौश्स्_13,35{127}.6 ॥
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि इति मारुतस्य ॥ कौश्स्_13,35{127}.7 ॥
अपामग्निः (4.15.10) इत्याग्नेयस्य ॥ कौश्स्_13,35{127}.8 ॥
प्रजापतिः सलिलात् (4.15.11) इति प्राजापत्यस्य ॥ कौश्स्_13,35{127}.9 ॥
अपां सूक्तैर्हिरण्यशकलेन सहोद्रमप्सु प्रवेशयेत् ॥ कौश्स्_13,35{127}.10 ॥
प्र हैव वर्षति ॥ कौश्स्_13,35{127}.11 ॥
सर्वस्वं तत्र दक्षिणा ॥ कौश्स्_13,35{127}.12 ॥
तस्य निष्क्रयो यथार्हं यथासम्पद्वा ॥ कौश्स्_13,35{127}.13 ॥]
एकतन्त्रे वा कुर्यात् पृथक्तन्त्रे वा कुर्यात् । द्वादशरात्रव्रतं शाकमूलफलभक्षो नवरात्रमश्नन्ति । एवं द्वादशरात्रौ भूत्वा त्रयोदशेऽहनि कर्मप्रयोगः । पाकतन्त्रमाज्यभागान्तं कृत्वा पञ्च पशवस्तायन्ते वारुणः कृष्णोऽजः वायवो हरितोऽजः दिश्यो बहुरूपोऽजः मारुती मेषी अपां नप्त्रे उद्रः जलविरालः बिडालो वा आग्नेयश्च प्राजापत्यश्च क्षीरौदनौ । मन्त्रमध्ये श्रपणम् । अन्वारब्धेभ्यः शान्त्युदकं करोति । तत्रैतत् सूक्तमनुयोजयतीत्युक्तम् । शान्त्युदकस्य च । महाशान्तिमुच्चैरभिनिगदन्तीति सकृत् एवमादीनि योजयितव्यानि । पशुविशसनादीनि वपाग्रहणं च सकृत् । सर्वेषां समानतन्त्रपक्षः । पूर्वप्रकृतिपक्षे आज्यतन्त्रं सर्वत्र वर्तते । यद्देवत्यः पशुस्तद्देवत्यश्चरुः श्रपयितव्यः । उदस्य पर्यग्निकरणान्तं कुर्यात् । वपाहोमान्ते पश्वितिकर्तव्यता । ततोऽवदानानि ददाति । जुहोतीत्यर्थः । ऽउतेयं भूमिःऽ इत्यृचाग्निप्रयोगः । वरुणं मनसा ध्यायेत् । ऽअप्सु ते राजन्ऽ इति चतसृभिः वारुणस्य पशोरवदानानि जुहुयात् प्रत्यृचं स्थालीपाकं च । तथा ऽवायवा रुन्धि नःऽ इति वायव्यस्य । ऽआशानाम्ऽ इति सूक्तेन प्रत्यृचं दिश्यस्य पशोः स्थालीपाकं चैव । ऽप्रति त्यं चारुमध्वरम्ऽ इत्यृचा मारुतस्य पशोरवदानं चरोश्च । ऽअपामग्निःऽ इत्यृचाग्नेयपशोराग्नेयं क्षीरौदनं जुहोति । ऽप्रजापतिः सलिलादाऽ इत्यृचा प्रजापतिक्षीरौदनं जुहोति द्वितीयाम् । ऽनिःसालाभित्युल्मुकेन त्रिः प्रसव्यं परिहरतिऽ (कौश्स् 44.11) इति । तन्त्रं कृत्वा ततोऽपां सूक्तैः सर्वैर्हिरण्यशकलेन सहोद्रमप्सु प्रवेशयेत् । पाशुकं तन्त्रं समापयेत् । यवैः स्विष्टकृतं ददाति । व्यापकरदापदार्थो भेदेन आरादुपकारतन्त्रेण भवति । एवं मीमांसा योजयितव्या । शेषं समानम् । तन्त्रपक्षे अतिदेशो विशेषातिदेशो योजयितव्यः । ऊहबाधाभ्युदयतन्त्रं मङ्गललक्षणानि योजयितव्यानि । समाप्ता धूमकेतुशान्तिः । धूमकेतु(चा)रे वा नान्यो धूमकेतुर्विद्यते । तथा केतुचारे-
उत्थानं चैव केतूनां विनाशायेति हि स्मृतम्.
तस्मा(दा)थर्वणैर्मन्त्रैः शमनं कारयेद् बुधः ॥
सर्वस्वं तत्र दक्षिणा । तस्य निष्क्रयो यथार्हं यथासम्पद्वा । केतु(चा)रे पठिता केतु(शान्तिः) । पञ्चत्रिंशी कण्डिका
अथ नक्षत्राणि पतन्ति तत्र शान्तिरुच्यते-
[अथ यत्रैतन्नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात् ॥ कौश्स्_13,36{128}.1 ॥
यन्नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात् । तस्मान्मामग्ने परि पाहि घोरात् प्र णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ कौश्स्_13,36{128}.2 ॥
सोमो राजा सविता च राजा इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,36{128}.3 ॥
सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यछन्तु देवाः ॥ आदित्यैर्नो बृहस्पतिर्भगः सोमेन नः सह । विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यछन्तु देवाः ॥ कौश्स्_13,36{128}.2 ॥
उताविद्वान् निष्कृदयाथोस्रघ्नी यथायथम् । मा नो विश्वे देवा मरुतो हेतिमिछत ॥ कौश्स्_13,36{128}.4 ॥
रुक्मं कर्त्रे दद्यात् ॥ कौश्स्_13,36{128}.5 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,36{128}.6 ॥]
शान्त्युदकाद्याज्यभागान्तं कृत्वा ऽयन्नक्षत्रं पतति जातवेदःऽ इत्येका, ऽसोमो राजाऽ इति सूक्तेनाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । रुक्मं कर्त्रे दद्यात् । धेन्वादीनि च । नक्षत्रपतने उपर्युपरिपतने बहुशःपतने रात्रौ वा दिवा वा सन्ध्यायां वा नक्षत्रपतने शान्तिः समाप्ता । सर्वत्र पूर्वं शान्त्युदकं कृत्वा तत उत्तरवेद्यादि करोति । केचित् प्रधानहोमं कृत्वा ततः शान्त्युदकं करोति । तत उत्तरतन्त्रम् ॥ षट्त्रिंशी कण्डिका
अथ मांसमुखो निपतति तत्र शान्तिरुच्यते-
[अथ यत्रैतन्मांसमुखो निपतति तत्र जुहुयात् ॥ कौश्स्_13,37{129}.1 ॥
घोरो वज्रो देवसृष्टो न आगन् यद्वा गृहान् घोरमुता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ रुद्राय स्वाहा इति हुत्वा ॥ कौश्स्_13,37{129}.2 ॥
भवाशर्वौ मृडतं माभि यातम् (11.2) इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,37{129}.3 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,37{129}.4 ॥]
तासामेतद् द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति । त्रयोदशेऽहनि शान्त्युदकाद्याज्यभागान्तं कृत्वा यथामुं नवनीतं सौवर्णस्थाल्यां विलाप्य सौत्रशान्तिरुच्यते । शान्त्युदकाद्याज्यभागान्तं कृत्वा ऽघोरो वज्रःऽ इत्यृचा, ऽभवाशर्वौ
मृडतम्ऽ इति सूक्तेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । गृध्रादिष्वाहिपतति मांसमुखः मांसं चागतगृहे मांसमुखे निपतनशान्तिः समाप्ता ॥ गृहे ग्रामे क्षेत्रे वा नगरे शिरसि अङ्गे वा मांसं पतति तत्र शान्तिः समाप्ता ॥ सप्तत्रिंशी कण्डिका
अथ यत्र अनग्निदेशे अग्निदर्शनं भवति तत्र शान्तिरुच्यते-
[अथ यत्रैतदनग्नाववभासो भवति तत्र जुहुयात् ॥ कौश्स्_13,38{130}.1 ॥
या तेऽवदीप्तिवरूपा जातवेदोऽपेतो रक्षसां भाग एषः । रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां सं सृजन्ते ॥ अग्नये स्वाहा इति हुत्वा ॥ कौश्स्_13,38{130}.2 ॥
अग्नी रक्षांसि सेधति (8.3.26) इति प्रायश्चित्तिः ॥ कौश्स्_13,38{130}.3 ॥]
ऽया तेऽवदीप्तिःऽ इत्येका ऽअग्नी रक्षांसिऽ इत्येका द्वाभ्यां जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । शान्त्युदकाद्याज्यभागान्तं कृत्वा । अनग्निदेशे गृहे ग्रामे क्षेत्रे वा यदि शालायां प्रदृश्यते अग्निदर्शनं च भवति । अग्निदर्शनं च शान्तिः समाप्ता ॥ अष्टात्रिंशी कण्डिका
अथाग्निशब्दकरणे शान्तिरुच्यते-
[अथ यत्रैतदग्निः श्वसतीव तत्र जुहुयात् ॥ कौश्स्_13,39{131}.1 ॥
श्वेता कृष्णा रोहिणी जातवेदो यास्ते तनूस्तिरश्चीना निर्दहन्तीः श्वसन्तीः । रक्षांसि ताभिर्दह जातवेदो या नः प्रजां मनुष्यां सं सृजन्ते ॥ अग्नये स्वाहा इति हुत्वा ॥ कौश्स्_13,39{131}.2 ॥
अग्नी रक्षांसि सेधति (8.3.26) इति प्रायश्चित्तिः ॥ कौश्स्_13,39{131}.3 ॥]
शान्त्युदकमाज्यभागान्तं कृत्वा ऽश्वेता कृष्णाऽ इत्यृचा ऽअग्नेरिवास्यऽ (7.45.2) इति द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । अग्निशब्दकरणे शान्तिः समाप्ता ॥ एकोनचत्वारिंशी कण्डिका
अथ सर्पिर्वा तैलं वा मधु वा विष्यन्दते तत्र शान्तिरुच्यते-
[अथ यत्रैतत् सर्पिर्वा तैलं वा मधु वा विष्यन्दति यद्यामं चक्रुर्निखनन्तः (6.116) इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,40{132}.1 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,40{132}.2 ॥]
शान्त्युदकमाज्यभागान्तं कृत्वा ऽयद्यामं चक्रुर्निखनन्तःऽ इत्येताभिश्चतसृभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । सर्पिस्तैलमधुक्षरणशान्तिः समाप्ता ॥ चत्वारिंशी कण्डिका
अथ लौकिकाग्निः शालां दहति तत्र शान्तिरुच्यते-
[अथ यत्रैतद्ग्राम्योऽग्निः शालां दहति अपमित्यमप्रतीत्तम् (6.117-119) इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा ॥ कौश्स्_13,41{133}.1 ॥
ममोभा मित्रावरुणा, मह्यमापो मधुमदरयन्ताम् (6.61) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ कौश्स्_13,41{133}.2 ॥
ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे ॥ मम विष्णुश्च सोमश्च ममैव मरुतो भवन् । सरस्वांश्च भगश्च विश्वे देवा वशे मम ॥ ममोभा द्यावापृथिवी अन्तरिक्षं स्वर्मम । ममेमाः सर्वा ओषधीरापः सर्वा वशे मम ॥ मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भवन् । ममेदं सर्वमात्मन्वदेजत् प्राणद्वशे मम इति ॥ कौश्स्_13,41{133}.3 ॥
अरणी प्रताप्य स्थण्डिलं परिमृज्य ॥ कौश्स्_13,41{133}.4 ॥
अथाग्निं जनयेत् ॥ कौश्स्_13,41{133}.5 ॥
इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन् इति जनयित्वा ॥ कौश्स्_13,41{133}.6 ॥
भवतं नः समनसौ समोकसौ (कौश्स् 108.2) इत्येतेन सूक्तेन जुहुयात् ॥ कौश्स्_13,41{133}.7 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,41{133}.8 ॥]
शान्त्युदकमाज्यभागान्तं कृत्वा ऽअपमित्यमप्रतीत्तम्ऽ इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं जुहुयात् । ऽममोभाऽ
इति कल्पजं सूक्तं ऽमह्यमापःऽ इति सूक्तं द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । तत अरणी प्रताप्य स्थण्डिलं परिमृज्य अथाग्निं मन्थति । ऽइत एव प्रथमं जज्ञेऽ इत्यृचा मन्थनम् । तत आज्यभागान्तं कृत्वा ऽभवतं नः समनसौऽ इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । ग्रामदाघे गृहदाघे अग्निशालाशान्तिमण्डपकुटीगोशालादाघे सर्वाग्निदाघे शान्तिः समाप्ता । शान्त्युदकेन सर्वत्र कारयित्रा वाचमनप्रोक्षणे भवतः । सर्वत्राद्भुतस्थानप्रोक्षणं गृहग्रामादिप्रोक्षणं सर्वं कुर्यात् । सर्वत्र मातरं श्राद्धम् । ऽब्राह्मणान् भक्तेनोपेप्सन्तिऽ (कौश्स् 136.12) इति वचनात् । ग्राम्योऽग्निदाघशान्तिः । एकचत्वारिंशी कण्डिका
अथ स्वयमग्निरुत्थिते विद्युते वा पतिते शान्तिरुच्यते-
[अथ चेदागन्तुर्दहत्येवमेव कुर्यात् ॥ कौश्स्_13,42{134}.1 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,42{134}.2 ॥]
शान्त्युदकमाज्यभागान्तं कृत्वा ऽअपमित्यमप्रतीत्तम्ऽ इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा ऽममोभाऽ इति सूक्तं ऽमह्यमापःऽ इति सूक्तं च द्वाभ्यामाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । तस्मिन्नग्नौ अरणिप्रतापनम् । स्थण्डिलं गोमयेन परिलिप्याग्निमन्थनम् । ऽइत एव प्रथमं जज्ञेऽ इत्यृचा । तत आज्यभागान्तं कृत्वा ऽभवतं नः समनसौऽ इत्येतेन सूक्तेनाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । विद्युते दाघे गृहे स्वयं प्रकृतिदाघे शान्तिः समाप्ता ॥ द्विचत्वारिंशी कण्डिका
अथ वंशबलहरणभङ्गे शान्तिरुच्यते-
[अथ यत्रैतद्वंशः स्फोटति कपालेऽङ्गारा भवन्त्युदपात्रं बर्हिराज्यं तदादाय ॥ कौश्स्_13,43{135}.1 ॥
शालायाः पृष्ठमुपसर्पति ॥ कौश्स्_13,43{135}.2 ॥
तत्राङ्गारान् वा कपालं वोपनिदधात्या सन्तपनात् ॥ कौश्स्_13,43{135}.3 ॥
प्राञ्चमिध्ममुपसमाधाय ॥ कौश्स्_13,43{135}.4 ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य ॥ कौश्स्_13,43{135}.5 ॥
परिचरणेनाज्यं परिचर्य ॥ कौश्स्_13,43{135}.6 ॥
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ कौश्स्_13,43{135}.7 ॥
अथ जुहोति ॥ कौश्स्_13,43{135}.8 ॥
असौ वै नाम ते मातासौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशमधि तिष्ठति ॥ उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता । समन्दधानस्ते दूतः स्ववंशमधि तिष्ठति ॥ बहवोऽस्य पाशा वितताः पृथिव्यामसङ्ख्येया अपर्यन्ता अनन्ताः । याभिर्वंशानभिनिदधाति प्राणिनां यान् कांश्चेमान् प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं मृत्यवे स्वाहा ॥ बृहस्पतिराङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्रददुर्विश्वमेजत् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु निवेशं बृहस्पतय आङ्गिरसाय स्वाहा ॥ यस्य तेऽन्नं न क्षीयते भूय एवोपजायते । यस्मै भूतं च भव्यं च सर्वमेतत् प्रतिष्ठितम् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमिन्द्राय स्वाहा ॥ मुखं देवानामिह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमग्नये स्वाहा ॥ यः पृथिव्यां च्यावयन्नेति वृक्षान् प्रभञ्जनेन रथेन सह संविदानः । रसान् गन्धान् भावयन्नेति देवो मातरिश्वा भूतभव्यस्य कर्ता । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं वायवे स्वाहा ॥ ब्रह्मचारी चरति ब्रह्मचर्यमृचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः । तं विशो अनुपरियन्ति सर्वाः कर्माणि लोके परिमोहयन्ति । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमादित्याय स्वाहा ॥ यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सह संविदानः । रूपंरूपं कृण्वानश्चित्रभानुः सुभानुः । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं चन्द्राय स्वाहा ॥ ओषधयः सोमराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमोषधीभ्यः सोमराज्ञीभ्यः स्वाहा ॥ क्क्प्_ ओषधयो वरुणराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमोषधीभ्यो वरुणराज्ञीभ्यः स्वाहा ॥ अष्टस्थूणो दशपक्षो यदृछजो वनस्पते । पुत्रांश्चैव पशूंश्चाभि रक्ष वनस्पते ॥ यो वनस्पतीनामुपतापो बभूव यद्वा गृहान् घोरमुता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ यो वनस्पतीनामुपतापो न आगद्यद्वा यज्ञं
नोऽद्भुतमा जगाम । सर्वे तदग्ने हुतमस्तु भागशः शिवान् वयमुत्तरेमाभि वाजान् ॥ त्वष्ट्रे स्वाहा इति हुत्वा ॥ कौश्स्_13,43{135}.9 ॥
त्वष्टा मे दैव्यं वचः (6.4) इत्यत्रोदपात्रं निनयति ॥ कौश्स्_13,43{135}.10 ॥
कपालेऽग्निं चादायोपसर्पति ॥ कौश्स्_13,43{135}.11 ॥
सा तत्र प्रायश्चित्तिः ॥ कौश्स्_13,43{135}.12 ॥]
शान्त्युदकं कृत्वा कपालेऽग्निं कृत्वा उदपात्रं बर्हिराज्यं तदादाय शालायामुपरि गूढकर्म करोति । शालायाः पृष्ठे गत्वा तत्र कपालानि वा उपनिदधाति आ सन्तपनात् । प्राञ्चमिध्ममुपसमाधाय परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरित्यादि आज्यभागान्तं कृत्वा ऽअसौ वै नाम ते माताऽ इति सूक्तेनाज्यं जुहोति । ऽत्वष्टा मे दैव्यं वचःऽ इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । उदपात्रं निनयति । कपालेऽग्निं चादायोपसर्पति । गृहवंशभग्ने गृहवंशदाघे च शान्तिः समाप्ता ॥ त्रिचत्वारिंशी कण्डिका
[अथ यत्रैतत् कुम्भोदधानः सक्तुधानी वोखा वानिङ्गिता विकसति तत्र जुहुयात् ॥ कौश्स्_13,44{136}.1 ॥
भूमिर्भूमिमगान्न्माता मातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् इति ॥ कौश्स्_13,44{136}.2 ॥]
अथ कुम्भे भग्ने उदधाने सक्तुधानी वोखा वा विकसति तत्र शान्त्युदकं कृत्वा आज्यभागान्तं कृत्वा ऽभूमिर्भूमिमगात्ऽ इत्यृचाज्यं जुहुयात् ॥
[सदसि सन्मे भूयात् इति सक्तूनावपेत् ॥ कौश्स्_13,44{136}.3 ॥]
ऽसदसि सन्मे भूयात्ऽ इति मन्त्रेणान्यस्यां नवतरायां सक्तुधान्यां सक्तूनावपेत् ॥
[अथ चेदोदनस्य अन्नमस्यन्नं मे देह्यन्नं मा मा हिंसीः इति त्रिः प्राश्य ॥ कौश्स्_13,44{136}.4 ॥
अथ यथाकामं प्राश्नीयात् ॥ कौश्स्_13,44{136}.5 ॥]
अथ चेदोदनस्य ऽअन्नमस्यन्नं मे देह्यन्नं मा मा हिंसीःऽ इति मन्त्रेणान्यस्यां प्रक्षिप्यानुमन्त्रयते । त्रिः प्राश्य । अथ कर्ता न वा प्राशयति ॥
[अथ चेदुदधानः स्यात् समुद्रं वः प्र हिणोमि (10.5.23-24) इत्येताभ्यामभिमन्त्र्य ॥ कौश्स्_13,44{136}.6 ॥
अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा ॥ कौश्स्_13,44{136}.7 ॥
तत्र हिरण्यवर्णाः (1.33) इत्युदकमासेचयेत् ॥ कौश्स्_13,44{136}.8 ॥]
अथ चेदुदककलशं भज्यते ऽसमुद्रं वः प्र हिणोमिऽ इति द्वाभ्यामृग्भ्यामभिमन्त्र्यान्यं कृत्वा उदककलशं नवं कुर्यात् । ऽआ त्वाहार्षम्ऽ (6.87) ऽध्रुवा द्यौःऽ (6.88) इति सूक्ताभ्यामभिमन्त्र्य नवमुदककलशं ऽहिरण्यवर्णाःऽ इति सूक्तेन उदकमभिमन्त्र्य कलशं निनयेत् । अथास्मिन् स्थाने केचित् शान्त्युदकं कुर्वन्ति । पार्वणाद्युत्तरतन्त्रम् । उदकस्थाल्यां भग्नायां व्रीह्यादि पूल्ये उदकधान्यां सक्तुधान्यां वा कुम्भ उखाग्निहोत्रस्थाल्यादिभाण्डे भिन्ने भग्ने उदकपूर्णकलशे भग्ने शान्तिः समाप्ता । शान्त्युदकं कृत्वा वेद्यादितन्त्रं करोति रुद्रमतम् । प्रधानहोमानन्तरं शान्त्युदकं कुर्यादिति दारिलमतम् । अद्भुतानि समाप्तानि ॥
स खल्वेतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनान्यनुयोजयन्मातृनामानि च ॥ कौश्स्_13,44{136}.9 ॥
सर्वत्र वरां धेनुं कर्त्रे दद्यात् ॥ कौश्स्_13,44{136}.10 ॥
सर्वत्र कंसवसनं गौर्दक्षिणा ॥ कौश्स्_13,44{136}.11 ॥
ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ कौश्स्_13,44{136}.12 ॥
[यथोद्दिष्टं चादिष्टास्विति प्रायश्चित्तिः प्रायश्चित्तिः ॥ कौश्स्_13,44{136}.13 ॥]
श्राद्धं कुर्यात् । अद्भुतमन्तेषु यत् पतितं तद् ऽअग्नय इन्द्राग्निभ्याम् आदित्याय उषस्यै स्वाहाऽ इति । ऽसमायै स्वाहाऽ इति । ऽभद्राय स्वाहाऽ इति । ऽइन्द्राय स्वाहाऽ इति । ऽअभयायै स्वाहाऽ इति । ऽक्षेत्रे स्वाहाऽ इति । विनायकस्नपनईशानयागाभिपश्यैते पठिताः । तस्यानि कर्तव्यानि । ग्रहनक्षत्रादिपक्षः सर्वत्र कार्यः । तत्र श्लोकः-
यानि देशे कुले वापि अद्भुतं यत्र दृश्यते.
स विनश्यति जानीयात् तस्य शान्तिस्त्रयोदशे ॥
चतुश्चत्वारिंशी कण्डिका
इति कौशिकपद्धतौ त्रयोदशोऽध्यायः समाप्तः ॥
अथ चतुर्दशोऽध्यायः
[आज्यतन्त्रम्]
[यथावितानं यज्ञवास्त्वध्यवस्येत् ॥ कौश्स्_14,1{137}.1 ॥
वेदिर्यज्ञस्याग्नेरुत्तरवेदिः ॥ कौश्स्_14,1{137}.2 ॥
उभे प्रागायते किञ्चित् प्रथीयस्यौ पश्चादुद्यततरे ॥ कौश्स्_14,1{137}.3 ॥
अपृथुसम्मितां वेदिं विदध्यात् ॥ कौश्स्_14,1{137}.4 ॥
षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम् ॥ कौश्स्_14,1{137}.5 ॥
त्रीन् मध्ये अर्धचतुर्थानग्रतः ॥ कौश्स्_14,1{137}.6 ॥
त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात् ॥ कौश्स्_14,1{137}.7 ॥
द्विःशमीं प्रागायतामृज्वीमध्यर्धशमीं श्रोण्याम् ॥ कौश्स्_14,1{137}.8 ॥]
यथावितानं यज्ञवास्त्वध्यवस्येत् । सम्भारलक्षणे उक्तं यथावितानं च मण्डपं कारयेत् ॥
[ग्रीष्मस्ते भूमे (12.1.36) इत्युपस्थाय ॥ कौश्स्_14,1{137}.9 ॥
वि मिमीष्व पयस्वतीम् (13.1.27) इति मिमानमनुमन्त्रयते ॥ कौश्स्_14,1{137}.10 ॥]
ऽअव्यसश्चऽ (19.68) इति । बर्हिर्लवनं कृत्वा ऽग्रीष्मस्ते भूमेऽ इत्यृचा उपस्थाय ऽवि मिमीष्वऽ इत्यृचा शान्तवृक्षकाष्ठं मिमानमनुमन्त्रयते । षट्शमीं प्राङायतां चतुर्हस्तान् श्रोण्यां त्रीन् मध्ये अर्धचतुर्थानग्रतः ॥
[बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा णः पृथिवी देव्यस्तु इति परिगृह्णाति ॥ कौश्स्_14,1{137}.11 ॥]
ऽबृहस्पते परि गृहाणऽ इत्यृचा वेदिं परिगृह्णाति । त्रिर्मन्त्रावृत्तिः ॥
[यत्ते भूमे (12.1.35) इति विखनति ॥ कौश्स्_14,1{137}.12 ॥]
ऽयत्ते भूमेऽ इति वेदिं खनति ॥
[यत्त ऊनम् (12.1.61) इति संवपति ॥ कौश्स्_14,1{137}.13 ॥]
ऽयत्त ऊनम्ऽ इत्यर्धर्चेन वेदिं समीकरोति ॥
[त्वमस्यावपनी जनानाम् (12.1.61) इति ततः पांसूनन्यतोदाहार्य ॥ कौश्स्_14,1{137}.14 ॥]
ऽत्वमस्यावपनी जनानाम्ऽ इत्यर्धर्चेन वेदिं पांसुना पूरयति । त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात् । द्विःशमीं प्राङायतामृज्वीमध्यर्धशमीं श्रोण्याम् ॥
[बृहस्पते परि गृहाण वेदिम् इत्युत्तरवेदिमोप्यमानां परिगृह्णाति ॥ कौश्स्_14,1{137}.15 ॥]
ऽबृहस्पते परि गृहाणऽ इत्युत्तरवेदिमोप्यमानां परिगृह्णाति । त्रिर्मन्त्रावृत्तिः ॥
[असम्बाधं बध्यतो मानवानाम् (12.1.2) इति प्रथयति ॥ कौश्स्_14,1{137}.16 ॥]
ऽअसम्बाधं बध्यतो मानवानाम्ऽ इत्यृचा प्रथयति ॥
यस्याश्चतस्रः प्रदिशः पृथिव्याः (12.1.4) इति चतुरस्रां करोति ॥ कौश्स्_14,1{137}.17 ॥
[देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा ददे इति लेखनमादाय यत्राग्निं निधास्यन्
भवति तत्र लक्षणं करोति ॥ कौश्स्_14,1{137}.18 ॥]
ऽदेवस्य त्वाऽ इति मन्त्रेण लेखनमादाय यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति ॥
इन्द्रः सीतां नि गृह्णातु (3.17.4) इति दक्षिणत आरभ्योत्तरत आलिखति ॥ कौश्स्_14,1{137}.19 ॥
प्राचीमावृत्य दक्षिणतः प्राचीम् ॥ कौश्स्_14,1{137}.20 ॥
अपरास्तिस्रो मध्ये ॥ कौश्स्_14,1{137}.21 ॥
तस्यां व्रीहियवावोप्य ॥ कौश्स्_14,1{137}.22 ॥
[वर्षेण भूमिः पृथिवी वृतावृता (12.1.52) इत्यद्भिः सम्प्रोक्ष्य ॥ कौश्स्_14,1{137}.23 ॥]
ऽवर्षेण भूमिःऽ इत्यर्धर्चेनाद्भिः सम्प्रोक्ष्य ॥
[यस्यामन्नं व्रीहियवौ (12.1.42) इति भूमिं नमस्कृत्य ॥ कौश्स्_14,1{137}.24 ॥]
ऽयस्यामन्नं व्रीहियवौऽ इत्यृचा नमस्कृत्य ॥
[अथाग्निं प्रणयेत् त्वामग्ने भृगवो नयन्तामङ्गिरसः सदनं श्रेय एहि । विश्वकर्मा पुर एतु प्रजानन् धिष्ण्यं पन्थामनु ते दिशाम इति ॥ कौश्स्_14,1{137}.25 ॥]
अथाग्निं प्रणयेत् । ऽत्वामग्नेऽ इत्यृचा वेद्यामग्निप्रणयनम् ॥
[भद्रश्रेयःस्वस्त्या वा ॥ कौश्स्_14,1{137}.26 ॥
अग्ने प्रेहि (4.14.5) इति वा ॥ कौश्स्_14,1{137}.27 ॥]
अथवा भद्रश्रेयःस्वस्त्या वा । अग्ने प्रेहि इति वा । वेद्यग्नौ अपि निवावेषु । अनयोरृचा प्रणयनम् ॥
[विश्वम्भरा वसुधानी प्रतिष्ठा (12.1.6) इति लक्षणे प्रतिष्ठाप्य ॥ कौश्स्_14,1{137}.28 ॥]
ऽविश्वम्भरा वसुधानी प्रतिष्ठाऽ इत्यृचा वेद्या लक्षणे प्रतिष्ठापनम् ॥
[अथेध्ममुपसमादधाति ॥ कौश्स्_14,1{137}.29 ॥]
ऽममाग्ने वर्चःऽ (5.3.1) इत्यृचा समिध आदधाति तिस्रः । यत्र स्थण्डिलकर्म प्रयोजनार्थं तत्राग्निप्रतिष्ठापनम् । हस्तहोमादि तन्त्रम् । सर्वत्र लक्षणम् । ऽआ ददेऽ (कौश्स् 137.18) इत्याद्यग्निप्रतिष्ठापनान्तं समन्त्रकं भवति सर्वत्र । अयुतहोमे लक्षहोमे कोटिहोमे ग्रहयज्ञसमित्सु अन्यत्र व्रीहियवतिलसमित्पुरोडाशादि तन्त्रविकल्पात् तत्र सर्वत्राग्निप्रतिष्ठापनमनेन विधानेन कर्तव्यम् । ऽयत्राग्निं निधास्यन् भवति तत्र लक्षणं करोतिऽ (कौश्स् 137.18) इति वचनात् । नास्ति वचनस्यातिभारः प्रापयतः । व्रतग्रहणम् । दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्य पवित्रे कुरुते । ऽविष्णोर्मनसा पूते स्थःऽ इति पवित्रकरणम् । ऽअग्नये त्वा जुष्टं प्रोक्षामिऽ इति पवित्रेणेध्मप्रोक्षणम् ॥
[अग्निर्भूम्यामोषधीषु, अग्निर्दिव आ तपति, अग्निवासाः पृथिव्यसितज्ञूः (12.1.19-21) एतमिध्मं समाहितं जुषाणः (10.6.35), अस्मै क्षत्राणि धारयन्तमग्ने (7.78.2) इति पञ्चभिः स्तरणम् ॥ कौश्स्_14,1{137}.30 ॥]
ऽअग्निर्भूम्याम्ऽ इति तिसृभिः, ऽएतमिध्मं समाहितं जुषाणःऽ, ऽअस्मै क्षत्राणि धारयन्तमग्नेऽ इति द्वाभ्याम्, एताभिः पञ्चभिरृग्भिः पञ्चेध्म आदधाति । केचिद् विंशतिसमिध आदधाने मन्यन्ते ॥
[अत ऊर्ध्वं बर्हिषः ॥ कौश्स्_14,1{137}.31 ॥
त्वं भूमिमत्येष्योजसा (19.33.3) इति दर्भान् सम्प्रोक्ष्य ॥ कौश्स्_14,1{137}.32 ॥]
ऽत्वं भूमिम्ऽ इत्यृचा बर्हिःप्रोक्षणम् । बर्हिः सम्भारलक्षणे उक्ता ॥
ऋषीणां प्रस्तरोऽसि इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधाति ॥ कौश्स्_14,1{137}.33 ॥
ब्रह्मास्थापनम् । ऽभूपतेऽ इति वरणविधानेन वरणम् ॥
पुरस्तादग्नेरुदक् संस्तृणाति ॥ कौश्स्_14,1{137}.34 ॥
तथा प्रत्यक् ॥ कौश्स्_14,1{137}.35 ॥
प्रदक्षिणं बर्हिषां मूलानि छादयन्तोत्तरस्या वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य ॥ कौश्स्_14,1{137}.36 ॥
स्तरणम् । स्तीर्णप्रोक्षणम् ॥
[अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतरः इति ब्रह्मासनमन्वीक्षते ॥ कौश्स्_14,1{137}.37 ॥
निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति दक्षिणा तृणं निरस्यति ॥ कौश्स्_14,1{137}.38 ॥
तदन्वालभ्य जपति इदमहमर्वाग्वसोः सदने सीदाम्यृतस्य सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृष देव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् ॥ कौश्स्_14,1{137}.39 ॥
विमृग्वरीम् (12.1.29) इत्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयम् ॥ कौश्स्_14,1{137}.40 ॥
पातं मा द्यावापृथिवी अद्याह्नः इति द्यावापृथिव्यौ समीक्षते ॥ कौश्स्_14,1{137}.41 ॥]
ऽअहे दैधिषव्यऽ इत्याद्यात्मासनसंस्कारः ॥
[सविता प्रसवानाम् (5.24) इति कर्मणिकर्मण्यभितोऽभ्यातानैराज्यं जुहुयात् ॥ कौश्स्_14,1{137}.42 ॥
व्याख्यातं सर्वपाकयज्ञियं तन्त्रम् ॥ कौश्स्_14,1{137}.43 ॥]
उदपात्रस्थापनमुक्तम् । आज्यसंस्कार उक्तः । स्रुवग्रहणमुक्तम् । स्रुवलक्षणे स्रुव उक्तः । स्रुचः पात्रलक्षणे उक्ताः । ग्रहग्रहणं पाकयज्ञं उक्तम् । पुरस्ताद्धोम आज्यभागौ च एतत् सर्वं पाकयज्ञे उक्तम् । सर्वत्र आज्यतन्त्रे अभ्यातानानि जुहोति । यत्र कुत्रचित् आज्यतन्त्रेण प्रयोजनं तत्र सर्वत्रतत् पूर्वतन्त्रम् । सर्वत्र अभ्यातानानि भवन्ति । पाकतन्त्रे अभ्यातानानि न भवन्ति । अद्भुतेषु न भवन्ति । अन्यत्र सर्वत्र भवन्ति । यत्र बहूनि प्रधानकर्माणि एकस्मिन् तत्र क्रियन्ते तत्र अन्तरा अन्तरा अभ्यातानानि हुत्वा क्रियन्ते । तन्त्रमेकमेव । पाकतन्त्रेऽपि आज्यतन्त्रस्य प्रधानं यदि क्रियते एकतन्त्रे तदा तस्मिन् तन्त्रे प्रधानं कृत्वा अभ्यातानानि हुत्वा आज्यतन्त्रप्रधानं कुर्यादिति । यथा आश्यबन्ध्याप्लवनादि । तत अभ्यातानाद्युत्तरतन्त्रम् । न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं कुर्यात् । अथवा कुर्यात् । यत्र आज्यं जुहोति तत्र तन्त्रं कुर्यात् एतत् सर्वत्र बोद्धव्यम् । आज्यतन्त्रं समाप्तम् ॥ चतुर्दशेऽध्याये प्रथमा कण्डिका
मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0