भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · श्लोक 9-28

9

]
आचार्यो मन्यते । सर्वे ते कर्तारोऽविकल्पं मन्यन्ते । यत्रोदकेन कर्म तत्र सर्वत्र शान्त्युदकं कुर्यात् । आचमनप्रोक्षणावसेचनाप्लवनादीनि सर्वाणि प्रयोजनानि शान्त्युदकेन कार्याणि । यत्र पठितं तत्र कुर्यात्.
शान्त्युदकस्य प्रयोजनत्रितयं कल्पपञ्चके.
पठितं सूत्रकारैश्च श्रौतस्मार्तेषु कर्मसु ॥
कारयितुः प्रोक्षणाचमनद्वितयं सर्वदैव हि.
अग्नीनां तु तथा कुर्यात् श्रौते स्मार्ते द्वितीयकम् ॥
प्रोक्षणं वास्तुशालायास्तृतीयं परिकीर्तितम्.
आप्लवनावसेचनानि सर्वाणि पठितानि च ॥
शान्त्युदकेन कुर्वीत प्रयोजनैर्विना सदा.
कल्पसूत्रैर्न दृष्टं यत् तदयुक्तं कदाचन ॥
यत्र पुनः पठितमुदकेन प्रयोजनं तत्र सर्वत्र कर्ममध्ये केवलं वा कुर्यात् शान्त्यर्थम् । यत्र शान्त्युदकं तत्र कारयितुर्नित्यमाचमनं प्रोक्षणं च भवति । वास्तुप्रोक्षणं च । समाप्तं शान्त्युदकं कर्म । परिभाषा समाप्ता ॥ नवमी कण्डिका

10

तत्र भद्रश्लोकः -
प्रमाणं पार्वणे चैव प्रकृतित्वात् परीक्षिते.
परिभाषा च सर्वार्था प्रथमे संहिताविधौ ॥
इति प्रथमोऽध्यायः ॥
अथ द्वितीयोऽध्यायः
[मेधाजननकर्माणि]
[पूर्वस्य मेधाजननानि ॥ कौश्स्_2,1{10}.1 ॥]
मेधाजननविधिं वक्ष्यामः ॥
[शुकसारिकृशानां जिह्वा बध्नाति ॥ कौश्स्_2,1{10}.2 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ (1.1) इति सूक्तेन शुकजिह्वां सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति मेधाकामः । अभ्यातानाद्युत्तरतन्त्रम् । अथवाऽभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन सारिजिह्वां सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति मेधाकामः । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन कृशजिह्वां सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । प्रतिकर्म मेधाकामोऽनुवर्तते ब्रह्मचारिसाम्पदेभ्यः कर्मभ्यो यावत् । सर्वत्र कर्मणां विकल्पः ॥
[आशयति ॥ कौश्स्_2,1{10}.3 ॥]
अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन शुकजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । तत उत्तरतन्त्रम् । मेधाकामः । पुनस्तन्त्रं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन सारिजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । अभ्यातानाद्युत्तरतन्त्रम् । मेधाकामः । अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन कृशजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । शुकः प्रसिद्धः । सारि सरण्टिका प्रसिद्धा । कृशो भारद्वाजः । तत उत्तरतन्त्रम् ॥
[औदुम्बरपलाशकर्कन्धूनामादधाति ॥ कौश्स्_2,1{10}.4 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन औदुम्बरसमिध आदधाति । हस्तहोमत्वात् तन्त्रविकल्पः । ऽये त्रिषप्ताःऽ इति सूक्तेन पलाशसमिध आदधाति । तन्त्रविकल्पः । ऽये त्रिषप्ताःऽ इति सूक्तेन कर्कन्धूसमिध आदधाति । कर्कन्धू बृहद्बदरी । तन्त्रविकल्पः ॥
[आवपति ॥ कौश्स्_2,1{10}.5 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन व्रीहीनावपति । ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति । ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति ॥
[भक्षयति ॥ कौश्स्_2,1{10}.6 ॥]
अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । अभ्यातानान्ते ऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । रसप्राशनं सर्वत्र ऽत्वे क्रतुम्ऽ (5.2.3) इत्यृचा कर्तव्यम् ॥
[उपाध्यायाय भैक्षं प्रयच्छति ॥ कौश्स्_2,1{10}.7 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनोपनयनानन्तरं द्वादशरात्रमपक्वं पक्वं वा प्रत्यहं बहुभैक्ष्यमेकत्र कृत्वाभिमन्त्र्योपाध्यायाय ददाति ॥
[सुप्तस्य कर्णमनुमन्त्रयते ॥ कौश्स्_2,1{10}.8 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन सुप्तस्योपाध्यायस्य कर्णमनुमन्त्रयते ब्रह्मचारी । ब्रह्मचारिणः कर्णं वा बालस्य कर्णं वा पिता वाभिमन्त्रणं कुर्यात् ॥
[उपसीदञ्जपति ॥ कौश्स्_2,1{10}.9 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तं यदा यदोपाध्यायगृहं याति तदा तदा जपति ब्रह्मचारी ॥
[धानाः सर्पिर्मिश्राः सर्वहुताः ॥ कौश्स्_2,1{10}.10 ॥]
अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन धानाः सर्पिर्मिश्राः सर्वा जुहोति प्रत्यृचम् । उत्तरतन्त्रम् ॥
[तिलमिश्रा हुत्वा प्राश्नाति ॥ कौश्स्_2,1{10}.11 ॥]
अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन तिलमिश्रा हुत्वा ततः प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते ॥ कौश्स्_2,1{10}.12 ॥
सूक्तस्य पारं गत्वा प्रयच्छति ॥ कौश्स्_2,1{10}.13 ॥
सुकृज्जुहोति ॥ कौश्स्_2,1{10}.14 ॥
दण्डधानाजिनं ददाति ॥ कौश्स्_2,1{10}.15 ॥]
स्थण्डिलेऽग्निं कृत्वा पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धानाः कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेनानुमन्त्र्य दण्डधानाजिनं ददात्युपाध्यायाय । अभ्यातानान्तं कृत्वा पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धानाः कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन सकृज्जुहोति दण्डधानाजिनं ददाति । तत उत्तरतन्त्रम् ॥
जातकर्मोच्यते -
[अहं रुद्रेभिः (4.2) इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक्स्तनग्रहात् प्राशयति ॥ कौश्स्_2,1{10}.16 ॥]
कर्मविकल्पः । ऽअहं रुद्रेभिःऽ इति सूक्तेन शुक्लपुष्पहरितपुष्पे पिष्ट्वाभिमन्त्र्य हिरण्यशकलेन प्राशयति प्राक् स्तनग्रहणात् । इति जातकर्म । शुक्लपुष्पहरितपुष्पे इति । शङ्खपुष्पिकान्धपुष्पिकेति प्रसिद्धे । ऽअहं रुद्रेभिःऽ इति सूक्तेन शङ्खनाभिं पिप्पलीं च पिष्ट्वाभिमन्त्र्य प्राशयति जातरूपशकलेन प्राक् स्तनग्रहणात् । इति जातकर्म ॥
[प्रथमप्रवदस्य मातुरुपस्थे तालुनि सम्पातानानयति ॥ कौश्स्_2,1{10}.17 ॥]
अभ्यातानान्तं कृत्वा ऽअहं रुद्रेभिःऽ इति सूक्तेन माणवकं मातुरुत्सङ्गे कृत्वा तालुनि सम्पातानानयति । सम्यग्वचनकामो मेधाकामश्च । प्रथमप्रवदस्य । अभ्यातानाद्युत्तरतन्त्रम् ॥
[दधिमध्वाशयति ॥ कौश्स्_2,1{10}.18 ॥]
अभ्यातानान्तं कृत्वा ऽअहं रुद्रेभिःऽ इति सूक्तेन दधिमधुनी एकत्रासाद्य सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[उपनीतं वाचयति वार्षशतिकं कर्म ॥ कौश्स्_2,1{10}.19 ॥]
अभ्यातानान्तं कृत्वा ऽअहं रुद्रेभिःऽ इति सूक्तं ब्रह्मचारिणं वाचयति । दण्डप्रदानं कृत्वोपनयने नित्यं वाचनम् । ऽअहं रुद्रेभिःऽ इति शुक्लपुष्पेत्यादि पञ्च कर्माण्यायुष्कामोऽपि करोति । ऽवार्षशतिकं कर्मऽ इति वाचनात् ॥
[त्वं नो मेधे (6.108) द्यौश्च मे (12.1.53) इति भक्षयति ॥ कौश्स्_2,1{10}.20 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽत्वं नो मेधेऽ इति पञ्चर्चेन सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽत्वं नो मेधेऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वा ऽत्वं नो मेधेऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति । ऽत्वे क्रतुम्ऽ
(5.2.3) इति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽद्यौश्च म इदं पृथिवी चऽ (12.1.53) इत्येकया क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽद्यौश्च मेऽ इत्यृचा पुरोडाश सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽद्यौश्च मेऽ इत्यृचा रसान् सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[दित्यमुपतिष्ठते ॥ कौश्स्_2,1{10}.21 ॥]
ऽत्वं नो मेधेऽ इति सूक्तेनादित्यमुपतिष्ठते । ऽद्यौश्च मेऽ इत्यृचादित्यमुपतिष्ठते । सर्वत्र मेधाकामः ॥
[यदग्ने तपसा (7.61) इत्याग्रहायण्यां भक्षयति ॥ कौश्स्_2,1{10}.22 ॥]

आग्रहायण्यां पौर्णमास्यां तन्त्रं कृत्वा ऽयदग्ने तपसाऽ इति द्वाभ्यामृग्भ्यां रौदनं सम्पात्याभिमन्त्र्य भक्षयेत् । अभ्यातानाद्युत्तरतन्त्रम् । मार्गशीर्षपौर्णमास्यां तन्त्रं कृत्वा ऽयदग्ने तपसाऽ इति द्वाभ्यां पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयेत् । अभ्यातानाद्युत्तरतन्त्रम् । मार्गशीर्षपौर्णमास्यां तन्त्रं कृत्वा ऽयदग्ने तपसाऽ इत्यृग्भ्यां रसान् सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् ॥
[अग्निमुपतिष्ठते ॥ कौश्स्_2,1{10}.23 ॥]
ऽयदग्ने तपसाऽ इति द्वाभ्यामग्निमुपतिष्ठते मार्गशीर्षपौर्णमास्यामेव ॥
[प्रातरग्निं (3.16) गिरावरगराटेषु (6.69) दिवस्पृथिव्याः (9.1) इति संहाय मुखं विमार्ष्टि ॥ कौश्स्_2,1{10}.24 ॥]
ऽप्रातरग्निम्ऽ इति सूक्तेन निद्रां त्यक्त्वा मुखं प्रक्षालयति । ऽगिरावरगराटेषुऽ इति सूक्तेन सुप्तोत्थाय मुखं विमार्ष्टि । उदकेन प्रक्षालनम् । ऽदिवस्पृथिव्याःऽ (9.1.1-10) ऽयथा सोमः प्रातःसवनेऽ (9.1.11-24) इति सूक्ताभ्यां सुप्तोत्थाय मुखं विमार्ष्टि । हस्तेन प्रक्षालयति । मुखप्रक्षालनं वर्चस्कामोऽपि करोति । उदकाभिमन्त्रणं स्वयं वाऽन्योऽपि वा करोति । मेधाव्येकं कर्म कुर्याद् द्वे वा सर्वाणि वा । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात् फलबाहुल्यम् । अभ्यासे च पुनः कर्मसिद्धिः । मेधाकर्माणि समाप्तानि ॥ प्रथमा कण्डिका

11

[ब्रह्मचारिसाम्पदकर्माणि]
ब्रह्मचारिसाम्पदानां विधिं वक्ष्यामः -
[पूर्वस्य ब्रह्मचारिसाम्पदानि ॥ कौश्स्_2,1{11}.1 ॥]
पौर्णमास्यां निरृतिकर्म कृत्वा सकृत् श्वो भूते साम्पदं कुरुते ॥
[औदुम्बर्यादयः ॥ कौश्स्_2,1{11}.2 ॥]
ऽये त्रिषप्ताःऽ (1.1) इति सूक्तेनौदुम्बरसमिध आदधाति । हस्तहोमत्वात् तन्त्रविकल्पः । अतो ब्रह्मचारी सम्पत्कामोऽनुवर्तते । ऽये त्रिषप्ताःऽ इति सूक्तेन पलाशसमिध आदधाति । ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ॥
[ब्रह्मचार्यावसथादुपस्तरणान्यादधाति ॥ कौश्स्_2,1{11}.3 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन ब्रह्मचारी गृहादुपस्तरणानि तृणान्यादधाति ॥
[पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्याज्यं जुहोति ॥ कौश्स्_2,1{11}.4 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनारण्यपिपीलिकाच्छिद्रे मेदोमांसमधुश्यामाकशरतूलान्याज्यं चैतानि द्रव्याणि जुहोति । पञ्चकृत्वः सूक्तावृत्तिः ॥
[आज्यशेषे पिपीलिकोद्वापानोप्य ग्राममेत्य सर्वहुतान् ॥ कौश्स्_2,1{11}.5 ॥]
पञ्च द्रव्याणि छिद्रे हुत्वा ततः सङ्गृह्याज्यस्थाल्यां कृत्वा ग्राम आगत्याभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन स्थाल्याः
सकृज्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[ब्रह्मचारिभ्योऽन्नं धानास्तिलमिश्राः प्रयच्छति ॥ कौश्स्_2,1{11}.6 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनान्नमभिमन्त्र्य ब्रह्मचारिणो भोजयेत् । भुक्ते सति ऽये त्रिषप्ताःऽ इति सूक्तेन धानाः तिलमिश्रा अभिमन्त्र्य ददाति । समाप्तानि ब्रह्मचारिसाम्पदानि । ब्रह्मचारिसाम्पदानि शिष्यसम्पत्तिर्भवतीत्यर्थः । सर्वत्र कर्मणां विकल्पः ॥
[ग्रामसाम्पदकर्माणि]
अथ ग्रामसाम्पदकर्मोच्यते -
[एतानि ग्रामसाम्पदानि ॥ कौश्स्_2,1{11}.7 ॥]
पूर्वेद्युर्निरृतिकर्म कृत्वा ग्रामसाम्पदानामधिकारः ॥
[विकारः स्थूणामूलावतक्षणानि सभानामुपस्तरणानि ॥ कौश्स्_2,1{11}.8 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनौदुम्बरतक्षणान्यादधाति । ग्रामसम्पत्कामोऽनुवर्तते । आ सर्वसम्पत्कामेभ्यो यावत् । ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशतक्षणान्यादधाति । ऽये त्रिषप्ताःऽ इति सूक्तेन कर्कन्धूतक्षणान्यादधाति । स्थूणामूलतक्षणानि । ऽये त्रिषप्ताःऽ इति सूक्तेन सभानामुपस्तरणान्यादधाति ॥
[ग्रामीणेभ्योऽन्नम् ॥ कौश्स्_2,1{11}.9 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनान्नमभिमन्त्र्य ग्रामीणेभ्यो ददाति ॥
[सुरां सुरापेभ्यः ॥ कौश्स्_2,1{11}.10 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन सुरामभिमन्त्र्य सुरापेभ्यो ददाति । समाप्तानि ग्रामसाम्पदानि । कर्मणां विकल्पः । सर्वत्र ग्रामो नास्ति । सर्वत्र हस्तहोमे वा तन्त्रम् । ग्रामशब्दः समूहवचनः । ग्रामो वा पत्तनं वा नगरं वा दुर्गाङ्गं सर्वं ग्रामशब्देनोच्यते । ग्रामकामो यदा भवति तदा ग्रामसाम्पदं कुरुत इत्यर्थः ॥
[सर्वसाम्पदकर्माणि]
अथ सर्वसाम्पदानां विधिं वक्ष्यामः -
[औदुम्बर्यादीनि भक्षणान्तानि सर्वसाम्पदानि ॥ कौश्स्_2,1{11}.11 ॥]
पौर्णमास्यां रात्रौ निरृतिकर्म कृत्वा श्वो भूते कर्मप्रयोगः । ऽये त्रिषप्ताःऽ इति सूक्तेनौदुम्बरसमिध आदधाति । सर्वसम्पत्कामोऽनुवर्तते । आ साम्मनसेभ्यः कर्मभ्यो यावत् । ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशसमिध आदधाति । ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति । ऽये त्रिषप्ताःऽ इति सूक्तेन व्रीहिनावपति । ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति । ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति । सर्वफलकामः । अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति । ऽत्वे क्रतुम् (5.2.3) इति रसप्राशनीऽ (कौश्स् 21.21) । तत उत्तरतन्त्रम् ॥
[त्रिर्ज्योतिः कुरुते ॥ कौश्स्_2,1{11}.12 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन त्रिरहनि मध्य अग्निं प्रज्वालयति सर्वकामः ॥
[उपतिष्ठते ॥ कौश्स्_2,1{11}.13 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनाग्निमुपतिष्ठते त्रिकालम् ॥
[सव्यात् पाणिहृदयाल्लोहितं रसमिश्रमश्नाति ॥ कौश्स्_2,1{11}.14 ॥]
अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन सव्यात् पाणिमध्याद् रुधिरं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरम् ॥
[पृश्निमन्थः ॥ कौश्स्_2,1{11}.15 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन पृश्निमन्थः ॥
जिह्वाया उत्साद्यमक्ष्योः परिस्तरणमस्तृहणं हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति ॥ कौश्स्_2,1{11}.16 ॥
चूर्णानि करोति ॥ कौश्स्_2,1{11}.17 ॥
[मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रमश्नाति ॥ कौश्स्_2,1{11}.18 ॥]
मैश्रधान्ये मन्थ ओप्यैवं पृश्निमन्थः । पृश्निमन्थं मैश्रधान्यं च दधिमधुमिश्रं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तः पृश्निमन्थः ॥
[अस्मिन् वसु (1.9) यदाबध्नन् (1.35) नव प्राणान् (5.28) इति युग्मकृष्णलं वासितं बध्नाति ॥ कौश्स्_2,1{11}.19 ॥]
आज्यतन्त्रं कृत्वा ऽअस्मिन् वसुऽ इति सूक्तेन युग्मकृष्णलं हिरण्यमणिं कृत्वा त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तद्दधिमधु प्राशयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽयदाबध्नन्ऽ इति सूक्तेन युग्मकृष्णलं सुवर्णमणिं वासितं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । दधिमधुप्राशनम् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽनव प्राणान्ऽ इति सूक्तेन युग्मकृष्णलं सुवर्णमणिं वासितं सम्पात्याभिमन्त्र्य बध्नाति । प्राशनम् । अभ्यातानाद्युत्तरतन्त्रम् ॥
[सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वानभिमुखमश्नाति ॥ कौश्स्_2,1{11}.20 ॥]
आज्यतन्त्रं कृत्वा सारूपवत्स ओदने पुरुषाकृतिमालिख्य द्वादशरात्रं ऽअस्मिन् वसुऽ इति सूक्तेन प्रत्यहं सम्पात्य द्वादशेऽहन्यभिमन्त्र्यानभिमुखमश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । प्रथमेऽहनि तन्त्रं कृत्वा ऽयदा बध्नन्ऽ इति सूक्तेन सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वाभिमन्त्र्यानभिमुखमश्नाति । तत उत्तरतन्त्रम् । प्रथमे दिवसे तन्त्रं कृत्वा ऽनव प्राणान्ऽ इति सूक्तेन सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वाभिमन्त्र्यानभिमुखमश्नाति । तत उत्तरतन्त्रम् । द्वितीया कण्डिका

12

[कथं महे (5.11) इति मादानकशृतं क्षीरौदनमश्नाति ॥ कौश्स्_2,2{12}.1 ॥]
अभ्यातानान्तं कृत्वा ऽकथं महेऽ इति सूक्तेन मादानककाष्ठशृतं क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥
[चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वा मध्वासिच्याशयति ॥ कौश्स्_2,2{12}.2 ॥]
अभ्यातानान्तं कृत्वा ऽकथं महेऽ इति सूक्तेन चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वा मध्वासिच्य सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् ॥
[पृथिव्यै श्रोत्राय (6.10) इति जुहोति ॥ कौश्स्_2,2{12}.3 ॥]
तन्त्रं कृत्वा ऽपृथिव्यै श्रोत्रायऽ इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[वत्सो विराजः (13.1.33) इति मन्थान्तानि ॥ कौश्स्_2,2{12}.4 ॥]
ऽवत्सो विराजःऽ इत्यृचौदुम्बरसमिध आदधाति । ऽवत्सो विराजःऽ इत्यृचा पालाशसमिध आदधाति । ऽवत्सो विराजःऽ इत्यृचा बृहद्बदरीसमिध आदधाति । अभ्यातानाद्युत्तरतन्त्रम् । ऽवत्सो विराजःऽ इत्यृचा व्रीहीनावपति । अभ्यातानान्तं कृत्वा ऽवत्सो विराजःऽ इत्यृचा यवानावपति । ऽवत्सो विराजःऽ इत्यृचा तिलानावपति । अभ्यातानान्तं कृत्वा ऽवत्सो विराजःऽ इत्यृचा क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽवत्सो विराजःऽ इत्यृचा पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽवत्सो विराजःऽ इत्यृचा रसान् सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । ऽवत्सो विराजःऽ इत्यृचा त्रिकालमहन्यग्निं प्रज्वालयति । ऽवत्सो विराजःऽ इत्यृचा त्रिकालमग्निमुपतिष्ठते । अभ्यातानान्तं कृत्वा ऽवत्सो विराजःऽ इत्यृचा सव्यात् पाणिहृदयाल्लोहितं रसमिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽवत्सो विराजःऽ इत्यृचा पृश्निमन्थो जिह्वाया आदि मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वसाम्पदानि कर्माणि समाप्तानि । सर्वत्र कर्मणां विकल्पः । सर्वकाम इत्यर्थः । सर्वसाम्पदानि पुत्रपशुधनधान्यप्रजापत्नीजयविजयलाभलक्ष्मीअश्वहस्तिनरयानाअरामग्रामगृहक्पतडागवापीवेदपाठकल्पपाठवेदार्थज्ञानमीमांसाज्ञानव्याकरणज्ञानसूत्रज्ञान आवसथ्याग्नित्रेताग्निकामज्योतिष्ठोमकामसत्रकाम धर्मार्थकामविशेषेषु । परेषु शत्रुषु उच्चाटनवशीकरणगृहकलहोत्पत्तिविद्वेषणस्तम्भनादिजतुरसायनधातुवादादिरसस्त्रीभोगादिकाममेध्यवस्तुवृषभाभिचारस्वस्त्ययनायुष्यचतुरङ्गबलपुष्टिदेवताज्ञानादिसम्पद इति । अनेककामसम्पद उच्यन्ते । सम्पदोऽपूर्वलाभ इति । सर्वत्र कर्मणां क्रमो नास्ति । सर्वत्र विकल्पः । फलार्थिनः अभ्यासेन पुनःपुनः क्रियाभ्यासेन कर्मसिद्धिः । कामानन्त्यात् कामानां परिगणनं कृतम् । सर्वसाम्पदानीति लोक अनेककामसम्पदित्युच्यते । धनविशेषकामाः । पुत्रविशेषकामाः । कपिलवर्णगौरवर्णपुत्रा एवंविधं भवतीति । कर्मणां क्रमोऽपि नास्ति तन्त्रेण कर्म पठितम् । साम्पदस्य कर्मपद्धतिः समाप्ता ॥
[साम्मनस्यकर्माणि]
साम्मनस्यानां कर्मणां विधिं वक्ष्यामः -
[सहृदयं (3.30) तदू षु (5.1.5) सं जानीध्वम् (6.64) एह यातु (6.73) सं वः पृच्यन्तां (6.74) सं वो मनांसि (6.94) सञ्ज्ञानं नः (7.52) इति साम्मनस्यानि ॥ कौश्स्_2,2{12}.5 ॥
उदकुलिजं सम्पातवन्तं ग्रामं परिहृत्य मध्ये निनयति ॥ कौश्स्_2,2{12}.6 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽसहृदयं साम्मनस्यम्ऽ इति सूक्तेनोदकुलिजमुदकुम्भं सम्पात्य ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । तत उत्तरतन्त्रम् । साम्मनस्याधिकार आ वर्चस्येभ्यः कर्मभ्यो यावत् । तन्त्रं कृत्वा ऽतदू षु तेऽ इत्यृचा कुम्भं सम्पात्य ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसं जानीध्वम्ऽ इति सूक्तेन कुम्भं सम्पात्य तं घटं गृहीत्वा ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽएह यातुऽ ऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यामुदकुम्भं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अनेन सूक्तेन ज्ञातिपुत्रस्य साम्मनस्यं क्रियते । यावज्जीवं सजातानां सगोत्राणां साम्मनस्यं भवति । तन्त्रं कृत्वा ऽसं वो मनांसिऽ इति तिसृभिरृग्भिरुदकुम्भं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यामुदकुलिजं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् ॥
[एवं सुराकुलिजम् ॥ कौश्स्_2,2{12}.7 ॥]
अभ्यातानान्तं कृत्वा ऽसहृदयम्ऽ इति सूक्तेन सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽतदू षु तेऽ इत्यृचा सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसं जानीध्वम्ऽ इति सूक्तेन सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽएह यातुऽ ऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसं वो मनांसिऽ इति तिसृभिरृग्भिः सुराकुलिजं
सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् ॥
[त्रिहायण्या वत्सतर्याः शुक्तानि पिशितान्याशयति ॥ कौश्स्_2,2{12}.8 ॥]
अभ्यातानान्तं कृत्वा ऽसहृदयम्ऽ इति सूक्तेन त्रिवर्षवत्सिकायाः शुक्तानि पिशितानि मांसानि सम्पात्याभिमन्त्र्याशयति ।
अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽतदू षु तेऽ इत्यृचाम्लेन रसेन सिक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसं जानीध्वम्ऽ इति सूक्तेन शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽएह यातुऽ ऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां त्रैहायण्या वत्सतर्याः शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽसं वो मनांसिऽ इति सूक्तेन शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां त्रैहायण्या वत्सतर्या शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् ॥
[भक्तं सुरां प्रपां सम्पातवत् करोति ॥ कौश्स्_2,2{12}.9 ॥]

आज्यतन्त्रं कृत्वा ऽसहृदयम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽतदू षु तेऽ इत्येकया भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽसं जानीध्वम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽएह यातुऽ ऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां भक्तं सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसं वो मनांसिऽ इति तिसृभिरृग्भिभक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । वेद्यादितन्त्रं कृत्वा ऽसञ्ज्ञानं नःऽ इति द्वाभ्यां भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । ब्राह्मणतर्पणम् । अभ्यातानान्तं कृत्वा ऽसहृदयम्ऽ इति सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । साम्मनस्येभ्यः पुरुषेभ्यस्त्रैवर्णिकेभ्यः । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽतदू षु तेऽ इत्येकया सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम्.
तन्त्रं कृत्वा ऽसं जानीध्वम्ऽ इति सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽएह यातुऽ ऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽसं वो मनांसिऽ इति तृचेन सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽसहृदयम्ऽ इति सूक्तेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽतदू षु तेऽ इत्येकया प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम्.
आज्यतन्त्रं कृत्वा ऽसं जानीध्वम्ऽ इति सूक्तेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽएह यातुऽ ऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽसं वो मनांसिऽ इति तृचेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽसञ्ज्ञानं नःऽ इति द्वाभ्यां प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । अभ्यातानाद्युत्तरतन्त्रम् । साम्मनस्यानि समाप्तानि । येन सह साम्मनस्यं करोति तस्य भक्तादीनि ददाति । कर्मणां विकल्पः । येन सह साम्मनस्यं कर्तुमिच्छति तस्य कर्म करोति । सुरादि शूद्राय ददाति । मांसानि चाण्डालेभ्यः । किञ्च येन सहैकचित्तकरणं साम्मनस्यमित्युच्यते । वशीकरणमित्यर्थः । ब्राह्मणस्त्रीशूद्रचाण्डालादीनां नास्ति जातिनियमः । नापि सङ्ख्यानियमः । बहूनामपि भवति । वशीकरणं साम्मनस्यमित्युच्यते । इति वशीकरणमिति साम्मनस्यम् । साम्मनस्यकर्मपद्धतिः समाप्ता ॥
[वर्चस्यकर्माणि]
अथ वर्चस्यविधिं वक्ष्यामः -
[पूर्वस्य ममाग्ने वर्चः (5.3) इति वर्चस्यानि ॥ कौश्स्_2,2{12}.10 ॥
औदुम्बर्यादीनि त्रीणि ॥ कौश्स्_2,2{12}.11 ॥]
ऽये त्रिषप्ताःऽ (1.1) इति सूक्तेनौदुम्बरसमिध आदधाति । सर्वत्र वर्चस्कामोऽनुवर्तते आ राजकर्मभ्यो यावत् । ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशसमिध आदधाति । तेजस्कामः । ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति । ऽये त्रिषप्ताःऽ इति सूक्तेन
व्रीहीनावपति । ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति । ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति । तेजस्कामः । अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । वर्चस्कामः । अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतरम् । तन्त्रं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । ऽममाग्ने वर्चःऽ इति सूक्तेनौदुम्बरसमिध आदधाति । ऽममाग्ने वर्चःऽ इति सूक्तेन पालाशसमिध आदधाति । ऽममाग्ने वर्चःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति । ऽममाग्ने वर्चःऽ इति सूक्तेन व्रीहीनावपति । ऽममाग्ने वर्चःऽ इति सूक्तेन यवानावपति । ऽममाग्ने वर्चःऽ इति सूक्तेन तिलानावपति । अभ्यातानान्तं कृत्वा ऽममाग्ने वर्चःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽममाग्ने वर्चःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽममाग्ने वर्चःऽ इति सूक्तेन रसान्
सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् ॥
अथ कुमारीवर्चस्यमुच्यते -
[कुमार्या दक्षिणमूरुमभिमन्त्रयते ॥ कौश्स्_2,2{12}.12 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन कुमार्या दक्षिणमूरुमभिमन्त्रयते । ऽममाग्ने वर्चःऽ इति सूक्तेन कुमार्या दक्षिणमूरुमभिमन्त्रयते । कुमारी रूपवती वर्चस्विनी भर्तृगृहे प्रधाना भवति । तस्या इदं कर्म क्रियते ॥
[वपां जुहोति ॥ कौश्स्_2,2{12}.13 ॥]
अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन वपां कृत्त्वानीय जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽममाग्ने वर्चःऽ इति सूक्तेन वपां कृत्त्वानीय जुहोति । उत्तरतन्त्रम् ॥
[अग्निमुपतिष्ठते ॥ कौश्स्_2,2{12}.14 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनाग्निमुपतिष्ठते । ऽममाग्ने वर्चःऽ इति सूक्तेनाग्निमुपतिष्ठते । वर्चस्कामः ॥
[प्रातरग्निं (3.16) गिरावरगराटेषु (6.69) दिवस्पृथिव्याः (9.1) इति दधिमध्वाशयति ॥ कौश्स्_2,2{12}.15 ॥]
अभ्यातानान्तं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन दधिमधुनी सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽगिरावरगराटेषुऽ इति सूक्तेन दधिमधुनी एकत्र कृत्वा सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन दधिमधुनी एकत्र कृत्वा सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् ॥
अथ क्षत्रियवर्चस्यमुच्यते -
[कीलालमिश्रं क्षत्रियं कीलालमितरान् ॥ कौश्स्_2,2{12}.16 ॥]
अभ्यातानान्तं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वा ऽगिरावरगराटेषुऽ इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वा ऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । वचस्कामः । तत उत्तरतन्त्रम् ॥

अथ वैश्यशूद्रादिवर्चस्यमुच्यते । अभ्यातानान्तं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यशूद्रम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽगिरावरगराटेषुऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यान् शूद्रान् अनुलोमजांश्च । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । वैश्यशूद्रादीन् । तत उत्तरतन्त्रम् । तेजस्कामः । तृतीया कण्डिका

13

[हस्तिवर्चसम् (3.22) इति हस्तिनम् ॥ कौश्स्_2,3{13}.1 ॥]
ऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिनं दृष्ट्वा उपतिष्ठते । तेजस्कामः ॥
[हास्तिदन्तं बध्नाति ॥ कौश्स्_2,3{13}.2 ॥]
अभ्यातानान्तं कृत्वा ऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिदन्तमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरम् । सर्वत्र वर्चस्याधिकारोऽनुवर्तते ॥
[लोमानि जतुना सन्दिह्य जातरूपेणापिधाप्य ॥ कौश्स्_2,3{13}.3 ॥]
अभ्यातानान्तं कृत्वा ऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिलोमानि जतुना लाक्षारसेन सन्दिह्य हिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥
[सिंहे व्याघ्रे (6.38) यशो हविः (6.39) इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नाभिलोमानि ॥ कौश्स्_2,3{13}.4 ॥]
अभ्यातानान्तं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ इति सूक्ताभ्यां स्नातकनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ इति सूक्ताभ्यां सिंहनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ इति सूक्ताभ्यां व्याघ्रनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ इति सूक्ताभ्यां अजनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ इति सूक्ताभ्यां कृष्णनाभिलोमानि गृहीत्वा जतुना सन्दिह्य जातरूपेणापिधाप्य सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ इति सूक्ताभ्यां वृषभनाभिरोमाणि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ इति सूक्ताभ्यां राज्ञान्नाभिरोमाणि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥
[दशानां शान्तवृक्षाणां शकलानि ॥ कौश्स्_2,3{13}.5 ॥]
आज्यतन्त्रं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ इति सूक्ताभ्यां पालाशादिदशवृक्षशकलानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । केचित् वृक्षविकल्पं मन्यन्ते ॥
[एतयोः प्रातरग्निं (3.16) गिरावरगराटेषु (6.69) दिवस्पृथिव्याः (9.1) इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्नाति ॥ कौश्स्_2,3{13}.6 ॥]
एतयोः सूक्तयोः स्थाने सूक्तेन विकल्पः । ऽप्रातरग्निम्ऽ ऽगिरावरगराटेषुऽ ऽदिवस्पृथिव्याःऽ इति त्रिभिः प्रतीकैः स्नातकादिसप्तमर्माणि स्थालीपाके दत्त्वा तन्त्रे सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । स्थालीपाके च इदं कर्म क्षत्रियादीनाम् । न ब्राह्मणस्य । स्थालीपाकं केवलं कुर्यात् ॥
अकुशलं यो ब्राह्मणो लोहितमश्नीयादिति गार्ग्यः ॥ कौश्स्_2,3{13}.7 ॥
उक्तो लोममणिः ॥ कौश्स्_2,3{13}.8 ॥
वर्चस्कामः । अभ्यातानान्तं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन स्नातकनाभिमणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । उदञ्चि हविरुच्छिष्टान्तं समानम् । तन्त्रे ऽप्रातरग्निम्ऽ इति सूक्तेन सिंहरोममणिं संस्कृत्य बध्नाति । बर्हिर्लवनादि तन्त्रं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन व्याघ्रनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेनाजनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन कृष्णनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन वृषभनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन राज्ञां नाभिरोममणिं सम्पात्य लाक्षाहिरण्येन वेष्टितं कृत्वाभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽगिरावरगराटेषुऽ इति सूक्तेन स्नातकरोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति ।
तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽगिरावरगराटेषुऽ इति सूक्तेन सिंहरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वा ऽगिरावरऽ इति व्याघ्ररोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽगिरावरऽ इत्यजरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽगिरावरऽ इति सूक्तेन मेषरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽगिरावरऽ इति सूक्तेन वृषभरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽगिरावरऽ इति राज्ञां रोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्ते ऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन स्नातकरोममणिं सम्पात्य लाक्षाहिरण्येन वेष्टितमभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽदिवस्पृथिव्याःऽ इति सिंहरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यानातान्तं कृत्वा ऽदिवस्पृथिव्याःऽ इति व्याघ्ररोममणिं सम्पात्य लाक्षासुवर्णेन वेष्टितं कृत्वाभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽदिवस्पृथिव्याःऽ इति सूक्तेनाजरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽदिवस्पृथिव्याःऽ इति सूक्तेन मेषरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽदिवस्पृथिव्याःऽ इति वृषभरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानान्तं कृत्वा ऽदिवस्पृथिव्याःऽ इति सूक्तेन राज्ञां रोममणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात् फलबाहुल्यम् ॥
[सर्वैराप्लावयति ॥ कौश्स्_2,3{13}.9 ॥]
अभ्यातानान्तं कृत्वा ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ ऽप्रातरग्निम्ऽ ऽगिरावरगराटेषुऽ ऽदिवस्पृथिव्याःऽ इत्येतैः सर्वैः सूक्तैरुदकुम्भं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । वर्चस्कामः । एतदेव नित्ये स्नाने नैमित्तिके काम्ये वा विधानं भवति । यथा वसन्त ऋतौ स्नानं क्रियते ॥
[अवसिञ्चति ॥ कौश्स्_2,3{13}.10 ॥]
ऽसिंहे व्याघ्रेऽ ऽयशो हविःऽ ऽप्रातरग्निम्ऽ ऽगिरावरगराटेषुऽ ऽदिवस्पृथिव्याःऽ इत्येतैः सूक्तैरुदकमभिमन्त्र्यावसिञ्चति.
[चतुरङ्गुलं तृणं रजोहरणं बिन्दुनाभिश्चोत्योपमथ्य ॥ कौश्स्_2,3{13}.11 ॥]
चन्दनादिगन्धानासाद्य तस्मिन् मध्य आकाशोदकं प्रक्षिप्य चतुरङ्गुलेन दर्भतृणेनालोड्य तत् तृणं गृहीत्वा ॥

[शुनि किलासमजे पलितं तृणे ज्वरो योऽस्मान् द्वेष्टिं यं च वयं द्विष्मस्तस्मिन् राजयक्ष्मः इति दक्षिणा तृणं निरस्यति गन्धप्रवादादिभिरलङ्कुरुते ॥ कौश्स्_2,3{13}.12 ॥]
ऽशुनि किलासमजेऽ इति मन्त्रेण दक्षिणा दिशं निरस्यति । चन्दनादि ऽयस्ते गन्धःऽ (12.1.23-25) इति त्रिभिरृग्भिरभिमन्त्र्य राज्ञां समालभते । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात् फलबाहुल्यम् । नारित जातिनियमः सर्वस्याधिकारः । अश्वादीनामपि वर्चस्यं भवति । वर्चः शब्देन तेज उच्यते । दीप्तिस्तेजो वर्चो भव्यतापश्याबाध्य इति एकोऽर्थः । लाभपूजादिप्रसङ्गे भवति । एतैः कृतैः । समाप्तानि वर्चस्यानि ॥ चतुर्थी कण्डिका

14

[राजकर्माणि]
अथ राजकर्माण्युच्यन्ते । साङ्ग्रामिकाणां कर्मणां विधिं वक्ष्यामः अश्वत्थस्य बधकस्य वारण्योरग्निं मन्थति । ऽइन्द्रो मन्थतुऽ (8.8.1) इति ऋचा मथ्यमानमनुमन्त्रयते । ऽपूतिरज्जुःऽ (8.8.2) इत्यर्धर्चेनाग्निपतनस्थाने काशरज्जुं निदधाति । ऽधूममग्निं परादृश्यऽ (8.8.2) इत्यर्धर्चेन धूममनुमन्त्रयते । ऽअग्निं परादृश्यऽ (8.8.2) इत्यर्धर्चेन जातमग्निमनुमन्त्रयते । एष सेनाग्निः ॥
साङ्ग्रामिकतन्त्रमुच्यते । ऽअव्यसश्चऽ (19.68.1) बर्हिर्लवनादि समानम् । सेनाग्निप्रणयनं, ग्रहग्रहणं, पञ्चगृहीतमाज्यं अभ्यातानान्तं कृत्वा लोहिताश्वत्थस्य शाखां रोपयति । नीललोहिताभ्यां सूत्राभ्यां परितत्योत्तरतः । ततः प्रधानकर्म कुर्यात् । तत उत्तरतन्त्रे विशेषः । सन्नतिहोमान्तं कृत्वा ऽइमे जयन्तु स्वाहेभ्यःऽ (8.8.24) इत्यनेन मन्त्रेणाज्यं जुहोति । ततो बधककाष्ठप्रज्वलितेऽग्नौ वामेन हस्तेनेङ्गिडं जुहोति ऽपरामी जयन्तां दुराहामीभ्यःऽ (8.8.24) इति मन्त्रेण । ततः शाखां दक्षिणतः प्रक्षिपति ऽनीललोहितेनामून्ऽ (8.8.24) इति मन्त्रेण । स्विष्टकृदाद्युत्तरतन्त्रम् । एतत्साङ्ग्रामिकं तन्त्रम् । साङ्ग्रामिकेषु सर्वत्र उच्चैर्मन्त्राणां प्रयोगः । तन्त्रमध्ये ये प्रधानमन्त्रास्त उच्चैर्भवन्ति ॥
शत्रुहस्तित्रासनानां कर्मणां विधिं वक्ष्यामः -
[पूर्वस्य हस्तित्रसनानि ॥ कौश्स्_2,4{14}.1 ॥
रथचक्रेण सम्पातवता प्रतिप्रवर्तयति ॥ कौश्स्_2,4{14}.2 ॥]
साङ्ग्रामिकं तन्त्रं कृत्वा ऽये त्रिषप्ताःऽ (1.1) इति सूक्तेन रथचक्रं सम्पातवत् कृत्वा हस्त्यभिमुखं रथं प्रवर्तयति । अभ्यातानाद्युत्तरतन्त्रम् । हस्तित्रासनकामः । राजकर्माण्यनुवर्तन्ते आ निरृतिकर्मभ्यो यावत् ॥
[यानेनाभियाति ॥ कौश्स्_2,4{14}.3 ॥]
तन्त्रं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन हस्त्यादि यानं सम्पात्याभिमन्त्र्य हस्त्यभिमुखं प्रेरयति । अश्वादयः । अभ्यातानाद्युत्तरतन्त्रम् ॥
[वादित्रैः ॥ कौश्स्_2,4{14}.4 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन वादित्राणि भेरीमृदङ्गेत्यादि अभिमन्त्र्य हस्तिनोऽभि पुरतो गच्छन्ति ॥
[दृतिवस्त्योरोप्य शर्कराः ॥ कौश्स्_2,4{14}.5 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन चर्मखल्वायां शर्कराः प्रक्षिप्याभिमन्त्र्य हस्त्यभिमुखाः पुरुषाः यान्ति । ऽये त्रिषप्ताःऽ इति चर्मपुटे शर्कराः प्रक्षिप्याभिमन्त्र्य हस्तिनोऽभिमुखान् प्रेषयति ॥
[तोत्त्रेण नग्नप्रच्छन्नः ॥ कौश्स्_2,4{14}.6 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन वेलुकमभिमन्त्र्य यत्र हस्तिनस्तत्राभिमुखो याति । समाप्तानि हस्तित्रासनानि । अनेन कर्मणा हस्तिनः पलायन्ते परचक्रहस्तिनस्तेषां त्रासनकर्म ॥
पुनः साङ्ग्रामिकाणां कर्मणां विधिं वक्ष्यामः-
[विद्मा शरस्य (1.2) मा नो विदन्, अदारसृत्, स्वस्तिदा (1.19-21) अव मन्युः, निर्हस्तः, परि वर्त्मानि (6.65-67) अभिभूः, इन्द्रो जयाति, अभि त्वेन्द्र (6.97-99) इति साङ्ग्रामिकाणि ॥ कौश्स्_2,4{14}.7 ॥
आज्यसक्तूञ्जुहोति ॥ कौश्स्_2,4{14}.8 ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वा ऽविद्मा शरस्य पितरं पर्जन्यं भूरिधायसम्ऽ इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकर्माण्यनुवर्तन्ते आ राष्ट्रप्रवेशकर्मभ्यो यावत् । अभ्यातानान्तं कृत्वा ऽमा नो विदन्ऽ इति त्रिभिः (1.19-21) सूक्तैराज्यं जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽअव मन्युःऽ इति त्रिभिः (6.65-67) सूक्तैराज्यं जुहोति । उत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रं कृत्वा ऽअभिभूर्यज्ञःऽ इति त्रिभिः (6.97-99) सूक्तैराज्यं जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽविद्मा शरस्यऽ इति सूक्तेन सक्तूञ्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । साङ्ग्रामिकं तन्त्रं कृत्वा ऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽअव मन्युःऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽअभिभूर्यज्ञःऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । तत उत्तरतन्त्रम् ॥
[धनुरिध्मे धनुःसमिधमादधाति ॥ कौश्स्_2,4{14}.9 ॥]
आज्यतन्त्रम् । इध्मसमाधानस्थाने धनुरिध्ममादधाति । अभ्यातानान्तं कृत्वा ऽविद्मा शरस्यऽ इति सूक्तेन धनुःसमिध आदधाति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । साङ्ग्रामिकं पूर्वतन्त्रं धनुरिध्मविशिष्टं कृत्वा ऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः धनुःसमिध आदधाति । अभ्यातानाद्युत्तरतन्त्रम् । धनुरिध्मविशिष्टं अभ्यातानान्तं कृत्वा ऽअव मन्युःऽ इति त्रिभिः सूक्तैर्धनुःसमिध आदधाति । उत्तरतन्त्रम् । जयकामः । धनुरिध्मविशिष्टमभ्यातानान्तं कृत्वा ऽअभिभूर्यज्ञःऽ इत्येतैस्त्रिभिः सूक्तः धनुःसमिधः प्रादेशमात्रीरादधाति । तत उत्तरतन्त्रम् ॥
[एवमिष्विध्मे ॥ कौश्स्_2,4{14}.10 ॥]
बर्हिर्लवनादि इध्मप्रोक्षणं शरैरिध्मोपसमाधानं ऽअग्निर्भूम्याम्ऽ इत्यादि अभ्यातानान्तं कृत्वा ऽविद्मा शरस्यऽ इति सूक्तेन शरसमिधः प्रादेशमात्रीः आदधाति । तत उत्तरतन्त्रम् । शरेध्मविशिष्टं तन्त्रं कृत्वा ऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् । शरेध्मविशिष्टं तन्त्रं कृत्वा ऽअव मन्युःऽ इति त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् । शरेध्मोपसमाधानादि तन्त्रं कृत्वा ऽअभिभूर्यज्ञःऽ इत्येतैः त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् ॥
[धनुः सम्पातवद्विमृज्य प्रयच्छति ॥ कौश्स्_2,4{14}.11 ॥]
साङ्ग्रामिकं तन्त्रं कृत्वा ऽविद्मा शरस्यऽ इति सूक्तेन धनुः सम्पात्याभिमन्त्र्य विमृज्य राज्ञे प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य प्रयच्छति । तत उत्तरतन्त्रम्.
साङ्ग्रामिकं तन्त्रं कृत्वा ऽअव मन्युःऽ इति त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे समर्पयति । अभ्यातानाद्युत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वा ऽअभिभूर्यज्ञःऽ इत्येतैस्त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । विजयकर्माणि साङ्ग्रामिकाणि समाप्तानि । क्षेत्रदारहरणे शस्त्रहरणे च ब्राह्मणक्षत्रियवैश्यशूद्रादिग्रामनगरादिसर्वस्याधिकारः । सर्वविषयमेतत् । सर्वत्र कर्मणां विकल्पः । सङ्ग्रामेऽयुद्धमाने जयो भवति । एभिः कर्मभिः दृष्टमात्रेण शत्रवः पलायन्ते । सङ्ग्रामकर्मपद्धतिः समाप्ताः ॥
इषुनिवारणानि कर्माण्युच्यन्ते -
[प्रथमस्येषुपर्ययणानि ॥ कौश्स्_2,4{14}.12 ॥
द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति ॥ कौश्स्_2,4{14}.13 ॥]

अभ्यतानान्तं साङ्ग्रामिकं तन्त्रं कृत्वा ऽविद्मा शरस्यऽ इति सूक्तेन द्रुघ्न्यार्त्नीज्यापाशं द्व्यङ्गुलमात्रं छित्त्वा सम्पात्याभिमन्त्र्य बध्नाति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । तन्त्रं कृत्वा ऽविद्मा शरस्यऽ इति सूक्तेन दूर्वादि तृणमूलं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । यो युद्धे प्रविशति तस्य मणिबन्धनं क्रियते । अथवा राज्ञे कृतं सर्वेषां कृतं भवति । सर्वत्र पुण्याहान्ते बन्धनं भवति । अनेन कर्मणा पुरुषशरीरे इषवो न पतन्ति पार्श्वतो गच्छन्ति । समाप्तानि इषुनिवारणानि । युद्धकाले शरनिवारणानीत्यर्थः ॥
सर्वशस्त्रनिवारणकर्मणां विधिं वक्ष्यामः -
[आरेऽसौ (1.26) इत्यपनोदनानि ॥ कौश्स्_2,4{14}.14 ॥
फलीकरणतुषबुसावतक्षणान्यावपति ॥ कौश्स्_2,4{14}.15 ॥]
ऽआरेऽसौऽ इत्येतेन सूक्तेन कुकूलान् जुहोति सेनाग्नौ । ऽआरेऽसौऽ इति सूक्तेन तुषान् जुहोति । ऽआरेऽसौऽ इति सूक्तेन बसान जुहोति । ऽआरेऽसौऽ इति सूक्तेन काष्ठशकलानि जुहोति ॥
[अन्वाह ॥ कौश्स्_2,4{14}.16 ॥]
ऽआरऽसौऽ इति सूक्तं शत्रुं दृष्ट्वा जपति । हस्तहोमत्वात् तन्त्रविकल्पः । एवं क्रियमाणे सर्वशस्त्रनिवारणसिद्धिः । खड्गादिसर्वशस्त्रनिवारणं समाप्तम् ॥
मोहनकर्मणां विधिं वक्ष्यामः -
[अग्निर्नः शत्रून् (3.1) अग्निर्नो दूतः (3.2) इति मोहनानि ॥ कौश्स्_2,4{14}.17 ॥
ओदनेनोपयम्य फलीकरणानुलूखलेन जुहोति ॥ कौश्स्_2,4{14}.18 ॥]
साङ्ग्रामिकं तन्त्रं कृत्वा ऽअग्निर्नः शत्रून्ऽ ऽअग्निर्नो दूतःऽ इति सूक्ताभ्यामोदनेन फलीकरणान् पिण्डीकृत्योलूखलेन जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[एवमणून् ॥ कौश्स्_2,4{14}.19 ॥]
अभ्यातानान्तं तन्त्रं कृत्वा ऽअग्निर्नःऽ इति सूक्ताभ्यामोदनेन सह कणिकाः पिण्डीकृत्योलूखलेन जुहोति । तत उत्तरतन्त्रम् ॥
[एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति ॥ कौश्स्_2,4{14}.20 ॥]
ऽअग्निर्नः शत्रून्ऽ इति सूक्ताभ्यामेकविंशतिशर्कराः शूर्पे कृत्वा शत्रून् प्रति निष्पुनाति ॥
[अप्वां यजते ॥ कौश्स्_2,4{14}.21 ॥]
अप्वा देवता । चरुतन्त्रमाज्यभागान्तं कृत्वा ऽअग्निर्नः शत्रून्ऽ इति सूक्ताभ्यां चरुं जुहुयात् । निर्वापे प्रोक्षणे बर्हिर्होमे विशेषः । ऽअप्वायै जुष्टं निर्वपामिऽ ऽअप्वायै त्वा जुष्टं प्रोक्षामिऽ ऽअप्वां गच्छतु स्वाहाऽ इति । पार्वणाद्युत्तरतन्त्रम् । परसेनामोहनानि समाप्तानि ॥
उद्वेगकरणमुच्यते -
[संशितम् (3.19) इति शितिपदीं सम्पातवतीमवसृजति ॥ कौश्स्_2,4{14}.22 ॥
उद्वृधत्सु योजयेत् ॥ कौश्स्_2,4{14}.23 ॥]
अभ्यातानान्तं साङ्ग्रामिकं तन्त्रं कृत्वा ऽसंशितं मेऽ इति सूक्तेनाजां सितपदीं सम्पात्याभिमन्त्र्य शत्रुसेनां प्रति विसर्जयति । तत उत्तरतन्त्रम् । श्वेतेन पादेन अजा वाविर्वैणो वा । एतानि शितिपदीशब्देनोच्यन्ते । उद्वेगकरणं समाप्तम् । मोहनं स्तम्भनमित्यर्थः । मूर्छयाचेतनाः सुखं हन्यन्ते । हस्त्यश्वपदातीनां सर्वेषां मोहनमचेतनत्वं भवतीत्यर्थः । सेनाग्नौ मोहनादीनि सर्वाणि कर्माणि कार्याणि । परसैन्यस्य मोहनं स्थापनमित्यर्थः ॥
पुनः साङ्ग्रामिकं होमविधिं वक्ष्यामः -
[इममिन्द्र (4.22) इति युक्तयोः प्रदानान्तानि ॥ कौश्स्_2,4{14}.24 ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वा ऽसंशितं मेऽ इति सूक्तं ऽइममिन्द्रऽ इति द्वितीयम् । द्वाभ्यामाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । अभ्यातानान्तं कृत्वा ऽसंशितं मेऽ, ऽइममिन्द्र वर्धयऽ इति सूक्ताभ्यां प्रत्यृचं सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रे धनुरिध्मा भवति । अभ्यातानान्तं कृत्वा ऽसंशितं मेऽ ऽइममिन्द्र वर्धय क्षत्रियं मेऽ इति सूक्ताभ्यां धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । इष्विध्म आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽसंशितं मेऽ ऽइममिन्द्रऽ इति सूक्ताभ्यामिषुसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसंशितं मेऽ ऽइममिन्द्रऽ इति सूक्ताभ्यां धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे प्रयच्छति । तत उत्तरतन्त्रम् । जयकामः । पुनः समाप्तानि जयकर्माणि ॥
स्वसेनारक्षणार्थं कर्म उच्यते -
[दिग्युक्ताभ्यां नमो देववधेभ्यः (6.13) इत्युपतिष्ठते ॥ कौश्स्_2,4{14}.25 ॥]
ऽयेऽस्याम्ऽ (3.26) ऽप्राची दिक्ऽ (3.27) इति सूक्ताभ्यां प्रत्यृचं मन्त्रोक्तं प्रतिदिशमुपतिष्ठते । जयार्थम् । ऽनमो देववधेभ्यःऽ इति तृचेन स्वसेनां प्रतिदिशमुपतिष्ठते । षट् सूक्तावृत्तिः । जयकामः प्रतिदिशं रक्षणार्थं च । समाप्तं स्वसेनारक्षणं कर्म ॥
स्वसेनाया उत्साहकरणमुच्यते -
[त्वया मन्यो (4.31) यस्ते मन्यो (4.32) इति संरम्भणानि ॥ कौश्स्_2,4{14}.26 ॥
सेने समीक्षमाणो जपति ॥ कौश्स्_2,4{14}.27 ॥]
अभियोग उत्साहः । युद्धे उत्साहवर्धनं भवति । ऽत्वया मन्योऽ, ऽयस्ते मन्योऽ इति सूक्तद्वयम् । सेनयोर्मध्ये स्थितो जपति निरीक्षमाणः ॥
[भाङ्गमौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् सेनाक्रमेषु वपति ॥ कौश्स्_2,4{14}.28 ॥]
साङ्ग्रामिकं तन्त्रं कृत्वा ऽत्वया मन्योऽ, ऽयस्ते मन्योऽ इति सूक्ताभ्यां भाङ्गमौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पात्याभिमन्त्र्य परसेनायां प्रक्षिपति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा मौञ्जपाशानिङ्गिडालङ्कृतान् सम्पात्याभिमन्त्र्य उच्छ्वसन् अनूक्तग्रहणात् क्रुद्धेनाभिमन्त्रणमित्युच्यते । परसेनाक्रमेषु वपति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[एवमामपात्राणि ॥ कौश्स्_2,4{14}.29 ॥]
अभ्यातानान्तं कृत्वा ऽत्वया मन्योऽ इति सूक्ताभ्याम् आमपात्राणि सम्पात्याभिमन्त्र्य क्रुद्धः सेनाक्रमेषु वपति ।
अभ्यातानाद्युत्तरतन्त्रम् ॥
अथ जयपराजयविज्ञानमुच्यते -
[इङ्गिडेन सम्प्रोक्ष्य तृणान्याङ्गिरसेनाग्निना दीपयति ॥ कौश्स्_2,4{14}.30 ॥]
यां धूमोऽवतनोति तां जयन्ति ॥ कौश्स्_2,4{14}.31 ॥
ऽत्वया मन्योऽ ऽयस्ते मन्योऽ इति सूक्ताभ्यां शरतृणानीङ्गिडेन प्रोक्षितान्यभिमन्त्र्य तत आङ्गिरसेनाग्निना दीपयति सेनयोर्मध्ये कृत्वा । यत्र धूमो गच्छति तत्र न जयः । इति स्वसेनाया उत्साहकरणं समाप्तम् । आङ्गिरोऽग्निश्चाण्डालाग्निः सूतीकाग्निः । स्वरमालतृणानि ॥ पञ्चमी कण्डिका

15

अथ साङ्ग्रामिकविधिं वक्ष्यामः । जयकर्माण्युच्यन्ते -
[ऋधङ्मन्त्रः (5.1) तदिदास (5.2) इत्याश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ्जुह्वदभिप्रक्रम्य निवपति ॥ कौश्स्_2,5{15}.1 ॥]
ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति सूक्ताभ्यामाश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचयेऽग्निं प्रज्वाल्य हस्तिपृष्ठे शत्रूनभिमुखो गच्छन् आज्यं जुहोति । न तन्त्रम् । पुरुषशिरसि वाश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचयेऽग्निं प्रज्वाल्य शत्रूनभिमुखो गच्छन् ऽऋधङ्मन्त्रऽ, ऽतदिदासऽ इति सूक्ताभ्यामाज्यं जुहोति । तत् पात्रमभिप्रक्रम्य भूम्यां प्रक्षिपति ॥
[वराहविहताद्राजानो वेदिं कुर्वन्ति ॥ कौश्स्_2,5{15}.2 ॥]
वराहविहितमृत्तिकाया राजानो वेदिं कुर्वन्ति ॥
[तस्यां प्रदानान्तानि ॥ कौश्स्_2,5{15}.3 ॥]
ततः कर्ताभ्यातानान्तं कृत्वा ऽऋधङ्मन्त्रःऽ ऽतदिदासऽ इति सूक्ताभ्यामाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । वराहविहितादि पूर्वतन्त्रं कृत्वा ऽऋधङ्मन्त्रःऽ ऽतदिदासऽ इति सूक्ताभ्यां सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । पूर्वोक्तेन तन्त्रं कृत्वा ऽऋधङ्मन्त्रःऽ इति सूक्ताभ्यां धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । वराहविहितादीष्विध्मे ऽऋधङ्मन्त्रःऽ ऽतदिदासऽ इतीषुसमिध आदधाति । तत उत्तरतन्त्रम् । वराहविहिताद्यभ्यातानान्तं कृत्वा ऽऋधङ्मन्त्रःऽ ऽतदिदासऽ इति सूक्ताभ्यां धनुः सम्पात्याभिमन्त्र्य विमृज्य राज्ञे प्रयच्छति । तत उत्तरतन्त्रम् ॥
[एकेष्वाहतस्यादहन उपसमाधाय दीर्घदण्डेन स्रुवेण रथचक्रस्य खेन समया जुहोति ॥ कौश्स्_2,5{15}.4 ॥]
युद्धे मृतस्य पुरुषस्यादहन इध्ममुपसमाधायोपरि रथचक्रं धारयित्वा दीर्घदण्डेन स्रुवेण ऽऋधङ्मन्त्रःऽ ऽतदिदासऽ इति सूक्ताभ्यां चक्रच्छिद्रेणाज्यमग्नौ जुहोति । न तन्त्रम् ॥
[योजनीयां श्रुत्वा योजयेत् ॥ कौश्स्_2,5{15}.5 ॥]
ऽउत्तिष्ठऽ ऽसन्नह्यऽ ऽप्रहरऽ ऽयुध्यस्वऽ ऽयोजयस्वऽ (इति) वचनं श्रुत्वा युद्धं योजयेत् स्वसेनायाः ॥
[यदि चिन्नु त्वा (5.2.4) नमो देववधेभ्यः (6.13) इत्यन्वाह ॥ कौश्स्_2,5{15}.6 ॥]
ऽयदि चिन्नु त्वाऽ इत्यृचं जपित्वा द्वेष्यमन्वाह । ऽनमो देववधेभ्यःऽ इति सूक्तं जपित्वा द्वेष्यमन्वाह । जयकर्माणि साङ्ग्रामिकाणि समाप्तानि । कर्मणां विकल्पः । एतैः कृतैरवश्यं जयो भवति ॥
[वैश्यकर्माणि]
वैश्याय सङ्ग्रामविधिं वक्ष्यामः -
[वैश्याय प्रदानान्तानि ॥ कौश्स्_2,5{15}.7 ॥]
अग्निमन्थनादि साङ्ग्रामिकं तन्त्रं कृत्वा ऽयदि चिन्नु त्वाऽ इत्येकयाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽयदि चिन्नु त्वा धनाऽ इत्येकया सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽयदि चिन्नु त्वाऽ इत्यृचा धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽयदि चिन्नु त्वाऽ इत्यृचा शरेध्मे शरसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽयदि चिन्नु त्वाऽ इत्येकयर्चा धनुः सम्पात्याभिमन्त्र्य विमृज्य वैश्याय प्रयच्छति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽनमो देववधेभ्यःऽ इति सूक्तेनाज्यं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽनमो देववधेभ्यःऽ इति सूक्तेन सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽनमो देववधेभ्यःऽ इति सूक्तेन धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽनमो देववधेभ्यःऽ इति सूक्तेनेष्विध्म इषुसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽनमो देववधेभ्यःऽ इति सूक्तेन धनुः सम्पात्याभिमन्त्र्य विमृज्य वैश्याय प्रयच्छति । तत उत्तरतन्त्रम् । विजयकामः । समाप्तानि वैश्ययुद्धकर्माणि ॥
[आयुधिग्रामणीकर्माणि]
आयुधिने ग्रामण्ये सङ्ग्रामविधिं वक्ष्यामः-
[त्वया वयम् (5.2.5) इत्यायुधिग्रामण्ये ॥ कौश्स्_2,5{15}.8 ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वा ऽत्वया वयम्ऽ इत्येकयाज्यं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽत्वया वयम्ऽ इत्येकया सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽत्वया वयम्ऽ इत्यृचा धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽत्वया वयम्ऽ इत्यृचेष्विध्म इषुसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽत्वया वयम्ऽ इत्यृचा धनुः सम्पात्याभिमन्त्र्य विमृज्य बलाधिकृताय प्रयच्छति । तत उत्तरतन्त्रम् । समाप्तान्यायुधिग्रामणीकर्माणि । कर्मणां विकल्पः । जयो भवतीत्यर्थः । समाप्तं सेनापतिजयकर्म । दण्डनायकजयकर्म । कोटपालजयकर्म । स्वसेनाजयपराजयकर्म । बलाधिकृतजयकर्म । अन्येषां वरिष्ठादीनां जयकर्म । समाप्तमेषां विजयकर्म ॥
[विज्ञानकर्माणि]
स्वसेनाजयपराजयपुरुषवधशङ्कायां च विज्ञानमुच्यते -
[नि तद्दधिषे (5.2.6) इति राज्ञोदपात्रं द्वौद्वाववेक्षयेत् ॥ कौश्स्_2,5{15}.9 ॥]
नि तद्दधिषे इत्यृचोदपात्रमभिमन्त्र्य ततो द्वौ द्वौ योद्धाराववेक्षयेत् ॥
[यन्न पश्येन्न युध्येत ॥ कौश्स्_2,5{15}.10 ॥]
राजा यं न पश्येत् न युध्येत न योधयेत् । पुरोहितो मन्त्रं ब्रूयात् । पुनःपुनरुदपात्र अभिमन्त्रणम् । समाप्तं स्वसेनाया योद्धृपुरुषाणां च विज्ञानम् ॥
अथ नवे रथे घटिते संस्कार उच्यते जयकामस्य -
[नि तद्दधिषे (5.2.6) वनस्पते (6.125) अया विष्ठा (7.3-4) अग्न इन्द्रः (7.110.1-2) दिशश्चतस्रः (8.8.22-23) इति नवं रथं राजानं ससारथिमास्थापयति ॥ कौश्स्_2,5{15}.11 ॥]
ऽनि तद्दधिषेऽ इत्यृचा रथमभिमन्त्र्य ससारथिं राजानमास्थापयति । ऽवनस्पते वीड्वङ्गःऽ इति तृचेन सूक्तेन नवरथमभिमन्त्र्य ससारथिं राजानमास्थापयति । ऽअया विष्ठा जनयन्ऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य ससारथिं राजानमास्थापयति । ऽअग्न इन्द्रश्च दाशुषेऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य ससारथिं राजानमास्थापयति । ऽदिशश्चतस्रःऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य राजानं ससारथिमास्थापयति । जयकामः । नवे रथ आरोहणविधानं समाप्तम् ॥
अथारोग्यविधानमुच्यते -
[ब्रह्म जज्ञानम् (5.6) इति जीवितविज्ञानम् ॥ कौश्स्_2,5{15}.12 ॥
तिस्रः स्नावरज्जूरङ्गारेष्ववधाय ॥ कौश्स्_2,5{15}.13 ॥]
ऽब्रह्म जज्ञानम्ऽ (5.6.1) ऽअनाप्ताःऽ (6.6.2) इति सूक्तेन तिस्रः स्नावरज्जूरभिमन्त्र्य ततोऽङ्गारेषु निदधाति ॥
[उत्कुचतीषु कल्याणम् ॥ कौश्स्_2,5{15}.14 ॥]
यदि ता उत्क्षरन्ति तत आरोग्यता भवति । समाप्तमारोग्यविज्ञानम् ॥
अथ साङ्ग्रामिकविज्ञानमुच्यते -
[साङ्ग्रामिकमेता व्यादिशति मध्ये मृत्युरितरे सेने ॥ कौश्स्_2,5{15}.15 ॥]
ऽब्रह्म जज्ञानम्ऽ (5.6.1) ऽअनाप्ता येऽ (5.6.2) ऽसहस्रधारेऽ (5.6.3) इति सूक्तेन तिस्रः स्नावरज्जूरभिमन्त्र्य ततः सङ्कल्पः । एका रज्जुरात्मसेना । मध्ये द्वितीया (रज्जुः) मृत्युः । तृतीया रज्जुः परसेना । एवं सङ्कल्पः । ततः अङ्गारेषु निधायेष्यते ॥

[पराजेष्यमाणान् मृत्युरतिवर्तते जेष्यन्तो मृत्युम् ॥ कौश्स्_2,5{15}.16 ॥]
यस्या उपरि मृत्युर्गच्छति तस्याः सेनाया जयो न भवति । या मृत्योरुपरि पतति तस्या जयो भवति । परसेनासम्मुखा या याति तस्या अपि जयो भवति ॥
[अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेष्ववरे ॥ कौश्स्_2,5{15}.17 ॥]
ऽब्रह्म जज्ञानम्ऽ (5.6) इति द्वितीयेन सूक्तेन स्नावरज्जुमेकामभिमन्त्र्य ततोऽङ्गारेषु निदधाति । ततो निरीक्षते । अग्रेषु अग्रेः पश्चिमदिग्भागेषूत्कुचत्सु मुख्या हन्यन्ते । मध्येषु मध्याः । अन्तेषु पूर्वदिशान्तेष्ववरपदातिविनाशः ॥
[एवमिषीकाः ॥ कौश्स्_2,5{15}.18 ॥]
एवमिषीकाः करोति । बद्ध्वा रज्जूः कृताः ऽब्रह्म जज्ञानम्ऽ इति सूक्तेनाभिमन्त्र्य करोति । आरोग्यविज्ञानकर्म । जयपराजयविज्ञानकर्म । स्नावरज्जुमुख्यमध्यमावरविज्ञानकर्म । एतानि त्रीणि कर्माणि भवन्ति । अभिमन्त्र्य कर्तव्यानि । इषीकाः शरमया वा वीरिणमया वा कर्तव्याः । समाप्तं साङ्ग्रामिकं विज्ञानम् । षष्ठी कण्डिका

16

[राजकर्माणि]
अथ परसेनात्रासनविद्वेषणमुच्यते -
[उच्चैर्घोषः (5.20) उप श्वासय (6.126) इति सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण सन्धाव्य सम्पातवन्ति त्रिराहत्य प्रयच्छति ॥ कौश्स्_2,6{16}.1 ॥]
अभ्यातानान्तं कृत्वा ऽउच्चैर्घोषःऽ इति सूक्तेन भेर्यादिवादित्राणि प्रक्षाल्य तगरोशीरेण लेपयित्वा सम्पात्य ततः स्वयं पुरोधा (वादयितृभ्यः) त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा वादित्राणि प्रक्षाल्य तगरोशीरेण सन्धाव्य ऽउप श्वासयऽ इति सूक्तेन वादित्राणि सम्पातवन्ति कृत्वा त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् ॥
[विहृदयम् (5.21) इत्युच्चैस्तरां हुत्वा स्रुवमुद्वर्तयन् ॥ कौश्स्_2,6{16}.2 ॥]
अभ्यातानान्तं कृत्वा ऽविहृदयम्ऽ इति सूक्तेन सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण लेपयित्वोच्चैस्तरां हुत्वा सम्पातवन्ति त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् ॥
[सोमांशुं हरिणचर्मण्युत्सीव्य क्षत्रियाय बध्नाति ॥ कौश्स्_2,6{16}.3 ॥]
अभ्यातानान्तं कृत्वा ऽविहृदयम्ऽ इति सूक्तेन सोमाङ्कुरमणिं हरिणचर्मणावेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ऽविहृदयम्ऽ इति सूक्तस्य सर्वत्र उच्चैस्तरेण स्वरेण प्रयोगः । सूचनं परत्र । समाप्तं द्विषो विद्वेषणं त्रासनं च ॥
[परि वर्त्मानि (6.67) इन्द्रो जयाति (6.98) इति राजा त्रिः सेनां परियाति ॥ कौश्स्_2,6{16}.4 ॥]
ऽपरि वर्त्मानि सर्वतःऽ इति सूक्तेन राजा त्रिः सेनां परिभ्राम्यति । ऽइन्द्रो जयातिऽ इति सूक्तेन राजा त्रिः कटकं भ्राम्येत् । जयकामः । त्रिः सूक्तावृत्तिः ॥
[उक्तः पूर्वस्य सोमांशुः ॥ कौश्स्_2,6{16}.5 ॥]
अभ्यातानान्तं कृत्वा ऽपरि वर्त्मानिऽ इति सूक्तेन सोममणिं चर्मवेष्टितं कृत्वा सम्पात्याभिमन्त्र्य राज्ञे बध्नाति । तत उत्तरतन्त्रम् । जयकामः ॥
[सन्दानं वः (6.103) आदानेन (6.104) इति पाशैरादानसन्दानानि ॥ कौश्स्_2,6{16}.6 ॥]
अभ्यातानान्तं कृत्वा ऽसन्दानं वःऽ, ऽआदानेनऽ इति सूक्ताभ्यां भाङ्गपाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । जयकाम इदं कर्म कुर्यात् । जयकर्माण्यनुवर्तन्ते ऽअस्मिन् वसुऽ इति राष्ट्रावगमनं यावत् । अभ्यातानान्तं कृत्वा ऽसन्दानं वःऽ ऽआदानेनऽ इति सूक्ताभ्यां मौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् अभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥
स्वसेनाया अभयकर्म उच्यते -
[मर्माणि ते (7.118.1) इति क्षत्रियं सन्नाहयति ॥ कौश्स्_2,6{16}.7 ॥]
ऽमर्माणि तेऽ इत्यृचा सन्नाहमभिमन्त्र्य राजानं सन्नाहं परिधापयति । अभयकामः ॥
[अभयानामप्ययः ॥ कौश्स्_2,6{16}.8 ॥]
ऽअभयं द्यावापृथिवीऽ (6.40) इति सूक्तेन सप्तर्षीन् यजते प्रतिदिशं सेनायाः । ऽअभयं द्यावापृथिवीऽ इति सूक्तेन प्रतिदिशं सेनाया उपतिष्ठते वा । ऽश्येनोऽसि गायत्रम्ऽ (6.48) इति सूक्तेन सप्तर्षीन् यजत उपतिष्ठते वा सेनायाः प्रतिदिशम् । चतुर्षु दिक्षु कुर्यात् । सङ्ग्रामे वर्तमाने । ऽअभयं द्यावापृथिवी श्येनोऽसीति प्रतिदिशं सप्तर्षीनभयकामःऽ (कौश्स् । 59.26) । यजते । उपतिष्ठते वा । एकस्मिन् स्थाने कर्मप्रयोगं वा कुर्यात् । दिशि दिश्यभिमुखानि तन्त्राणि कृत्वा यजते । सूक्तविकल्पः । उपतिष्ठते । स्वस्थाने उर्ध्वस्थितो दिश्यभिमुखश्चतुर्षु दिक्षु कुर्यात् । समाप्तं सेनाया अभयकर्म ॥
[इन्द्रो मन्थतु (8.8.1) इति ॥ कौश्स्_2,6{16}.9 ॥
पूतिरज्जुः (8.8.2) इति पूतिरज्जुमवधाय ॥ कौश्स्_2,6{16}.10 ॥
अश्वत्थबधकयोरग्निं मन्थति ॥ कौश्स्_2,6{16}.11 ॥
धूमम् (8.8.2) इति ममनुमन्त्रयते ॥ कौश्स्_2,6{16}.12 ॥
अग्निम् (8.8.2) इत्यग्निम् ॥ कौश्स्_2,6{16}.13 ॥]
उक्तमग्निमन्थनमादौ ऽइन्द्रो मन्थतुऽ इति ॥
अथ सपत्नक्षयणीकर्म उच्यते -
[तस्मिन्नरण्ये सपत्नक्षयणीरादधात्यश्वत्थबधकताजदभङ्गाह्वखदिरशराणाम् ॥ कौश्स्_2,6{16}.14 ॥]
अरण्ये सपत्नक्षयणीकर्म कुर्यात् । न ग्राममध्ये कुर्यात् । तन्त्रविकल्पः हस्तहोमत्वात् । ऽइन्द्रो मन्थतुऽ इति सूक्तेन अश्वत्थसमिध आदधाति । शत्रुक्षयो भवति । ऽइन्द्रो मन्थतुऽ इति सूक्तेन करिमालकसमिध आदधाति । सेनाग्नौ सर्वत्र । ऽइन्द्रो मन्थतुऽ इति सूक्तेन एरण्डसमिध आदधाति । ऽइन्द्रो मन्थतुऽ इति सूक्तेन तिर्णिसमिध आदधाति । ऽइन्द्रो मन्थतुऽ इति सूक्तेन खदिरसमिध आदधाति । ऽइन्द्रो मन्थतुऽ इति सूक्तेन शरसमिध आदधाति सेनाग्नौ । सपत्नक्षयणी समाप्ता । शत्रुक्षयो भवति । कर्मविकल्पः ॥
[उक्ताः पाशाः ॥ कौश्स्_2,6{16}.15 ॥]
अभ्यातानान्तं कृत्वा ऽइन्द्रो मन्थतुऽ इति सूक्तेन भाङ्गपाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । सर्वत्र क्रुद्धेनाभिमन्त्रणं पाशादिषु । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽइन्द्रो मन्थतुऽ इति सूक्तेन मौञ्जान् पाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तन्त्रं च ॥
[आश्वत्थानि कूटानि भाङ्गानि जालानि ॥ कौश्स्_2,6{16}.16 ॥]
अभ्यातानान्तं कृत्वा ऽइन्द्रो मन्थतुऽ इति सूक्तेन आश्वत्थानि कूटानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति तन्त्रं च । तन्त्रं कृत्वा ऽइन्द्रो मन्थतुऽ इति सूक्तेन भाङ्गानि जालानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥
[बाधकदण्डानि ॥ कौश्स्_2,6{16}.17 ॥]
तन्त्रं कृत्वा ऽइन्द्रो मन्थतुऽ इति सूक्तेन बाधकदण्डानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । समाप्तानि जयकर्माणि ॥
[स्वाहैभ्यः (8.8.24) इति मित्रेभ्यो जुहोति ॥ कौश्स्_2,6{16}.18 ॥
दुराहामीभ्यः (8.8.24) इति सव्येनेङ्गिडममित्रेभ्यो बाधके ॥ कौश्स्_2,6{16}.19 ॥
उत्तरतोऽग्नेर्लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य नीललोहितेनामून् (8.8.24) इति दक्षिणा प्रहापयति ॥ कौश्स्_2,6{16}.20 ॥]
ऽस्वाहैभ्यःऽ इति मित्रेभ्य इत्यादि नीललोहितशाखान्तं सर्वकर्मसु भवति । आदौ उक्तम् ॥
आवश्यानि जयकर्माण्युच्यन्ते -
[ये बाहवः (11.9) उत्तिष्ठत (11.10) इति यथालिङ्गं सम्प्रेष्यति ॥ कौश्स्_2,6{16}.21 ॥]
ऽये बाहवःऽ इत्यनुवाकं युद्धकाले जपति कर्ता ॥
[होमार्थे पृषदाज्यम् ॥ कौश्स्_2,6{16}.22 ॥]
आज्यतन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन पृषदाज्यं जुहोति । तत आज्येनोत्तरतन्त्रम्.
[प्रदानान्तानि वाप्यानि ॥ कौश्स्_2,6{16}.23 ॥]

अभ्यातानान्तं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन सक्तूञ्जुहोति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन धनुरिध्मेऽग्नौ पृषदाज्येनाक्ता धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेनेष्विध्मेऽग्नौ पृषदाज्येनाक्ता इषुसमिध आदधाति । तत उत्तरतन्त्रम् । आज्येन पूर्वतन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन पृषदाज्येन धनुः सम्पात्याभिमन्त्र्य विमृज्य योद्ध्रे प्रयच्छति । तत आज्येनोत्तरतन्त्रम् । आज्येन पूर्वतन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन भाङ्गपाशान् पृषदाज्येन सम्पात्य क्रुद्धोऽभिमन्त्र्य सेनाक्रमेषु वपति । तत आज्येनोत्तरतन्त्रम् । सर्वत्र पाशेषु आश्वत्थेषु कूटेषु भाङ्गेषु जालेषु बाधकदण्डेषु वज्ररूपेषु पात्रेषु च इङ्गिडालङ्करणं क्रुद्धाभिमन्त्रणं कुर्यात् । आज्येन तन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन मौञ्जपाशान् पृषदाज्येन सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । आज्येन उत्तरतन्त्रम् । आज्येन तन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन आमपात्राणि पृषदाज्येन सम्पात्याभिमन्त्र्य सेनायुद्धस्थाने वपति । आज्येनोत्तरतन्त्रम् ॥
[वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदिरूपाणि ॥ कौश्स्_2,6{16}.24 ॥]
तन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन त्रिषन्धीनि लोहमयानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन वज्ररूपाणि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन वज्ररूपाणि लोहमयानि अर्बुदिरूपाणि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥
[शितिपदीं सम्पातवतीं दर्भरज्ज्वा क्षत्रियायोपासङ्गदण्डे बध्नाति ॥ कौश्स्_2,6{16}.25 ॥]
अभ्यातानान्तं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन शितिपदीम् अजां पृषदाज्येन सम्पात्याभिमन्त्र्य राज्ञे दर्भरज्ज्वा उपासङ्गदण्डे बध्नाति । आज्येनोत्तरतन्त्रम् ॥
[द्वितीयामस्यति ॥ कौश्स्_2,6{16}.26 ॥]
साङ्ग्रामिकं तन्त्रं कृत्वा ऽये बाहवःऽ इत्यनुवाकेन द्वितीयां शितिपदीं सम्पात्याभिमन्त्र्य शत्रुसेनां प्रक्षिपति । आज्येन उत्तरतन्त्रम् । ततः सेनाग्न्युत्सर्गः । अवभृथश्च । शत्रुं जित्वा कर्मसमाप्तिं करोति । सर्वत्र कर्मणां विकल्पः । समाप्तानि साङ्ग्रामिकाणि कर्माणि । शितिपद्योः द्वयोरप्येकं कर्म । अन्यत्र विकल्पः । अनेन कर्मणा अवश्यं जयो भवति ॥
अथ राष्ट्रप्रवेशाभिगमनकर्मविधिं वक्ष्यामः -
[अस्मिन् वसु (1.9) इति राष्ट्रावगमनम् ॥ कौश्स्_2,6{16}.27 ॥]
स्वराष्ट्रे यो निष्क्रान्तः शत्रुणा पुनः प्रवेशमिच्छति तस्येदं कर्म ॥
[आनुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समाशयति ॥ कौश्स्_2,6{16}.28 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽअस्मिन् वसुऽ इति सूक्तेनानुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समोदनं सम्पात्याभिमन्त्र्य राजानमाशयति । अभ्यातानाद्युत्तरतन्त्रम् । राष्ट्रे य उद्वासितस्तस्येदं कर्म प्रवेशार्थम् । अनेन कर्मणा स्वराष्ट्रप्रवेशो भवति । सर्वस्यां मर्दितायां भूमौ यदा निष्क्रान्तो राजा तदेदं कर्म करोति । राष्ट्रप्रवेशनकामः । आनुशूकालना व्रीहयः पुनरुत्थिताः । छिन्नानि यानि पुनरुत्थितान्याव्रस्कानि ॥
[अभीवर्तेन (1.29) इति रथनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा
सूत्रोतं बर्हिषि कृत्वा सम्पातवन्तं प्रत्यृचं भृष्टीरभीवर्तोत्तमाभ्यामाचृतति ॥ कौश्स्_2,6{16}.29 ॥]
अभ्यातानान्तं कृत्वा ऽअभीवर्तेनऽ इति चतुर्भिरृग्भी रथचक्रनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं त्रिर्वासितं कृत्वा सूत्रोतं बर्हिषि कृत्वा प्रत्यृचं सम्पात्याभिमन्त्र्य ऽउदसौ सूर्यःऽ (1.29.5-6) इति द्वाभ्यामृग्भ्यां बध्नाति । तत उत्तरतन्त्रम् । अतिक्रान्त अर्धमर्दिते राष्ट्र इदं कर्म । अनेन कर्मणा राष्ट्रवृद्धिश्च भवति ॥
[अचिक्रदद् (3.3) आ त्वा गन् (3.4) इति यस्माद्राष्ट्रादवरुद्धस्तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति ॥ कौश्स्_2,6{16}.30 ॥
ततो लोष्टेन ज्योतिरायतनं संस्तीर्य क्षीरौदनमश्नाति ॥ कौश्स्_2,6{16}.31 ॥]
ऽअचिक्रदद्ऽ, ऽआ त्वा गन्ऽ इति सूक्ताभ्यां शयनाकारं पुरोडाशमभिमन्त्र्य दर्भेषूदके निनयति । ततो लोष्टेन पूरयेत् । दर्भस्थाने मृत्तिकाभिस्तरणम् । अभ्यातानान्तं तन्त्रं कृत्वा ऽअचिक्रदद्ऽ, ऽआ त्वा गन्ऽ इति सूक्ताभ्यां क्षीरौदनं स्थालीपाकं सम्पात्याभिमन्त्र्य राजानमाशयति । तत उत्तरतन्त्रम् ॥
[यतो लोष्टस्ततः सम्भाराः ॥ कौश्स्_2,6{16}.32 ॥]
तस्मात् स्थानात् सम्भाराहरणं यस्मान्निष्क्रान्तो राजा ॥
[तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते ॥ कौश्स्_2,6{16}.33 ॥]
तिसृणां प्रातरशिते पुरोडाशे भक्षिते पुनरत्र राष्ट्रे राजा प्रवेशं लभते । एतस्य पुरोडाशकर्म विज्ञानार्थम् । समाप्तानि राष्ट्रप्रवेशकानि कर्माणि । अवश्यं प्रवेशो भवति । भयं वा मृत्युर्वा विघ्नं दैवोपघातो वा शत्रोर्भवति । अवश्यं प्रवेशो भवतीत्यर्थः । राजकर्माण्येव वर्तन्ते । समाप्तं स्वराष्ट्रप्रवेशनकर्म ॥ सप्तमी कण्डिका

17

अथ लघ्वभिषेककर्मोच्यते -
[भूतो भूतेषु (4.8) इति राजानमभिषेक्ष्यन् महानदे शान्त्युदकं करोत्यादिष्टानाम् ॥ कौश्स्_2,7{17}.1 ॥]
अभ्यातानान्तं कृत्वा शान्त्युदकविधानेन शान्त्युदकं करोति । महानद्या उदकं वनपुष्करिणीनामुदकं देववृष्ट्युदकं दिव्यमुदकं च । उदकानां विकल्पः समुच्चयो वा शान्त्युदकमादिष्टानाम् ॥
[स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तमभिषिञ्चति ॥ कौश्स्_2,7{17}.2 ॥]
ततश्चरुं श्रपयति नद्योदकेन समुद्रोदकेन वा । वेद्या दक्षिणतः दर्भानास्तीर्य तत्रोपर्यूर्ध्वं स्थितं राजानं ऽभूतो भूतेषुऽ इति सूक्तेन शान्त्युदककलशमभिमन्त्र्य पुरोधा राजानमभिषिञ्चति ॥
[तल्पार्षभं चर्मारोहयति ॥ कौश्स्_2,7{17}.3 ॥]
अभिषिक्तः स्नातः । खट्वायामार्षभं चर्मास्तीर्य तत्र राजानमारोहयति ऽभूतो भूतेषुऽ इति सूक्तेन ॥
[उदपात्रं समासिञ्चेते ॥ कौश्स्_2,7{17}.4 ॥
विपरिदधाने ॥ कौश्स्_2,7{17}.5 ॥]
उदपात्रमुभावप्यासिञ्चतो धाराया उदकेन ॥
[सहैव नौ सुकृतं सह दुष्कृतम् इति ब्रह्मा ब्रूयात् ॥ कौश्स्_2,7{17}.6 ॥
यो दुष्कृतं करवत्तस्य दुष्कृतं सुकृतं नौ सह इति ॥ कौश्स्_2,7{17}.7 ॥]
ऽसहैव नोऽ इति राजा ब्रूते । ब्रह्मा ब्रूयात् ऽयो दुष्कृतम्ऽ इति ॥
[आशयति ॥ कौश्स्_2,7{17}.8 ॥]
ततः स्थालीपाकं ऽभूतो भूतेषुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याशयति ॥
[अश्वमारोह्यापराजितां प्रतिपादयति ॥ कौश्स्_2,7{17}.9 ॥]
ततोऽश्वमारोहयति ऽभूतो भूतेषुऽ इति सूक्तेन । अपराजितां प्रतिपादयति । वाहेनोपनिष्क्रम्य पुनर्गृह आगत्याभ्यातानाद्युत्तरतन्त्रम्.
[सहस्रं ग्रामवरो दक्षिणा ॥ कौश्स्_2,7{17}.10 ॥]
सहस्रं गवां दक्षिणा ग्रामवरश्च । अभिषेकः समाप्तः ॥
[विपरिधानान्तमेकराजेन व्याख्यातम् ॥ कौश्स्_2,7{17}.11 ॥]
माण्डलिकस्य सामन्तस्य युवराजस्य सेनापतेरन्यस्य कस्यचिदभिषेकः अनेन विधानेन कार्यः । तस्यापि पुरोहितवरणे कृते सत्यभिषेकः कार्यः । अभिषेकादनन्तरं घृतावेक्षणमारात्रिकं राजकर्माणि पिष्टरात्र्यादीनि प्रत्यहं कर्तव्यानि । विधानेन सर्वाणि दानानि ददाति । पुष्पाभिषेक-महानवमी-इन्द्रोत्सव-वृषोत्सर्ग-जन्मदिनादि प्रतिवर्षं कार्याणि ॥
सार्वभौमाभिषेक उच्यते । महाभिषेकविधिं वक्ष्यामः -
[तल्पे दर्भेष्वभिषिञ्चति ॥ कौश्स्_2,7{17}.12 ॥]
सार्वभौमस्य भवति । अभ्यातानान्तं कृत्वा ततः शान्त्युदकं करोति । चतुर्णां सागराणां तु महानदीनां शतस्य च । तेनोदकेन शान्त्युदकं करोति वधानेन । मन्त्रोक्तेन उदकेन चरुं श्रपयति । ततो दक्षिणतो वेदेः खट्वां स्तृणाति । मञ्चिका । यथा लोके अभिषेकः । तस्या उपरि दर्भान् स्तृणाति । तत्र राजनि उपविष्टे ऽभूतो भूतेषुऽ इति सूक्तेन तेन शान्त्युदकेन राजानमभिषिञ्चति ॥
[वर्षीयसि वैयाघ्रं चर्मारोहयति ॥ कौश्स्_2,7{17}.13 ॥]
ततः खट्वायां वर्षीयस्यां वैयाघ्रं चर्म स्तृणाति मञ्चके । तत्र राजानमारोहयति ऽभूतो भूतेषुऽ इति सूक्तेन । उदपात्रं समासिञ्चेते । राजा ब्रूते ऽसहैव नोऽ इति । पुरोहितो ब्रूयात् ऽयो दुष्कृतम्ऽ इति । ततः पुरोहितः सूक्तं जपति ॥
[चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति ॥ कौश्स्_2,7{17}.14 ॥]
चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु गृहीत्वा सभामध्ये निदधति ॥
[दासः पादौ प्रक्षालयति ॥ कौश्स्_2,7{17}.15 ॥
महाशूद्र उपसिञ्चति ॥ कौश्स्_2,7{17}.16 ॥]
दासः पादौ प्रक्षालयति राजकीयो महाशूद्रः प्रक्षालनं ददाति । पुरोहितो ऽभूतो भूतेषुऽ इति सूक्तं जपति ॥
[कृतसम्पन्नानक्षानातृतीयं विचिनोति ॥ कौश्स्_2,7{17}.17 ॥]
राजा द्यूतक्रीडां करोति । पुनः पुरोहितः ऽभूतो भूतेषुऽ इति सूक्तं जपति । एको दायश्चतुर्णां वर्णानाम् । त्रयः दायाः राज्ञः । सर्ववर्णान् सर्वत्र पालयते राजा ॥
[वैश्यः सर्वस्वजैनमुपतिष्ठते उत्सृजायुष्मन् इति ॥ कौश्स्_2,7{17}.18 ॥]
वैश्यः राजानमुपतिष्ठते ऽउत्सृजायुष्मन्ऽ इति मन्त्रेण ॥
[उत्सृजामि ब्राह्मणायोत्सृजामि क्षत्रियायोत्सृजामि वैश्याय धर्मो मे जनपदे चर्यताम् इति ॥ कौश्स्_2,7{17}.19 ॥]
ततो राजा ब्रूते ऽब्राह्मणायऽ । अनुज्ञामाहैतैर्मन्त्रैः ॥
प्रतिपद्यते ॥ कौश्स्_2,7{17}.20 ॥
[आशयति ॥ कौश्स्_2,7{17}.21 ॥]
ततः स्थालीपाकं ऽभूतो भूतेषुऽ इति सूक्तेन सम्पात्याभिमन्त्र्य राजानमाशयति ॥
[अश्वमारोह्यापराजितां प्रतिपादयति ॥ कौश्स्_2,7{17}.22 ॥]
ऽभूतो भूतेषुऽ इत्यनेनाश्वमभिमन्त्र्यारोह्यापराजितां पादयति ॥
[सभामुदायति ॥ कौश्स्_2,7{17}.23 ॥]
पुनः सभां प्रगच्छति ॥
[मधुमिश्रं ब्राह्मणान् भोजयति ॥ कौश्स्_2,7{17}.24 ॥]
ततो मधुमिश्रं मिष्टमन्नं ब्राह्मणान् भोजयति ॥
[रसानाशयति ॥ कौश्स्_2,7{17}.25 ॥]
तन्त्रं कृत्वा ततो ऽभूतो भूतेषुऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य राजानमाशयति । अभ्यातानाद्युत्तरतन्त्रम् । सहस्रं गवां ग्रामवरश्च दक्षिणा ॥
[माहिषाण्युपयाति ॥ कौश्स्_2,7{17}.26 ॥]
ततः स्त्रीणां गृहे याति ॥
[कुर्युर्गामिति गार्ग्यपार्थश्रवसौ नेति भागलिः ॥ कौश्स्_2,7{17}.27 ॥]
तत्र मधुपर्को देयः । महाभिषेकः समाप्तः । अतःप्रभृति राजकर्माधिकारः । घृतावेक्षणं पुरोहितकर्मारात्रिकं नक्षत्रपूजाग्रहपूजादिकं कर्तव्यम् ॥
इममिन्द्र वर्धय क्षत्रियं मे (4.22) इति क्षत्रियं प्रातःप्रातरभिमन्त्रयते ॥ कौश्स्_2,7{17}.28 ॥
[उक्तं समासेचनं विपरिधानम् ॥ कौश्स्_2,7{17}.29 ॥]
ऽइममिन्द्रऽ इत्युदपात्रं समासिञ्चेते उदकधारया । ततो राजा ब्रूयात् ऽसहैव नौऽ इति । ततः पुरोहितो ब्रूयात् ऽयो दुष्कृतम्ऽ इति । ततः पुरोहितः सूक्तं जपति ॥
[सविता प्रसवानाम् (5.24) इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय ॥ कौश्स्_2,7{17}.30 ॥]
ततः ऽसविता प्रसवानाम्ऽ इति सूक्तेन पौरोहित्ये वत्स्यन् शूद्रेण आहृताः समिध आदधाति । ऽअथर्वाङ्गिरसः पुरोहितो भवतिऽ इति गोपथब्राह्मणे उक्तम् । राजकर्मसु पञ्चगृहीतमाज्यं सर्वत्र । हस्तित्रसनादीनि अभिषेकान्तानि राजकर्माणि ॥
[इन्द्र क्षत्रम् (7.84.2-3) इति क्षत्रियमुपनयीत ॥ कौश्स्_2,7{17}.31 ॥]
ऽइन्द्र क्षत्रम्ऽ इति द्वाभ्यामृग्भ्यामुपनयनम् । तन्त्र ऽअस्मिन् वसुऽ (1.9) इति गणस्थाने क्षत्रियमभिमन्त्रयते । क्षत्रियरयोपनयनं कुर्यात् । क्षत्रियस्योपनयने विशेषः । समानमन्यत् ॥
तदाहुर्न क्षत्रियं सावित्रीं वाचयेदिति ॥ कौश्स्_2,7{17}.32 ॥
[कथं नु तमुपनयीत यन्न वाचयेत् ॥ कौश्स्_2,7{17}.33 ॥
वाचयेदेव वाचयेदेव ॥ कौश्स्_2,7{17}.34 ॥]
अथ वाचयेदिति विकल्पं मन्यन्ते आचार्याः । समाप्तं क्षत्रियस्योपनयनकर्म । तत्र श्लोकः -
मेधासाम्पदकर्माणि साम्मनस्यं च वर्चसम्.
क्रमाच्च राजकर्माणि द्वितीयेऽस्मिन् महर्षिणा ॥
अष्टमी कण्डिका

18

॥ द्वितीयोऽध्यायः समाप्तः ॥
अथ तृतीयोऽध्यायः
[निरृतिकर्माणि]
निरृतिकर्मणां विधिं वक्ष्यामः । आ पुष्टिकर्मभ्यो यावत्.
[पूर्वस्य पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते ॥ कौश्स्_3,1{18}.1 ॥]
पौर्णमास्यां रात्रौ निरृतिकर्म कुर्यात् । कृष्णवसनपरिहितोऽग्निं गृहीत्वोदकान्ते गत्वा नाव्योपरि चटित्वाग्निं प्रज्वाल्य ऽये त्रिषप्ताःऽ (1.1) इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । न तन्त्रम् ॥
[नाव्याया दक्षिणावर्ते शापेटं निखनेत् ॥ कौश्स्_3,1{18}.2 ॥]
शापेटं गर्तं निखनेत् ॥
[अपां सूक्तैरवसिञ्चति ॥ कौश्स्_3,1{18}.3 ॥]
तत्रोपर्यपां सूक्तैः स्नात्वा ॥
अप्सु कृष्णं जहाति ॥ कौश्स्_3,1{18}.4 ॥
[अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ॥ कौश्स्_3,1{18}.5 ॥]
अहतवसनो भूत्वोपमुच्योपानहौ ततो गृह आगच्छति ॥
[प्रोष्य तामुत्तरस्यां साम्पदं कुरुते ॥ कौश्स्_3,1{18}.6 ॥]
ततः साम्पदं वा पौष्टिकं वा कुरुते । केवलं वा कुरुते ॥
[शापेटमालिप्याप्सु निबध्य तस्मिन्नुपसमाधाय सम्पातवन्तं करोति ॥ कौश्स्_3,1{18}.7 ॥
अश्नाति ॥ कौश्स्_3,1{18}.8 ॥
आधाय कृष्णं प्रवाहयति ॥ कौश्स्_3,1{18}.9 ॥
उपमुच्य जरदुपानहौ सव्येन जरच्छत्त्रं दक्षिणेन शालातृणान्यादीप्य जीर्णं वीरिणमभिन्यस्यति ॥ कौश्स्_3,1{18}.10 ॥
अनावृतमावृत्य सकृज्जुहोति ॥ कौश्स्_3,1{18}.11 ॥]
कृष्णवस्त्रपरिहितो विमुच्य जरदुपानहौ वामेन हस्तेन जरच्छत्रं गृहीत्वा दक्षिणेन हस्तेन शालातृणपूलकेऽग्निं कृत्वा जीर्णे वीरिणेऽग्निं प्रज्वाल्याप्रदक्षिणं भूत्वा निरृतिदिशमभिमुखो भूत्वा ऽये त्रिषप्ताःऽ इति सूक्तेनाज्यं सकृज्जुहोति ॥
[सव्यं प्रहरत्युपानहौ च ॥ कौश्स्_3,1{18}.12 ॥]
अग्नौ छत्रोपानहौ प्रहरति । तत उत्तरतन्त्रम् । उदकान्ते नाव्याया दक्षिणावत शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ ततो गृह आगच्छति ॥
[जीर्णे वीरिण उपसमाधाय अयं ते योनिः(3.20) इति जरत्कोष्ठाद्व्रीहीञ्छर्करामिश्रानावपति ॥ कौश्स्_3,1{18}.13 ॥]
पूर्वस्यां पौर्णमास्यामस्तमिते कृष्णचैलपरिहितोऽग्निं गृहीत्वा बहिर्गत्वा वीरिणस्तम्बेऽग्निं प्रज्वाल्य ऽअयं ते योनिःऽ इति सूक्तेन
व्रीहिञ्छर्करामिश्रान् सकृज्जुहोति ॥
[आ नो भर (5.7) इति धानाः ॥ कौश्स्_3,1{18}.14 ॥]
ऽआ नो भर मा परि ष्ठाऽ इति सूक्तेन धानाः शर्करामिश्राः सकृज्जुहोति ॥
[युक्ताभ्यां सह कोष्ठाभ्यां तृतीयाम् ॥ कौश्स्_3,1{18}.15 ॥]
ऽअयं ते योनिःऽ, ऽआ नो भरऽ इति द्वाभ्यां सूक्ताभ्यां सह पिटकेन तृतीयामाहुतिं जुहोति । तत उदकान्ते शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ॥
[कृष्णशकुनेः सव्यजङ्घायामङ्कमनुबध्याङ्के पुरोडाशं प्र पतेत (7.115.1) इत्यनावृतं प्रपादयति ॥ कौश्स्_3,1{18}.16 ॥]
पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते । काकजङ्घायां लोहकण्टकं बद्ध्वा कण्टके पुरोडाशं कृत्वा निरृत्यभिमुखो भूत्वा ऽप्र पतेतऽ इत्यृचा काकं विसर्जयति । नाव्याया दक्षिणावर्ते शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ ततो गृह आगच्छति ॥
[नीलं सन्धाय लोहितमाच्छाद्य शुक्लं परिणह्य द्वितीययोष्णीषमङ्केनोपसाद्य सव्येन सहाङ्केनावाङप्स्वपविध्यति ॥ कौश्स्_3,1{18}.17 ॥]
पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते । कारयिता नीलं वस्त्रमधः परिधत्ते । रक्तं वस्त्रमुपर्याच्छाद्य शुक्लं वस्त्रमुष्णीषं कृत्वा ऽया मा लक्ष्मीःऽ (7.115.2) इत्यृचा लोहखण्डेन सहोष्णीषमुदके प्रक्षिपति वामेन हस्तेन ॥
[तृतीयया छन्नं चतुर्थ्या संवीतम् ॥ कौश्स्_3,1{18}.18 ॥]
ऽएकशतं लक्ष्म्यःऽ (7.115.3) इत्यृचा रक्तं वस्त्रं लोहखण्डेन सहाप्सु क्षिपति वामेन हस्तेन । ऽएता एना व्याकरम्ऽ (7.115.4) इत्यृचा नीलं वस्त्रं लोहखण्डेन सहाप्सु क्षिपति वामेन हस्तेन । शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसनो भूत्वोपानहौ परिधाय गृह आगच्छति । ततः कर्माणि कुर्यात् पौष्टिकानि साम्पदानि च । समाप्तानि
निरृतिकर्माणि । पञ्च प्रधानानि कर्माणि । एवं निरृतिकर्म कृत्वा ततः साम्पदेषु पौष्टिकेषु चाधिकारः । प्रतिकर्म वा केवलं वा निरृतिकर्म पापक्षयार्थं करोति । निरृतिकर्मणां क्रमोऽपि नास्ति । पञ्चानां मध्य एकं कृत्वा ततः पौष्टिकानां प्रयोगः साम्पदानां च । पूर्वस्य ब्रह्मचारिसाम्पदादीनि साम्पदानि । पूर्वस्य चित्राकर्मादीनि पौष्टिकानि । एतान्युच्यन्ते आ भैषज्येभ्यः कर्मभ्यो यावत् ॥
[पुष्टिकर्माणि]
पुष्टिकर्मणां विधिं वक्ष्यामः -
[पूर्वस्य चित्राकर्म ॥ कौश्स्_3,1{18}.19 ॥]
[कुलायशृतं हरितबर्हिषमश्नाति ॥ कौश्स्_3,1{18}.20 ॥]
आज्यतन्त्रे हरितदर्भास्तरणं करोति । अभ्यातानान्तं समानम् । ऽये त्रिषप्ताःऽ (1.1) इति सूक्तेन कुलायशृतं क्षीरौदनं स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति कारयिता । अभ्यातानाद्युत्तरतन्त्रम् । एतत् कर्म चैत्र्यां पौर्णमास्यां कुर्यात् । अथवा चित्रानक्षत्रे कुर्यात् । नित्यं चैत्रीकर्म ॥
[अन्वक्ताः प्रादेशमात्रीरादधाति ॥ कौश्स्_3,1{18}.21 ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन घृतेनाक्ताः पालाशादिसमिध आदधाति । एतदपि चित्राकर्म नित्यं च ॥
[नाव्ययोः सांवैद्ये पश्चादग्नेर्भूमिपरिलेखे कीलालं मुखेनाश्नाति ॥ कौश्स्_3,1{18}.22 ॥]
नाव्यनदीसङ्गमे गत्वाभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्य पश्चादग्नेर्भूमौ प्रक्षिप्य पशुवन्मुखेनाश्नाति न हस्तेन । अभ्यातानाद्युत्तरतन्त्रम् ॥
[तेजोव्रतं त्रिरात्रमश्नाति ॥ कौश्स्_3,1{18}.23 ॥]
त्रिरात्रं कर्म भवति । प्रत्यहं तन्त्रम्.
तद्भक्षः ॥ कौश्स्_3,1{18}.24 ॥
तेजस्कामः पुष्टिकामश्च । समाप्तं तेजोव्रतम् ॥
[शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् (5.6) अस्य वामस्य (9.9-10) यो रोहितः (13.1.25-26) उदस्य केतवः (13.2) मूर्धाहम् (16.3-4) विषासहिम् (17.1) इति सलिलैः क्षीरौदनमश्नाति ॥ कौश्स्_3,1{18}.25 ॥]
अभ्यातानान्तं कृत्वा ऽआपो हि ष्ठाऽ (1.5) ऽशं नो देवीःऽ (1.6) ऽब्रह्म जज्ञानम्ऽ, ऽअनाप्ता येऽ (5.6.2), ऽअस्य वामस्यऽ अनुवाकः, ऽयो रोहितःऽ इति द्वे, ऽउदस्य केतवःऽ इत्यनुवाकः, ऽमूर्धाहम्ऽ इति द्वे सूक्ते, ऽविषासहिम्ऽ इत्यनुवाकः, एतैः क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । सर्वत्र ऽआपो हि ष्ठाऽ इत्यादिसलिलगणो ज्ञातव्यः ॥
[मन्थान्तानि ॥ कौश्स्_3,1{18}.26 ॥]

सलिलैः औदुम्बरसमिध आदधाति । सलिलैः पालाशसमिध आदधाति । सलिलैः कर्कन्धूसमिध आदधाति । सलिलैः व्रीहीन् जुहोति । सलिलैर्यवान् जुहोति । सलिलैस्तिलान् जुहोति । तन्त्रे सलिलैः क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तन्त्रे सलिलैः पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तन्त्रे सलिलैः रसान् सम्पात्याभिमन्त्र्य भक्षयति । सलिलैः त्रिरह्नोऽग्निं प्रज्वालयति । सलिलैः त्रिरग्निमुपतिष्ठते । अभ्यातानान्ते सलिलैः सव्यात् पाणिहृदयाल्लोहितं रसमिश्रमश्नाति । तत उत्तरतन्त्रम् । इति मन्थान्तानि कर्माणि ॥
अध्वानं गच्छतः पुष्टिकर्माण्युच्यन्ते -
[द्वितीयेन प्रवत्स्यन् हविषामुपदधीत ॥ कौश्स्_3,1{18}.27 ॥]
ऽब्रह्म जज्ञानम्ऽ, ऽअनाप्ता येऽ सूक्तेनाज्यं जुहोति । तन्त्रे ऽब्रह्म जज्ञानम्ऽ इति चतुर्दशेन पालाशादिसमिध आदधाति । अनेन सूक्तेन पुरोडाशं जुहोति । द्वितीयेन ब्रह्मजज्ञानेन पयः, उदौदनः, पायसः, पशुः, व्रीहिः, यवः, तिलाः, धानाः, करम्भः, शष्कुल्यः एतेषां विकल्पेन होमः । हस्तहोमे तन्त्रविकल्पः । इति प्रस्थानकर्म ॥
[अथ प्रत्येत्य ॥ कौश्स्_3,1{18}.28 ॥]
यदा आगच्छति तदा एतत् कर्म ॥
[अथ प्रत्येत्य ॥ कौश्स्_3,1{18}.29 ॥]
यदा ग्रामं गच्छति तदा एतत् कर्म कुर्यात् ॥
[अथ प्रार्थयमाणः ॥ कौश्स्_3,1{18}.30 ॥]
यथार्थं याचते तदा द्रव्यकाम एतत् कर्म कुर्यात् ॥
[अथ प्रार्थयमाणः ॥ कौश्स्_3,1{18}.31 ॥]
अथवा निष्कामोऽपि करोति ॥
अथ समुद्रकर्मेति । सर्वफलकर्म व्याख्यास्यामः -
[चत्वारो धायाः पलाशयष्टीनां भवन्ति ॥ कौश्स्_3,1{18}.32 ॥
दर्भाणामुपोलवानां चत्वारः ॥ कौश्स्_3,1{18}.33 ॥
तं व्यतिषक्तमष्टावरमिध्मं सात्त्रिकेऽग्नावाधायाज्येनाभिजुहुयात् ॥ कौश्स्_3,1{18}.34 ॥]
अभ्यातानान्तं कृत्वा ततश्चत्वारः पूलका पालाशमिन्धनं चत्वारो दर्भपूलकाः । व्यतिषङ्गेन जुहोति । एकं समिद्भारकं द्वितीयं तस्योपरि दर्भभारकं पुनरपि तथैव च । अष्टौ उपर्युपरि कृत्वा ततो ऽब्रह्म जज्ञानम्ऽ इति चतुर्दशेनाज्यं जुहोति ॥
[धूमं नियच्छेत ॥ कौश्स्_3,1{18}.35 ॥]
ततो धूमं भक्षयति ॥
[लेपं प्राश्नीयात् ॥ कौश्स्_3,1{18}.36 ॥]
लेपं प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[तमु चेन्न विन्देदथ सत्त्रस्यायतने यज्ञायतनमिव कृत्वा ॥ कौश्स्_3,1{18}.37 ॥
समुद्र इत्याचक्षते कर्म ॥ कौश्स्_3,1{18}.38 ॥]
सात्त्रिकस्याग्नेः प्रणयनम् । अथवा तत्र स्थाने एतत् कर्म करोति । धनधान्यपुत्रलक्ष्मीयशोमेधाधर्मकामः । स्वर्गकामः । आयुर्बलप्रज्ञासम्पद्ग्रामकूपादि पत्नीप्राधान्य-अभयस्वस्त्ययनविजयगृहवरस्त्रीहिरण्यरत्नादि सम्पद्यते । ऽसमुद्र इत्याचक्षते कर्मऽ इति वचनात् ॥ प्रथमा कण्डिका

19

अथ गवां रोगेषु गवां पुष्टिप्रजननेषु च शान्तिरुच्यते -
[अम्बयो यन्ति (1.4) शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् (4.1) आ गावः (4.21) एका च मे (5.15) इति गा
लवणं पाययत्युपतापिनीः ॥ कौश्स्_3,2{19}.1 ॥]
ऽअम्बयो यन्तिऽ, ऽआपो हि ष्ठाऽ (1.5), ऽशन्नो देवीःऽ (1.6) इत्येतैः सूक्तैर्लवणमभिमन्त्र्य गाः पाययति । ब्रह्मजज्ञानेन प्रथमेन लवणमभिमन्त्र्य गाः पाययति । ऽआ गावःऽ इति सूक्तेन लवणमभिमन्त्र्य गाः पाययति । ऽएका च मेऽ इति सूक्तेन लवणमभिमन्त्र्य गाः पाययति । बहुदुग्धा गावो भवन्ति । ज्वरगण्डमालादिरोगे एतत् कर्म ॥
[प्रजननकामाः ॥ कौश्स्_3,2{19}.2 ॥]
गर्भग्रहणार्थमेतत् कर्म भवति ॥
[प्रपामवरुणद्धि ॥ कौश्स्_3,2{19}.3 ॥]
ऽअम्बयो यन्तिऽ, ऽआपो हि ष्ठाऽ, ऽशन्नो देवीःऽ इति त्रिभिः सूक्तैः उदकमभिमन्त्र्य गाः पाययति । पुष्ट्यर्थी । ऽब्रह्म जज्ञानम्ऽ इति सूक्तेनोदकमभिमन्त्र्य गाः पाययति । ऽआ गावःऽ इति सूक्तेनोदकमभिमन्त्र्य गाः पाययति । ऽएका च मेऽ इति सूक्तेन तडागमवरुध्य ततो गाः पाययति । समाप्तानि गवां पुष्टिकर्माणि ॥
सर्वार्थानि पुष्टिकर्माण्युच्यन्ते -
[सं सं स्रवन्तु (1.15) इति नाव्याभ्यामुदकमाहरतः सर्वत उपासेचम् ॥ कौश्स्_3,2{19}.4 ॥]
द्वाभ्यां महानदीभ्यामुदकमाहृत्य सर्वत उपासिच्य कूपतडागाद्युदकं तत्रव प्रक्षिपति ॥
[तस्मिन् मैश्रधान्यं शृतमश्नाति ॥ कौश्स्_3,2{19}.5 ॥]
तेनोदकेन मैश्रधान्यं श्रपयित्वाभ्यातानान्तं कृत्वा ऽसं सं स्रवन्तुऽ इति मैश्रधान्यं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पुष्ट्यर्थी ॥
[मन्थं वा दधिमधुमिश्रम् ॥ कौश्स्_3,2{19}.6 ॥]
अभ्यातानान्तं कृत्वा महानदीभ्यामुदकेन सक्तुमन्थं कृत्वा दधिमधु निक्षिप्य ऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । पुष्ट्यर्थी ॥
अथ लक्ष्मीकर्म व्याख्यास्यामः -
[यस्य श्रियं कामयते ततो व्रीह्याज्यपय आहार्य क्षीरौदनमश्नाति ॥ कौश्स्_3,2{19}.7 ॥]
अभ्यातानान्तं कृत्वा यस्य गृहे लक्ष्मी अस्ति तस्य गृहात् व्रीह्याज्यपय आहार्य क्षीरौदनं श्रपयित्वा ऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[तदलाभे हरितगोमयमाहार्यं शोषयित्वा त्रिवृति गोमयपरिचये शृतमश्नाति ॥ कौश्स्_3,2{19}.8 ॥]
अभ्यातानान्तं कृत्वा श्रीमतो गृहात् गोमयमाहार्य ततः शोषयित्वा त्रिवृति गोमयपरिचये शृतं सारूपवत्स ओदनं ऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति ॥ तत उत्तरतन्त्रम् । समाप्तं लक्ष्मीप्राप्तिकर्म । लक्ष्मीकर्मणि कृते लक्ष्मीर्भवति ॥
अथ समुद्र इदं कर्म क्रियते पुष्टिकर्म । अलक्ष्मीविनाशकर्माण्युच्यन्ते -
[शेरभक (2.24) इति सामुद्रमप्सु कर्म व्याख्यातम् ॥ कौश्स्_3,2{19}.9 ॥]
शापेटमालिप्याप्सु निबध्य तत्राग्निं प्रणीय ऽशेरभकऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । तन्त्रम् । पुष्ट्यर्थी ॥
[अनपहतधाना लोहिताजाया द्रप्सेन सन्नीयाश्नाति ॥ कौश्स्_3,2{19}.10 ॥
एतावदुपैति ॥ कौश्स्_3,2{19}.11 ॥]
अभ्यातानान्तं कृत्वा ऽशेरभकऽ इति सूक्तेनाखण्डितयवानां सक्तून् रक्ताजाया दध्युदकेन सन्नीय सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥
[तृणानां ग्रन्थीनुद्ग्रथ्नन्नपक्रामति ॥ कौश्स्_3,2{19}.12 ॥]
तृणानां ग्रन्थीन् कृत्वा तान् ग्रन्थीनुद्गृह्णन्नपक्रामति उदाव्रजति ॥
[तानुदाव्रजन्नुदपात्रस्योदपात्रेणाभिप्लावयति मुखं विमार्ष्टि ॥ कौश्स्_3,2{19}.13 ॥]
ऽशेरभकऽ इति सूक्तेन उदपात्रे विचृतति प्रत्यृचम् । तेनोदपात्रेण स्नानं कृत्वा मुखं प्रक्षालयति । पुष्ट्यर्थी ॥
गोष्ठकर्मणां विधिं वक्ष्यामः -
एह यन्तु पशवः (2.26), सं वो गोष्ठेन (3.14), प्रजावतीः (7.75.1), प्रजापतिः (9.7) इति गोष्ठकर्माणि ॥ कौश्स्_3,2{19}.14 ॥
गृष्टेः पीयूषं श्लेष्ममिश्रमश्नाति ॥ कौश्स्_3,2{19}.15 ॥
तन्त्रं कृत्वा ऽएह यन्तु पशवःऽ इति सूक्तेन गृष्टेः पीयूषं श्लेष्ममिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामः । अभ्यातानान्तं कृत्वा ऽसं वो गोष्ठेनऽ इति सूक्तेन गृष्टेः पीयूषं श्लेष्ममिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽप्रजावतीःऽ इत्येका, ऽपदज्ञा स्थऽ (7.75.2) इति द्वितीया । आभ्यां गृष्टेः पीयूषं श्लेष्ममिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽप्रजापतिश्च परमेष्ठी चऽ इति सूक्तेन प्रथमप्रसूताया गोः पीयूषं वत्सलालामिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[गां ददाति ॥ कौश्स्_3,2{19}.16 ॥]
ऽएह यन्तु पशवःऽ इति सूक्तेन गामभिमन्त्र्य ददाति । सर्वत्र पुष्टिकामोऽनुवर्तते । ऽसं वो गोष्ठेनऽ इति सूक्तेन गामभिमन्त्र्य ददाति । प्रजावतीः ऽपदज्ञा स्थऽ इति द्वाभ्यामृग्भ्यां गामभिमन्त्र्य ददाति । ऽप्रजापतिश्चऽ इति सूक्तेन गामभिमन्त्र्य ददाति ॥
[उदपात्रं निनयति ॥ कौश्स्_3,2{19}.17 ॥
समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति ॥ कौश्स्_3,2{19}.18 ॥]
ऽएह यन्तुऽ इति सूक्तेनोदपात्रमभिमन्त्र्य गोष्ठमध्ये निनयति । गोवाटे पांशुकूटं वामेन हस्तेन कृत्वा दक्षिणेन हस्तेन अर्धं विक्षिपति । पुष्ट्यर्थी । ऽसं वो गोष्ठेनऽ इति सूक्तेन उदपात्रमभिमन्त्र्य गोवाटे निनयति । समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति । पुष्ट्यर्थी । ऽप्रजावतीःऽ इति द्वाभ्यामृग्भ्यामुदपात्रमभिमन्त्र्य निनयति । समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति । ऽप्रजापतिश्च परमेष्ठी चऽ इति सूक्तेन उदपात्रमभिमन्त्र्य निनयति । सव्येन गोवाटे पांशुकूटं कृत्वार्धं दक्षिणेन विक्षिपति ॥
[सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चादग्नेर्निखनति ॥ कौश्स्_3,2{19}.19 ॥]
सारूपवत्स ओदने शकृत्पिण्डान् गुग्गुलुलवणं प्रक्षिप्य ततः पश्चादग्नेर्निखनति ॥
[तिसृणां प्रातरश्नाति ॥ कौश्स्_3,2{19}.20 ॥
विकृते सम्पन्नम् ॥ कौश्स्_3,2{19}.21 ॥]
त्रिरात्रं यावत् । चतुर्थे उत्खात्य अभ्यातानान्तं कृत्वा ऽएह यन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पूर्ववच्चतुर्थेऽहनि अभ्यातानान्तं कृत्वा ऽसं वो गोष्ठेनऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ।
पूर्ववच्चतुर्थेऽहनि अभ्यातानान्तं कृत्वा ऽप्रजावतीःऽ इति द्वाभ्यां सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽप्रजापतिश्चऽ इति सूक्तेन पूर्ववत् सारूपवत्सं चतुर्थेऽहनि सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तानि गोष्ठकर्माणि । इति समाप्ता गोशान्तिः ॥
अथ सर्वकाममणिशान्तिरुच्यते -
[आयमगन् (3.5), अयं प्रतिसरः (8.5), अयं मे वरणः (10.3), अरातीयोः (10.6) इति वासितान् बध्नाति ॥ कौश्स्_3,2{19}.22 ॥]

अभ्यातानान्तं कृत्वा ऽआयमगन् पर्णमणिःऽ इति सूक्तेन पालाशमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । ऽत्रयोदश्यादयस्तिस्रो दधि मधुनि वासयित्वा बध्नातिऽ इति परिभाषावचनात् । पालाशादिषु चतुर्षु मणिषु सम्बध्यते पुष्टिकामस्तेजस्कामो बलकाम आयुष्कामो धनकामश्च । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽअयं प्रतिसरो मणिःऽ इत्यर्थसूक्तेन तिलकमणिं वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभिचारदोषे पुष्टिधनकामार्थी धर्मवीर्य आयुष्यकृत्याप्रतिहरणार्थी यशोर्थी च सपत्ननाशार्थी रोगे च जयार्थी । बलकामो मङ्गलार्थी च । अभ्यातानान्तं कृत्वा ऽअयं मे वरणो मणिःऽ इत्यर्थसूक्तेन वरणमणिं वासितं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । शत्रुक्षयकामः रक्षार्थी चाभिचारे जयकामो यशकामः पुष्टिकामश्च ॥
[उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति ॥ कौश्स्_3,2{19}.23 ॥
एतमिध्मम् (10.6.35) इत्युपसमाधाय ॥ कौश्स्_3,2{19}.24 ॥
तमिमं देवताः (10.6.29) इति वासितमुल्लुप्य ब्रह्मणा तेजसा (10.6.30) इति बध्नाति ॥ कौश्स्_3,2{19}.25 ॥]
अभ्यातानान्तं कृत्वा खदिरफालमणिं त्रिर्वासितं कृत्वा हिरण्यवेष्टितं कृत्वा ऽएतमिध्मम्ऽ इत्यृचा इध्ममुपसमाधाय ऽतमिमं देवताःऽ इति वासितमुल्लुप्यासाद्य ऽअरातीयोःऽ इत्यर्थसूक्तेन सम्पात्याभिमन्त्र्य ऽब्रह्मणा तेजसाऽ इति बध्नाति खदिरफालमणिम् । तत उत्तरतन्त्रम् । सर्वकामार्थसिद्ध्यर्थो मणिः सर्वकामः ॥
[उत्तमो असि (6.15) इति मन्त्रोक्तम् ॥ कौश्स्_3,2{19}.26 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽउत्तमो अस्योषधीनाम्ऽ इति सूक्तेन पालाशमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामोऽयं मणिः ॥
[अक्षितास्ते (6.142.3) इति यवमणिम् ॥ कौश्स्_3,2{19}.27 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽअक्षितास्तेऽ इत्यृचा यवमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्ट्यर्थी । पुष्टिकामाधिकारोऽनुवर्तते आ तृतीयाध्यायपरिसमाप्तिं यावत् । समाप्ता मणिशान्तिः ॥
अष्टकाकर्म पुष्टिकर्माण्युच्यन्ते । पुष्टिकामो वा नित्यं वा अष्टकाकर्म कुर्यात् -
[प्रथमा ह व्युवास सा (3.10) इत्यष्टक्याया वपां सर्वेण सूक्तेन त्रिर्जुहोति ॥ कौश्स्_3,2{19}.28 ॥
समवत्तानां स्थालीपाकस्य ॥ कौश्स्_3,2{19}.29 ॥]
माघाष्टकायां ऽपूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्तेऽ (कौश्स् 8.1) रात्रौ । वशामन्त्राः । पाकयज्ञविधानम् । धानादीनां श्रपणं कृत्वा तत आज्यभागान्तं कृत्वा ततः ऽपुरस्तादग्नेः प्रतीचीं गां धारयति पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोतिऽ । ततः ऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन घृतं जुहोति । त्रिः सूक्तावृत्तिः । ततः मांसहोमे ऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन तिस्रः पश्वाहुतीर्जुहोति । त्रिः सूक्तावृत्तिः । ततः ऽप्रथमा ह व्युवास साऽ इति सर्वेण स्थालीपाकं जुहोति । त्रिः सूक्तावृत्तिः । ततः अष्टकायामष्टकाहोमान् जुहुयात् । तस्यां हवीषिं धानादीन्याज्यमिश्राण्येकत्र कृत्वा विशतिं पिण्डिकाः कृत्वा । पशोर्दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्यासाद्य । तत अभ्यातानान्तं कृत्वा ऽप्रथमा ह व्युवास साऽ (3.10.1-5) इति पञ्चभिः ऽआयमगन्ऽ (3.10.8-11) इति चतसृभिर्विज्ञायते । ऽऋतुभ्यष्ट्वाऽ (3.10.10) इति विग्राहमष्ठौ । ऽइन्द्रपुत्रऽ (3.10.13) इत्यष्टादशीम् । ऽअहोरात्राभ्याम्ऽ (6.128.3) इत्यूनविंशीम् । ऽइडायास्पदम्ऽ (3.10.6-7) इति द्वाभ्यां विंशीम् । दक्षिणं बाहुं जुहोति । ऽपूर्णा दर्वेऽ
(3.10.7) इति सदर्वीमेकविंशीम् ॥
[सहहुतानाज्यमिश्रान् हुत्वा पश्चादग्नेर्वाग्यतः संविशति ॥ कौश्स्_3,2{19}.30 ॥]
ततोऽभ्यातानानि हुत्वा धानाः करम्भ इत्यादीनि हविरुच्छिष्टान्याज्यमिश्राणि कृत्वा ऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन तिस्र आहुतीर्जुहोति । त्रिः सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् । ततः पश्चादग्नेर्वाग्यतः संविशति । स्वपिति । प्रभात उत्तिष्ठति ॥
[महाभूतानां कीर्तयन् सञ्जिहीते ॥ कौश्स्_3,2{19}.31 ॥]
पृथिव्यापस्तेजो वायुराकाशमिति स्मरति । ततः प्रभाते श्राद्धं मातरं नान्दीमुखमित्यष्टकाकर्म । पुष्टिकामो वा नित्यं वा करोति ॥ द्वितीया कण्डिका

20

कृषिकर्म वक्ष्यामः -
[सीरा युजन्ति (3.17) इति युगलाङ्गलं प्रतनोति ॥ कौश्स्_3,3{20}.1 ॥]
क्षेत्रे गत्वा ऽसीरा युञ्जन्तिऽ इति सूक्तेन युगलाङ्गलं बध्नाति ॥
[दक्षिणमुष्टारं प्रथमं युनक्ति ॥ कौश्स्_3,3{20}.2 ॥]
ऽसीरा युञ्जन्तिऽ इति सूक्तेन युगस्य दक्षिणतो वृषभं युनक्ति ॥
[एहि पूर्णक इत्युत्तरम् ॥ कौश्स्_3,3{20}.3 ॥]
ऽएहि पूर्णकऽ इति मन्त्रेण उत्तरतो द्वितीयं वृषभं युनक्ति ॥
[कीनाशा इतरान् ॥ कौश्स्_3,3{20}.4 ॥]
ऽशुनं कीनाशा अनुयन्तु वाहान्ऽ (3.17.5) इति पादेन हालिकोऽन्यान् चतुरो वृषभान् युनक्ति । ऽषड्गवं हलम्ऽ इति वचनात् ॥
[अश्विना फालं कल्पयतामुपावतु बृहस्पतिः । यथासद्बहुधान्यमयक्ष्मं बहुपूरुषम् इति फालमतिकर्षति ॥ कौश्स्_3,3{20}.5 ॥
इरावानसि धार्तराष्ट्रे तव मे सत्त्रे राध्यताम् इति प्रतिमिमीते ॥ कौश्स्_3,3{20}.6 ॥
अपहताः प्रतिष्ठाः इत्यपूपैः प्रतिहत्य कृषति ॥ कौश्स्_3,3{20}.7 ॥]
ऽअश्विना फालम्ऽ इत्यृचा लोहफालमभिमन्त्र्य हले प्रतिकर्षति । ऽइरावानसिऽ इति मन्त्रेण फालमभिमन्त्रयते । ऽअपहताःऽ इति मन्त्रेणापूपानभिमन्त्र्य हले फालमुखे ददाति । ततः ऽसीरा युञ्जन्तिऽ इति सूक्तेन कर्ता हलेन कृषति ॥
[सूक्तस्य पारं गत्वा प्रयच्छति ॥ कौश्स्_3,3{20}.8 ॥]
सूक्तं समाप्य ततो हलं हालिकाय प्रयच्छति ॥
[तिस्रः सीताः प्राचीर्गमयन्ति कल्याणीर्वाचो वदन्तः ॥ कौश्स्_3,3{20}.9 ॥]
तिस्रः सीताः प्राचीः हालिकः कृषति । कल्याणीर्वाचो वदन्तः पुण्याहादीनि च ॥
[सीते वन्दामहे त्वा (3.17.8) इत्यावर्तयित्वोत्तरस्मिन् सीतान्ते पुरोडाशेनेन्द्रं यजते ॥ कौश्स्_3,3{20}.10 ॥]
ऽसीते वन्दामहे त्वाऽ इत्यृचा कर्तानुमन्त्रयते । त्रिर्मन्त्रावृत्तिः । उत्तरस्मिन् सीताया अन्ते कृत्वा । तत्राज्यभागान्तं पाकतन्त्रं कृत्वा
ऽसीरा युञ्जन्तिऽ इति सूक्तेनेन्द्रदैवत्यं पुरोडाशं जुहोति । इन्द्रदेवताके पुरोडाशे चरुधर्मा अविरुद्धाः पुरोडाशस्य सर्वे भवन्ति ॥
[अश्विनौ स्थालीपाकेन ॥ कौश्स्_3,3{20}.11 ॥]
अश्विनादेवताकं चरुं ऽसीरा युञ्जन्तिऽ इति सूक्तेन जुहोति ॥
[सीतायां सम्पातानानयन्ति ॥ कौश्स्_3,3{20}.12 ॥]
ततः अभ्यातानानि हुत्वा ऽसीरा युञ्जन्तिऽ इति सूक्तेनोत्तरस्यां सीतायां सम्पातानानयति ॥
[उदपात्र उत्तरान् ॥ कौश्स्_3,3{20}.13 ॥
शष्पहविषामवधाय ॥ कौश्स्_3,3{20}.14 ॥]
उदपात्र उत्तरसम्पातानानयति । तत उदपात्रे हवींषि शष्पं व्रीहीन् विरूढं च निदधाति ॥
[सर्वमनक्ति ॥ कौश्स्_3,3{20}.15 ॥]
तेनोदकेन सर्वं हलमनक्ति ॥
[यत्र सम्पातानानयति ततो लोष्टं धारयन्तं पत्नी पृच्छति अकृक्षत इति ॥ कौश्स्_3,3{20}.16 ॥
अकृक्षाम इति ॥ कौश्स्_3,3{20}.17 ॥
किमाहार्षीः इति ॥ कौश्स्_3,3{20}.18 ॥
वित्तिं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यम् इति ॥ कौश्स्_3,3{20}.19 ॥]
यत्र सीता सम्पातिता तस्मात् स्थानात् मृत्तिकां पत्नी गृह्णाति हस्तेन । तत अन्यो मनुष्यः पृच्छति ऽकिमाहार्षीःऽ । ततः पत्नी ब्रूते ऽवित्तिं भूतिम्ऽ इति ॥
[उत्तरतो मध्यमायां निवपति ॥ कौश्स्_3,3{20}.20 ॥]
ततो मध्यमायां सीतायां मृत्तिकां निदधाति पत्नी तूष्णीम् ॥
[अभ्यज्योत्तरफालं प्रातरायोजनाय निदधाति ॥ कौश्स्_3,3{20}.21 ॥]
ततो लोहफालं घृतेनाभ्यज्य तत्रैव क्षेत्रे निदधाति ततोऽभ्यातानाद्युत्तरतन्त्रम् ॥
[सीताशिरःसु दर्भानास्तीर्य प्लक्षोदुम्बरस्य त्रींस्त्रींश्चमसान् निदधाति ॥ कौश्स्_3,3{20}.22 ॥]
ततः सीताशिरःसु दर्भानास्तीर्य दर्भोपरि प्लक्षचमसानौदुम्बरचमसांस्त्रींस्त्रीन् निदधाति ॥
[रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे ॥ कौश्स्_3,3{20}.23 ॥]
एकैकस्याः सीतायाः दक्षिणेषु चमसेषु रसान् प्रक्षिप्य मध्यमेषु विरूढं प्रक्षिप्योत्तरेषु पुरोडाशं निदधाति ॥
[दर्भान् प्रत्यवभुज्य संवपति ॥ कौश्स्_3,3{20}.24 ॥]
चमसोपरि दर्भान् निदधाति । ततश्चमसान् पांसुना प्रच्छादयति । मृत्तिकां दधाति तत्र । ततः प्रभाते अवश्यं तस्मिन् क्षेत्रे द्वितीयेऽहनि कर्षयितव्यम् । एतत् सर्वमेकं कर्म । कृषिकर्म समाप्तम् ॥
अय वृषभलाभकर्मोच्यते -
[सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति ॥ कौश्स्_3,3{20}.25 ॥
अनडुत्साम्पदम् ॥ कौश्स्_3,3{20}.26 ॥]
अभ्यातानान्तं कृत्वा ऽसीरा युञ्जन्तिऽ इति सूक्तेन सारूपवत्स ओदने शकृत्पिण्डान् प्रक्षिप्य गुग्गुलु लवणं च प्रक्षिप्य तस्मिन्नोदने सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । धेनुर्दक्षिणा । वृषभलाभकर्म समाप्तम् । अनेन कर्मणा कृतेन बहवो वृषभाः सम्पद्यन्ते । ऽअनडुत्साम्पदम्ऽ इति वचनात् ॥ तृतीया कण्डिका

21

अथ स्फातिकरणकर्मोच्यते -
[पयस्वतीः (32.4) इति स्फातिकरणम् ॥ कौश्स्_3,4{21}.1 ॥
शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति ॥ कौश्स्_3,4{21}.2 ॥]
शान्तफलं तस्यावसितमाकृतिलोष्टं वल्मीकमृत्तिका तस्यामन्तं वपा च । त्रीणि कूद्याः प्रान्तान्यग्राणि मध्यमपलाशे कृत्वा दर्भेण परिवेष्ट्य शान्तिपुष्टिवद्वा ऽपयस्वतीःऽ इति सूक्तेनाभिमन्त्र्य राशिपल्येषु करोत्यधस्तात् ॥
[सायं भुञ्जते ॥ कौश्स्_3,4{21}.3 ॥
प्रत्यावपन्ति शेषम् ॥ कौश्स्_3,4{21}.4 ॥
आ भक्तयातनात् ॥ कौश्स्_3,4{21}.5 ॥
अनुमन्त्रयते ॥ कौश्स्_3,4{21}.6 ॥]
ऽपयस्वतीःऽ इति सूक्तेन यदा यदा भक्तं राध्यते तदा तदाभिमन्त्रयते यदा दीयते । कण्डने पेषणे निष्पवने रन्धने परिवेषणे दाने च सर्वत्राभिमन्त्रणम् ॥
[अयं नो नभसस्पतिः (6.79) इति पल्येऽश्मानं सम्प्रोक्ष्यान्वृचं काशीनोप्यावापयति ॥ कौश्स्_3,4{21}.7 ॥]
ऽअयं नो नभसस्पतिःऽ इति सूक्तेनाश्मानं अभिमन्त्र्य पल्ये निदधाति । अश्मनोपरि त्रीन् अन्वृचं मुष्टिं धान्यं निदधाति । स्थिरधान्यमक्षयं भवति । समाप्तानि स्फातिकरणानि ॥
पुष्टिकर्माण्येव वर्तन्ते -
[आ गावः (4.21) इति गाः आयतीः प्रत्युत्तिष्ठति ॥ कौश्स्_3,4{21}.8 ॥]
ऽआ गावःऽ इति सूक्तेन सन्ध्याकाले गा आयतीः प्रत्युत्तिष्ठति ॥
[प्रावृषि प्रथमधारस्येन्द्राय त्रिर्जुहोति ॥ कौश्स्_3,4{21}.9 ॥]
यदा प्रथमं होममिच्छति तदेदं कर्म करोति पाकयज्ञविधानेन । तस्या दुग्धेनेन्द्रदेवताकं चरुं श्रपयित्वा ऽआ गावःऽ इति षड्भिरृग्भिर्द्वाभ्यां द्वाभ्यां त्रयो होमाः कर्तव्याः । ऽइन्द्राय जुष्टं निर्वपामिऽ इति । प्रोक्षणे बर्हिःप्रहरणे च विशेषः ॥
[प्रजावतीः (4.21.7) इति प्रतिष्ठमाना अनुमन्त्रयते ॥ कौश्स्_3,4{21}.10 ॥]
ऽप्रजावतीः सूयवसाऽ इत्यृचारण्ये गच्छन्तीर्गा अनुमन्त्रयते ॥
[कर्कीप्रवादानां द्वादशदाम्न्यां सम्पातवत्याम् अयं घासः (4.38.7) इह वत्साम् (4.38.7) इति मन्त्रोक्तम् ॥ कौश्स्_3,4{21}.11 ॥]
अभ्यातानान्तं कृत्वा ऽसूर्यस्य रश्मीननुऽ (4.38.5-7) इति तिसृभिर्द्वादशदाम्न्यां सम्पातितायां वत्सां बध्नाति । ऽइह वत्सां निबध्नीमःऽ इति पादेन वत्सां बध्नाति । ऽअयं घासःऽ इति पादेन घासं ददाति गोभ्यो वत्सेभ्यश्च । अभ्यातानाद्युत्तरतन्त्रम् । समाप्ता गोशान्तिः ॥
वस्त्रसाम्पदानि कर्माण्युच्यन्ते -
[यस्ते शोकाय (5.1.3) इति वस्त्रसाम्पदी ॥ कौश्स्_3,4{21}.12 ॥
तिस्रः कूदीमयीरूर्णनाभिकुलायपरिहिता अन्वक्ता आदधाति ॥ कौश्स्_3,4{21}.13 ॥]
ऽयस्ते शोकायऽ इत्यृचा तिस्रः कूदीमयीः ऊमयकुलायसूत्रेणावेष्ट्य घूतेनाक्ता आदधाति । त्रिर्मन्त्रावृत्तिः । ऊमय ऊर्णनाभिः । अनेन कर्मणा कृतेन वस्त्राणि सम्पद्यन्ते ॥
[अत्यन्तेषीका मौञ्जपरिहिता मधुना प्रलिप्य चिक्कशेषु पर्यस्य ॥ कौश्स्_3,4{21}.14 ॥]
ऽयस्ते शोकायऽ इत्यृचा मुञ्जेन सह इषीकास्तिस्रो मधुना प्रलिप्ता चिक्कशेष्वादधाति । त्रिर्मन्त्रावृत्तिः । समाप्तानि वस्त्रसाम्पदानि ॥
ज्येष्ठेन पुत्रेण सह भागविधिं वक्ष्यामः -
[उत पुत्रः (5.1.8) इति ज्येष्ठं पुत्रमवसाययति ॥ कौश्स्_3,4{21}.15 ॥]
ऽउत पुत्रःऽ इत्यृचा गृहकाष्ठेष्टकाद्या अभिमन्त्र्य गृहं कारयेत् । पुष्टिकामः । पुत्रो वा साम्पदं करोति पिता वा ॥
[मितशरणः साम्पदं कुरुते ॥ कौश्स्_3,4{21}.16 ॥]
ऽउत पुत्रःऽ इत्यृचा सर्वसाम्पदं कुरुते । ऽउत पुत्रःऽ इत्यृचा औदुम्बरसमिध आदधाति । ऽउत पुत्रःऽ इत्यृचा पालाशसमिध आदधाति । ऽउत पुत्रःऽ इत्यृचा बृहद्बदरीसमिध आदधाति । आवपति व्रीहियवतिलानित्यादि । ग्रामपशुपुत्रधनधान्यकामः सर्वसाम्पदं कुरुते । पुत्रः करोति साम्पदानि कर्माणि ॥
[अर्धमर्धेन (5.1.9) इत्यार्द्रपाणी रसं ज्ञात्वा प्रयच्छति ॥ कौश्स्_3,4{21}.17 ॥
शान्तशाखया प्राग्भागमपाकृत्य ॥ कौश्स्_3,4{21}.18 ॥]
ऽअर्धमर्धेनऽ इत्यृचा आर्द्रपाणिर्भूत्वा शान्तशाखया ऋचं जपित्वा पिता पुत्रस्य भागं प्रयच्छति प्राग्भागमपाकृत्य । पुत्रस्य गृहे गोधनं बध्नाति ॥
[प्रत्यग्नि परिचृतति ॥ कौश्स्_3,4{21}.19 ॥]
अग्निसम्मुखं कुरुते । पुत्रभागं कुरुते ॥
[तस्या अमावास्यायां तिस्रः प्रादेशमात्रीरादधाति ॥ कौश्स्_3,4{21}.20 ॥]
अग्रे या अमावास्या भविष्यति तस्याममावास्यायाम् ऽअर्धमर्धेनऽ इत्यृचा शाखां भित्त्वा तिस्रः समिध आदधाति । त्रिर्मन्त्रावृत्तिः । पुत्राश्च भ्रातरोऽप्यनेन विधानेन भागं कुर्वन्ति । समाप्तं विभागकर्म पुत्रस्य । पुष्टिकामः ॥
[त्वे क्रतुम् (5.2.3) इति रसप्राशनी ॥ कौश्स्_3,4{21}.21 ॥
रसकर्माणि कुरुते ॥ कौश्स्_3,4{21}.22 ॥]
ऽत्वे क्रतुमपिऽ इत्यृचा रसकर्माणि कुरुते । रसान् सम्पात्याभिमन्त्र्य प्राशयति । यानि मेधाजननादीनि विहितानि सर्वाणि विकल्पेनानया ऋचा भवन्ति । कामः पुष्टिरेव । ऽत्वे क्रतुम्ऽ इत्यृचा सर्वत्र रसप्राशनम् । परिभाषा सर्वस्मिन्नथर्ववेदे रसकर्मसु ॥
[स्तुष्व वर्ष्मन् (5.2.7) इति प्राजापत्यामावास्यायामस्तमिते वल्मीकशिरसि दर्भावस्तीर्णेऽध्यधि दीपं धारयंस्त्रिर्जुहोति ॥ कौश्स्_3,4{21}.23 ॥]
पाकयज्ञविधानेन प्रजापतये चरुं श्रपयित्वा ऽस्तुष्व वर्ष्मन्ऽ इत्यृचा जुहोति । तत उत्तरतन्त्रम् । पुष्टिकामः । अमावास्यायामस्तमिते रात्रौ वल्मीकशिरसि दर्भावास्तीर्य तत्र दीपं ददाति । दीपोपरि त्रिराज्याहुतीर्जुहोति ऽस्तुष्व वर्ष्मन्ऽ इत्यृचा । त्रिर्मन्त्रावृत्तिः ॥
[तण्डुलसम्पातानानीय रसैरुपसिच्याश्नाति ॥ कौश्स्_3,4{21}.24 ॥]
तण्डुलेषु सम्पातानानयति । तानुपवत्स्यद्भक्तं श्रपयति । तत रसैरुपसिच्याश्नाति । न तन्त्रम् ॥
[एवं पौर्णमास्यामाज्योतान् ॥ कौश्स्_3,4{21}.25 ॥]
एवं पौर्णमास्यामस्तमिते वल्मीकशिरसि । ऽस्तुष्व वर्ष्मन्ऽ इत्यृचा त्रिर्होमः । न तन्त्रम् । त्रिर्मन्त्रावृत्तिः । तण्डुलसम्पातानानीय रसैरुपसिच्याश्नाति ॥ चतुर्थी कण्डिका

22

पुनरनेकफलपुष्टिकर्माण्युच्यन्ते -
[ऋधङ्मन्त्रः, तदिदास (5.1.2) इति मैश्रधान्यं भृष्टपिष्टं लोहितालङ्कृतं रसमिश्रमश्नाति ॥ कौश्स्_3,5{22}.1 ॥]
अभ्यातानान्तं कृत्वा ऽऋधङ्मन्त्रः,ऽ ऽतदिदासऽ इति सूक्ताभ्यां मैश्रधान्यं भृष्टपिष्टं सक्तुमजालोहितमिश्रं रसमिश्रितं च सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥
[अभृष्टं प्लक्षोदुम्बरस्योत्तरतोऽग्नेस्त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रमन्नस्य प्राशिषम् इति पूर्वाह्णे ॥ कौश्स्_3,5{22}.2 ॥
मध्यन्दिनस्य तेजसा मध्यमन्नस्य प्राशिषम् इति मध्यन्दिने ॥ कौश्स्_3,5{22}.3 ॥
अपराह्णस्य तेजसा सर्वमन्नस्य प्राशिषम् इत्यपराह्णे ॥ कौश्स्_3,5{22}.4 ॥]
अभ्यातानान्तं कृत्वा ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति सूक्ताभ्यामौदुम्बरचमसेषु त्रिषु मैश्रधान्यं प्रक्षिप्य रसांश्च सम्पात्याभिमन्त्र्याश्नाति मन्त्रेण त्रिकालं च । ऽपूर्वाह्णस्य तेजसाऽ इत्यादयो मन्त्राः । प्रतिमन्त्रं भक्षणम् । प्लक्षचमसेषु वा । एकं चमसं पूर्वाह्णे । एकं मध्याह्ने । एकमपराह्णे । त्रिकालभेदाः । अभ्यातानाद्युत्तरतन्त्रम्.
[ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम् ॥ कौश्स्_3,5{22}.5 ॥]
तन्त्रं कृत्वा ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति सूक्ताभ्यामृतुमत्याः स्त्रिया लोहितं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याङ्गुलिभ्यां प्रदेशनीमध्यमाभ्यां प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्ट्यर्थी ॥
क्षेत्रकामस्य कर्मोच्यते -
[यत्क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम् ॥ कौश्स्_3,5{22}.6 ॥]
यत् क्षेत्रं कामयते तस्मिन् क्षेत्र इदं कर्म कुर्यात् । आज्यतन्त्रं बर्हिर्लवनाद्यभ्यातानान्तं कृत्वा ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति सूक्ताभ्यां भक्तं दधिमधुमिश्रं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । समाप्तं क्षेत्रकामस्य कर्म ॥
[संवत्सरं स्त्रियमनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम् ॥ कौश्स्_3,5{22}.7 ॥]
संवत्सरं ब्रह्मचर्यं कृत्वा ततो मैथुनं कृत्वा शुक्त्यां रेत आनीय तण्डुलमिश्रं कृत्वा ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति सूक्ताभ्यां सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामः । इदं सप्तग्रामलाभकर्म कथ्यते ॥
[द्वादशीममावास्येति क्षीरभक्षो भवत्यमावास्यायां दधिमधुभक्षस्तस्य मूत्र उदकदधिमधुपल्पूलनान्यासिच्य ॥ कौश्स्_3,5{22}.8 ॥
क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इममन्नाद्याय प्र विशतं स्वाहा इति ॥ कौश्स्_3,5{22}.9 ॥]
द्वादशीममावास्येति क्षीरभक्षो भवति । अमावास्यायां दधिमधुभक्षः । प्रतिपद्यभ्यातानान्तं कृत्वा ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति सूक्ताभ्यां तस्य मूत्र उदकदधिमधुगोमयं च एतान्येकीकृत्य सम्पात्याभिमन्त्र्याश्नाति ऽक्रव्यादं नाडीऽ इत्यृचा । अभ्यातानाद्युत्तरतन्त्रम् । सप्तग्रामलाभकर्म समाप्तम् ॥
अथ समृद्धिकर्मोच्यते -
निशायामाग्रयणतण्डुलानुदक्यान् मधुमिश्रान् निदधात्या यवानां पङ्क्तेः ॥ कौश्स्_3,5{22}.10 ॥
एवं यवानुभयान् समोप्य ॥ कौश्स्_3,5{22}.11 ॥
[त्रिवृति गोमयपरिचये शृतमश्नाति ॥ कौश्स्_3,5{22}.12 ॥
समृद्धमिति काङ्कायनः ॥ कौश्स्_3,5{22}.13 ॥]
तृतीयमाग्रयणं कृत्वाभ्यातानान्तं कृत्वा ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति सूक्ताभ्यां व्रीहियवानेकत्र कृत्वा त्रिवृति गोमयपरिचये श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । सर्वकामः । समृद्धिपुत्रपशुधनादि ॥
अथ समुद्रकर्मोच्यते -
[ममाग्ने वर्चः (5.3) इति सात्त्रिकानग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु सम्पातवन्तं गार्हपत्यदेशेऽश्नाति ॥ कौश्स्_3,5{22}.14 ॥]
शत्रुदेशे गत्वा गार्हपत्यदक्षिणाग्न्याहवनीयेषु कर्म कुर्यात् । ततो गार्हपत्येऽभ्यातानान्तं कृत्वा ऽममाग्ने वर्चःऽ इति सूक्तेन सारूपवत्समोदनं गार्हपत्यशृतं गार्हपत्ये प्रथमं सम्पात्य । ततो दक्षिणाग्नौ तन्त्रं कृत्वा पूतीकैः काशैः स्तरणम् । तमेव सारूपवत्सं सम्पात्य । तत आहवनीये तन्त्रं कृत्वा भाङ्गास्तरणम् । ततस्तमेव सारूपवत्सं सम्पात्य तेनैव सूक्तेन ततः पश्चात् सकृदभिमन्त्रणं कृत्वा तत अश्नाति । अशनं गार्हपत्यदेशे करोति । गार्हपत्यप्रभृत्युत्तरतन्त्रं कुर्यात् ॥
[एवं पूर्वस्मिन्नपरयोरुपसंहृत्य ॥ कौश्स्_3,5{22}.15 ॥]
व्रतग्रहणादि करोति । दक्षिणाग्न्याहवनीयगार्हपत्येषु यथाक्रमं व्रतग्रहणादि अभ्यातानान्तं कृत्वा सारूपवत्सस्य दक्षिणाग्नौ श्रपणं कृत्वा ऽममाग्ने वर्चःऽ इति सूक्तेन सारूपवत्सं सम्पात्यादिषु यथाक्रमेण । ततो गार्हपत्यं दक्षिणाग्निं चैकत्र कृत्वा ततोऽभिमन्त्र्य दक्षिणाग्निदेश अश्नाति यथाक्रमेण । उत्तरतन्त्रम् । एवमाहवनीयगार्हपत्यदक्षिणाग्निषु व्रतोपायनाद्यभ्यातानान्तं कृत्वा सारूपवत्सस्याहवनीये श्रपणं कृत्वा ऽममाग्ने वर्चःऽ इति सूक्तेनाहवनीयादि यथाक्रमेण । सारूपवत्सं सम्पात्य गार्हपत्याहवनीयमेकत्र कृत्वा ततोऽभिमन्त्र्याश्नाति । तत आहवनीयगार्हपत्यदक्षिणाग्निषु यथाक्रमेण । उत्तरतन्त्रम् । गार्हपत्यस्य दर्भैः स्तरणम् । दक्षिणाग्नेः पूतीकैः स्तरणम् । आहवनीयस्य भाङ्गाभिः स्तरणम् । स्तरणे विशेषः ॥
[एवं द्रोणकलशे रसानुक्तम् ॥ कौश्स्_3,5{22}.16 ॥]
गार्हपत्यदक्षिणाग्न्याहवनीयेषु यथाक्रमेण पुनरेव तन्त्रं कृत्वा ऽममाग्नेः वर्चःऽ इति सूक्तेन द्रोणकलशे रसान् कृत्वा
ततः सम्पात्य यथाक्रमेण । अभिमन्त्रणं च सकृत् कुर्यात् । ततो रसान् प्राश्नाति गार्हपत्यादिक्रमेण । उत्तरतन्त्रम् । दर्भपूतीकभाङ्गाभिः परिस्तरणम् । गार्हपत्यादिषु यथाक्रमम् । समाप्तं समुद्रकर्म ॥ पञ्चमी कण्डिका

23

अथ निवेशकर्मोच्यते -
[यजूंषि यज्ञे (5.26) इति नवशालायां सर्पिर्मधुमिश्रमश्नाति ॥ कौश्स्_3,6{23}.1 ॥]
अग्निशालायां वा गोशालायां वा ग्रामे वा पुरे वान्यत्राभिनवे गृहे वा । पुष्टिकामोऽनुवर्तते । पाषाणमये वा काष्ठमये वा तृणमये वा इष्टकामये वा सर्वत्र नवे वासितं इदं कर्म । अभ्यातानान्तं कृत्वा ऽयजूंषि यज्ञेऽ इति सूक्तान्तेन सकृद् घृतं मधुमिश्रं जुहोति ॥
[दोषो गाय (6.1) इति द्वितीयाम् ॥ कौश्स्_3,6{23}.2 ॥]
ऽदोषो गायऽ इति सूक्तेन द्वितीयामाहुतिं जुहोति ॥
[युक्ताभ्यां तृतीयाम् ॥ कौश्स्_3,6{23}.3 ॥]
ऽयजूंषि यज्ञेऽ, ऽदोषो गायऽ इति सूक्ताभ्यां तृतीयामाहुतिं जुहोति ॥
[आनुमतीं चतुर्थीम् ॥ कौश्स्_3,6{23}.4 ॥]
ऽअनुमतिः सर्वम्ऽ (7.20.6) इत्यृचा चतुर्थीमाहुतिं जुहोति ॥
[शालामङ्गुलिभ्यां सम्प्रोक्ष्य गृहपत्न्यासाद उपविश्योदपात्रं निनयति ॥ कौश्स्_3,6{23}.5 ॥]
ततः शालामङ्गुलिभ्यां सम्प्रोक्ष्य तूष्णीं गृहपत्न्यासाद उपविश्य उदपात्रं निनयति तूष्णीम् ॥
[इहैव स्त (7.60.7) इति वाचं विसृजते ॥ कौश्स्_3,6{23}.6 ॥]
आदौ वाग्यमनं कृतम् । ऽइहैव स्तऽ इति वाग्विसर्गः । तत उत्तरतन्त्रम् । नवशालायां पुष्टिकामः करोति । गृहप्रवेशे च नित्यम् ॥
[ऊर्ध्वा अस्य (5.27) इति वार्ष्मणमौदुम्बरं मन्थप्रतिरूपमभिजुहोति ॥ कौश्स्_3,6{23}.7 ॥]
अभ्यातानान्तं कृत्वा ऽऊर्ध्वा अस्यऽ इति सूक्तेनाग्नौ औदुम्बरं दत्त्वाज्यं जुहोति । धूमं नियच्छति । लेपं प्राश्नीयात् । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामाधिकारोऽनुवर्तते ॥
[असङ्ख्याता अधिशृत्य सप्तागमशष्कुलीः ॥ कौश्स्_3,6{23}.8 ॥]
अभ्यातानान्तं कृत्वासङ्ख्याता आगमशष्कुलीरधिशृत्य ऽऊर्ध्वा अस्यऽ इति सूक्तेन सप्त शष्कुलीरग्नौ दत्त्वाज्यं जुहोति । तत उत्तरतन्त्रम् । शेषाः शष्कुलीः कर्त्रे ददाति । पुष्टिकामः ॥
दायादेषु विभागकर्म वक्ष्यामः -
[त्वष्टा मे (6.4) इति प्रातर्विभुङ्क्ष्यमाणोऽश्नाति ॥ कौश्स्_3,6{23}.9 ॥]
अभ्यातानान्तं कृत्वा ऽत्वष्टा मे दैव्यं वचःऽ इति सूक्तेन सारूपवत्सं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[ज्यायुं बध्नाति ॥ कौश्स्_3,6{23}.10 ॥]
अभ्यातानान्तं कृत्वा ऽत्वष्टा मे दैव्यम्ऽ इति सूक्तेन धनुर्ज्यां सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । समाप्तानि विभागशान्तिकर्माणि दायादविभागानाम् ॥
[दण्डं सम्पातवन्तं विमृज्य धारयति ॥ कौश्स्_3,6{23}.11 ॥]
अभ्यातानान्तं कृत्वा ऽत्वष्टा मेऽ इति सूक्तेन दण्डं सम्पात्याभिमन्त्र्य विमृज्य ततो धारयति । ध्वजदण्डं चित्रं धनुर्दण्डं शैलकुन्तदण्डं राजदण्डं वेण्वादि । पुष्ट्यर्थी ॥
अथ चित्राकर्म चित्रानक्षत्रे उच्यते -
[वायुरेनाः (6.14) इति युक्तयोश्चित्राकर्मनिशायां सम्भारान् सम्पातवतः करोति ॥ कौश्स्_3,6{23}.12 ॥]
ऽपूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्तेऽ, (कौश्स् 8.1) । रात्रौ अभ्यातानान्तं कृत्वा ऽत्वष्टा मेऽ ऽवायुरेनाःऽ इति सूक्ताभ्यां सम्भारान् सम्पातयति । वृक्षशाखा उदकं औदुम्बरशकलं ताम्रछुरिका एतेषु प्रतिद्रव्यं सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् ॥
[अपरेद्युः वायुरेनाः इति शाखयोदकधारया गाः परिक्रामति ॥ कौश्स्_3,6{23}.13 ॥]
ततः प्रभाते इदं कर्म क्रियते । ऽवायुरेनाःऽ इत्यृचा शाखयोदकधारया गाः परिक्रामति ॥
[प्रथमजस्य शकलमवधायौदुम्बरेणासिना लोहितेन (6.141.2) इति मन्त्रोक्तम् ॥ कौश्स्_3,6{23}.14 ॥]
प्रथमजस्येक्षुकाशकाण्ड्याः शकलमवधायौदुम्बरेणासिना ऽलोहितेनऽ इति मन्त्रेण वत्सकर्णं छिन्नति ॥
[यथा चक्रुः (6.141.3) इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रमश्नाति ॥ कौश्स्_3,6{23}.15 ॥
सर्वमौदुम्बरम् ॥ कौश्स्_3,6{23}.16 ॥]
अभ्यातानान्तं कृत्वा ऽयथा चक्रुःऽ इत्यृचा इक्षुकाशकाण्ड्या कर्णलोहितं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति पुष्टिकामः । अभ्यातानाद्युत्तरतन्त्रम् ॥
अथ कृषिकर्मोच्यते -
[यस्येदमा रजः (6.33) इत्यायोजनानामप्ययः ॥ कौश्स्_3,6{23}.17 ॥]
ऽयस्येदमा रजो युजःऽ इति सूक्तेनोक्तं ऽसीरा युञ्जन्तिऽ (3.17) इतिवत् कृषिकर्म करोति । पुष्टिकर्मणामुपधानोपस्थानं करोति ॥ षष्ठी कण्डिका

24

बीजवापनकर्म करोति -
[उच्छ्रयस्व (6.142) इति बीजोपहरणम् ॥ कौश्स्_3,7{24}.1 ॥
आज्यमिश्रान् यवानुर्वरायां कृष्टे फालेनोदुह्यान्वृचं काशीन् निनयति निवपति ॥ कौश्स्_3,7{24}.2 ॥]
ऽउच्छ्रयस्वऽ इति सूक्तेन यवव्रीह्यादिबीजमासाद्याज्यमिश्रमभिमन्त्र्य कृष्टे वा क्षेत्रे निवपति त्रीन् मुष्टीन् बीजस्य । ततः पांशुभिराच्छादयति । समाप्तं बीजक्षेत्रवापनकर्म ॥
[अभि त्यम् (7.14) इति महावकाशेऽरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्वप्सु सम्पातानानयति ॥ कौश्स्_3,7{24}.3 ॥
कृष्णाजिने सोमांशून् विचिनोति ॥ कौश्स्_3,7{24}.4 ॥]
उच्चस्थाने गत्वा ततोऽभ्यातानान्तं कृत्वा ऽअभि त्यम्ऽ इति चतुरृचेन सूक्तेनोदपात्रं सम्पात्य कृष्णाजिने सोमं विचिनोति ॥
[सोममिश्रेण सम्पातवन्तमश्नाति ॥ कौश्स्_3,7{24}.5 ॥]
तदुदपात्रं सोमरसमिश्रं सारूपवत्सम् ओदनं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । प्राग्द्वारप्रत्यग्द्वारे मण्डप एतत् कर्म ॥
[आदीप्ते सम्पन्नम् ॥ कौश्स्_3,7{24}.6 ॥]
पश्चान्मण्डपमग्निना दहति ॥
[तां सवितः (7.15.1) इति गृष्टिदाम बध्नाति ॥ कौश्स्_3,7{24}.7 ॥]
अभ्यातानान्तं कृत्वा ऽतां सवितःऽ इत्यृचा । एकवारप्रसूता गौः गृष्टिः । गोदाममणिं सम्पात्याभिमन्त्र्य बध्नाति पुष्ट्यर्थी । अभ्यातानाद्युत्तरतन्त्रम् ॥
[सं मा सिञ्चन्तु (7.33.1) इति सर्वोदके मैश्रधान्यम् ॥ कौश्स्_3,7{24}.8 ॥]
अभ्यातानान्तं कृत्वा ऽसं मा सिञ्चन्तुऽ इत्यृचा ग्रामस्य सर्वोदके मैश्रधान्यं प्रक्षिप्य सम्पात्याभिमन्त्र्याश्नाति । ततो हविरुद्वासनान्तं तन्त्रम् । पुष्ट्यर्थी ॥
[दिव्यं सुपर्णम् (7.39.1) इत्यृषभदण्डिनो वपयेन्द्रं यजते ॥ कौश्स्_3,7{24}.9 ॥
अनुबद्धशिरःपादेन गोशालां चर्मणावच्छाद्यावदानकृतं ब्राह्मणान् भोजयति ॥ कौश्स्_3,7{24}.10 ॥]
ऽदिव्यं सुपर्णम्ऽ इत्यृचा ऋषभस्य वपयेन्द्रं यजते वशाविधानेन ॥
अथ प्रवत्स्यत एकाग्निकस्येदं कर्म कथ्यते -
[इहैव स्त (7.60.7) इति प्रवत्स्यन्नवेक्षते ॥ कौश्स्_3,7{24}.16 ॥
सूयवसाद् (7.73.11) इति सूयवसे पशून् निष्ठापयति ॥ कौश्स्_3,7{24}.17 ॥]
ऽइहैव स्तऽ इत्यृचा गृहं मानुषांश्चावेक्षते । ऽसूयवसाद्ऽ इत्यृचा पशूनभिमन्त्रयते । समाप्तं प्रवेशे याजमानम् ॥
यदा आगच्छति तदेदं कर्मोच्यते -
[प्रोष्य समिध आदाय ऊर्जं बिभ्रत् (7.60) इति गृहसङ्काशे जपति ॥ कौश्स्_3,7{24}.11 ॥]
मौनं कृत्वा समिध आदाय गृहं दृष्ट्वा ऽऊर्जं बिभ्रत्ऽ इति षडर्चं सूक्तं जपति ॥
[सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति ॥ कौश्स्_3,7{24}.12 ॥]
वामेन हस्तेन समिधः कृत्वा दक्षिणेन शालावलीकं संस्तभ्य जपति ऽऊर्जं बिभ्रत्ऽ इति ॥
[अतिव्रज्य समिध आधाय सुमङ्गलि प्रजावति सुसीमेऽहं वां गृहपतिर्जीव्यासम् इति स्थूणे गृह्णात्युपतिष्ठते ॥ कौश्स्_3,7{24}.13 ॥]
ततः ऽऊर्जं बिभ्रत्ऽ इति सूक्तेन समिध आदधाति अग्नौ । ऽसुमङ्गलि प्रजावतिऽ कल्पजेन स्थूणे गृह्णात्युपतिष्ठते ॥
[यद् वदामि (12.1.58) इति मन्त्रोक्तम् ॥ कौश्स्_3,7{24}.14 ॥]
ऽयद् वदामिऽ इत्यृचा वाग्विसर्गं करोति ॥
[गृहपत्न्यासाद उपविश्य उदपात्रं निनयति ॥ कौश्स्_3,7{24}.15 ॥]
तूष्णीम् । समाप्तमागमनकर्म । पुष्ट्यर्थी ॥
[दूर्वाग्रैरञ्जलावप आनीय दर्शं दार्शीभिरुपतिष्ठते ॥ कौश्स्_3,7{24}.18 ॥]
दूर्वाग्राण्यञ्जुलिकायां कृत्वा ऽपूर्वापरम्ऽ (7.81) इति षडर्चं सूक्तं जपत्यमावास्यायाम् । केचित् चन्द्रमसं दृष्ट्वा जपं कुर्वन्ति । पुष्टिकामः ॥
अथ वृषोत्सर्गविधिं वक्ष्यामः -
[इन्द्रस्य कुक्षिः (7.111.1) साहस्रः (9.4) इत्यृषभं सम्पातवन्तमतिसृजति ॥ कौश्स्_3,7{24}.19 ॥
रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोषायै त्वातिसृजामि ॥ कौश्स्_3,7{24}.20 ॥
एतं वो युवानम् (9.4.24) इति पुराणं प्रवृत्य नवमुत्सृजते सम्प्रोक्षति ॥ कौश्स्_3,7{24}.21 ॥]
अभ्यातानान्तं कृत्वा ऽइन्द्रस्य कुक्षिःऽ इत्यृचा ऋषभं सम्पात्य विवाहवत् अग्निपरिणयनं कृत्वा सह वत्सतरीभिर्विसर्जयति । ऽरेतोधायैऽ इति षट् । ऽएतं वो युवानम्ऽ इत्यृचाभिमन्त्रणम् । ततः प्रोक्षणम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽसाहस्रःऽ इत्यर्थसूक्तेन वृषभं सम्पात्य विवाहवत् सर्वं कृत्वा विसर्जयति । ऽरेतोधायैऽ इत्येतैः । ऽएतं वो युवानम्ऽ इत्यृचाभिमन्त्रणं वत्सस्य । अभ्यातानाद्युत्तरतन्त्रम् । यदा एकादशाहे वृषोत्सर्गं करोति तदा शान्त्युदकं कृत्वा ततो वृषोत्सर्गं करोति । वृषोत्सर्गः समाप्तः । वृषभपुच्छं गृहीत्वा ऽदेवपितृऋषिभ्योऽहं ददे ऋषभम्ऽ उच्चारयति ॥
अथ पुनः पुष्टिकर्माण्युच्यते -
[उत्तरेण पुष्टिकाम ऋषभेणेन्द्रं यजते ॥ कौश्स्_3,7{24}.22 ॥]
ऽसाहस्रस्त्वेषःऽ इत्यर्थसूक्तेन ऋषभेणेन्द्रं यजते वशाविधानेन । पुष्टिकामः ॥
[सम्पत्कामः श्वेतेन पौर्णमास्याम् ॥ कौश्स्_3,7{24}.23 ॥]
ऽसाहस्रःऽ इत्यर्थसूक्तेन श्वेतेन ऋषभेणेन्द्रं यजते वशाविधानेन । सम्पत्कामः ॥
अथाग्रहायणीकर्म उच्यते -
[सत्यं बृहद् (12.1) इत्याग्रहायण्याम् ॥ कौश्स्_3,7{24}.24 ॥]
रात्रौ अभ्यातानान्तं कृत्वा त्रयश्चरवः श्रपयितव्याः ऽसत्यं बृहत्ऽ इत्यनुवाकेन ॥
[पश्चादग्नेर्दर्भेषु खदायां सर्वहुतम् ॥ कौश्स्_3,7{24}.25 ॥]
पश्चादग्नेर्दर्भेषु खदायां भूमावेकं चरुं सकृत् सर्वहुतं जुहोति ॥
[द्वितीयं सम्पातवन्तमश्नाति ॥ कौश्स्_3,7{24}.26 ॥]
द्वितीयं चरुमनुवाकेन सम्पात्याभिमन्त्र्याश्नाति ॥
[तृतीयस्यादितः सप्तभिः भूमे मातः (12.1.63) इति त्रिर्जुहोति ॥ कौश्स्_3,7{24}.27 ॥]
तृतीयं चरुं ऽसत्यं बृहद्ऽ (12.1.1-7) इति सप्त ऽभूमे मातःऽ इत्यृचा जुहोति । त्रिर्मन्त्रावृत्तिः ॥
पश्चादग्नेर्दर्भेषु कशिप्वास्तीर्य विमृग्वरीम् (12.1.29) इत्युपविशति ॥ कौश्स्_3,7{24}.28 ॥
[यास्ते शिवाः (9.2.25) इति संविशति ॥ कौश्स्_3,7{24}.29 ॥]
ऽयास्ते शिवाःऽ इत्यृचा संविशति ॥
[यच्छयानः (12.1.34) इति पर्यावर्तते ॥ कौश्स्_3,7{24}.30 ॥]
ऽयच्छयानःऽ इत्यृचा पर्यावर्तते ॥
[नवभिः शन्तिवा (12.1.59) इति दशम्या उदायुषा (3.31.10-11) इत्युपोत्तिष्ठति ॥ कौश्स्_3,7{24}.31 ॥]
प्रातरुतिष्ठति ऽसत्यं बृहत्ऽ (12.1.1-9) इति नवभिः ऽशन्तिवाऽ इति दशम्या, ऽउदायुषाऽ इति द्वाभ्याम् ॥
उद्वयम् (7.53.7) इत्युत्क्रामति ॥ कौश्स्_3,7{24}.32 ॥
[उदीराणाः (7.1.28) इति त्रीणि पदानि प्राङ्वोदङ्वा बाह्येनोपनिष्क्रम्य यावत्ते (12.1.33) इति वीक्षते ॥ कौश्स्_3,7{24}.33 ॥]
ऽउदीराणाःऽ इत्यृचा त्रीणि पदानि निष्क्रामति प्राग्वोदग्वा । बाह्येनोपनिष्क्रम्य ऽयावत्तेऽ इत्यृचादित्यमीक्षते । नित्यं काम्यं च
भवति ॥
[उन्नताच्च ॥ कौश्स्_3,7{24}.34 ॥]
उन्नतमारुह्य ऽयावत्तेऽ इत्यृचा वीक्षते । पुष्टिकामः । तत उत्तरतन्त्रम् । आग्रहायणीकर्म समाप्तम् ॥
[पुरस्तादग्नेः सीरं युक्तमुदपात्रेण सम्पातवतावसिञ्चति ॥ कौश्स्_3,7{24}.35 ॥]

तन्त्रं कृत्वा ऽसत्यं बृहत्ऽ इत्यनुवाकेनोदपात्रं सम्पात्य पुरस्तादग्नेः सीरं युक्तं सम्प्रोक्षति । तत उत्तरतन्त्रम् ॥
[आयोजनानामप्ययः ॥ कौश्स्_3,7{24}.36 ॥]
ऽसत्यं बृहत्ऽ इत्यनुवाकेन कृषिकर्म । ऽसीरा युञ्जन्तिऽ वत् कर्म भवति ॥
[यस्यां सदोहविर्धाने (12.1.38-40) इति जुहोति वरो म आगमिष्यति इति ॥ कौश्स्_3,7{24}.37 ॥]
अभ्यातानान्तं कृत्वा ऽयस्यां सदोहविर्धानेऽ इति तिसृभिराज्यं जुहोति । उत्तरतन्त्रम् । ऽवरो म आगमिष्यतिऽ इति वरस्य । प्रार्थितोऽभिलाषः । उत्कृष्टपुत्रधनादिसर्वफलकामः ॥
[यस्यामन्नम् (12.1.42) इत्युपतिष्ठते ॥ कौश्स्_3,7{24}.38 ॥]
ऽयस्यामन्नम्ऽ इत्यृचोपतिष्ठते पृथिवीं पुष्टिकामः । व्रीहियवाद्यन्नम् ॥
[निधिं बिभ्रति (12.1.44) इति मणिहिरण्यकामः ॥ कौश्स्_3,7{24}.39 ॥
एवं वित्त्वा ॥ कौश्स्_3,7{24}.40 ॥]
ऽनिधिं बिभ्रतिऽ इति द्वाभ्यामुपतिष्ठते पृथिवीं मणिहिरण्यद्रवनिधिरत्नकामः ॥
[यस्यां कृष्णम् (12.1.52) इति वार्षकृतस्याचामति शिरस्यानयते ॥ कौश्स्_3,7{24}.41 ॥]
वृष्टिकाले ऽयस्यां कृष्णम्ऽ इत्यृचा नवोदकमभिमन्त्र्याचमनं करोति पुष्टिकामः । ऽयस्यां कृष्णम्ऽ इत्यृचा नवोदकमभिमन्त्र्य स्नानं करोति पुष्टिकामः । नवोदकस्य कर्म समाप्तम् ॥
[यं त्वा पृषती रथः (13.1.21-24) इति द्यौः पृषत्यादित्यो रोहितः ॥ कौश्स्_3,7{24}.42 ॥
पृषतीं गां ददाति ॥ कौश्स्_3,7{24}.43 ॥]
ऽयं त्वा पृषती रथःऽ इति चतुर्भिः रक्तवर्णां गामभिमन्त्र्य ब्राह्मणाय ददाति पुष्टिकामः ॥
[पृषत्या क्षीरौदनं सर्वहुतम् ॥ कौश्स्_3,7{24}.44 ॥]
तन्त्रं कृत्वा ऽयं त्वा पृषती रथःऽ इति चतुर्भिः रक्तवर्णायाः गोः क्षीरौदनं श्रपयित्वा सर्वहुतं जुहोति । तत उत्तरतन्त्रम् । पुष्टिकामः ॥
पुष्टिकर्मणामुपधानोपस्थानम् ॥ कौश्स्_3,7{24}.45 ॥
सर्वे मन्त्राः पुष्टिकर्मसु पठिताः तृतीयेऽध्याये । तेषामुपधानमुपस्थानं भवति सर्वेषां सूक्तानां येत्रिषप्तादीनाम् ॥
[सलिलैः सर्वकामः सलिलैः सर्वकामः ॥ कौश्स्_3,7{24}.46 ॥]
सलिलगणः (कौश्स् 18.25) । ऽब्रह्म जज्ञानम्ऽ, ऽअम्बयो यन्तिऽ गणः (कौश्स् 19.1) । ऽसं सं स्रवन्तुऽ (कौश्स् 19.4) ऽशेरभकऽ (कौश्स् 19.9) । ऽएह यन्तुऽ गणः (कौश्स् 19.14) । ऽआयमगन्ऽ, ऽअयं प्रतिसरःऽ, ऽअयं मे वरणःऽ, ऽअरातीयोःऽ इति (कौश्स् 19.22) । ऽउत्तमो असिऽ (कौश्स् 19.26) । ऽअक्षितास्तेऽ (कौश्स् 19.27) । ऽप्रथमा ह व्युवासऽ (कौश्स् 19.28) । ऽसीरा युञ्जन्तिऽ (कौश्स् 20.1) । ऽपयस्वतीःऽ (कौश्स् 21.1-6) । ऽअयं नो नभसःऽ (कौश्स् 21.7) । ऽआ गावःऽ (कौश्स् 21.8) । ऽप्रजावतीःऽ (कौश्स् 21.10) । ऽसूर्यस्य रश्मीन्ऽ (कौश्स् 21.11) । ऽयस्ते शोकायऽ (कौश्स् 21.12) । ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति (कौश्स् 22.1) ।
ऽममाग्ने वर्चःऽ (कौश्स् 22.14) । ऽयजूंषि यज्ञेऽ (कौश्स् 23.1) । ऽऊर्ध्वा अस्यऽ (कौश्स् 23.7) । ऽत्वष्टा मेऽ (कौश्स् 23.9) । ऽवायुरेनाःऽ (कौश्स् 23.12) । ऽयस्येदमा रजःऽ (कौश्स् 23.17) । ऽउच्छ्रयस्वऽ (कौश्स् 24.1) । ऽअभि त्यम्ऽ (कौश्स् 24.3) । ऽतां सवितुःऽ (कौश्स् 24.7) । ऽदिव्यं सुपर्णम्ऽ (कौश्स् 24.9) । ऽऊर्जं बिभ्रत्ऽ (कौश्स् 24.11) । ऽइन्द्रस्य कुक्षिःऽ, ऽसाहस्रःऽ (कौश्स् 24.19) । ऽसत्यं बृहत्ऽ (कौश्स् 24.24) । ऽयास्ते शिवाःऽ (कौश्स् 24.29) । ऽयस्यां सदःऽ (कौश्स् 24.37) । ऽयं त्वा पृषतीःऽ (कौश्स् 24.42) इत्येते मन्त्राः पुष्टिकर्ममध्ये पठिताः । एते मन्त्राः पौष्टिकाः । पौष्टिकानां सर्वेषां मन्त्राणां हविरुपधानम् उपस्थानं वा करोति विकल्पेन पुष्टिकर्मणामुपधानोपस्थानम् (कौश्स् 24.45) इति वचनात् । पुष्टिकर्मणाम् उपधानम् उपस्थानं वा करोति पुष्टिकामः । उपदधीतेत्यनादेशे आज्यं समित्पुरोडाशपयओदनपायसपशुव्रीहियवतिलाः धानाः करम्भशष्कुल्यः एतानि हवींषि जानीयात् । यत्र यत्र होमः कर्तव्यस्तत्र तत्र सर्वत्रोपधानं पौष्टिकानां मन्त्राणां कर्तव्यम् । उपस्थानं वा । गृहे बहिर्वा वृक्षार्थं पुरुषार्थं पश्वर्थं हस्त्यर्थम् अश्वार्थं गोअर्थं महिष्यर्थम् अजाविकादिगृहपशुधनधान्यमृगार्थम् । ग्रामे नगरे क्षेत्रे बहिर्वा । यत्र नित्यनैमित्तिककाम्यहोमस्तत्र सर्वत्र पौष्टिकहोमः कार्यः । नास्ति सङ्ख्याजातिनियमः पुष्टिकर्मणाम् । यत्रान्यप्रयोजनार्थं होमः न तत्र पौष्टिकहोमः कार्यः । सर्वत्र पुष्ट्यर्थप्रयोजनम्.
यत्रयत्र च सङ्कीर्णमात्मानं मन्यते द्विजः.
तत्रतत्र तिलैर्होमो नैरृतिर्न विधीयते ॥
न तत्र निरृतिकर्म कुर्यादित्यर्थः । पुष्टिकर्मणामुपधानोपस्थानमित्यर्थः । सलिलैः सर्वकामः । आज्यादि जुहोति सलिलगणेन । तन्त्रं यथासम्भवं योज्यम् । सर्वफलकाम इत्यर्थः । सलिलगणेनोपधानं वा कुर्यात् । उपस्थानं वा कुर्यात् सर्वकामः । पुष्टिशब्देन द्रव्यादिलाभो द्रव्यादिवृद्धिश्च पुष्टिशब्देनोच्यते । शरीरपुष्टिश्च धनादिपुष्टिश्च भवति आयुःपुष्टिश्च । अथ सलिलगण उच्यते - ऽआपो हि ष्ठाःऽ, ऽशन्नो देवीःऽ, ऽब्रह्म जज्ञानम्ऽ ऽअनाप्ता येऽ, ऽसहस्रधार एवऽ (5.6.1-3), ऽअस्य वामस्यऽ, ऽयो रोहितो वृषभऽ द्व्यर्चं, ऽउदस्य केतवःऽ, ऽमूर्धाहम्ऽ, ऽविषासहिम्ऽ इति सलिलगणः । अस्य गणस्य वा उपधानं आज्यादि वा करोति अथवा उपस्थानम् । पुत्रपशुधनधान्यरत्नगृहपदातिअश्वहस्तिगोमहिषी- अविवस्त्रजातद्रव्यादिहिरण्यभोजन-आरामदेवपूजादि-उच्चाटनवशीकरणस्तम्भनजम्भनादि सर्वं सलिलगणेन सिध्यति । उपधानोपस्थानं करोति सर्वफलकामः पुत्रपशुधान्यादिसर्वकामः । समाप्तानि पौष्टिकानि । तत्र श्लोकः -
पूर्वं निरृतिकर्माणि सर्वपापापनुत्तये.
पौष्टिकानि ततः पश्चात् तृतीये संहिताविधौ ॥
सप्तमी कण्डिका

25

इति कौशिकपद्धतौ तृतीयोऽध्यायः समाप्तः ॥
अथ चतुर्थोऽध्यायः
[भैषज्यकर्माणि]
अथ भैषज्यानि ॥ कौश्स्_4,1{25}.1 ॥
लिङ्ग्युपतापो भैषज्यम् ॥ कौश्स्_4,1{25}.2 ॥
वचनादन्यत् ॥ कौश्स्_4,1{25}.3 ॥
इति । भेषजशान्तिर्भैषज्यशब्देनोच्यते । तत्र द्विविधा व्याधयः आहारनिमित्ता अन्यजन्मपापनिमित्ताश्च । तत्र आहारनिमित्तेषु चरकबाहडसुश्रुतप्रणीतेषु औषधेषु व्याध्युपशमनं भवति । अशुभनिमित्तेषु अथर्ववेदविहितेषु शान्तिकेषु व्याध्युपशमनं भवति । तथा चाग्रे वक्ष्यति-अनूक्तान्यप्रतिषिद्धानि भपज्यानाम् । अंहोलिङ्गाभिः । सर्वाणि कर्तव्यानि । उक्तान्यनुक्तानि च कर्तव्यानि । बन्धनपायनाचमनादीनि च कार्याणि ॥
भैषज्यकर्मणां विधिं वक्ष्यामः -
[पूर्वस्योदपात्रेण सम्पातवताङ्क्ते ॥ कौश्स्_4,1{25}.4 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ (1.1) इति सूक्तेन उदपात्रं सम्पात्य व्याधितस्य शरीरं सम्मार्ष्टि । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् ॥
[वलीर्विमार्ष्टि ॥ कौश्स्_4,1{25}.5 ॥]
अभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेनोदपात्रं सम्पात्य मुखवलीर्विमार्ष्ट्यङ्गवलीश्च । तत उत्तरतन्त्रम् । तरुणस्य यदि वलयस्तदा एतत्कर्म । सर्वव्याधिभैषज्यं समाप्तम् ॥
अथ ज्वरातिसारभैषज्यान्युच्यन्ते -
[विद्मा शरस्य (1.2) अदो यद् (2.3) इति मुञ्जशिरो रज्ज्वा बध्नाति ॥ कौश्स्_4,1{25}.6 ॥]
अभ्यातानान्तं कृत्वा ऽविद्मा शरस्यऽ इति सूक्तेन मुञ्जपुष्पमणिं मुञ्जरज्ज्वा बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ज्वरभैषज्यं अतिसारे च अतिमूत्रे च । आज्यतन्त्रं कृत्वा ऽअदो यदवधावतिऽ इति सूक्तेन मुञ्जशिरो रज्ज्वा बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अतिसारे अतिमूत्रे च भैषज्यम् ॥
[आकृतिलोष्टवल्मीकौ परिलिख्य पाययति ॥ कौश्स्_4,1{25}.7 ॥]
ऽविद्मा शरस्यऽ इति प्रथमसूक्तेन क्षेत्रमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च भैषज्यम् । ऽअदो यद्ऽ इति सूक्तेन आकृतिलोष्टमभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च । ऽविद्मा शरस्यऽ इति प्रथमेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च । ऽअदो यद्ऽ इति सूक्तेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च ॥
[सर्पिषालिम्पति ॥ कौश्स्_4,1{25}.8 ॥]
ऽविद्मा शरस्यऽ इति प्रथमेन घृतमन्त्र्यापानं म्रक्षति । अतिसारे भैषज्यम् । ऽअदो यद्ऽ इति सूक्तेन घृतमभिमन्त्र्यापानं वा प्रलिम्पति । अतिसारे च ॥
[अपिधमति ॥ कौश्स्_4,1{25}.9 ॥]
ऽविद्मा शरस्यऽ इति चर्मखल्वामुखमभिमन्त्र्य व्रणमुखं धमति । अतिसारे भैषज्यम् । ऽअदो यद्ऽ इति सूक्तेन मुखेन खल्वा वाभिमन्त्र्यापानं शिश्नं वा नाडीं वा व्रणमुखं धमति । समाप्तानि ज्वरातिसार अतिमूत्र अङ्गनाडीप्रवाहे च भैषज्यानि ॥
अतिदुःखमूत्रे दुःखपुरीषकरणे शमनभैषज्यान्युच्यन्ते -
[विद्मा शरस्य (1.3) इति प्रमेहणं बध्नाति ॥ कौश्स्_4,1{25}.10 ॥]
अभ्यातानान्तं कृत्वा ऽविद्मा शरस्यऽ इति द्वितीयेन हरीतकीं कर्पुरं वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । मूत्रनिरोधे पुरीषस्य च ॥
[आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान् पाययति ॥ कौश्स्_4,1{25}.11 ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन मूषकमृत्तिकामभिमन्त्र्य पाययति । ऽविद्मा शरस्यऽ इति द्वितीयेन तल्लग्नं लण्डिकातृणमभिमन्त्र्य पाययति । ऽविद्मा शरस्यऽ इति द्वितीयेन दधिमथितं पाययति । मूत्रपुरीषप्रतिबन्धे भैषज्यम् । ऽविद्मा शरस्यऽ इति द्वितीयेन जरदिन्दुकमभिमन्त्र्य पिष्ट्वा पाययति । मूत्रादिनिरोधे । ऽविद्मा शरस्यऽ इति द्वितीयेन सूक्तेन काष्ठतक्षणान्युदके कृत्वाभिमन्त्र्य पाययति । मूत्रपुरीषप्रतिबन्धे ॥
[उत्तमाभ्यामास्थापयति ॥ कौश्स्_4,1{25}.12 ॥]
ऽविषितं ते वस्तिबिलम्ऽ (1.3.8-9) इति द्वाभ्यामृग्भ्यां मूषकमृत्तिकोपर्युपवेश्याभिमन्त्रयते मूत्रप्रतिबन्धे । ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यामृग्भ्यां पूतीकतृणोपर्युपवेश्याभिमन्त्रयते । मूत्रप्रतिबन्धे । ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यां दधिमथितोपर्युपवेश्य ततोऽभिमन्त्रयते । ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यां जरत्प्रमन्दस्योपर्युपवेश्याभिमन्त्रयते मूत्रप्रतिबन्धे.ऽविषितं ते वस्तिबिलम्ऽ इत्यृग्भ्यां दारुतक्षशकलानामुपर्युपवेश्य व्याधितमभिमन्त्रयते मूत्रप्रतिबन्धे । ऽमूत्रं मुच्यताम्ऽ (1.3.8) इति लिङ्गात् ॥
[यानमारोहयति ॥ कौश्स्_4,1{25}.13 ॥]
अभ्यातानान्तं कृत्वा ऽविद्मा शरस्यऽ इति द्वितीयेन हस्त्यादियानं सम्पात्याभिमन्त्र्य ततो व्याधितमारोहयति । ततो धावति वेगेन मूत्रमोचनकामः ॥
[इषुं विसृजति ॥ कौश्स्_4,1{25}.14 ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन धनुःशरमभिमन्त्र्य ततो व्याधितं प्रति शरं क्षिपति शीघ्रः ॥
[वस्तिं बिष्यति ॥ कौश्स्_4,1{25}.15 ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन शिश्नमभिमन्त्र्य चर्म निःस्फोटति । शिश्नं चर्मणो निःसारयतीत्यर्थः ॥
[वर्तिं बिभेत्ति ॥ कौश्स्_4,1{25}.16 ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन लोहशलाकामभिमन्त्र्य शिश्नं प्रवेशयति । मूत्रप्रवाहं विदारयति ॥
[एकविंशतिं यवान् दोहन्यामद्भिरानीय द्रुघ्नीं जघने संस्तभ्य फलतोऽवसिञ्चति ॥ कौश्स्_4,1{25}.17 ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन द्रुघ्नीं ज्याधनुषं जघने शिश्नदेश ऊर्ध्वं कृत्वा गोदोहन्यामुदकं कृत्वा यवानेकविंशतिं प्रक्षिप्य तेनोदकेन धनुष उपरि फलं सिञ्चति । यथोदकं शिश्ने पतति तथा कार्यम् ॥
[आलबिसोलं फाण्टं पाययति ॥ कौश्स्_4,1{25}.18 ॥
उदावर्तिने च ॥ कौश्स्_4,1{25}.19 ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन यवगोधूमवल्ली पद्ममूलं पाठिका एतानि क्वाथयित्वाभिमन्त्र्य व्याधितं पाययति । समाप्तानि मूत्रप्रतिबन्धे दुःखमूत्रकरणे दुःखपुरीषकरण उदावर्तन उदरपूर्णनिरोधकरणे चैतानि भैषज्यानि कार्याणि । आरोग्यकामः ॥
अथ सर्वरोगभैषज्यान्युच्यन्ते -
[अम्बयो यन्ति (1.4) वायोः पूतः (6.51) इति च शान्ताः ॥ कौश्स्_4,1{25}.20 ॥]
अभ्यातानान्तं कृत्वा ऽअम्बयो यन्तिऽ इति सूक्तेनाज्यं जुहोति । तत उत्तरतन्त्रम् । ऽअम्बयो यन्तिऽ सूक्तेन पालाशौदुम्बराद्याः समिध आदधाति । सर्वव्याधिभैषज्यम् । तन्त्रविकल्पः हस्तहोमत्वात् । तन्त्रं कृत्वा ऽवायोः पूतःऽ इति सूक्तेन तृचेनाज्यं जुहोति । उत्तरतन्त्रम् । सर्वभैषज्यं समाप्तम् ॥
अथ सोमभक्षणे भैषज्यमुच्यते -
[उत्तरस्य ससोमाः ॥ कौश्स्_4,1{25}.21 ॥]
ऽवायोः पूतःऽ इति तृचेन पालाशाद्याः समिधः सोमरसेनाक्ता आदधाति । सोमवमने सोमपाने सोमाभिषवे च व्याध्युत्पन्ने भैषज्यं समाप्तम् ॥
अथ भूततन्त्रकर्माण्युच्यन्ते । भूतपिशाचशङ्कायां शान्तिरुच्यते -
[चातनानामपनोदनेन व्याख्यातम् ॥ कौश्स्_4,1{25}.22 ॥]

अभ्यातानान्तं कृत्वा ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां कुकुसाञ्जुहोति । तत उत्तरतन्त्रम् । पिशाचभैषज्यम् । ऽअभ्याधेयानां धूमं नियच्छतिऽ (कौश्स् । 7.28) । पिशाचगृहीतं पुरुषं धूमं पाययति । गृहे ग्रामे वा पत्तने क्षेत्रे वा देवगृहे वा यत्र क्वचित् पिशाचशङ्कास्ति तत्र होमं कृत्वा धूमं नियतं कुर्यादित्यर्थः । ऽनिःसालाम्ऽ इति सूक्तेन कुकुसाञ्जुहोति । तन्त्रविकल्पः । धूमभक्षणं कुर्यादित्यर्थः । ऽअरायक्षयणम्ऽ इति तिसृभिः कुकुसाञ्जुहोति । धूमभक्षणं च । ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन कुकुसाञ्जुहोति । धूमपानं च । ऽआ पश्यतिऽ इति सूक्तेन कुकुसाञ्जुहोति । धूमनियमनम् । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति कुकुसाञ्जुहोति । विकल्पेन तन्त्रे धूमं करोति । ऽपुरस्ताद्युक्तःऽ इति सूक्तेन कुकुसाञ्जुहोति । पिशाचगृहीतस्य धूमपानं कार्यम् । पिशाचदोषान्मुच्यते । ऽरक्षोहणम्ऽ इत्यनुवाकेन कुकुसाञ्जुहोति तन्त्रे । धूमभक्षकरणं च । पिशाचदोषान्मुच्यते.
ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां तुषाञ्जुहोति । तन्त्रे वा । धूपनं च । ऽनिःसालाम्ऽ इति सूक्तेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः । ऽअरायक्षयणम्ऽ इति तिसृभिः तुषाञ्जुहोति । ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन तुषाञ्जुहोति.
तन्त्रविकल्पः । धूपनं पुरुषस्य । पिशाचोच्चाटनकामः । ऽआ पश्यतिऽ सूक्तेन तुषाञ्जुहोति । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां तुषाञ्जुहोति । तन्त्रविकल्पः । सर्वत्र पिशाचोच्चाटनकामः । ऽपुरस्ताद्युक्तःऽ इति सूक्तेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः । ऽरक्षोहणम्ऽ इत्यनुवाकेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः । ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां बुसं जुहोति । तन्त्रं वा । धूमेन पुरुषं धूपयति । यस्मिन् स्थाने पिशाचस्तस्मिन् स्थाने होमं करोति । यथा धूमो भवति तथा कुर्यात् स्थाने च । ऽनिःसालाम्ऽ इति सूक्तेन बुसं जुहोति । ऽअरायक्षयणम्ऽ इति तिसृभिः बुसं जुहोति । ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन बुसं जुहोति । ऽआ पश्यतिऽ इति सूक्तेन बुसं जुहोति । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां बुसं जुहोति । ऽपुरस्ताद्युक्तःऽ इति बुसं जुहोति । ऽरक्षोहणम्ऽ इत्यनुवाकेन बुसं जुहोति । ऽअभ्याधेयानां धूमं नियच्छतिऽ (कौश्स् 7.28) सर्वत्र । ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां काष्ठशकलानि जुहोति । तन्त्रविकल्पः । सर्वत्र पिशाचोच्चाटनं सर्वत्र धूपनं च । ऽनिःसालाम्ऽ इति सूक्तेनावतक्षणानि जुहोति । ऽअरायक्षयणम्ऽ इति तिसृभिः शकलानि जुहोति । ऽशन्नो देवी पृश्निपर्णीऽ इति शकलानि जुहोति । ऽआ पश्यतिऽ इति सूक्तेन शकलानि जुहोति । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां शकलानि जुहोति । ऽपुरस्ताद्युक्तःऽ इति शकलानि जुहोति । ऽरक्षोहणम्ऽ इत्यनुवाकेन काष्ठशकलानि जुहोति । सर्वत्र तन्त्रविकल्पः हस्तहोमत्वात् । धूमं च करोति सर्वत्र । पुरुषस्य स्थाने नगरे ग्रामे गृहे वा यत्र शङ्का विद्यते तत्र धूमकरणं होमेन.
ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां पिशाचगृहीतं पुरुषमन्वाह । ऽनिःसालाम्ऽ इति सूक्तेन पुरुषमन्वाह । ऽअरायक्षयणम्ऽ इति तिसृभिः पुरुषमन्वाह । ऽशन्नो देवीऽ इति सूक्तेन पिशाचगृहीतमाक्रोशयेत् । ऽआ पश्यतिऽ इति सूक्तेन पिशाचगृहीतं पुरुषमाक्रोशयेत् । ऽतान्त्सत्यौजाःऽ ऽत्वया पूर्वंऽ सूक्ताभ्यां पिशाचमन्वाह । ऽपुरस्ताद्युक्तःऽ इति सूक्तं जपित्वान्वाह । ऽरक्षोहणम्ऽ इत्यनुवाकेन पिशाचगृहीतं पुरुषमन्वाह । यदि ग्रामे नगरे वा रथ्यायां वा क्षेत्रे वा तदा जपं कृत्वा पिशाचनामग्रहणं कुर्यादिति । सर्वत्र कर्मणां विकल्पः ॥
[त्रपुसमुसलखदिरतार्ष्टाघानामादधाति ॥ कौश्स्_4,1{25}.23 ॥]
ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां कर्कटिकासमिध आदधाति । तन्त्रविकल्पः । ऽनिःसालाम्ऽ इति सूक्तेन कर्कटिकासमिध आदधाति । तन्त्रं वा । पिशाचगृहीतं वा धूपयति । ऽअरायक्षयणम्ऽ इति तिसृभिः त्रपुससमिध आदधाति । पिशाचोच्चाटनकामः । ऽशन्नो देवीऽ इति सूक्तेन त्रपुससमिध आदधाति । पिशाचरक्षाकामः । ऽआ पश्यतिऽ इति सूक्तेन कर्कटिकासमिध आदधाति । ऽतान्त्सत्यौजाःऽ ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां त्रपुससमिध आदधाति । सर्वत्र सूक्तादिग्रहणे सूक्तं प्रतीयात् । ऋगादिग्रहणे ऋचं प्रतीयात् । सूक्तमध्ये ऋचं प्रतीयात् । ऽपुरस्ताद्युक्तःऽ इति त्रपुससमिध आदधाति । ऽरक्षोहणम्ऽ इत्यनुवाकेन कर्कटिकासमिध आदधाति । तन्त्रविकल्पः । पिशाचोच्चाटनकामः । ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां मुसलसमिध आदधाति । पिशाचभैषज्यम् । ऽनिःसालाम्ऽ इति सूक्तेन लोकप्रसिद्धमुसलकाष्ठान्यादधाति । ऽअरायक्षयणम्ऽ इति तिसृभिः मुसलकाष्ठान्यादधाति । तन्त्रं वा । ऽशन्नो देवीऽ इति मुसलकाष्ठान्यादधाति । सर्वत्र पिशाचभैषज्यम् । ऽआ पश्यतिऽ इति सूक्तेन मुसलकाष्ठसमिध आदधाति । तन्त्रविकल्पः । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां मुसलकाष्ठशकलानि जुहोति । तन्त्रं वा । पिशाचोच्चाटनम् । ऽपुरस्ताद्युक्तःऽ इति सूक्तेन मुसलसमिध आदधाति । सर्वत्र ऋगन्ते होमः । सर्वत्र ऋगन्ते स्वाहाकारः । अनुतन्त्रे सर्वत्र धूमनियमनम् । ऽरक्षोहणम्ऽ इत्यनुवाकेन मुसलसमिध आदधाति । जातिनियमो नास्ति । हस्तहोमे सर्वत्र तन्त्रविकल्पः । ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां खदिरसमिध आदधाति । ऽनिःसालाम्ऽ इति सूक्तेन खदिरसमिध आदधाति । ऽअरायक्षयणम्ऽ इति तिसृभिः खदिरसमिध आदधाति । ऽशन्नो देवीऽ इति खदिरसमिध आदधाति । ऽआ पश्यतिऽ इति सूक्तेन खदिरसमिध आदधाति । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां खदिरसमिध आदधाति । तन्त्रविकल्पः.
ऽपुरस्ताद्युक्तःऽ इति खदिरसमिध आदधाति । ऽरक्षोहणम्ऽ इत्यनुवाकेन खदिरसमिध आदधाति । पिशाचोच्चाटनकामः । सर्वत्र तन्त्रविकल्पः । सर्वत्र कर्मणां विकल्पः । एकं कुर्यात् द्वे वा बहूनि वा.
ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां सर्षपसमिध आदधाति । ऽनिःसालाम्ऽ इति सूक्तेन सर्षपसमिध आदधाति । ऽअरायक्षयणम्ऽ इति तिसृभिः सर्षपसमिध आदधाति । ऽशन्नो देवीःऽ इति सूक्तेन तार्ष्टाघीः समिध आदधाति । ऽआ पश्यतिऽ इति सूक्तेन तार्ष्टाघीः समिध आदधाति । ऽतान्त्सत्यौजाःऽ ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सर्षपसमिध आदधाति । ऽपुरस्ताद्युक्तःऽ इति सर्षपसमिध आदधाति । ऽरक्षोहणम्ऽ इत्यनुवाकेन सर्षपसमिध आदधाति । तन्त्रविकल्पः । मुसलखदिरसमिद्भ्यां द्विजस्योच्चाटनं भवति । अन्याभ्यां शूद्रादीनामुच्चाटनं भवति ॥
[अयुग्मान्खादिराञ्छङ्कून् अक्ष्यौ नि विध्य (5.29.4) इति पश्चादग्नेः समम्भूमि निहन्ति ॥ कौश्स्_4,1{25}.24 ॥]

ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां खदिरशङ्कून् सप्त नव वाभिमन्त्र्य पश्चादग्नेर्निखनति । भूमिं । समाम् । ऽअक्ष्यौ नि विध्यऽ इति ऋचा । निखननमन्त्रः । पिशाचोपद्रवे । ऽनिःसालम्ऽ इति सूक्तेन सप्त खदिरशङ्कूनभिमन्त्र्य पश्चादग्नेर्निखनति ऽअक्ष्यौ नि विध्यऽ इत्यृचा । पिशाचभये । ऽअरायक्षयणम्ऽ इति तिसृभिः सप्त खदिरकीलकानभिमन्त्र्य ऽअक्ष्यौ निविध्यऽ इत्यृचा पश्चादग्नेर्निखनति । पिशाचरक्षार्थम् । ऽशन्नो देवीःऽ इति सूक्तेन अयुग्मान् खादिराञ्छङ्कूनभिमन्त्र्य ऽअक्ष्यौ नि विध्यऽ इत्यृचा पश्चादग्नेर्निखनति । ऽआ पश्यतिऽ इति सूक्तेन सप्त कीलकानभिमन्त्र्य पश्चादग्नेः ऽअक्ष्यौ नि विध्यऽ इत्यृचा निखनति । सर्वत्र भूमिं समां करोति । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सप्त कीलकानभिमन्त्र्य ऽअक्ष्यौ नि विध्यऽ इत्यृचा निखनति अग्नेः पश्चात् । पिशाचभये । ऽरक्षोहणम्ऽ इत्यनुवाकेन खादिरमयान् सप्त कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ऽअक्ष्यौ नि विध्यऽ इति ऋचा । पिशाचभये ॥
[एवमायसलोहान् ॥ कौश्स्_4,1{25}.25 ॥]
ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां लोहकीलकान् पञ्च सप्त वाभिमन्त्र्य पश्चादग्नेर्निखनति ऽअक्ष्यौ नि विध्यऽ इत्यृचा । सर्वत्र कीलकानां निखननम् । ऽनिःसालाम्ऽ इति सूक्तेन लोहकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ऽअक्ष्यौ नि विध्यऽ इति । ऽअरायक्षयणम्ऽ इति तिसृभिः लोहकीलकानभिमन्त्र्य निखनति । ऽशन्नो देवीःऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य निखनति । पश्चादग्नेः सर्वत्र निखननम् । ऽआ पश्यतिऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । सर्वत्र ऽअक्ष्यौ नि विध्यऽ इति । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां पञ्च सप्त वा लोहमयकीलकानभिमन्त्र्य निखनति ऽअक्ष्यौ नि विध्यऽ
इति । ऽपुरस्ताद्युक्तःऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ऽअक्ष्यौ नि विध्यऽ इत्यृचा । ऽरक्षोहणम्ऽ इत्यनुवाकेन लोहमयकीलकान् पञ्च सप्त वाभिमन्त्र्य पश्चादग्नेर्निखनति ऽअक्ष्यौ नि विध्यऽ इत्यृचा । सर्वत्र निखननम् । ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां ताम्रमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ऽअक्ष्यौ नि विध्यऽ इति । सर्वत्र पिशाचाय । ऽनिःसालाम्ऽ इति सूक्तेन ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । ऽअरायक्षयणम्ऽ इति तिसृभिस्ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन ताम्रमयान् कीलकानभिमन्त्र्य निखनति । ऽआ पश्यतिऽ इति ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । ऽतान्त्सत्यौजाःऽ इति सूक्तेन ताम्रकीलकानभिमन्त्र्य ऽअक्ष्यौ नि विध्यऽ इति पश्चादग्नेर्निखनति । ऽत्वया पूर्वम्ऽ इति सूक्तेन ताम्रमयकीलकानभिमन्त्र्य ऽअक्ष्यौ नि विध्यऽ इति निखनति । ऽपुरस्ताद्युक्तःऽ इति ताम्रमयकीलकानभिमन्त्र्य निखनति । सर्वत्र पिशाचभये । ऽरक्षोहणम्ऽ इत्यनुवाकेन ताम्रमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । ऽअक्ष्यौ नि विध्यऽ इति सर्वत्र निखननम् । सर्वत्र पश्चादग्नेर्निखनति । सर्वत्र पिशाचभये भैषज्यानि ॥
[तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति ॥ कौश्स्_4,1{25}.26 ॥]
ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां तप्तशर्करा अभिमन्त्र्य शयनं वान्तराणि वा गृहं वा ग्रामं वा एषु स्थानेषु परिकिरेत् रक्षोभये । ऽनिःसालाम्ऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य गृहादिषु परिकिरति पिशाचभये । ऽअरायक्षयणम्ऽ इति तिसृभिः तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति । यत्र पिशाचभयं तत्र परिकिरति । ऽशन्नो देवीऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति । ऽआ पश्यतिऽ इति तप्तशर्करा परिकिरति । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये । ऽपुरस्ताद्युक्तो वहऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये । ऽरक्षोहणम्ऽ इत्यनुवाकेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये ॥
[अमावास्यायां सकृद्गृहीतान् यवाननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति ॥ कौश्स्_4,1{25}.27 ॥
य आगच्छेत् तं ब्रूयात् शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द इति ॥ कौश्स्_4,1{25}.28 ॥
तथा कुर्वन्ननाद्ये हनुवाने ॥ कौश्स्_4,1{25}.29 ॥]

अमावास्यायामभ्यातानान्तं कृत्वा शरमयं बर्हिः स्तृणाति । सर्षपेध्मानामुपसमाधानम् । ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां सकृद्गृहीतयवसक्तूञ्जुहोति प्रत्यृचम् । अभ्यातानाद्युत्तरतन्त्रम् । एतस्मिन् तन्त्रे यवराशिमध्यान्मुष्टिमेकां गृहात्वोलूखलेन खण्ड्यत अप्रदक्षिणं पिष्यते । ततो व्याधितं सम्पात्य शणसूत्रेण जिह्वामार्जनं करोति ततो ग्रहणमुक्तः । यदि न करोति शणेन जिह्वामार्जनं तदा न गतो ग्रह इति विजानीयात् । अमावास्यायामाज्यतन्त्रं शरस्तृतं सर्षपेध्ममुपसमाहितमभ्यातानान्तं कृत्वा ऽनिःसालाम्ऽ इति सूक्तेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । मुच्यते । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति तदा गतो ग्रहः । अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वा ऽअरायक्षयणम्ऽ इति तिसृभिः सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति ततो गतो ग्रहः । अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वा ऽअरायक्षयणम्ऽ इति तिसृभिः यवानपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति ततो गतो ग्रहः । अमावास्यायां प्रातरभ्यातानान्तं कृत्वा शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वा ऽआ पश्यतिऽ इति सूक्तेन यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम्.अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वा ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोतिटत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टमभ्यातानान्तं कृत्वा ऽपुरस्ताद्युक्तःऽ इति सूक्तेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टमभ्यातानान्तं कृत्वा ऽरक्षोहणम्ऽ इत्यनुवाकेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणसूत्रेण जिह्वामार्जनं करोति । यदि न करोति तदा न गतो ग्रहः । असाध्यो ग्रहः । असाध्यो ग्रह इत्यर्थः ॥
अथ ग्रहाभिचार उच्यते । इदं कर्म अवश्यस्य ग्रहस्य वशीकरणमुच्यते । अयमभिचारोऽवश्यग्रहस्य वशीकरणार्थः -
[वीरिणतूलमिश्रमिङ्गिडं प्रपुटे जुहोति ॥ कौश्स्_4,1{25}.30 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं पूर्णपुटेन जुहोति । तत उत्तरतन्त्रम् । ऽनिःसालाम्ऽ इति सूक्तेन वीरिणपुष्पमिश्रितमिङ्गिडमाज्यं जुहोति पालाशपुटेनाज्यतन्त्रे । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽअरायक्षयणम्ऽ इति तिसृभिः वीरिणतूलमिश्रितमिङ्गिडं पलाशपुटेन जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । ग्रहस्याभिचारोऽयम् । तन्त्रं कृत्वा ऽआ पश्यतिऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । पिशाचस्याभिचारकर्म । तन्त्रं कृत्वा ऽपुरस्ताद्युक्तःऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं पर्णपुटेन जुहोति । उत्तरतन्त्रम् । ऽरक्षोहणम्ऽ इत्यनुवाकेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोत्याज्यतन्त्रे । ग्रहाभिचारः समाप्तः ॥
अथास्मिन् गृहे पिशाचोऽस्ति वा न वेति संशये इदं कर्म उच्यते -
[इध्माबर्हिः शालायामासजति ॥ कौश्स्_4,1{25}.31 ॥
अपरेद्युर्विकृते पिशाचतो रुगिति ॥ कौश्स्_4,1{25}.32 ॥
उक्तो होमः ॥ कौश्स्_4,1{25}.33 ॥]
ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां सर्षपेध्मं शरमयं बर्हिरभिमन्त्र्य शालाया उपरि निदधाति । शालाया उपरि करोति । ततः प्रभाते निरीक्षणम् । विकृते पिशाचशङ्का । तदा उक्तो होमः । वीरिणतूलमित्यादि । ऽनिःसालाम्ऽ इति सूक्तेन तार्ष्टाघेध्मं शरमयं बर्हिश्चाभिमन्त्र्य शालाया उपरि निदधाति । यदि तद्विकृतं तदा तद्गृहं पिशाचगृहीतम् । तदा उक्तो होमः । वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । तन्त्रे । ऽअरायक्षयणम्ऽ इति तिसृभिरिध्माबर्हिरभिमन्त्र्य शालाया उपरि निदधाति ।
द्वितीयेऽहनि निरीक्षयेत् । बर्हिषि विकृते पिशाचभयम् । तत्र वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । ऽशन्नो देवीऽ इतीध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । ततो वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । तन्त्रे । ऽआ पश्यतिऽ इति सूक्तेनेध्माबर्हिः शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तत इध्माबर्हिः शालाया गृहीत्वा तेन तन्त्रमभ्यातानान्तं कृत्वा वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां इध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति तेनैव सूक्तेन । ऽपुरस्ताद्युक्तःऽ इति सूक्तेनेध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तत्र वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । ऽरक्षोहणम्ऽ इत्यनुवाकेनेध्माबर्हिः शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तन्त्रं कृत्वा तेनानुवाकेन वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । पिशाचग्रहाभिचारः ॥
[वैश्रवणायाञ्जलिं कृत्वा जपन्नाचामयत्यभ्युक्षति ॥ कौश्स्_4,1{25}.34 ॥]

वैश्रवणाय नमस्कारं कृत्वा ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य तमाचामयति सम्प्रोक्षति च । वैश्रवणाय नमस्कारं कृत्वा ऽनिःसालाम्ऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितम् । पिशाचग्रहरक्षाकामः । वैश्रवणाय नमस्कारं कृत्वा ऽअरायक्षयणम्ऽ इति तिसृभिरुदकमभिमन्त्र्याचामयति सम्प्रोक्षति च पिशाचगृहीतं पुरुषम् । वैश्रवणाय नमस्कारं कृत्वा ऽशन्नो देवीऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च । पिशाचरक्षार्थम् । वैश्रवणाय नमस्कारं कृत्वा ऽआ पश्यतिऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितं मानुषम् । वैश्रवणाय नमस्कारं कृत्वा ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य व्याधितमाचामयति सम्प्रोक्षति च । पिशाचभये । वैश्रवणायाञ्जलिं कृत्वा ऽपुरस्ताद्युक्तःऽ इति सूक्तेनोदकमभिमन्त्र्य व्याधितमाचामयति सम्प्रोक्षति च । पिशाचभये रक्षाकामः । वैश्रवणायाञ्जलिं कृत्वा ऽरक्षोहणम्ऽ इत्यनुवाकेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितम् । पिशाचभये रक्षाकामः । सर्वत्र कर्मणां विकल्पः । पिशाचगृहीतं मनुष्यमन्वारब्धे सर्वत्र होमः कार्यः । भैषज्यकर्म च । गृहे प्रयोगः ॥
रात्रिकर्माण्युच्यन्ते -
[निश्युल्मुके सङ्कर्षति ॥ कौश्स्_4,1{25}.35 ॥
स्वस्त्याद्यं कुरुते ॥ कौश्स्_4,1{25}.36 ॥]
रात्रौ ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां उल्मुके द्वे अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभाते ऽस्वस्तिदाःऽ (1.21) इति
सूक्तेन दक्षिणेन प्रक्रामति पदानि ददाति । पिशाचभये । रात्रौ ऽनिःसालाम्ऽ इति सूक्तेन उल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभाते ऽस्वस्तिदाःऽ इति सूक्तेन दक्षिणेन प्रक्रामति । पिशाचभये । रात्रौ ऽअरायक्षयणम्ऽ इत्युल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभाते ऽस्वस्तिदाःऽ इति सूक्तेन पदानि प्रक्रामति । रात्रौ ऽशन्नो देवीऽ इत्युल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभाते ऽस्वस्तिदाःऽ इति पदानि ददाति । रात्रौ ऽआ पश्यतिऽ इत्युल्मुकद्वयं परस्परं सर्वत्राभिमन्त्रणान्ते सङ्घृष्यति । ततः प्रभाते ऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । रात्रौ ऽतान्त्सत्यौजाःऽ ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यामुल्मुके अभिमन्त्र्य सङ्घृष्यति । ततः प्रभाते ऽस्वस्तिदाःऽ इति सूक्तेन पदानि ददाति । पिशाचरक्षार्थम् । रात्रौ ऽपुरस्ताद्युक्तःऽ इति उल्मुके अभिमन्त्र्य सङ्घृष्यति । ततः प्रभाते ऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । सर्वभूतग्रहविनाशनः । गतेन गणविकल्पेन होमः । ब्रह्मराक्षसस्यापि शान्तिः । रात्रौः ऽरक्षोहणम्ऽ इत्यनुवाकेनोल्मुके अभिमन्त्र्य परस्परं सङ्घृष्यति । ततः प्रभाते ऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । समाप्तानि रात्रिकर्माणि । पिशाचराक्षसभूताप्सरःप्रेतयक्षगन्धर्वा ग्रहाश्च । येऽन्येऽपि क्षुद्रब्राह्मणजातिकाः क्षत्रियवैश्यशूद्रादयो ग्रहाः सर्वे एभिः कर्मभिस्तुष्यन्ति । राक्षसग्रहप्रकरणं भूततन्त्रं समाप्तम् ॥
अथ जलोदरभैषज्यमुच्यते -
[अयं देवानाम् (1.10) इत्येकविंशत्या दर्भपिञ्जूलीभिर्वलीकैः सार्धमधिशिरोऽवसिञ्चति ॥ कौश्स्_4,1{25}.37 ॥]
ऽअयं देवानाम्ऽ इति सूक्तेन घटे दर्भपिञ्जुलीः प्रक्षिप्येकविंशतिगृहतृणानि च प्रक्षिप्य तं घटमभिमन्त्र्य ततो व्याधितं सिञ्चति । ततो मार्जनं च । दर्भत्रयमेकत्र बद्धं पिञ्जूलीत्युच्यते । समाप्तं जलोदरभैषज्यम् । अभ्यासेन कर्मसिद्धिः । दिनेदिने कुर्यात् जलोदरनाशनार्थम् ॥ भैषज्ये प्रथमा कण्डिका समाप्ता

26

अथ वातपित्तश्लेष्मणि भैषज्यान्युच्यन्ते -
[जरायुजः (1.12) इति मेदो मधु सर्पिस्तैलं पाययति ॥ कौश्स्_4,2{26}.1 ॥]
ऽजरायुजःऽ इति सूक्तेन मांसभेदोऽभिमन्त्र्य पाययति वातविकारे । ऽजरायुजःऽ इति सूक्तेन मध्वभिमन्त्र्य पाययति श्लेष्मविकारे । ऽजरायुजःऽ इति सूक्तेन घृतमभिमन्त्र्य पाययति वातपित्तसहविकारे । ऽजरायुजःऽ इति सूक्तेन तैलमभिमन्त्र्य पाययति वातश्लेष्मविकारे । समाप्तं वातपित्तश्लेष्मभैषज्यम् ॥
अतिकासे शीर्षक्तौ शिरोवेदनायां च कर्माण्युच्यन्ते -
[मौञ्जप्रश्नेन शिरस्यपिहितः सव्येन तितौनि पूल्यानि धारयमाणो दक्षिणेनावकिरन् व्रजति ॥ कौश्स्_4,2{26}.2 ॥]
व्याधितशिरो मौञ्जवेष्टितं कृत्वा वामेन हस्तेन पवनं लाजसहितं गृहीत्वा । दक्षिणेन हस्तेन तान् लाजान् प्रगृह्य ऽजरायुजःऽ इति सूक्तेन लाजान् प्रकिरन् व्रजति व्याधिदेशं यावत् । तत्रैव मुञ्जप्रश्नलाजापवनानां प्रक्षेपः ॥
[सव्येन तितौप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम् ॥ कौश्स्_4,2{26}.3 ॥
प्रेषकृदग्रतः ॥ कौश्स्_4,2{26}.4 ॥]
वामेन हस्तेन पवनं मौञ्जेन्दुकं च गृहीत्वा दक्षिणेन हस्तेन ज्यां द्रुघ्नीं गृहीत्वा व्याधितमग्रे कृत्वा ॥
[यत्रैनं व्याधिर्गृह्णाति तत्र तितौप्रश्नौ निदधाति ॥ कौश्स्_4,2{26}.5 ॥]
यत्र व्याधिरुत्पन्नस्तत्र स्थाने गत्वा ऽजरायुजःऽ इति सूक्तं जपित्वा मौञ्जप्रश्नं पवनं च प्रक्षिपति व्याधितः ॥
[ज्यां च ॥ कौश्स्_4,2{26}.6 ॥
आव्रजनम् ॥ कौश्स्_4,2{26}.7 ॥]
तत्र स्थाने तूष्णीं ज्यां प्रक्षिपति ॥
[घृतं नस्तः ॥ कौश्स्_4,2{26}.8 ॥]
वातज्वरे कटिभङ्गे शिरीरोगे च वातगुल्मे वातविकारे च सर्वरोगे धनुर्वातेऽङ्गकम्पने वाते शरीरभङ्गे सर्ववातविकारे भैषज्यम् । ऽजरायुजःऽ इति सूक्तेन घृतमभिमन्त्र्य नासिकानस्तं ददाति । शिरोरोगे वातभङ्गे ॥
[पञ्चपर्वणा ललाटं संस्तभ्य जपति ॥ कौश्स्_4,2{26}.9 ॥]
ऽजरायुजःऽ इति सूक्तेन पञ्चपर्ववेणुदण्डं ललाटे संस्तभ्य जपति । शिरोरोगे कटिभङ्गे वा वातगुल्मे वा वातविकारे च । लिङ्ग्युपतापः समाप्तः ॥
अथ लोहिते वहति शरीरमध्ये बहिश्च शस्त्रघाते पाषाणलकुटेष्टकाद्यभिघाते कर्माण्युच्यन्ते -
[अमूर्याः (1.17) इति पञ्चपर्वणा पांसुसिकताभिः परिकिरति ॥ कौश्स्_4,2{26}.10 ॥]
पञ्चपर्ववेणुदण्डं रुधिरवहनस्थाने दत्त्वा ऽअमूर्याःऽ इति सूक्तं जपति । रुधिरप्रवाहे भैषज्यम् । ऽअमूर्याःऽ इति सूक्तेन रथ्यायाः पांसून् गृहीत्वाभिमन्त्र्य रुधिरव्रणे विकिरति । ऽअमूर्याःऽ इति सूक्तेन सिकता अभिमन्त्र्य व्याधिदेशे किरति ॥
[अर्मकपालिकां बध्नाति ॥ कौश्स्_4,2{26}.11 ॥]
अभ्यातानान्तं कृत्वा ऽअमूर्याःऽ इति सूक्तेनार्मकपालिकां सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[पाययति ॥ कौश्स्_4,2{26}.12 ॥]
ऽअमूर्याःऽ इति सूक्तेनार्मकपालिकामभिमन्त्र्य पाययति । अर्मकपालिका शुष्कपङ्कमृत्तिका । स्त्रीरजसोऽतिप्रवर्तने भैषज्यं रुधिरप्रवाहे च ॥
[चतुर्भिर्दूर्वाग्रैर्दधिपललं पाययति ॥ कौश्स्_4,2{26}.13 ॥]
ऽअमूर्याःऽ इति सूक्तेन चत्वारि दूर्वाग्राणि पिष्ट्वा तैः सह दधिपललमांसाद्यालोड्य ततोऽभिमन्त्र्य पाययति । रुधिरप्रवाहे शरीरमध्ये शस्त्राद्यभिघाते बहिश्च शोणितवहने गुदवहने मुखवहने नासिकारुधिरवहने शिरोऽङ्गुल्यादिरुधिरप्रवाहे च । रुधिरप्रवहने भैषज्यानि समाप्तानि.
अथ हृद्रोगे कामले च भैषज्यान्युच्यन्ते -
[अनु सूर्यम् (1.22) इति मन्त्रोक्तस्य लोममिश्रमाचमयति ॥ कौश्स्_4,2{26}.14 ॥]
ऽअनु सूर्यम्ऽ इति रक्तवृषभरोममिश्रमुदकमभिमन्त्र्य पाययति । कामले हृद्रोगे च भैषज्यम् ॥
[पृष्ठे चानीय ॥ कौश्स्_4,2{26}.15 ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन रक्तवृषभपृष्ठ उदकमानीय ततोऽभिमन्त्र्याचामयति ॥
[शङ्कुधानं चर्मण्यासीनाय दुग्धे सम्पातवन्तं बध्नाति ॥ कौश्स्_4,2{26}.16 ॥]
अभ्यातानान्तं कृत्वा ऽअनु सूर्यम्ऽ इति सूक्तेन गो रक्तचर्मछिद्रमणिं गोदुग्धे दत्त्वा तं सम्पात्याभिमन्त्र्य बध्नाति ॥
[पाययति ॥ कौश्स्_4,2{26}.17 ॥]
दुग्धं च पाययति । अभ्यातानाद्युत्तरतन्त्रम् । कामले हृद्रोगे च लिङ्ग्युपतापः ॥
[हरिद्रौदनभुक्तमुच्छिष्टानुच्छिष्टेना प्रपदात् प्रलिप्य मन्त्रोक्तानधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वाऽवस्नापयति ॥ कौश्स्_4,2{26}.18 ॥]
हरिद्रौदनं व्याधितस्य भोजनं दत्त्वा तस्योच्छिष्टं चानुच्छिष्टं चैकत्र कृत्वा तेन चोद्वर्तनं कृत्वा शिरःप्रभृत्यारभ्य यावत्पादौ । ततो व्याधितं च खट्वायामुपवेश्य खट्वाया अधस्तात् । शुकः काष्ठशुको गोपीतिलका चैते त्रयः पक्षिणः । सव्यजङ्घायां हरितसूत्रेण बद्ध्वा खट्वाया अधस्ताद् बध्नाति । ततो ऽअनु सूर्यम्ऽ इति सूक्तेनोदकमभिमन्त्र्य व्याधितं स्नापयति । कामले हृद्रोगे च ॥
[प्रपादयति ॥ कौश्स्_4,2{26}.19 ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन मन्थमभिमन्त्र्य प्रपाद्य प्रयच्छति । सर्वत्र गृहद्वारेऽग्रे व्याधितं कृत्वा तमग्रे प्रवेश्य स्वयं प्रविश्य ततो भक्तमभिमन्त्र्य ततो व्याधिताय प्रयच्छति । सर्वत्र यत्र यत्र ऽप्रयच्छतिऽ शब्दस्तत्र तत्रैवं
बोद्धव्यम् ॥
[वदत उपस्थापयति ॥ कौश्स्_4,2{26}.20 ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन शुकं वदन्तमभिमन्त्रयेत् । ऽअनु सूर्यम्ऽ इति सूक्तेन काष्ठशुकं वदन्तमभिमन्त्रयेत् । ऽअनु सूर्यम्ऽ इति सूक्तेन गोपीतिलकां पक्षिणीं यत्र कुत्रचिद् दृष्ट्वा वदन्तीं तत्राभिमन्त्रयेद् व्याधितः । कामले च व्याधौ ॥
[क्रोडलोमानि जतुना सन्दिह्य जातरूपेणापिधाप्य ॥ कौश्स्_4,2{26}.21 ॥]
अभ्यातानान्तं कृत्वा ऽअनु सूर्यम्ऽ इति सूक्तेन वृषभहृदयलोमभिर्लाक्षारक्तैः सुवर्णवेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य व्याधिताय बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वत्र यत्र बहूनि कर्माणि विहितानि तत्रैकं कुर्याद् द्वे वा कुर्यात् सर्वाणि वा कुर्यात् । सर्वत्र कर्मणां विकल्पः । अपस्मारविस्मयहृद्रोगकामलकरोहिणकानि भैषज्यानि समाप्तानि ॥
अथ श्वेतकुष्ठभैषज्यान्युच्यन्ते -
[नक्तञ्जाता (1.23) सुपर्णो जातः (1.24) इति मन्त्रोक्तं शकृदा लोहितं प्रघृष्यालिम्पति ॥ कौश्स्_4,2{26}.22 ॥]
श्वेतकुष्ठं गोमयेन प्रघृष्य यावल्लोहितं दृष्ट्वा ऽनक्तञ्जाताऽ, ऽसुपर्णो जातःऽ इति सूक्ताभ्यां भृङ्गराजहरिन्द्रेन्द्रवारुणी नीलिकापुष्पा एताः पञ्च पिष्ट्वाभिमन्त्र्य कुष्ठं प्रलिम्पति । तिसृणां वा चतसृणां वौषधीनां ग्रहणम् ॥
[पलितान्याच्छिद्य ॥ कौश्स्_4,2{26}.23 ॥]
पलितनाशे तच्च । पलितानि छित्त्वा घृष्ट्वालिम्पति ॥
अथ मारुतान्युच्यन्ते -
[मारुतान्यपिहितः ॥ कौश्स्_4,2{26}.24 ॥]

ऽनक्तञ्जाताऽ, ऽसुपर्णो जातःऽ इति सूक्ताभ्यां मरुतो यजते यथा वरुणं पाकयज्ञविधानेन । श्वेतपलिते श्वेतकुष्ठे च । अभ्यातानान्तं कृत्वा ऽनक्तञ्जाताऽ, ऽसुपर्णो जातःऽ इति द्वाभ्यां सूक्ताभ्यां कृष्णाया गोराज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽनक्तञ्जाताऽ, ऽसुपर्णो जातःऽ इति सूक्ताभ्यां कासदिविधुवकवेतसा ओषधीरेकत्र कृत्वा सम्पात्याभिमन्त्र्य तत उदकमध्ये प्रवेश्याधोमुखं पात्रं निनयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽनक्तञ्जाताऽ, ऽसुपर्णो जातःऽ इति सूक्ताभ्यां कासाद्योषधीरुदके कृत्वा सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । ऽनक्तञ्जाताऽ, ऽसुपर्णो जातःऽ इति सूक्ताभ्यां श्वशिरो मेषशिरो मानुषकेशरज्ज्वा जरदुपानहौ च वंशद्वयाग्रे प्रबध्य योधयति धारयतीत्यर्थः । पलितनाशे श्वेतकुष्ठे च भैषज्यानि । अभ्यातानान्तं कृत्वा ऽनक्तञ्जाताऽ, ऽसुपर्णो जातःऽ इति द्वाभ्यां सूक्ताभ्यामुदकं सम्पात्य तेनामपात्रं प्रसिच्य ततोऽश्मानं निदधाति । तत आमपात्रमश्मानं च त्रिपादे शिक्ये निदधाति । ततोऽप्सु क्षिपति । तत उत्तरतन्त्रम् । मारुतानि कर्माणि समाप्तानि । मारुतेषु कर्मसु सर्वत्र मारुतक्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येनेति भवति । समाप्तानि कुष्ठभैषज्यानि । श्वेतपलितनाशनं दुर्भगनाशनं च ॥
अथ ज्वरभैषज्यमुच्यते -
[यदग्निः (1.25) इति परशुं जपंस्तापयति क्वाथयत्यवसिञ्चति ॥ कौश्स्_4,2{26}.25 ॥]
नित्यज्वरे वेलाज्वरे सततज्वरे एकान्तरज्वरे चातुर्थकज्वरे शीतज्वरे चतुर्ज्वरे च ऽयदग्निःऽ इति सूक्तेन लोहकुठारमभिमन्त्र्याग्नौ तापयति । ततो ऽयदग्निःऽ इति जपित्वा तं कुठारमुष्णोदकमध्ये क्वाथयति । ततो ऽयदग्निःऽ इति सूक्तं जपित्वा तेनोदकेन व्याधितमवसिञ्चति । आचमनं तूष्णीं मार्जनं च । ज्वरभैषज्यं समाप्तम् ॥
अथोद्वेगविनाशभैषज्यान्युच्यन्ते -
[उप प्रागात् (1.28) इत्युद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणामिषीकाणामुभयतः प्रत्युष्टं बध्नाति ॥ कौश्स्_4,2{26}.26 ॥]
अभ्यातानान्तं कृत्वा ऽउप प्रागात्ऽ इति सूक्तेन शुक्लवीरिणेषीकाचतुष्टयेनोभयतः प्रत्युष्टमेकत्र बद्ध्वा मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति पुण्याहान्ते । तत उत्तरतन्त्रम् । उद्वेगभैषज्यम् ॥
[त्रिविदग्धं काण्डमणिम् ॥ कौश्स्_4,2{26}.27 ॥]
तन्त्रं कृत्वा ऽउप प्रागात्ऽ इति सूक्तेन त्रिविदग्धं शुक्लवीरणकाण्डमणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । उद्वेगभैषज्यम् ॥
[उल्मुके स्वस्त्याद्यम् ॥ कौश्स्_4,2{26}.28 ॥]
ऽउप प्रागात्ऽ इति सूक्तेनोल्मुकद्वयमभिमन्त्र्य घर्षयेत् । रात्रौ उषाकाले वैतत् कर्म । ततः प्रभाते ऽस्वस्तिदाःऽ (1.21) इति सूक्तेन दक्षिणेन पादेन प्रक्रामति इति स्वस्त्ययनम् । वृद्धबालयुवस्त्रीपुरुषाणामकस्मादुद्वेगः प्रलापो वा भवेत्तदैतत् कुर्यात् । समाप्तान्युद्वेगभैषज्यानि ॥
गन्धर्वराक्षसाप्सरोभूतग्रहादिषु भैषज्यान्युच्यन्ते -
[मातृनाम्नोः सर्वसुरभिचूर्णान्यन्वक्तानि हुत्वा शेषेण प्रलिम्पति ॥ कौश्स्_4,2{26}.29 ॥]
अभ्यातानान्तं कृत्वा ऽदिव्यो गन्धर्वःऽ (2.1) इति सूक्तेन घृताक्ताः सर्वौषधीर्जुहोति । होमशेषेण व्याधितं म्रक्षयति । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽइमं मे अग्नेऽ (6.111) इति चतुरृचेनाज्यमिश्राः सर्वौषधीर्जुहोति । तत उत्तरतन्त्रम् । तन्त्रे होमशेषेण व्याधितं म्रक्षयति । गन्धर्वग्रहादिभैषज्यम् ॥
[चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपालेऽन्वक्तानि ॥ कौश्स्_4,2{26}.30 ॥]
चतुष्पथे व्याधितं कृत्वा तस्य शिरसि दर्भेण्डुकं कृत्वा तस्योपरि कपालमग्निपूर्णं प्रज्वालितं कृत्वा तत्र प्रज्वालितेऽग्नौ ऽदिव्यो गन्धर्वःऽ इति सूक्तेन घृताक्ताः सर्वौषधीर्जुहोति । चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपाले प्रज्वालितेऽग्नौ ऽइमं मे अग्नेऽ इति
चतसृभिराज्येनाक्ताः सर्वौषधीर्जुहोति प्रत्यृचं शिरसि होमे न तन्त्रम् ॥
[तितौनि प्रतीपं गाहमानो वपतीतरोऽवसिञ्चति पश्चात् ॥ कौश्स्_4,2{26}.31 ॥]
व्याधितस्य वल्लणिकां सर्वौषधिसहितां हस्ते कृत्वा नद्युदकसम्मुखं प्रवेश्य ततोऽवगाहयति । ऽदव्यो ग्न्धर्वःऽ इति सूक्तेन सर्वौषधीरुदकमध्ये वपति कर्ता । ऽदिव्यो गन्धर्वःऽ इति सूक्तेन पश्चात् स्थितो व्याधितं सिञ्चति ॥
[आमपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति ॥ कौश्स्_4,2{26}.32 ॥]
ततो मृन्मय आमपात्रे होमशेषः सर्वौषधीः कृत्वा पक्षिणो यस्मिन् वृक्षे वसन्ति तत्र त्रिपादे शिक्ये कृत्वा बध्नाति । गन्धर्वयक्षराक्षसभैषज्यम् । ऽइमं मे अग्नेऽ इति सूक्तेन नदीमध्ये वल्लणिकायां सर्वौषधीर्घृताक्ता जुहोति प्रत्यृचम् । ततः कर्ता तमवसिञ्चति व्याधितम् ऽइमं मेऽ इति चतसृभिः । पश्चादामपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने वृक्षे बध्नाति । रक्षोग्रहे यक्षग्रहे गन्धर्वग्रहेऽप्सरोग्रहे राजसे ग्रहे तामसे ग्रहे ग्रहभैषज्यानि समाप्तानि ॥
अथ लौकिके शापे वैदिके शापे च स्त्रीणामाक्रोशे पुरुषाणां च भैषज्यमुच्यते -
[अघद्विष्टा (2.7), शं नो देवी (2.25), वरणः (6.85), पिप्पली (6.109), विद्रधस्य (6.127), या बभ्रवः (8.7) इति ॥ कौश्स्_4,2{26}.33 ॥
उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति ॥ कौश्स्_4,2{26}.34 ॥
प्रथमेन मन्त्रोक्तं बध्नाति ॥ कौश्स्_4,2{26}.35 ॥
द्वितीयेन मन्त्रोक्तस्य सम्पातवतानुलिम्पति ॥ कौश्स्_4,2{26}.36 ॥
तृतीयेन मन्त्रोक्तं बध्नाति ॥ कौश्स्_4,2{26}.37 ॥
चतुर्थेनाशयति ॥ कौश्स्_4,2{26}.38 ॥
पञ्चमेन वरुणगृहीतस्य मूर्ध्नि सम्पातानानयति ॥ कौश्स्_4,2{26}.39 ॥
उत्तमेन शाकलम् ॥ कौश्स्_4,2{26}.40 ॥]
सर्वस्मिन् संहिताविधिकर्मणि प्रधानकर्ममध्ये उत्तरतः उदकुम्भमास्थाप्य तेनोदकेन ऽहिरण्यवर्णाःऽ (1.33) इति सूक्तेनाभिमन्त्रितेन कारयिताभिषेचयेत् सर्वत्र मेधाजननादिकर्मसु । ततः पश्चान्मणिबन्धनादि कर्म कुर्यात् ।
भैषज्येष्वभिषेकं न कुर्यात् । अभ्यातानान्तं कृत्वा ऽअघद्विष्टा देवजाताऽ इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । लौकिक आक्रोशे वैदिके च ब्राह्मणस्य शापे क्रूरचक्षुर्दृष्टिनिपाते च पिशाचराक्षसादिषु भैषज्यं समाप्तम् ॥
अथ रक्षोग्रहे भैषज्यमुच्यते -
आज्यतन्त्रं कृत्वा ऽशं नो देवी पृश्निपर्णीऽ इति सूक्तेन पृश्निपर्णीं सम्पात्याभिमन्त्र्य घृष्ट्वा पुनः सूक्तं जपित्वा व्याधितं प्रलिम्पति । अभ्यातानाद्युत्तरतन्त्रम् । पापगृहीते च स्त्रीगर्भस्त्रावे च मृतापत्यायां च क्रव्यादगृहीते च पिशाचगृहीते च रक्षोमयभैषज्यम् समाप्तम् ॥
अथ राजयक्ष्मादिभैषज्यमुच्यते -

तन्त्रं कृत्वा ऽवरणो वारयाताऽ इति तृचेन वरणवृक्षकाष्ठमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । राजयक्ष्मादिषूग्रव्याधिषु श्वेतोदुम्बरकुष्ठाद्यष्टादशजातिषु ज्वरादिसर्वरोगेषु भैषज्यं समाप्तम् ॥
अथ वातविकारे भैषज्यमुच्यते -
अभ्यातानान्तं कृत्वा ऽपिप्पली क्षिप्तभेषजीऽ इति सूक्तेन पिप्पलद्रव्यं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वाशयति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वत्र । वातविकारे धनुर्वाते वातगुल्मे वातशूले क्षिप्तवातप्रदोषे कर्मकृते वात उत्पन्ने सर्ववातविकारे भैषज्यं समाप्तम् ॥
जलोदरभैषज्यमुच्यते -
अभ्यातानान्तं कृत्वा ऽविद्रधस्य बलासस्यऽ इति तृचेन सूक्तेन व्याधितस्य मूर्ध्नि सम्पातानानयति । अभिमन्त्रणं च ।
अभ्यातानाद्युत्तरतन्त्रम् । जलोदरभैषज्यम् । सर्वव्याधिविसर्पणे हृदयामये वा जलोदरे च एतेषां भैषज्यं समाप्तम् ॥
ऽविद्रधस्यऽ इति सूक्तेन पालाशशकलं चतुरङ्गुलमानं पिष्ट्वाभिमन्त्र्य पुनः सूक्तं जपित्वा व्याधितं लिम्पति । सर्वव्याधिविसर्पणे प्रकोपे च बलासे चान्त्रादिविसर्पणे चाक्षिविसर्पणे च कर्णव्याधिविसर्पणे हृदयामये चाज्ञातराजयक्ष्मणि च । एतेषां भैषज्यं समाप्तम् ॥
तन्त्रं कृत्वा ऽया बभ्रवःऽ इति सूक्तेन दशवृक्षशकलानि लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य पुनः सूक्तं
जपित्वा बध्नाति । सर्वव्याधिभैषज्यम् ॥
अथ क्षेत्रियव्याधिभैषज्यमुच्यते -
[उदगाताम् (2.8) इत्याप्लावयति बहिः ॥ कौश्स्_4,2{26}.41 ॥]
अभ्यातानान्तं कृत्वा ऽउदगाताम्ऽ इति सूक्तेन उदकघटं सम्पात्याभिमन्त्र्य व्याधितं गृहाद् बहिः कृत्वाप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । क्षेत्रियो व्याधिर्लिङ्गी पितृपारम्पर्यागतः क्षेत्रियो रोगः । कुष्ठक्षयरोगो ग्रहणीदोषः सर्वशरीरे विस्फोटकरक्तदोषादिः क्षेत्रियः ॥
[अपेयम् (2.8.2) इति व्युच्छन्त्याम् ॥ कौश्स्_4,2{26}.42 ॥]
तन्त्रं कृत्वा ऽअपेयं रात्रीऽ इत्यृचा घटं सम्पात्याभिमन्त्र्य गृहाद्बहिराप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अपररात्र एतत् कर्म कुर्यात् क्षेत्रियव्याधौ ॥
[बभ्रोः (2.8.3) इति मन्त्रोक्तमाकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यामुत्सीव्य बध्नाति ॥ कौश्स्_4,2{26}.43 ॥]
अभ्यातानान्तं कृत्वा ऽबभ्रोरर्जुनकाण्डस्यऽ इत्यृचार्जुनकाष्ठं यवबुसं तिलपिञ्जिकां चैकत्र त्रीणि बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । क्षेत्रियव्याधौ । अभ्यातानान्तं कृत्वा ऽबभ्रोरर्जुनऽ इत्यृचाकृतिलोष्टं जीवकोषण्यां बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽबभ्रोरर्जुनऽ इत्यृचा वल्मीकमृत्तिकां चर्मजीवकोषण्यां बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । एकस्मिन् व्याधौ सर्वत्र कर्मणां विकल्पः । जीवतः पशोश्चर्म जीवकोषणीत्युच्यते । अजायाश्चर्मावेर्वाश्वाया वा चर्मग्रहणम् । मातृपितृवर्गादायातः
कौलः कुलभवः । सर्वत्र कर्मणां विकल्पः ॥ भैषज्येषु द्वितीया कण्डिका

27

[नमस्ते लाङ्गलेभ्यः (2.8.4) इति सीरयोगमधिशिरोऽवसिञ्चति ॥ कौश्स्_4,3{27}.1 ॥]
ऽनमस्ते लाङ्गलेभ्यःऽ इत्यृचोदकघटमभिमन्त्र्य वृषभयुक्तस्य हलस्याधस्तात् कृत्वा व्याधितं ततोऽभिषिञ्चति । क्षेत्रियस्य भैषज्यम् ॥
[नमः सनिस्रसाक्षेभ्यः (2.8.5) इति शून्यशालायामप्सु सम्पातानानयति ॥ कौश्स्_4,3{27}.2 ॥
उत्तरं जरत्खाते सशालातृणे ॥ कौश्स्_4,3{27}.3 ॥
तस्मिन्नाचमयत्याप्लावयति ॥ कौश्स्_4,3{27}.4 ॥]
तस्मिन् गर्ते व्याधितमुपवेश्याचामयति । उत्तरतन्त्रम् । क्षेत्रियभैषज्यम् । अभ्यातानान्तं कृत्वा ऽनमः सनिस्रसाक्षेभ्यःऽ इत्यृचोदकघटं सम्पात्याभिमन्त्र्योत्तरसम्पातान् जरद्गर्तः आनयति । शालातृणसहिते गर्ते व्याधितमवसिञ्चति । आचमनं च । यत्र क्वचित् स्नानं तत्र सर्वत्राचमनम् । तत उत्तरतन्त्रम् । यत्र यत्र स्नानं प्रोक्षणं च तत्र सर्वत्र भैषज्येषु शिरःप्रभति मार्जनं कुर्यात् यावत् पादौ । समाप्तं क्षेत्रियस्य भैषज्यम् ॥
अथ ब्रह्मग्रहे भैषज्यमुच्यते -
[दशवृक्ष (2.9) इति शाकलः ॥ कौश्स्_4,3{27}.5 ॥]
अभ्यातानान्तं कृत्वा ऽदशवृक्षऽ इति सूक्तेन वृक्षविकल्पेन पलाशादिदशवृक्षशकलानि गृहीत्वा लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ब्रह्मग्रहे भैषज्यम् ॥
[दश सुहृदो जपन्तोऽभिमृशन्ति ॥ कौश्स्_4,3{27}.6 ॥]
दश ब्राह्मणा अथर्वाङ्गिरसः सुहृदो ऽदशवृक्षऽ इति सूक्तं जपन्तो व्याधितशरीरमभिमृशन्ति । सर्वग्रहे ब्रह्मग्रहे । ग्रहभैषज्यं समाप्तम् ॥
[क्षेत्रियात्त्वा (2.10) इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौश्स्_4,3{27}.7 ॥]
चतुष्पथे गत्वाभ्यातानान्तं कृत्वा ऽक्षेत्रियात्त्वाऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्य काम्पीलशकलानि व्याधितपर्वणि दत्त्वा
पिञ्जूलीर्घटे प्रक्षिप्य ततोऽभिषिञ्चति । तत आचमनम् । उत्तरतन्त्रम् । क्षेत्रियग्रहे ॥
[अवसिञ्चति ॥ कौश्स्_4,3{27}.8 ॥]
ऽक्षेत्रियात्त्वाऽ इति सूक्तेनोदकघटं सह पिञ्जूलीभिरभिमन्त्र्य चतुष्पथे व्याधितं कृत्वावसिञ्चति । क्षेत्रिये ग्रहे काम्पीलशकलैर्बन्धयित्वा । क्षेत्रियभैषज्यम् । समाप्तानि क्षेत्रियभैषज्यानि ॥
उदकतृषाक्रान्तभैषज्यमुच्यते -
[पार्थिवस्य (2.29) इत्युद्यति पृष्ठसंहितावुपवेशयति ॥ कौश्स्_4,3{27}.9 ॥
प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं शाखासूपवेश्य वैतसे चमस उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यातृषिताय प्रयच्छति ॥ कौश्स्_4,3{27}.10 ॥
तस्मिंस्तृष्णां सन्नयति ॥ कौश्स्_4,3{27}.11 ॥]
उदित आदित्ये प्रभाते पृष्ठसंहितावुपवेश्य द्वौ पुरुषौ । प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं वैतसशाखासूपवेश्य वैतसे चमसे सक्तूदकं प्रक्षिप्य वैतसशलाकाभ्यां मन्थं निर्मथ्य तृष्णागृहीतस्य शिरसि मन्थमुपमथ्य ऽपार्थिवस्यऽ इति सूक्तेन चमसमभिमन्त्र्य तृषिताय प्रयच्छति यस्य व्याधिर्भवति ॥
[उद्धृतमुदकं पाययति ॥ कौश्स्_4,3{27}.12 ॥]
ऽपार्थिवस्यऽ इति सूक्तेनाप्सूदकमभिमन्त्र्योद्धृत्य पाययति । तृषार्ते भैषज्यम् ॥
[सवासिनौ (2.19.6) इति मन्त्रोक्तम् ॥ कौश्स्_4,3{27}.13 ॥]
ऽसवासिनौऽ इति सूक्तेन मन्थमभिमन्त्र्य पाययति । व्याधिताव्याधितावेकवस्त्रपरिहितौ सन्तौ । तृषार्तभैषज्यानि समाप्तानि ॥
अरुषोदरगण्डुलभैषज्यान्युच्यन्ते -
[इन्द्रस्य या मही (2.31) इति खल्वङ्गानलाण्डून् हननान् घृतमिश्राञ्जुहोति ॥ कौश्स्_4,3{27}.14 ॥]
तन्त्रं कृत्वा ऽइन्द्रस्य या महीऽ इति सूक्तेन कृष्णचणकान् घृतमिश्राञ्जुहोति । तन्त्रविकल्पः ॥
[बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य सम्भिनत्ति ॥ कौश्स्_4,3{27}.15 ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन गोवालान् । चित्रिते शरे सव्यं परिवेष्ट्य पाषाणेन चूर्णयति ॥
[प्रतपति ॥ कौश्स्_4,3{27}.16 ॥]
ततः सूक्तं जपित्वाग्नौ प्रतपति ॥
[आदधाति ॥ कौश्स्_4,3{27}.17 ॥]
ततः सूक्तान्तेनाग्नावादधाति ॥
[सव्येन दक्षिणामुखः पांसूनुपमथ्य परिकिरति ॥ कौश्स्_4,3{27}.18 ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन सव्ये हस्ते पांसून् कृत्वा दक्षिणेन विमृज्य दक्षिणामुखः स्थितः सूक्तं जपित्वा व्याधितस्योपरि किरति । अरुषीगण्डुलकानां भैषज्यम् ॥
[सम्मृद्नाति ॥ कौश्स्_4,3{27}.19 ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन पांसून् मर्दयति हस्ताभ्यां व्याधितः ॥
[आदधाति ॥ कौश्स्_4,3{27}.20 ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन पालाशौदुम्बराद्याः समिध आदधाति । समाप्ता उदरकृमय उदरगण्डुलकाश्च दृष्टकृमयश्च
तेषां भैषज्यम् ॥
अथ गोकृमिभैषज्यान्युच्यन्ते -
[उद्यन्नादित्यः (2.32) इत्युद्यति गोनामेत्याह असौ इति ॥ कौश्स्_4,3{27}.21 ॥
सूक्तान्ते ते हताः इति ॥ कौश्स्_4,3{27}.22 ॥
दर्भैरभ्यस्यति ॥ कौश्स्_4,3{27}.23 ॥]
प्रातः ऽउद्यन्नादित्यःऽ इति सूक्तं जपित्वा गोनामोच्चारयित्वा यस्य क्रिमयः । ऽते हताःऽ इति मन्त्रेण दर्भैराहन्ति क्रिमीणां मुखम् ॥
[मध्यन्दिने च ॥ कौश्स्_4,3{27}.24 ॥]
एतन्मध्यन्दिने कुर्यात् ॥
[प्रतीचीमपराह्णे ॥ कौश्स्_4,3{27}.25 ॥]
आदित्यसम्मुखोऽपराह्णे एतत् । त्रिकाले कर्मसमाप्तिः । गोनामग्रहणम् ऽअसौऽ इति स्थाने ॥
[बालस्तुकामाच्छिद्य खल्वादीनि ॥ कौश्स्_4,3{27}.26 ॥]
ऽउद्यन्नादित्यःऽ इति सूक्तेन घृतमिश्रान् कृष्णचणकाञ्जुहोति । कृमिभैषज्यम् । ऽउद्यन्नादित्यःऽ इति सूक्तेन कल्माषं शरं
गोवालवेष्टितं धारयति । ततः पाषाणेन चूर्णयति । ततः सूक्तेन प्रतपति । ततः सूक्तेन जपित्वाग्नावादधाति जुहोतीत्यर्थः । कृमिभैषज्यम् । ऽउद्यन्नादित्यःऽ इति सूक्तेन पांसूनभिमन्त्र्य वामे हस्ते कृत्वा दक्षिणामुखः पांसुना कृमिव्रणं मर्दयति । ऽउद्यन्नादित्यःऽ इति सूक्तेन पलाशवृक्षादिसमिध आदधाति । समाप्तं सर्वकृमिभैषज्यम् मनुष्यगजहस्त्यश्वादियूकालिक्षादिषु कृमिभैषज्यम् ॥
सर्वव्याधिभैषज्यमुच्यते -
[अक्षीभ्यां ते (2.33) इति वीबर्हम् ॥ कौश्स्_4,3{27}.27 ॥
उदपात्रेण सम्पातवतावसिञ्चति ॥ कौश्स्_4,3{27}.28 ॥]
आज्यतन्त्रं कृत्वा व्याधितं पर्वसु बद्ध्वा ऽअक्षीभ्यां तेऽ इति सूक्तेनोदपात्रं सम्पात्य ततः पुनः सूक्तं जपित्वावसिच्य व्याधितस्य पर्वग्रन्थीन् विमुञ्चति । तत उत्तरतन्त्रम् । समाप्तमक्षिरोगनासिकाकर्णमूलशिरोजिह्वाग्रीवाराजयक्ष्मादिसर्वव्याधिभैषज्यम् । ऽअक्षीभ्यां तेऽ इति सूक्तेनाभिमन्त्रयते व्याधितम् । सर्वव्याधिभैषज्यं समाप्तम् ॥
अथ क्षेत्रियव्याधिभैषज्यान्युच्यन्ते -
[हरिणस्य (3.7) इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रेऽवसिञ्चति ॥ कौश्स्_4,3{27}.29 ॥]

तन्त्रं कृत्वा ऽहरिणस्यऽ इति सूक्तेन हरिणशृङ्गमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । क्षेत्रियभैषज्यम् । ऽहरिणस्यऽ इति सूक्तेन हरिणशृङ्गेण सहोदकमभिमन्त्र्य पाययत्याचामयति च । अथोषाकाल एतत् कर्म । हरिणवर्म शङ्कुधानं प्रज्वाल्योदके प्रक्षिप्य ततो ऽहरिणस्यऽ इत्यभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनमाचमनं च । क्षेत्रियभैषज्यम् ॥
[अमितमात्रायाः सकृद्गृहीतान् यवानावपति ॥ कौश्स्_4,3{27}.30 ॥]
ऽहरिणस्यऽ इति सूक्तेन यवाञ्जुहोति प्रत्यृचं राशेरपरिमितान् मध्यात् सकृद् ग्राह्या यवा इत्यर्थः । क्षेत्रियभैषज्यम् ॥
[भक्तं प्रयच्छति ॥ कौश्स्_4,3{27}.31 ॥]
ऽहरिणस्यऽ इति सूक्तेन भक्तमभिमन्त्र्य भोजने प्रपाद्य प्रयच्छति । समाप्तं क्षेत्रियभैषज्यम् । बालरोगगृहीते च ॥
मैथुनदोषव्याधिभैषज्यान्युच्यन्ते -
[मुञ्चामि त्वा (3.31) इति ग्राम्ये पूतिशफरीभिरोदनम् ॥ कौश्स्_4,3{27}.32 ॥]
ऽमुञ्चामि त्वाऽ इति सूक्तेन पूतिगन्धमत्स्यसहितमोदनमभिमन्त्र्य व्याधिताय प्रयच्छति भक्षणार्थं भोजनकाले ॥
[अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रेऽवसिञ्चति ॥ कौश्स्_4,3{27}.33 ॥]
ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यकतिलैः प्रज्वालितमुदकं पात्रे प्रक्षिपति । ततोऽभिमन्त्र्योषाकालेऽवसिञ्चति व्याधितम् । मैथुनराजयक्ष्मणि भैषज्यम् । उषाकाल इदं कर्म । ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यशणेनावज्वालितमुदकमभिमन्त्र्यावसिञ्चति । मार्जनमाचमनं च । मैथुनव्याधिभैषज्यम् । ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यगोमयेनावज्वालितमुदकमभिमन्त्र्यावसिञ्चत्युषाकाले । मार्जनमाचमनं च । मैथुनव्याधिभैषज्यम् । उषाकाले ऽमुञ्चामि त्वाऽ इति सूक्तेन चित्याद्याभिः प्रज्वालितमुदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनमाचमनं च । केचित् तिलशणादिचतुर्षु कर्मस्वरण्येऽवसेकमिच्छन्ति । केचिद्गृहेऽवसेकमिच्छन्ति । विकल्पः । समाप्तं मैथुनव्याधिभैषज्यम् । ऽमुञ्चामि त्वाऽ इति सूक्तेन व्याधितमभिमन्त्रयते । सर्वव्याधिभैषज्यम् ॥
अथ सर्वभैषज्यान्युच्यन्ते -
[मृगारैः मुञ्च (1.12.3) इत्याप्लावयति ॥ कौश्स्_4,3{27}.34 ॥]
अभ्यातानान्तं कृत्वा ऽआ गावःऽ (4.21-30) इति दशभिः सूक्तैर्घटमुदकपूर्णं सम्पात्याभिमन्त्र्य व्याधितमाप्लावयति । मार्जनाचमने स्मर्तव्ये । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । तन्त्रं कृत्वा ऽमुञ्च शीर्षक्त्याःऽ इत्यृचोदकघटं सम्पात्याभिमन्त्र्याप्लावयति व्याधितम् । अभ्यातानाद्युत्तरतन्त्रम् । आप्लवने सर्वत्र मार्जनाचमने च । सर्वव्याधिभैषज्यं समाप्तम् ॥ तृतीया कण्डिका

28

स्कन्दविषभैषज्यान्युच्यन्ते -
[ब्राह्मणो जज्ञे (4.6) इति तक्षकायाञ्जलिं कृत्वा जपन्नाचमयत्यभ्युक्षति ॥ कौश्स्_4,4{28}.1 ॥]
तक्षकदेवतायै नमस्कारं कृत्वा ततो ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ (4.7) इति सूक्ताभ्यामुदकमभिमन्त्र्याचामयति विषकरम् । तक्षकाय नमस्कारं कृत्वा ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य सम्प्रोक्षति विषदुष्टम् । स्कन्दविषभैषज्य ॥
[कृमुकशकलं सङ्क्षुद्य दूर्शजरदजिनावकरज्वालेन ॥ कौश्स्_4,4{28}.2 ॥]
ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ इति सूक्ताभ्यां कृमुकवृक्षशकलं सहोदकमभिमन्त्र्य तत आचामयति । स्कन्दविषभैषज्यम् । ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ इति सूक्ताभ्यां कृमुकवृक्षशकलं सहोदकमभिमन्त्र्याभ्युक्षति । ततो मार्जनमाचमनं च सर्वं तूष्णीम् । दूर्शावज्वालितमुदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमने च । सर्वं तूष्णीम् । ऽब्राह्मणो जज्ञेऽ इति सूक्ताभ्यां जीर्णहरिणचर्मावज्वालितमुदके प्रक्षिप्य तमभिमन्त्र्य ततोऽवसिञ्चति । विषभैषज्यम् । ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ इति सूक्ताभ्यां सम्मार्जनिकावकरतृणैरवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । स्कन्दविषभैषज्यम् ॥
[सम्पातवत्युदपात्र ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थमुपमथ्य रयिधारणापिण्डानन्वृचं प्रकीर्य छर्दयते ॥ कौश्स्_4,4{28}.3 ॥]
अभ्यातानान्तं कृत्वा ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ इति सूक्ताभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति विषदुष्टम् । विषभैषज्यम् । ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ इति सूक्ताभ्यां विषलिप्ताभ्यां फलाभ्यां सक्तुमन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति । विषभैषज्यम् । ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ इति सूक्ताभ्यां मदनफलानि प्रत्यृचमभिमन्त्र्य भक्षयति । यथा छर्दयति तथा च कर्तव्यम् । स्कन्दविषभैषज्यम् ॥
[हरिद्रां सर्पिषि पाययति ॥ कौश्स्_4,4{28}.4 ॥]
ऽब्राह्मणो जज्ञेऽ ऽवारिदम्ऽ इति सूक्ताभ्यां हरिद्रां सर्पिषा सहितामभिमन्त्र्य पाययति । समाप्तं स्कन्दविषभैषज्यम् ॥
अथ शस्त्राद्यभिघाते रुधिरप्रवाहे भैषज्यान्युच्यन्ते -
[रोहणी (4.12) इत्यवनक्षत्रेऽवसिञ्चति ॥ कौश्स्_4,4{28}.5 ॥]
ऽरोहण्यसिऽ इति सूक्तेन लाक्षोदकं क्वाथितमभिमन्त्र्य व्याधिदेशमवसिञ्चति । उषाकाले कर्म । अस्थिभङ्गे रुधिरप्रवाहे दंशशस्त्राभिघातादौ भैषज्यम् ॥
[पृषातकं पाययत्यभ्यनक्ति ॥ कौश्स्_4,4{28}.6 ॥]
ऽरोहण्यसिऽ इति पृषातकं घृतमिश्रं दुग्धमभिमन्त्र्य पाययति । ऽरोहण्यसिऽ इति सूक्तेन क्षीरं घृतमिश्रं कृत्वा व्याधिदेशं म्रक्षति ।
अङ्गभङ्गेऽङ्गछेदेऽङ्गरुधिरप्रवाहेऽङ्गाभिघातेऽङ्गभग्नेऽङ्गमूढाभिघातेऽङ्गवृक्षाभिघाते मुष्टिलोष्टेष्टिकापशुशृङ्गाग्नि- पाषाणलकुटशस्त्राद्यभिघाते रुधिरप्रवाहे वा शरीरछेदादौ भैषज्यं समाप्तम् ॥
अथ रक्षोभैषज्यमुच्यते -
[आ पश्यति (4.20) इति सदम्पुष्पामणिं बध्नाति ॥ कौश्स्_4,4{28}.7 ॥]
तन्त्रं कृत्वा ऽआ पश्यतिऽ इति सूक्तेन सदम्पुष्पामणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सदम्पुष्पा त्रिसन्ध्या प्रसिद्धा । ब्रह्मग्रहे क्षत्रियग्रहे वैश्यग्रहे शूद्रग्रहे वान्येषां व्यन्तराणां पिशाचानां रक्षसां च भैषज्यं समाप्तम् ॥
अथ सर्वव्याधिभैषज्यमुच्यते -
[भवाशर्वौ (4.28) इति सप्त काम्पीलपुटानपां पूर्णान् सम्पातवतः कृत्वा दक्षिणेनावसिच्य पश्चाद्विध्यति ॥ कौश्स्_4,4{28}.8 ॥]
अभ्यातानान्तं कृत्वा ऽभवाशर्वौ मन्वे वाम्ऽ इति सूक्तेन सप्तर्चेनैकैकयर्चा काम्पीलसप्तपुटकानुदकपूर्णान् सम्पात्यर्चर्चा ततः प्रत्यृचमभिमन्त्र्य ततो व्याधितमवसिञ्चति । ततः पुटं पश्चात् क्षिपति । एवं द्वितीयमेवं तृतीयम् । तत उत्तरतन्त्रम् । समाप्तं सर्वव्याधिभैषज्यम् ॥
सर्वभूतग्रहभैषज्यमुच्यते -
[त्वया पूर्वम् (4.37) इति कोशेन शमीचूर्णानि भक्ते ॥ कौश्स्_4,4{28}.9 ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्य सक्तुमध्ये ददाति भक्षार्थम् । रक्षोग्रहे भैषज्यम् ॥
[अलङ्कारे ॥ कौश्स्_4,4{28}.10 ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्यालङ्कारे ददाति व्याधितस्य । सर्वग्रहभैषज्यम् ॥
[शालां परितनोति ॥ कौश्स्_4,4{28}.11 ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीचूर्णं कृत्वाभिमन्त्र्य शालां चूर्णैः परिकिरति । व्याधितस्य शालाम् । रक्षोग्रहाप्सरोग्रहगन्धर्वग्रहसर्वग्रहभैषज्यं समाप्तम् ॥
अथामतिगृहीते भैषज्यमुच्यते -
[उतामृतासुः (5.71) इत्यमतिगृहीतस्य भक्तं प्रयच्छति ॥ कौश्स्_4,4{28}.12 ॥]
ऽउतामृतासुःऽ इत्यृचा भोजनकाले भक्तमभिमन्त्र्य ददाति भक्षणार्थम् प्रज्ञाप्रनष्टेऽज्ञानगृहीतेऽधर्मगृहीते त्रिवर्गे च विनष्टे द्यूतक्रीडाद्यतिप्रत्ते कुबुद्धिभैषज्यम् ॥
राजयक्ष्मणि शिरोरोगे कुष्ठामये सर्वगात्रवेदनायां भैषज्यमुच्यते -
[कुष्ठलिङ्गाभिर्नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति ॥ कौश्स्_4,4{28}.13 ॥]
ऽयो गिरिष्वजायथाःऽ (5.4) इति सूक्तेन ऽत्रिः शाम्बुभ्यो अङ्गिरेभ्यःऽ (19.39.5-8) इति चतुरृचेन कुष्ठपिष्टं नवनीतमिश्रं कृत्वाभिमन्त्र्याप्रतीहारं व्याधितस्य शरीरं प्रलिम्पति । राजयक्ष्मणि शिरोरोगे कुष्ठामये सर्वगात्रवेदनासु भैषज्यं समाप्तम् ॥
अथ शस्त्राद्यभिघाते भैषज्यमुच्यते -
[लाक्षालिङ्गाभिर्दुग्धे फाण्टान् पाययति ॥ कौश्स्_4,4{28}.14 ॥]
ऽरात्री माताऽ (5.5) इति सूक्तेन दुग्धे लाक्षां क्वाथयित्वाभिमन्त्र्य पाययति । शस्त्राद्यभिघाते पाषाणपतनाभिघातेऽग्निदाहे सर्वशरीराभिघाते भैषज्यं समाप्तम् ॥
सूतिका स्त्री अरिष्टकस्य च भैषज्यान्युच्यन्ते -
[ब्रह्म जज्ञानम् (5.6) इति सूतिकारिष्टकौ प्रपादयति ॥ कौश्स्_4,4{28}.15 ॥]
ऽब्रह्म जज्ञानम्ऽ (5.6.1) ऽअनाप्ता येऽ (5.6.2) ऽसहस्रधार एव तेऽ (5.6.3) इति सूक्तेन भक्तमभिमन्त्र्य ददाति
भक्षणार्थम् । पूर्वं स्त्री प्रवेश्य तूष्णीं ततः पश्चात् कर्ता तूष्णीं प्रविश्य सूक्तेन भक्तमभिमन्त्र्य दद्यात् ॥
[मन्थाचमनोपस्थानमादित्यस्य ॥ कौश्स्_4,4{28}.16 ॥]
ऽब्रह्म जज्ञानम्ऽ ऽअनाप्ता येऽ ऽसहस्रधार एव तेऽ इति सूक्तेन सक्तुमन्थमभिमन्त्र्य पाययति । तेनैव सूक्तेनोपस्थानमादित्यस्य । ऽब्रह्म जज्ञानम्ऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । समाप्तं स्त्रीप्रसवदोषे सूतिकारोगे च भैषज्यम् । अद्भुतदर्शने दोषनाशनभैषज्यं समाप्तम् ॥ सर्वाद्भुतेषु भक्तकर्म वाचमनकर्म वा कुर्यात् । यानि चरकादिवैद्यकेष्वद्भुतानि पठ्यन्तेऽस्वस्थशारीरविषये तेषां सर्वेषामियं शान्तिर्भैषज्यं भवति । यानि चाद्भुतानि शरीररोगे ज्योतिषे पठ्यन्ते तेषामपीदं कर्म ॥
अथ सर्वव्याधिभैषज्यमुच्यते -
[दिवे स्वाहा (5.9) इमं यवम् (6.91) इति चतुर उदपात्रे सम्पातानानयति ॥ कौश्स्_4,4{28}.17 ॥]
तन्त्रं कृत्वा ऽदिवे स्वाहाऽ इति सूक्तेन चतुर उदपात्रे सम्पातानानयति ॥

[द्वौ पृथिव्याम् ॥ कौश्स्_4,4{28}.18 ॥
तौ प्रत्याहृत्याप्लावयति ॥ कौश्स्_4,4{28}.19 ॥]
द्वौ सम्पातौ भूमौ दत्त्वा ततः सम्पातितां भूमिमृत्तिकां सङ्गृह्य तत उदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणं कृत्वा व्याधितमाप्लावयति । ऽदिवे स्वाहाऽ इति त्रिभिः स्वाहाकारैरेकः सम्पातः । त्रिभिः स्वाहाकारैस्त्रयः सम्पाताः । द्वौ द्वाभ्यामृग्भ्यां सम्पातौ । एवं षड् भवन्ति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽइमं यवम्ऽ इति सूक्तेनार्धर्चेनार्धर्चेन होमः । उदपात्रे सम्पातानानीय द्वौ भूमौ सम्पातौ । तौ गृहीत्वोदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणम् । तत आप्लावयति व्याधितम् । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् ॥
[सयवे चोत्तरेण यवं बध्नाति ॥ कौश्स्_4,4{28}.20 ॥]
अभ्यातानान्तं कृत्वा ऽदिवे स्वाहाऽ इति सूक्तेन षट् सम्पातान् करोति यवसहित उदपात्रे चतुरः सम्पातानानयति । द्वौ सम्पातौ भूमौ दत्त्वा मृत्तिकामुदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणमाप्लावनं च । अभ्यातानाद्युत्तरतन्त्रम् । ऽदिवे स्वाहाऽ इति त्रिभिः स्वाहाकारैरेकः सम्पातः । अन्यत् सर्वं यथार्थं कुर्यात् । एवं षट् सर्वत्र कुर्यात् । तन्त्रं कृत्वा ऽइमं यवम्ऽ इति सूक्तेनार्धर्चेन षड् होमान् कृत्वा चतुर उदपात्रे सम्पातानानयति । द्वौ पृथिव्याम् । तावुदपात्रे प्रक्षिप्य ततः सूक्तेनाभिमन्त्रणम् । यवसहित उदपात्रे सम्पाताः । ततोऽभिषेचनं मार्जनमाचमनं च । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यं समाप्तम् । अभ्यातानान्तं कृत्वा ऽइमं यवम्ऽ इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । शीतज्वरक्षुद्रज्वरकामज्वरश्लेष्मज्वरग्रीष्मज्वर- वर्षाज्वरदानद्रव्यत्यागप्रतिग्रहयाजनाध्ययनाध्यापनयाज्ययाजनबुद्धिध्वान्ते अक्षिपटलोद्वेगे स्त्रीषु पुरुषेषु पापलक्षणापकामहृदय- तापहर्षविषादापस्मारेषु । सर्वशब्देन कथ्यन्ते । सर्वव्याधिभैषज्यं यत्र एकस्मिन् व्याधौ बहूनि कर्माणि विहितानि सर्वस्मिन् शास्त्रे तत्र सर्वत्र कर्मणां विकल्पः । यत्राभिषेकोऽवसेचनं तत्राचमनं मार्जनं च सर्वत्र ॥ चतुर्थी कण्डिका

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc