कौशिकपद्धति · अध्याय 1.9
[शान्त्युदकविधानम्]
अम्बयो यन्ति (1.4) शम्भुमयोभू हिरण्यवर्णाः (1.33) निस्सालाम् (2.14) ये अग्नथः (3.21.1-7) ब्रह्म जज्ञानम् (4.1.1) इत्येका उत देवाः (4.13) मृगारसूक्तानि
उत्तमं वर्जयित्वा अप नः शोशुचदघम् (4.33) पुनन्तु मा (6.19) सस्रुषीः (6.23) हिमवतः प्र स्रवन्ति (6.24) वायोः पूतः पवित्रेण (6.51) शं च नो मयश्च नः (6.57.3) अनडुद्भ्यस्त्वं प्रथमम् (6.59) मह्यमापः (6.61) वैश्वानरो रश्मिभिः (6.62) यमो मृत्युः (6.93) विश्वजित् (6.107) सञ्ज्ञानं नः (7.52) यद्यन्तरिक्षे (7.66) पुनर्मैत्विन्द्रियम् (7.67) शिवा नः (7.68.3) शं नो वातो वातु (7.69) अग्निं ब्रूमो वनस्पतीन् (11.6) इति
सर्वाणि सूक्तानि प्रत्येतव्यानि । यत्र शान्तिगणस्तत्रायं गणः प्रत्येतव्यः । शम्भुमयोभू ऽआपो हि ष्ठाऽ ऽशं नो देवीऽ (1.5-6) क्रमेण प्रयोगः । तथा व्याकरणे ऽअल्पाच्तरम्ऽ (पा । 2.2.34) इति पूर्वनिपातः कृतः समासे । ऽहिरण्यवर्णाःऽ ऽनिस्सालाम्ऽ इति षडर्चम् । ऽये अग्नयःऽ इति सप्तः । ऽब्रह्म जज्ञानम्ऽ इत्येका । ऽउत देवाःऽ इति सप्तर्चं सूक्तम् । ऽअग्नेर्मन्वःऽ (4.23-29) इति सप्त मृगारसूक्तानि गृहीतव्यानि । प्रथमे द्वे (4.21-22) उत्तमं (4.30) च वर्जयित्वा । ऽशं च नो मयश्च नःऽ इत्येका । ऽपुनर्मैत्विन्द्रियम्ऽ इत्येका । ऽशिवा नःऽ इत्येका । ऽशं नो वातो वातुऽ इत्येका । शेषाणि सूक्तानि । अनेन शान्तिगणेन शान्त्युदकं कुर्यात् । यत्र शान्तिस्तत्रैतानि सर्वाणि प्रत्येतव्यानि ॥
पृथिव्यै श्रोत्राय (6.10) इति त्रिः प्रत्यासिञ्चति
यत्र शान्त्युदकं क्रियते तत्र ऽपृथिव्यै श्रोत्रायऽ इति त्रिभिरृग्भिः शान्त्युदकं शान्त्युदकमध्ये प्रक्षिपेत् । अनेनैव कारयिता प्रोक्षणाचमनादीनि प्रत्यृचं करोति ॥
अम्बयो यन्ति (1.4) शम्भुमयोभू हिरण्यवर्णाः (1.33) शन्तातीयं शिवा नः (7.68.3) शं नो वातो वातु (7.69) अग्निं ब्रूमो वनस्पतीन् (11.6) इति
अथवाऽनेन गणेन शान्त्युदकं करोति । बृहद्गणेन वा चतुर्गणेन वा शान्त्युदकं करोति । शन्तातीयम् ऽउतः देवाःऽ (4.13) इति । शेषाणि प्रतीकानि कथितानि । एष शन्तातीयो गणः । यत्र शन्तातीयेन प्रयोजनं तत्रायं सर्वत्र प्रयोक्तव्यः । यथा शन्तातीयेन तिलान् जुहोति ॥
[पृथिव्यै श्रोत्राय (6.10) इति त्रिः प्रत्यासिञ्चति
]
यत्र शान्त्युदकं तत्र सर्वत्र प्रत्यासेकः । कारयिता प्रोक्षणमासेचनमाचमनं करोति ॥
इति शान्तियुक्तानि
इह शान्त्युदके सर्वेषां सूक्तानां समुच्चयः । अन्यत्र सर्वत्र यथोक्तेन न्यायेन विकल्पः । इह पुनर्गणविकल्पो न सूक्तविकल्पः ॥
उभयतः सावित्र्युभयतः शन्नोदेवी
उभयतः शान्तिगणस्य प्रारम्भे समाप्तौ च । शन्नोदेवी सावित्री च प्रयोक्तव्या । समाप्तौ सावित्री पश्चाच्छन्नोदेवी करोति । तथा
च भाष्यं ससावित्रीकस्य गणस्य उभयतः शन्नोदेवी भवति ॥
अथ शान्त्युदकविधानमुच्यते -
अहतवासाः कंसे शान्त्युदकं करोति
कर्ता अहतवसनो भूत्वा कांस्यपात्रे शान्त्युदकं करोति ॥
[अतिसृष्टो अपां वृषभः (16.1) इत्यपोऽतिसृज्य सर्वा इमा आप ओषधयः इति पृष्ट्वा सर्वाः इत्याख्यात ओं बृहस्पतिप्रसूतः करवाणि इत्यनुज्ञाप्य ओं सवितृप्रसूतः भवान् इत्यनुज्ञातः कुर्वीत
]
ऽअतिसृष्टो अपां वृषभःऽ इति सूक्तेनापोऽतिसृज्यावकरं विसर्जयति । ऽसर्वा इमा आप ओषधयःऽ इति पृष्ट्वा । कर्ता ब्रह्माणं पृच्छति । ब्रह्मा ब्रवीति ऽसर्वाःऽ इति । चित्यादिभिः सर्वाभिरौषधीभिः सर्वाभिरद्भिर्गङ्गादिनदीसमुद्रादिह्रदप्रभासादितीर्थेभ्य आहृताभिरद्भि शान्त्युदकं करोति । कर्ता ब्रवीति ऽबृहस्पतिप्रसूतः करवाणिऽ इति । ततो ब्रह्मा ब्रवीति ऽसवितृप्रसूतः कुरुतां भवान्ऽ । अनुज्ञातः शान्त्युदकं करोति । ऽशं नो देवीऽ इत्यृचा सावित्र्या चाम्बयोयन्तिगणेन च शान्त्युदकं करोति । लघुगणेन बृहद्गणेन चतुर्गणेन वा । ततः सावित्रीशन्नोदेव्यौ । ततः ऽपृथिव्यै श्रोत्रायऽ इति त्रिः प्रत्यासिञ्चति । शान्त्युदके शान्त्युदकं प्रक्षिपति ॥
[पूर्वया कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः
]
एतच्छान्त्युदकं पूर्वया शान्तिगणेन कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः । एते शान्त्युदकं कुर्वन्ति ॥
[अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः
मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0