कौशिकपद्धति · श्लोक 29-48
सर्पविषभैषज्यमुच्यते -
[ददिर्हि (5.13) इति तक्षकायेत्युक्तम् ॥ कौश्स्_4,5{29}.1 ॥]
तक्षकाय नमस्कारं कृत्वा ऽददिर्हिऽ इत्यृचोदकमभिमन्त्र्याचामयति सर्पादिविषभैषज्यम् । तक्षकाय नमस्कारं कृत्वा ऽददिर्हिऽ इत्यृचोदकमभिमन्त्र्यावसिञ्चति विषदष्टम् । विषभैषज्यम् । ऽददिर्हिऽ इत्यृचा कृमुकवृक्षशकलं सङ्घृष्य तत उदकं च प्रक्षिप्य ततोऽभिमन्त्र्यावसिञ्चति विषधारितम् । ऽददिर्हिऽ इत्यृचोदकं चर्माग्निप्रज्वालितमभिमन्त्र्य व्याधितमवसिञ्चति । ऽददिर्हिऽ इत्यृचा हरिणजीर्णचर्मावज्वालितमुदकमभिमन्त्र्यावसिञ्चति । ऽददिर्हिऽ इत्यृचा मार्जनिकावकरतृणावज्वालितोदकमभिमन्त्र्या- वसिञ्चति । जङ्गमविषभैषज्यम् । अभ्यातानान्तं कृत्वा ऽददिर्हिऽ इत्यृचोदपात्रं सम्पात्य ततः पाययति । ऽददिर्हिऽ इत्यृचा सक्तुमन्थमूर्ध्वफलाभ्यां विषलिप्ताभ्यां मथित्वाभिमन्त्र्य पाययति सर्पदष्टम् । जङ्गमविषभैषज्यम् । ऽददिर्हिऽ इत्यृचा मदनफलमभिमन्त्र्य भक्षयति छर्दनार्थम् । जङ्गमविषभैषज्यम् । ऽददिर्हिऽ इत्यृचा हरिद्रां घृतं च सहाभिमन्त्र्य पाययति । जङ्गमविषभैषज्यम्.
[द्वितीयया ग्रहणी ॥ कौश्स्_4,5{29}.2 ॥
सव्यं परिक्रामति ॥ कौश्स्_4,5{29}.3 ॥]
ऽयत्ते अपोदकम्ऽ (5.13.2) इत्यृचाप्रदक्षिणं व्याधितं परिक्रामति । विषस्तम्भनभैषज्यम् । विषं स्तम्भितं नान्येनोत्तारयितुं शक्यते वन वेदमन्त्रेण ॥
[शिखासिचि स्तम्बानुद्ग्रथ्नाति ॥ कौश्स्_4,5{29}.4 ॥]
ऽयत्ते अपोदकम्ऽ इत्यृचं जपित्वा शिखां बध्नाति । विषस्तम्भनभैषज्यम् । ऽयत्ते अपोदकम्ऽ इत्यृचं जपित्वा श्वेतवस्त्रेण ग्रन्थिं बध्नाति । विषस्तम्भनभैषज्यम् । ऽयत्ते अपोदकम्ऽ इत्येकां जपित्वा शणस्तम्बे ग्रन्थिं बध्नाति । विषं न विसर्पति । देशस्थितं भवति । शरीरे न सर्पति । विषस्तम्भनं भवति ॥
[तृतीयया प्रसर्जनी ॥ कौश्स्_4,5{29}.5 ॥]
ऽवृषा मे रवःऽ (5.13.3) इत्यृचा यस्मिन् स्थाने दष्टं तं स्थानं पीडयति ऋचं जपित्वा । देशाद्विषमन्यत्र गच्छति । विषनाशने भैषज्यम् ॥
[चतुर्थ्या दक्षिणम् अपेहि (7.88.1) इति दंश्म तृणैः प्रकर्ष्याहिमभिनिरस्यति ॥ कौश्स्_4,5{29}.6 ॥]
ऽचक्षुषा ते चक्षुःऽ (5.13.4) इत्यृचाचार्यस्ततः प्रदक्षिणं परिक्रामति । ऽअपेह्यरिरसिऽ इत्यृचं जपित्वा तृणानि प्रज्वाल्य ततोऽहेरभिमुखं क्षिपति ॥
[यतो दष्टः ॥ कौश्स्_4,5{29}.7 ॥]
ऽअपेह्यरिरसिऽ इत्यृचं जपित्वा यतो दष्टस्ततो ज्वलिततृणानि क्षिपति दशने ॥
[पञ्चम्या वलीकपललज्वालेन ॥ कौश्स्_4,5{29}.8 ॥]
ऽकैरात पृश्नेऽ (5.13.5) इत्यृचोदकं गृहतृणावज्वालितमभिमन्त्र्य व्याधितं पाययति प्रोक्षति च ॥
[षष्ठ्यार्त्नीज्यापाशेन ॥ कौश्स्_4,5{29}.9 ॥]
ऽअसितस्यऽ (5.13.6) इत्यृचार्त्नीज्यापाशं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । विषभैषज्यम् ॥
[द्वाभ्यां मधूद्वापान् पाययति ॥ कौश्स्_4,5{29}.10 ॥]
ऽआलिगी च विलिगी चऽ (5.13.7) ऽउरुगलायाःऽ (5.13.8) इति द्वाभ्यां मधुमक्षिकां मधुवृक्षमृत्तिकां चाभिमन्त्र्य पाययति ॥
[नवम्या श्वावित्पुरीषम् ॥ कौश्स्_4,5{29}.11 ॥]
ऽकर्णा श्वावित्तदब्रवीत्ऽ (5.13.9) इत्यृचा शुकसारिकृशानां पुरीषं श्वावित्पुरीषमित्युच्यते । पुरीषमभिमन्त्र्य पाययति विषदष्टम् ॥
[त्रिःशुक्लया मांसं प्राशयति ॥ कौश्स्_4,5{29}.12 ॥]
ऽकर्णा श्वावित्तदब्रवीत्ऽ इत्यृचा शललीमांसमभिमन्त्र्य प्राशयति । विषनाशनभैषज्यम् ॥
[दशम्यालाबुनाचमयति ॥ कौश्स्_4,5{29}.13 ॥]
ऽताबुवं न ताबुवम्ऽ (5.13.10) इत्यृचालाबुमध्य उदकं प्रक्षिप्य ततोऽभिमन्त्र्याचामयति । सर्पविषभैषज्यम् ॥
[एकादश्या नाभिं बध्नाति ॥ कौश्स्_4,5{29}.14 ॥]
ऽतस्तुवं न तस्तुवम्ऽ (5.13.11) इत्यृचालाबुवृन्तं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । सर्पविषदष्टम् । सर्वत्र कर्मणां प्रयोगो विकल्पेन न समुच्चयः । एकं कुर्याद् द्वे वा त्रीणि वा सर्वाणि वा । समाप्तं सर्पविषभैषज्यम् । एकव्याधौ यत्र बहूनि कर्माणि विहितानि तत्रैकं वा कुर्यात् कर्मबाहुल्याद् द्वे वा सर्वाणि वा । ऽसर्वत्र हस्तहोमे न तन्त्रम्ऽ इति वचनात् ॥
अथ दुष्टवक्तॄणां मुखबन्धनमुच्यते -
[मधुलावृषलिङ्गाभिः खलतुलपर्णी सङ्क्षुद्य मधुमन्थे पाययति ॥ कौश्स्_4,5{29}.15 ॥]
ऽएका च मेऽ (5.15) ऽयद्येकवृषोऽसिऽ (5.16) इति सूक्ताभ्यां कुलपल्लवान् मधूदकं चैतत् त्रितयमेकत्र कृत्वाभिमन्त्र्य ततो व्याधित पाययति । दुष्टवक्तृमुखबन्धनभैषज्यम् । दुष्टपुरुषाः परोक्षे न वदन्ति ॥
[उत्तराभिर्भुङ्क्ते ॥ कौश्स्_4,5{29}.16 ॥]
ऽयद्येकवृषःऽ इति सूक्तेन भोजनमभिमन्त्र्य भक्षयति । शापभैषज्यम् । अकृतवत्कृतपापभैषज्यम् ॥
[द्वारं सृजति ॥ कौश्स्_4,5{29}.17 ॥]
ऽयद्येकवृषःऽ इति सूक्तेन गृहद्वारं ददात्यपिदधातीत्यर्थः । प्रविशतीत्यर्थः । दुष्टवक्तृमुखबन्धने ब्राह्मणशापे च भैषज्यम् ॥
अथ ज्वरभैषज्यमुच्यते -
[अग्निस्तक्मानम् (5.22) इति लाजान् पाययति ॥ कौश्स्_4,5{29}.18 ॥]
ऽअग्निस्तक्मानम्ऽ इति सूक्तेन लाजान् पाययति । सर्वज्वरभैषज्यम् ॥
[दावे लोहितपात्रेण मूर्ध्नि सम्पातानानयति ॥ कौश्स्_4,5{29}.19 ॥]
अभ्यातानान्तं कृत्वा ऽअग्निस्तक्मानम्ऽ इति सूक्तेन ताम्रस्रुवेण मूर्ध्नि सम्पातानानयति । तत उत्तरतन्त्रम् । एतस्मिन् तन्त्रे दावाग्निप्रणयनम् । समाप्तं ज्वरभैषज्यम् । सर्वज्वरे कुर्यात् ॥
अथ कृमिभैषज्यमुच्यते -
[ओते मे (5.23) इति करीरमूलं काण्डेनैकदेशम् ॥ कौश्स्_4,5{29}.20 ॥]
अभ्यातानान्तं कृत्वा ऽओते मेऽ इति सूक्तेन करीरमूलं सम्पात्यभिमन्त्र्य बध्नाति । ऽओते मेऽ इति सूक्तेन गोवालैः करीरकाष्ठं वेष्टयित्वा । सूक्तं जपित्वा पाषाणेन चूर्णयति । ततः सूक्तेनाग्नौ प्रतपति । ततः सूक्तेनादधाति । तत उत्तरतन्त्रम् । कृमिभैषज्यम् ॥
[ग्रामात् पांसून् ॥ कौश्स्_4,5{29}.21 ॥]
ऽओते मेऽ इति सूक्तेन ग्रामपांसूनभिमन्त्र्य सव्येन हस्तेन दक्षिणाभिमुखो भूत्वा पांसून् परिकिरति । सर्वकृमिभैषज्यम् । ऽओते मेऽ इति सूक्तेन पांसूनभिमन्त्र्य मथित्वा हस्तेन कृमेरुपरि क्षिपति । ऽओते मेऽ इति सूक्तेन शान्तवृक्षसमिध आदधाति । कृमिभञ्जनम् । मुखकृमिकर्णकृमिसर्वकृमिभैषज्यम् ॥
[पश्चादग्नेर्मातुरुपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालुनि तापयति ॥ कौश्स्_4,5{29}.22 ॥]
ऽओते मेऽ इति सूक्तेन पश्चादग्नेर्मातुरुत्सङ्गे बालकं कृत्वा नवनीतान्वक्तेन मुसलबुध्नेन तालुनि तापयति । त्रिः सूक्तप्रयोगः । अपानकृमिं शिरसि वा तस्य । सर्वकृमिभैषज्यम् ॥
[शिग्रुभिर्नवनीतमिश्रैः प्रदेग्धि ॥ कौश्स्_4,5{29}.23 ॥]
ऽओते मेऽ इति सूक्तेन शिग्रुबीजैर्नवनीतमिश्रितैरभिमन्त्र्य व्याधिदेशं प्रलिम्पति क्षतदेशम् । कृमिभैषज्यम् ॥
[एकविंशतिमुशीराणि भिनद्मि (5.23.13) इति मन्त्रोक्तम् ॥ कौश्स्_4,5{29}.24 ॥]
ऽओते मेऽ इति सूक्तेनैकविंशत्युशीरमूलान्यभिमन्त्र्य ततः पाषाणेन कुट्टयति । ततः सूक्तं जपित्वोशीराण्यग्निना दहति ॥
[उशीराणि प्रयच्छति ॥ कौश्स्_4,5{29}.25 ॥]
ऽओते मेऽ इति सूक्तेनैकविंशत्युशीराण्यभिमन्त्र्य व्याधिताय समर्पयति । कृमिभैषज्यम् ॥
[एकविंशत्या सहाप्लावयति ॥ कौश्स्_4,5{29}.26 ॥]
ऽओते मेऽ इति सूक्तेनोदकघटमेकविंशत्युशीरपिञ्जूलीसहितं सम्पात्याभिमन्त्र्य ततो व्याधितमाप्लावयत्याज्यतन्त्रे । कृमिजातानामक्षिकर्णमुखशिरोनासिकादन्तकृमीणां कृष्मश्वेतपीतदृष्टानामदृष्टानां च सर्वेषां कृमीणां भैषज्यम् । समाप्तं कृमिभैषज्यम् ॥
अथ राक्षसभैषज्यमुच्यते । तत्राह -
[आ यं विशन्ति (6.2.2) इति वयोनिवेशनशृतं क्षीरौदनमश्नाति ॥ कौश्स्_4,5{29}.27 ॥]
अभ्यातानान्तं कृत्वा ऽआ यं विशन्तिऽ इत्यृचा वयोनिवेशनकाष्ठशृतं क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ।
राक्षसभैषज्यं समाप्तम् ॥
अथ सर्पविषभैषज्यमुच्यते -
[परि द्यामिव (6.12) इति मधुशीभं पाययति ॥ कौश्स्_4,5{29}.28 ॥]
ऽपरि द्यामिवऽ इति तृचेन सूक्तेन मधुशीभमभिमन्त्र्य पाययति । मधुक्रोडमित्यर्थः । सर्पविषलिङ्ग्युपतापः ॥
[जपंश्च ॥ कौश्स्_4,5{29}.29 ॥]
ऽपरि द्यामिवऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । विषभैषज्यम् । ऽपरि द्यामिवऽ इति सूक्तेनोदकमभिमन्त्र्य सम्प्रोक्षति । विषभैषज्यम् । ऽपरि द्यामिवऽ इति सूक्तेन दुल्लकावज्वालितमुदकमभिमन्त्र्यावसिञ्चति व्याधितम् । ऽपरि द्यामिवऽ इति सूक्तेनावकरतृणान्यवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । तन्त्रं कृत्वा ऽपरि द्यामिवऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य पाययति । तत उत्तरतन्त्रम् । ऽपरि द्यामिवऽ इति सूक्तेनोर्ध्वफलाभ्यां विषदिग्धाभ्यां मन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति । ऽपरि द्यामिवऽ इति सूक्तेन मदनफलान्यभिमन्त्र्य भक्षयति छर्दनार्थम् । ऽपरि द्यामिवऽ इति हरिद्रां सर्पिष्यभिमन्त्र्य पाययति । समाप्तं सर्पविषभैषज्यम् ॥
श्लेष्मभैषज्यमुच्यते -
[अस्थिस्रंसम् (6.14) इति शकलेनाप्स्विटे सम्पातवतावसिञ्चति ॥ कौश्स्_4,5{29}.30 ॥]
उदक इदं क्रियते । अप्स्विटं कृत्वा तत्राग्निं प्रज्वाल्य ऽअस्थिस्रंसम्ऽ इति सूक्तेन काष्ठशकलं सम्पात्य तेन शकलेन व्याधितमवसिञ्चति । मार्जनमाचमनं च । श्लेष्मभैषज्यम् । न तन्त्रम् । पञ्चमी कण्डिका
अथाक्षिरोगभैषज्यमुच्यते -
[आबयो (6.16) इति सार्षपं तैलसम्पातं बध्नाति ॥ कौश्स्_4,6{30}.1 ॥]
अभ्यातानान्तं कृत्वा ऽआबयो अनाबयोऽ इति सूक्तेन चतुरृचेन सर्षपकाण्डमणिं सम्पात्याभिमन्त्र्य बध्नाति । सर्षपतैलेन सम्पातवन्तं करोति । तन्त्रकृतेनैव । ततोऽभ्यातानाद्युत्तरतन्त्रम् । अक्षिरोगे भैषज्यम् ॥
[काण्डं प्रलिप्य ॥ कौश्स्_4,6{30}.2 ॥]
अभ्यातानान्तं कृत्वा ऽआबयो अनाबयोःऽ इति सूक्तेन सर्षपकाण्डमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आज्येन प्रधानमङ्गानि च । सर्षपतैलेनाभ्यज्य मणिं ततो बध्नाति । अक्षिरोगे भैषज्यम् ॥
[पृक्तं शाकं प्रयच्छति ॥ कौश्स्_4,6{30}.3 ॥]
ऽआबयोऽ इति सूक्तेन सर्षपशाकं सर्षपतैलेनाभ्यक्तमभिमन्त्र्य व्याधिताय प्रयच्छति । अक्षिरोगे ॥
[चत्वारि शाकफलानि प्रयच्छति ॥ कौश्स्_4,6{30}.4 ॥]
ऽआबयोऽ इति सूक्तेन चत्वारि शाकवृक्षफलान्यभिमन्त्र्य प्रयच्छति व्याधिताय । अक्षिरोगे ॥
[क्षीरलेहमाङ्क्ते ॥ कौश्स्_4,6{30}.5 ॥]
ऽआबयोऽ इति सूक्तेन मूलक्षीरं मुखेन प्राश्य ततोऽभिमन्त्र्याक्षिणी आङ्क्ते व्याधितस्य । मूलक्षीरं पाटिकालग्नं तदुच्यते ॥
[अश्नाति ॥ कौश्स्_4,6{30}.6 ॥]
तन्त्रं कृत्वा ऽआबयोऽ इति सूक्तेन मूलक्षीरं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । समाप्तमक्षिरोगे भैषज्यम् ॥
पित्तज्वरभैषज्यमुच्यते -
[अग्नेरिव (6.20) इत्युक्तं दावे ॥ कौश्स्_4,6{30}.7 ॥]
तन्त्रं कृत्वा ऽअग्नेरिवास्य दहत एति शुष्मिणःऽ इति तृचेन ताम्रस्रुवेण मूर्ध्नि सम्पातानानयति । तत उत्तरतन्त्रम् । अस्मिन् तन्त्रे दावाग्निप्रणयनं कुर्यात् । समाप्तं पित्तज्वरभैषज्यम् ॥
अथ केशवृद्धिकरणे केशपतने च भैषज्यमुच्यते -
[इमा यास्तिस्रः (6.21) इति वृक्षभूमौ जाताज्वालेनावसिञ्चति ॥ कौश्स्_4,6{30}.8 ॥]
ऽइमा यास्तिस्रःऽ इति तृचेन सूक्तेन वृक्षभूमिजातौषधिभिरवज्वालितमुदकमभिमन्त्र्योषाकालेऽवसिञ्चति । केशवृद्धौ केशपतने च भैषज्यम् । उषाकाल इदं कर्म ॥
[शीर्षफाण्टाक्षैः ॥ कौश्स्_4,6{30}.9 ॥]
ऽइमा यास्तिस्रःऽ इति सूक्तेन मधुसिक्थकं क्वाथयित्वाभिमन्त्र्यावसिञ्चति । उषाकाले ऽइमा यास्तिस्रःऽ इति सूक्तेन बिभीतकानि क्वाथयित्वाभिमन्त्र्य व्याधितमवसिञ्चति । केशभैषज्यम् ॥
[निकटाभ्याम् ॥ कौश्स्_4,6{30}.10 ॥]
उषाकाले ऽइमा यास्तिस्रःऽ इति दारुहरिद्राहरिद्रे च द्वाभ्यां क्वाथयित्वाभिमन्त्र्यावसिञ्चति । समाप्तं केशवर्धनार्थं भैषज्यं केशपतने च क्षये च ॥
अथ उदरतुण्डभैषज्यमुच्यते -
[कृष्णं नियानम् (6.22) इत्योषध्याभिश्चोतयते ॥ कौश्स्_4,6{30}.11 ॥]
ऽकृष्णं नियानम्ऽ ऽसस्रुषीःऽ (6.23) इति सूक्ताभ्यां चित्त्याद्यौषध्या सहितमुदकमभिमन्त्र्य ततो व्याधितमवसिञ्चति । उदरतुण्डभैषज्यम् ॥
[मारुतानामप्ययः ॥ कौश्स्_4,6{30}.12 ॥]
ऽकृष्णं नियानम्ऽ ऽसस्रुषीःऽ इति सूक्ताभ्यां मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् । ऽमारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीय मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिजुहोतिऽ (कौश्स् 40.7) । मरुतो यथा वरुणम् । ऽकृष्णं नियानम्ऽ ऽसस्रुषीःऽ इति सूक्ताभ्यामाज्यं जुहोति । आज्यतन्त्रे । ऽकृष्णं नियानम्ऽ ऽसस्रुषीःऽ इति सूक्ताभ्यामोषधीः सम्पात्य प्रवेश्याभिन्युब्जति । आज्यतन्त्रे । ऽकृष्णं नियानम्ऽ ऽसस्रुषीःऽ इति सूक्ताभ्यां चित्त्याद्योषधीः सम्पात्य विप्लावयेतोदकमध्ये । जलोदरे उदरे च । ऽकृष्णं नियानम्ऽ ऽसस्रुषीःऽ इति सूक्ताभ्यां श्वशिरोऽभिमन्त्र्योदके विप्लावयति । एडकशिरो वा विप्लावयत्यभिमन्त्रोदके । ऽकृष्णं नियानम्ऽ ऽसस्रुषीःऽ इति सूक्ताभ्यां केशजरदुपानहौ वंशाग्रे बद्ध्वाभिमन्त्र्य योधयति । ऽकृष्णं नियानम्ऽ ऽसस्रुषीःऽ इति सूक्ताभ्यामुदपात्रेण सम्पातवता । सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति । जलोदरे नाभितुण्डे बृहदुदरे भैषज्यानि समाप्तानि ॥
अथ हृदयदाघे जलोदरे कामले च भैषज्यान्युच्यन्ते -
[हिमवतः (6.24) इति स्यन्दमानादन्वीपमाहार्य वलीकैः ॥ कौश्स्_4,6{30}.13 ॥]
ऽहिमवतःऽ इति सूक्तेन नद्युदकमनुलोममाहार्य तत्र वलीकतृणानि प्रक्षिप्य ततोऽभिमन्त्र्य ततो व्याधितमवसिञ्चति । मार्जनाचमने च । हृदयदोषे जलोदरे कामले च भैषज्यं समाप्तम् ॥
अथ गण्डमालाभैषज्यान्युच्यन्ते -
[पञ्च च याः (6.25) इति पञ्चपञ्चाशतं परशुपर्णान काष्ठैरादीपयति ॥ कौश्स्_4,6{30}.14 ॥]
ऽपञ्च च याःऽ इति सूक्तेन गोपांशुलिकानां पञ्चाशत्पञ्चाधिका अग्नौ प्रज्वाल्याधस्तादयः समिध आदधाति ॥
[कपाले प्रशृतं काष्ठेनालिम्पति ॥ कौश्स्_4,6{30}.15 ॥]
अग्न्युपरि कपाले पर्णान् धृत्वा श्रपयति । ततः सूक्तं जपित्वा तेनैव काष्ठेन गण्डमालां लिम्पति ॥
[किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादिभ्यां दंशयति ॥ कौश्स्_4,6{30}.16 ॥]
ऽपञ्च च याःऽ इति सूक्तेन शङ्खं घृष्ट्वा ततोऽभिमन्त्र्य गण्डमालां प्रलिम्पति । ऽपञ्च च याःऽ इति सूक्तेन श्वानकुवकुरलालामभिमन्त्र्य प्रलिम्पति । ऽपञ्च च याःऽ इति सूक्तेन जलौकामभिमन्त्र्य गण्डमालायां संसर्जयति ।
रुधिरप्रवाहणार्थम् । ऽपञ्च च याःऽ इति सूक्तेन गृहगोधिकादि मत्स्यादि अभिमन्त्र्य गण्डमालायां संसर्जयति ॥
[निशि अव मा पाप्मन् (6.26) इति तितौनि पूल्यान्यवसिच्यापविध्य ॥ कौश्स्_4,6{30}.17 ॥
अपरेद्युः सहस्राक्षायाप्सु बलींस्त्रीन् पुरोडाशसंवर्तांश्चतुष्पथेऽवक्षिप्यावकिरति ॥ कौश्स्_4,6{30}.18 ॥]
षष्ठी कण्डिका
[यस्ते मदः (6.30.2) इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति ॥ कौश्स्_4,7{31}.1 ॥
अधिशिरः ॥ कौश्स्_4,7{31}.2 ॥
अन्तर्दावे (6.32) इति समन्तमग्नः कर्ष्वामुष्णपूर्णायां जपंस्त्रिः परिक्रम्य पुरोडाशं जुहोति ॥ कौश्स्_4,7{31}.3 ॥
प्राग्नये (6.34) प्रेतः (7.114.2) इत्युपदधीत ॥ कौश्स्_4,7{31}.4 ॥]
ऽप्राग्नये वाचम्ऽ इति सूक्तेन पुरोडाशं जुहोति । ऽप्राग्नये वाचम्ऽ इति सूक्तेन पयो जुहोति । ऽप्राग्नये वाचम्ऽ इति सूक्तेनोदौदनं जुहोति ऽप्राग्नयेऽ इति सूक्तेन पायसं जुहोति । ऽप्राग्नये वाचम्ऽ इति सूक्तेन पशुं जुहोति । वपामवदानानि चरुं च वशाविधानेन । ऽप्राग्नयेऽ इति सूक्तेन व्रीहीनावपति । रक्षोग्रहभैषज्यम् । अनुवर्तते विकारः । ऽप्राग्नये वाचम्ऽ इति सूक्तेन यवाञ्जुहोति । ऽप्राग्नयेऽ इति तिलाञ्जुहोति । ऽप्राग्नयेऽ इति धाना जुहोति । ऽप्राग्नयेऽ इति दधिसक्तूञ्जुहोति । ऽप्राग्नयेऽ इति सूक्तेन शष्कुलीर्जुहोति । प्रत्यृचं होमः । ऽप्रतो यन्तुऽ इत्यचाज्यं जुहोति तन्त्रे । रक्षोग्रहभैषज्यम् । ऽप्रेतो यन्तुऽ इत्यृचा शान्तवृक्षसमिध आदधाति । ऽप्रेतो यन्तुऽ इत्यृचा पुरोडाशं जुहोति । ऽप्रेतो यन्तुऽ इत्यृचा पायसं जुहोति । ऽप्रेतो यन्तुऽ इत्यृचा पशुं जुहोति । वशाविधानेन । ऽप्रेतो यन्तुऽ इत्यृचा व्रीहीञ्जुहोति । ऽप्रेतो यन्तुऽ इत्यृचा यवाञ्जुहोति । तन्त्रविकल्पः । ऽप्रेतो यन्तुऽ इत्यृचा दधिसक्तूञ्जुहोति । ऽप्रेतो यन्तुऽ इत्यृचा शष्कुलीर्जुहोति समाप्तं राक्षसग्रहभैषज्यम् ॥
अथ सर्वभैषज्यमुच्यते -
[वैश्वानरीयाभ्यां पायनानि ॥ कौश्स्_4,7{31}.5 ॥]
ऽवैश्वानरो न ऊतयेऽ (6.35) ऽऋतावानं वैश्वानरम्ऽ (6.36) इति सूक्ताभ्यामुदपात्रमभिमन्त्र्य पाययति । सर्वव्याधिभैषज्यम् । वैश्वानरीयाभ्यां सूक्ताभ्यां सक्तुमन्थमभिमन्त्र्य पाययति । सर्वभैषज्यम् । ऽवैश्वानरो नऽ ऽऋतावानम्ऽ इति सूक्ताभ्यां हरिद्रां सर्पिष्यभिमन्त्र्य पाययति । ऽवैश्वानरो नऽ ऽऋतावानम्ऽ इति सूक्ताभ्यामुद्धृतमुदकमभिमन्त्र्य पाययति । आज्य तन्त्रेऽपि यत् पीयते, तत् संशृत्य पाययति वैश्वानरीयाभ्यां सूक्ताभ्याम् । समाप्तं सर्वभैषज्यम् ॥
अथापवादभैषज्यमुच्यते -
[अस्थाद् द्यौः (6.44) इत्यपवातायाः स्वयंस्रस्तेन गोशृङ्गेण सम्पातवता जपन् ॥ कौश्स्_4,7{31}.6 ॥]
बहुभाषणमधर्मे च प्रवर्तते सोऽपवादः । अभ्यातानान्तं कृत्वा ऽअस्थाद् द्यौःऽ इति सूक्तेन पूर्वेण स्वयम्पतितं गोशृङ्गं सम्पात्य ततः शृङ्ग उदकं कृत्वाभिमन्त्र्याचामयत्यभ्युक्षति च । अभ्यातानाद्युत्तरतन्त्रम् । अपवादभैषज्यं समाप्तम् । अपवादश्चन्द्रग्रहादिषु बहुभाषणादि ॥
अथोदरे वा हृदये वाङ्गे वा सर्वाङ्गे वा शूल उत्पन्ने भैषज्यमुच्यते -
[यां ते रुद्रः (6.90) इति शूलिने शूलम् ॥ कौश्स्_4,7{31}.7 ॥]
अभ्यातानान्तं कृत्वा ऽयां ते रुद्रःऽ इति सूक्तेन शूलमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । शूलो लोहमणिः पाषाणो वा दारिलभद्रमतम् । ऽयां ते रुद्रःऽ इति सूक्तेन व्याधितमभिमन्त्रयते । रुद्रभाष्यमतम् । शूलभैषज्यं समाप्तम् ॥
रक्षोग्रहभैषज्यमुच्यते -
[उत्सूर्यः (6.52) इति शमीबिम्बशीर्षपर्ण्यावधि ॥ कौश्स्_4,7{31}.8 ॥]
ऽउत्सूर्यःऽ इति सूक्तेन चित्त्याद्योषधिभिः सहोदकघटमभिमन्त्र्य व्याधितमवसिञ्चति । ऽउत्सूर्यःऽ इति सूक्तेन शमीमुदकेन सहाभिमन्त्र्यावसिञ्चति । ऽउत्सूर्यःऽ इति सूक्तेन शमीबिम्बमुदकसहितमभिमन्त्र्यावसिञ्चति । ऽउत्सूर्यःऽ इति सूक्तेन शीर्षपर्णीमुदकेन दत्त्वाभिमन्त्र्य व्याधितमवसिञ्चति । समाप्तं रक्षोग्रहभैषज्यम् ॥
दुष्टगण्डविरिष्टभैषज्यमुच्यते -
[द्यौश्च मे (6.53) इत्यभ्यज्यावमार्ष्टि ॥ कौश्स्_4,7{31}.9 ॥]
ऽद्यौश्च मे इदं पृथिवीऽ इति तृचेन सूक्तेन तैलमभिमन्त्र्य गण्डमभ्यज्य हस्तेन व्याधितमवमार्ष्टि । अभ्युक्षतीत्यर्थः । दुष्टगण्डभैषज्यम् । ऽद्यौश्च मेऽ इति सूक्तं जपन् व्याधिदेशं हस्तेन मार्ष्टि । दुष्टगण्डे दुष्टव्रणे च भैषज्यम् ॥
[स्थूणायां निकर्षति ॥ कौश्स्_4,7{31}.10 ॥]
ऽद्यौश्च मेऽ इति सूक्तेन स्थूणायां व्रणं निकर्षति । घृष्यतीत्यर्थः । रुधिरकृते दुष्टव्रणे दुष्टगण्डे भैषज्यं समाप्तम् ॥
अक्षतव्रणभैषज्यमुच्यते -
[इदमिद्वै (6.57) इत्यक्षतं मूत्रफेनेनाभ्युद्य ॥ कौश्स्_4,7{31}.11 ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन गोमूत्रमभिमन्त्र्य । तेन व्रणं मर्दयति ॥
[प्रक्षिपति ॥ कौश्स्_4,7{31}.12 ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन मूत्रेण व्रणं क्षिपति ॥
[प्रक्षालयति ॥ कौश्स्_4,7{31}.13 ॥]
तेनैव सूक्तेन मूत्रेण व्रणं प्रक्षालयति । यस्य व्रणस्य मुखं नास्त्यक्षतव्रणमुच्यते ॥
[दन्तरजसावदेग्धि ॥ कौश्स्_4,7{31}.14 ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन दन्तमलमभिमन्त्र्य प्रलिम्पति । अक्षतव्रणभैषज्यम् ॥
[स्तम्बरजसा ॥ कौश्स्_4,7{31}.15 ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन तृणरजस्य फेनमभिमन्त्र्य व्रण प्रलिम्पति । यस्य व्रणस्य रुधिरं न वहति तस्य । समाप्तमक्षतव्रणभैषज्यम् ॥
गण्डमालाभैषज्यमुच्यते -
[अपचितः (6.83) आ सुस्रसः (7.76) इति किंस्त्यादीनि ॥ कौश्स्_4,7{31}.16 ॥]
ऽअपचितः प्र पततऽ इति सूक्तेन शङ्खं घृष्ट्वाभिमन्त्र्य गण्डमालां प्रलिम्पति । ऽअपचितःऽ इति सूक्तेन श्वानलालामभिमन्त्र्य गण्डमालां प्रलिम्पति । श्वानः कुर्करः । गण्डमालाभैषज्यम् । ऽअपचितःऽ इति सूक्तेन जलौकामभिमन्त्र्य गण्डमालायां संश्लेषयति । यथाकथञ्चिद् रुधिरप्रवाहणार्थम् । ऽअपचितःऽ इति सूक्तेन गृहगोधिकामभिमन्त्र्य गण्डमालायामासजति । ऽआ सुस्रसःऽ इति द्वाभ्यां शङ्खं घृष्ट्वाभिमन्त्र्य ततो गण्डमालां प्रलिम्पति । ऽआ सुस्रसःऽ इति द्वाभ्यां श्वानलालां कुर्करलालामभिमन्त्र्य गण्डमालां प्रलिम्पति । गण्डमालाभैषज्यम् । ऽआ सुस्रसःऽ इति द्वाभ्यां जलौकामभिमन्त्र्य गण्डमालायां संसर्जयति रुधिरप्रवाहणार्थम् । ऽआ सुस्रसःऽ इति द्वाभ्यां गृहगोधिकां मशकादीमभिमन्त्र्य गण्डमालायां संसर्जयति रुधिरप्रवाहणार्थम् ॥
[लोहितलवणं सङ्क्षुद्याभिनिष्ठीवति ॥ कौश्स्_4,7{31}.17 ॥]
ऽअपचितःऽ इति सूक्तेन सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य गण्डमालायां उपरि प्रकिरति । ततस्तस्योपरि निष्ठीवति । मुखलालां प्रक्षिपति तूष्णीम् । ऽआ सुस्रसःऽ इति द्वाभ्यां सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य व्याध्युपरि प्रकिरति । ततस्तूष्णीमुपरि निष्ठीवति ।
समाप्तं गण्डमालाभैषज्यम् ॥
अथ पक्षिणोऽभिघाते भैषज्यमुच्यते -
[अन्तरिक्षेण (6.80) इति पक्षहतं मन्त्रोक्तं चङ्क्रमया ॥ कौश्स्_4,7{31}.18 ॥]
ऽअन्तरिक्षेण पततिऽ इति सूक्तेन श्वानपदस्थानमृत्तिकामभिमन्त्र्य पक्षहतं देशं प्रलिम्पति । पक्षहतभैषज्यम् ॥
[कीटेन धूपयति ॥ कौश्स्_4,7{31}.19 ॥]
ऽअन्तरिक्षेण पततिऽ इति सूक्तेन शुनो मक्षिकामभिमन्त्र्याग्नौ प्रक्षिप्य ततो धूपयति व्याधिप्रदेशम् । काकगृध्रकपोतश्येनादीनां पक्षिणामभिघाते भैषज्यं समाप्तम् ॥
अथ गण्डभैषज्यमुच्यते -
[ग्लौः (6.83.3) इत्यक्षतेन ॥ कौश्स्_4,7{31}.20 ॥]
ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन गोमूत्रमभिमन्त्र्य गण्डं मर्दयति गण्डभैषज्यम् । ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन गोमूत्रमभिमन्त्र्य गण्डं प्रक्षालयति । ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन दन्तमलमभिमन्त्र्य गण्डं प्रलिम्पति । ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन तृणरजफेनमभिमन्त्र्य गण्डं प्रलिम्पति । समाप्तं गण्डभैषज्यम् । गण्डः स्फोटक इत्यर्थः ॥
गर्दभश्वानाद्युरुगण्डे भैषज्यमुच्यते -
[वीहि स्वाम् (6.83.4) इत्यज्ञातारुः शान्त्युदकेन सम्प्रोक्ष्य मनसा सम्पातवता ॥ कौश्स्_4,7{31}.21 ॥]
ऽवीहि स्वामाहुतिं जुषाणःऽ इति सूक्तेन शान्त्युदकमभिमन्त्र्य ततः क्षतं प्रोक्षति । तत आज्यतन्त्रं कृत्वा ऽवीहि स्वामाहुतिम्ऽ इति सूक्तेनाज्यं जुहोति । ततो मनसा सङ्कल्पयति । सम्पातान् ददाति । उत्तरतन्त्रम् । समाप्तं गर्दभदशनक्षतगण्डभैषज्यम् ॥
पापगृहीते जलोदरे च भैषज्यमुच्यते -
[या ओषधयः (6.96) इति मन्त्रोक्तस्यौषधीभिर्धूपयति ॥ कौश्स्_4,7{31}.22 ॥]
ऽया ओषधयः सोमराज्ञीःऽ इति सूक्तेन तृचेन सोमलता अग्नौ प्रक्षिप्य व्याधितं धूपयति ॥
[मधूदश्वित्पाययति ॥ कौश्स्_4,7{31}.23 ॥]
ऽया ओषधयःऽ इति तृचेन मधु तक्रं चाभिमन्त्र्य पाययति । जलोदरे पापे शापे च भैषज्यम् ॥
[क्षीरोदश्वित् ॥ कौश्स्_4,7{31}.24 ॥]
ऽया ओषधयः सोमराज्ञीःऽ इति तृचेन क्षीरं तक्रेण मिश्रयित्वाभिमन्त्र्य पाययति ॥
[उभयं च ॥ कौश्स्_4,7{31}.25 ॥]
ऽया ओषधयःऽ इति सूक्तेन मधु तक्रं क्षीरं दध्येतच्चतुष्टयमेकत्र कृत्वाभिमन्त्र्य पाययति । ब्राह्मणाक्रोशे पापगृहीते जलोदरे च भैषज्यं समाप्तम् ॥
विष उपविषे स्थावरे जङ्गमे च भैषज्यमुच्यते । मक्षिकायां च भैषज्यम् -
[देवा अदुः (6.100) इति वल्मीकेन बन्धनपायनाचमनप्रदेहनमुष्णेन ॥ कौश्स्_4,7{31}.26 ॥]
ऽदेवा अदुःऽ इति तृचेन वल्मीकपोट्टलिकां कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रम् । ऽदेवा अदुःऽ इति तृचेन वल्मीकमृत्तिकामुदकमध्ये प्रक्षिप्य ततोऽभिमन्त्र्य पाययति । ऽदेवा अदुःऽ इति तृचेन वल्मीकमृदमुदके प्रक्षिप्य ततोऽभिमन्त्र्याचामयति । विषभैषज्यम् । ऽदेवा अदुःऽ इति तृचेन वल्मीकमृत्तिकामुष्णोदके प्रक्षिप्य ततोऽभिमन्त्र्य प्रलिम्पति विषदष्टव्रणम् । उपविषे विषे च मक्षिकानां भैषज्यम् । समाप्त विषभैषज्यम् ॥
अथ कासे श्लेष्मपतने च भैषज्यमुच्यते -
[यथा मनः (6.105) अव दिवः (7.107) इत्यरिष्टेन ॥ कौश्स्_4,7{31}.27 ॥]
ऽयथा मनो मनस्केतैःऽ इति सूक्तेन भोजनमभिमन्त्र्य ददाति भक्षणार्थं प्रथमं प्रपाद्य । ऽयथा मनःऽ इति सक्तुमन्थमभिमन्त्र्य भक्षयति । कासपतने भैषज्यम् । उपस्थानमादित्यस्य द्विः सूक्तस्य प्रयोगः । ऽयथा मनो मनःऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । तत उपस्थानं चादित्यस्य । द्विः सूक्तावृत्तिः । कासपतने भैषज्यम् । ऽअव दिवस्तारयन्तिऽ इत्यृचा प्रपाद्य गृहे प्रवेश्य ततो भोजनमभिमन्त्र्य ददाति भक्षणार्थम् । कासपतने भैषज्यम् । ऽअव दिवस्तारयन्तिऽ इत्यृचा सक्तुमभिमन्त्र्य ददाति भक्षणार्थमुपस्थानं च । ऽअव दिवस्तारयन्तिऽ
इत्यृचोदकमभिमन्त्र्याचामयत्युपस्थानमादित्यस्य । सर्वत्र द्विः सूक्तप्रयोगः । समाप्तं कासश्लेष्मपतने भैषज्यम् ॥
केशदृढीकरणे केशवृद्धिकरणे च भैषज्यमुच्यते -
[देवी देव्याम् (6.136) यां जमदग्निः (6.137) इति मन्त्रोक्ताफलं जीव्यलाकाभ्याममावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसम्पातादवनक्षत्रेऽवसिञ्चति ॥ कौश्स्_4,7{31}.28 ॥]
अभ्यातानान्तं कृत्वा ऽदेवी देव्याम्ऽ ऽयां जमदग्निःऽ इति सूक्ताभ्यां काचमाचीफलमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ऽदेवी देव्याम्ऽ ऽयां जमदग्निःऽ इति सूक्ताभ्यां जीवन्तीफलमणिं बध्नाति । आज्यतन्त्रम् । ऽदेवी देव्याम्ऽ ऽयां जमदग्निःऽ इति सूक्ताभ्यां भृङ्गराजं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । केशदृढीकरणे केशजनने ह्रस्वकेशेषु वृद्धिकरणे भैषज्यम् । अमावास्यायामिदं कर्म कुर्यात् । कृष्णवस्त्रपरिहितो भूत्वा माषतिलकृष्णमन्नं भैक्षयित्वा कर्ता ऽदेवी देव्याम्ऽ ऽयां जमदग्निःऽ इति सूक्ताभ्यां काचमाचीफलभृङ्गराजाभ्यां सहोदकमभिमन्त्र्य रात्रौ ब्राह्मे मुहूर्तेऽवसिञ्चति । तेनोदकेन पुरा काकसम्पातादवनक्षत्रेऽवसिञ्चति । समाप्तं केशवृद्धिकरणं केशजननं खलतिकेशजननं केशदृढीकरणं पलितनाशनं भैषज्यम् ॥ सप्तमी कण्डिका
जम्भगृहीते भैषज्यमुच्यते -
[यस्ते स्तनः (7.10) इति जम्भगृहीताय स्तनं प्रयच्छति ॥ कौश्स्_4,8{32}.1 ॥]
ऽयस्ते स्तनःऽ इत्यृचा स्तनमभिमन्त्र्य बालकाय प्रयच्छति पानार्थम् पतिः करोति कर्ता वा करोति । जम्भगृहीते भैषज्यम् । दुःखनाशने भैषज्यम् ॥
[प्रियङ्गुतण्डुलानभ्यवदुग्धान् पाययति ॥ कौश्स्_4,8{32}.2 ॥]
ऽयस्ते स्तनःऽ इत्यृचा प्रियङ्गुतण्डुलानभ्यवदुग्धानभिमन्त्र्य पाययति । बालकं मातरं वा पाययति । यत्रोपरि दुह्यते तेऽभ्यवदुग्धाः । जम्भगृहीते दुःखनाशे च भैषज्यम् ॥
सर्वव्याधिभैषज्यमुच्यते -
[अग्नाविष्णू (7.29) सोमारुद्रा (7.42) सिनीवालि (7.46) वि ते मुञ्चामि (7.78) शुम्भनी (7.112) इति मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौश्स्_4,8{32}.3 ॥]
अभ्यातानान्तं कृत्वा ऽअग्नाविष्णूऽ इति द्वाभ्यां मौञ्जेः पाशैर्व्याधितं बद्ध्वा शरपिञ्जूलीभिः सहोदकघटं सम्पात्याभिमन्त्र्याप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वा ऽसोमारुद्रा वि वृहतम्ऽ इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य ततो मौञ्जेः पर्वसु व्याधित बद्ध्वा दर्भपिञ्जूलीभिः सहोदकघटेनाप्लावयति । तत उत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वा ऽसिनीवालिऽ इति नवभिरृग्भिरुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । मार्जनाचमने च स्मर्तव्ये सर्वत्र सर्वभैषज्यम् । ऽवि ते मुञ्चामि रशनाम्ऽ इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । आज्यतन्त्रम् । अभ्यातानान्तं कृत्वा ऽशुम्भनीऽ ऽमुञ्चन्तु माऽ (7.112.1-2) इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पाशैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । तत उत्तरतन्त्रम् ॥
[अवसिञ्चति ॥ कौश्स्_4,8{32}.4 ॥]
ऽअग्नाविष्णूऽ इति द्वाभ्यां पिञ्जूलीभिः सहोदकमभिमन्त्र्य व्याधितमवसिञ्चति । ऽसोमारुद्राऽ इति द्वाभ्यामुदकमभिमन्त्र्य व्याधितमवसिञ्चति । सर्वभैषज्यम् । ऽसिनीवालिऽ इति नवभिरृग्भिरुदकमभिमन्त्र्यावसिञ्चति । ऽवि ते मुञ्चामिऽ इति द्वाभ्यामुदकमभिमन्त्र्यावसिञ्चति । ऽशुम्भनीऽ इति द्वाभ्यामुदकमभिमन्त्र्यावसिञ्चति । सर्वत्र मौञ्जैः पाशैरङ्गुलीत्रयं बद्ध्वा तत् आप्लावनमवसेवनं च सर्वत्र कुर्यात् । अस्मिन्नधिकारे आप्लावनेऽवसेचने च मार्जनमाचमनं च सर्वत्र । समाप्तानि सर्वव्याधिभैषज्यानि ॥
वृश्चिकभैषज्यमुच्यते -
[तिरश्चिराजेः (7.56) इति मन्त्रोक्तम् ॥ कौश्स्_4,8{32}.5 ॥]
ऽतिरश्चिराजेःऽ इत्यष्टर्चेन ज्येष्ठीमधु पिष्ट्वाभिमन्त्र्य पाययति ॥
[आकृतिलोष्टवल्मीकौ परिलिख्य ॥ कौश्स्_4,8{32}.6 ॥]
ऽतिरश्चिराजेःऽ इति सूक्तेन क्षेत्रमृत्तिकां जीवकोषण्यां सम्पात्याभिमन्त्र्य बध्नाति । तन्त्रं कृत्वा ऽतिरश्चिराजेःऽ इत्यष्टर्चेन वल्मीकमृत्तिकां सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । वृश्चिकमशकभैषज्यम् । जीवत्पशुचर्म जीवकोषणीत्युच्यते ॥
[पायनानि ॥ कौश्स्_4,8{32}.7 ॥]
ऽतिरश्चिराजेःऽ इत्यष्टर्चेनोदपात्रमभिमन्त्र्य पाययति । वृश्चिकभैषज्यम् । ऽतिरश्चिराजेःऽ इत्यष्टर्चेन हरिद्रां सर्पिषा सह मिश्रितां कृत्वाभिमन्त्र्य पाययति । ऽतिरश्चिराजेःऽ इत्यष्टर्चेनोदपात्रं सहमधुदुग्धचर्वभिमन्त्र्य पाययति । ऽतिरश्चिराजेःऽ इत्यष्टर्चेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । यानि पायनान्युक्तानि तानि ऽतिरश्चिराजेःऽ इत्यस्य सूक्तस्य भवन्ति । समाप्तं वृश्चिकपिपीलिकामशकदंशशर्कोटजलूकाभैषज्यम् ॥
अथ गण्डमालाभैषज्यमुच्यते -
[अपचिताम् (7.74) इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दैः स्तुकाग्रैरिति मन्त्रोक्तम् ॥ कौश्स्_4,8{32}.8 ॥]
ऽअपचितां लोहिनीनाम्ऽ (7.74.1-2) इति द्वे । ऽआ सुस्रसःऽ इत्येका (7.76.1) । एताभिस्तिसृभिर्वंशधनुषा कृष्णोर्णामयीं ज्यां कृत्वा चित्रितेन शरेण गण्डमालां विध्यति प्रत्यृचम् । त्रयः शरा भवन्ति ॥
[चतुर्थ्याभिनिधायाभिविध्यति ॥ कौश्स्_4,8{32}.9 ॥]
ऽया ग्रैव्या अपचितःऽ (7.76.2) इति चतुर्थ्या ऋचा चतुर्थेन शरेण गण्डमालामभिनिधाय विध्यत्याहन्ति । चतुर्थशरेण गण्डमालां प्रश्लेषयति । शरस्य स्वं भल्लं बहिर्वर्जयित्वा ॥
[ज्यास्तुकाज्वालेन ॥ कौश्स्_4,8{32}.10 ॥]
ऽअपचिताम्ऽ इति द्वे ऽआ सुस्रसःऽ इति तृतीया ऽया ग्रैव्याःऽ इति चतुर्थी एताभिश्चतसृभिः शरकृष्णोर्णाज्यावज्वालितमुदकमभिमन्त्र्योषाकाले रात्रिशेषे तेनोदकेनावसिञ्चति व्याधितम् । द्विविधा गण्डमाला । समाप्तं गण्डमालाभैषज्यम् । द्वयोरेकं कर्म ॥
अथ राजयक्ष्मभैषज्यमुच्यते -
[यः कीकसाः (7.76.3) इति पिशीलावीणातन्त्रीं बध्नाति ॥ कौश्स्_4,8{32}.11 ॥]
आज्यतन्त्रं कृत्वा ऽयः कीकसाःऽ (7.76.3-4; 77.1) इति तृचेन वीणातन्त्रीखण्डं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् ॥
[तन्त्र्या क्षितिकाम् ॥ कौश्स्_4,8{32}.12 ॥]
पूर्वतन्त्रं कृत्वा ऽयः कीकसाःऽ इति तृचेन वाद्यवीणा तस्याः खण्डं विष्णीवाद्यवीणाकण्ठं शङ्खखण्डं वीणातन्त्रीं बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् ॥
[वीरिणवध्रीं स्वयम्म्लानं त्रिः समस्य ॥ कौश्स्_4,8{32}.13 ॥]
अभ्यातानान्तं कृत्वा ऽयः कीकसाःऽ इति तृचेन स्वयम्पतितम्लानवीरिणखण्डत्रयमेकत्र बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् । सर्वत्र यत्र बहूनि कर्माणि विहितानि तत्रैकं कुर्यात् द्वे वा सर्वाणि वा कुर्यात् । सर्वत्र कर्मणां विकल्पः । सर्वत्र हस्तहोमे तन्त्रविकल्पः । अभ्यासे वा फलं भवति । समाप्तं राजयक्ष्मभैषज्यम् ॥
जलोदरे वरुणगृहीते भैषज्यमुच्यते -
[अप्सु ते (7.83) इति वहन्त्योर्मध्ये विमिते पिञ्जूलीभिराप्लावयति ॥ कौश्स्_4,8{32}.14 ॥]
वहन्त्योर्नद्योर्मध्ये मण्डपं कृत्वा तत्राज्यतन्त्रं कृत्वा ऽअप्सु ते राजन् वरुणऽ इति चतुरृचेनोष्णोदकघटं सम्पात्याभिमन्त्र्य पिञ्जूलीभिः सह व्याधितमाप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् । जलोदरे भैषज्यम् ॥
[अवसिञ्चति ॥ कौश्स्_4,8{32}.15 ॥]
नदीद्वयोर्वहन्त्योः सङ्गमे मण्डपं कृत्वा ऽअप्सु ते राजन्ऽ इति चतुरृचेनोदकमभिमन्त्र्य दर्भपिञ्जूलीभिः सहोदकं गृहीत्वा व्याधितमवसिञ्चति । मार्जनाचमने च । जलोदरे भैषज्यम् ॥
[उष्णाः सम्पातवतीरसम्पाताः ॥ कौश्स्_4,8{32}.16 ॥]
आप्लवनमुष्णोदकेनावसेचनं शीतोदकेन । द्वयोरेकं कर्म । समाप्तं जलोदरभैषज्यम् ॥
अथ ज्वरभैषज्यमुच्यते -
[नमो रूराय (7.116-117) इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा ॥ कौश्स्_4,8{32}.17 ॥]
ऽनमो रूरायऽ इति सूक्तद्वयेन खट्वायां व्याधितं कृत्वा मण्डूकमिषीकाञ्जि नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा । ततः खट्वायामधो मण्डूकं कृत्वा खट्वायां व्याधितमुपवेश्य तत उदकमभिमन्त्र्य व्याधितमवसिञ्चति । व्याधिते सिच्यमाने यथा मण्डूकोऽवसिच्यते तथा कुर्यात् । मार्जनाचमने च सर्वत्र स्मर्तव्ये । समाप्तं ज्वरभैषज्यम् ॥
अथ सर्वभैषज्यमुच्यते -
[शीर्षक्तिम् (9.8) इत्यभिमृशति ॥ कौश्स्_4,8{32}.18 ॥]
ऽशीर्षक्तिं शीर्षामयम्ऽ इत्यर्थसूक्तेन व्याधितशरीरमभिमृशति । अभिमन्त्रणं कुर्यादित्यर्थः ॥
[उत्तमाभ्यामादित्यमुपतिष्ठते ॥ कौश्स्_4,8{32}.19 ॥]
ऽपादाभ्यां तेऽ (9.8.21-22) इति द्वाभ्यामृग्भ्यामादित्यमुपतिष्ठते । शिरोरोगे कर्णरोगेऽङ्गरोगे शूले लोहितमूत्रे लोहितपुरीषे यक्ष्मणि मुखरोगेऽक्षिरोगेऽङ्गभेदेऽङ्गज्वरे व्याधिसर्पण उरोरोगे शरीराभ्यन्तररोगे हृदयरोगे कासे श्लेष्मणि गुह्यादिभैषज्यम् । समाप्तं सर्वभैषज्यम् ॥
सर्वविषभैषज्यमुच्यते -
[इन्द्रस्य प्रथमः (10.4) इति तक्षकायेत्युक्तम् ॥ कौश्स्_4,8{32}.20 ॥]
तक्षकाय नमस्कारं कृत्वा ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदकमभिमन्त्र्याचामयति । विषभैषज्यम् । तक्षकाय नमस्कारं कृत्वा ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमने च । विषभैषज्यम् । ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदके कृमुकवृक्षशकलं सङ्क्षुद्याभिमन्त्र्य पाययति । ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन दुल्लकशकृद्गोमयेनाव- ज्वालितमुदकमभिमन्त्र्यावसिञ्चति । ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन कृष्णाजिनावज्वालितमुदकमभिमन्त्र्य विषदष्टमवसिञ्चति । ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन मार्जनिकातृणावज्वालितमुदकमभिमन्त्र्याचामयति । विषभैषज्यम् । ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य ततः पाययति । आज्यतन्त्रे । विषभैषज्यम् । ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन सक्तुमन्थमर्ध्वफलकाण्डाभ्यामुपमथ्य ततोऽभिमन्त्र्य पाययति । विषभैषज्यम् । ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन मदनफलान्यभिमन्त्र्य भक्षयति छर्दनार्थम् । विषभैषज्यम् । ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन हरिद्रां घृतेन सहाभिमन्त्र्य व्याधितं पाययति ॥
[पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः ॥ कौश्स्_4,8{32}.21 ॥]
ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन पद्वं कीटकं तलिणीति लोके प्रसिद्धा तं पिष्ट्वाभिमन्त्र्य नस्तं ददाति । दक्षिणेनाङ्गुष्ठेन दक्षिणनासिकापुटे । समाप्तं विषभैषज्यम् ॥
अथ सर्पभये भैषज्यमुच्यते -
[अहिभये सिच्यवगूहयति ॥ कौश्स्_4,8{32}.22 ॥]
ऽइन्द्रस्य प्रथमःऽ इति सूक्तेन पैद्वं श्वेतवस्त्रवेष्टितमभिमन्त्र्य यत्र सर्पभयं तत्र निखनति । पैद्वं
हिरण्यवर्णसदृशः कीटश्चित्रितो वा स पैद्व इत्युच्यते । सर्पभये भैषज्यम् । बध्नाति वोपरि गृहे सर्पदर्शनादर्शने वा ॥
[अङ्गादङ्गात् (10.4.25) इत्या प्रपदात् ॥ कौश्स्_4,8{32}.23 ॥]
ऽअङ्गादङ्गात्प्रच्यावयऽ इत्यृचाऽऽप्रपदान्तं शिरःप्रभृति हस्तेन मार्ष्टि । शङ्काविषभैषज्यम् ॥
[दंश्मोत्तमया निताप्याहिमभिनिरस्यति ॥ कौश्स्_4,8{32}.24 ॥]
ऽआरे अभूत्ऽ (10.4.26) इत्यृचान्तेनोल्मुकं प्रताप्याभिमन्त्र्य ततो विषव्रणं दृष्ट्वा तत्सम्मुखं क्षिपति । सर्पविषभैषज्यम् ॥
[यतो दष्टः ॥ कौश्स्_4,8{32}.25 ॥]
सर्पादर्शने यतो दष्टस्ततः प्रक्षिपत्युल्मुकम् । समाप्तं सर्पविषभैषज्यम् ॥
अथानूक्तेषु कौशिकीयेषु सर्वव्याधिभैषज्येषूक्तेष्वनूक्तेषु वा पठितेषु तत्र सर्वत्र भैषज्यमुच्यते । सर्वव्याधिभैषज्येषु मन्त्राः ॥
ओषधिवनस्पतीनामनूक्तान्यप्रतिषिद्धानि भैषज्यानाम् ॥ कौश्स्_4,8{32}.26 ॥
अंहोलिङ्गाभिः ॥ कौश्स्_4,8{32}.27 ॥
तानि कर्तव्यानि । अंहोलिङ्गगण उच्यते । ऽआशानामाशापालाःऽ (1.31.2) इत्येका । ऽअग्नेर्मन्वेऽ (4.23-29) इति सप्त सूक्तानि । ऽया ओषधयः सोमराज्ञीःऽ (6.96.1) इत्यका । ऽवैश्वानरो न आगमत्ऽ (6.35.2) इत्येका । ऽशुम्भनी द्यावापृथिवीऽ (7.117.1) इत्येका । ऽयदर्वाचीनम्ऽ (10.5.22) इत्येका । ऽअग्निं ब्रूमःऽ (11.6) इत्यर्थसूक्तम् । अस्मिन् सूक्ते ऽमुञ्चतु माऽ (11.6.7), ऽभवाशर्वाविदम्ऽ (11.6.9), ऽया देवीः पञ्चऽ (11.6.22) ऽयन्मातली रथक्रीतम्ऽ (11.6.23) इत्येताश्चतस्रो वर्जयित्वा । अंहोलिङ्गगणः । यानि च पञ्चप्रतीकानि सूक्तानि तान्याभिमन्त्रणन सर्वव्याधिभैषज्यानि भवन्ति । तान्युच्यन्ते । ऽअक्षीभ्यां तेऽ (2.33), ऽमुञ्चामि त्वऽ (3.11), ऽउत देवाःऽ (4.13), ऽआवतस्तेऽ (5.30), ऽशीर्षक्तिं शीर्षामयम्ऽ (9.8) अंहोलिङ्गगणः । एतैः पञ्चप्रतीकैः सर्वव्याधीनामभिमन्त्रणं क्रियते । पञ्चप्रतीकानामन्यतमेनैकेनाभिमन्त्रणं कुर्यादित्यर्थः ॥
अथांहोलिङ्गगणेन सर्वव्याधिभैषज्यं क्रियते । अंहोलिङ्गगणेनोदपात्रं सम्पात्याभिमन्त्र्य सर्वव्याधिष्वाप्लावयति । आज्यतन्त्रम् । अंहोलिङ्गगणेनोदकमभिमन्त्र्य व्याधितमवसिञ्चति । अंहोलिङ्गगणेन मृत्तिकामभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गगणेन मृत्तिकामभिमन्त्र्य व्याधितमालिम्पति । तथा सम्भवे व्याधिषु । अंहोलिङ्गगणेन प्रमेहमणिं बध्नाति सर्वव्याधिषु । तन्त्रे । अंहोलिङ्गगणेनाखुमृत्तिकामभिमन्त्र्य पाययति सर्वव्याधिभैषज्येषु । अंहोलिङ्गेन गणेन पूतीकान् पिष्ट्वाभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गेन गणेन प्रमन्दं पिष्ट्वाभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गेन गणेनावतक्षणानि पिष्ट्वाभिमन्त्र्य पाययति । अंहोलिङ्गेन गणेनैतेषां द्रव्याणामास्थापयति पाययति च । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन यानं सम्पात्याभिमन्त्र्यारोहयति । तन्त्रे । सर्वव्याधिषु । अत्र सर्वत्रेषुं विसृजतीति च योजनीयम् । आज्यतन्त्रमभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पातवन्तं कृत्वा तेन व्याधिदेशं सम्मार्ष्टि । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन पालाशादयः समिध आदधाति । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेनाज्यं जुहोति । तन्त्रे । अंहोलिङ्गेन गणेन बुसं जुहोति । तन्त्रे । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन पालाशसमिधः सोमरसाक्ता आदधाति । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्य तेनोदकेन सम्प्रोक्षति । एवं बन्धनं मोचयित्वा । अभ्यातानाद्युत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन सप्तभिः प्रतीकैरुदपात्रं सम्पात्याभिमन्त्र्य व्याधितमाप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेन सप्त काम्पीलपुटानुदकेन पूरयित्वा सम्पात्याभिमन्त्र्य प्रत्यृचं व्याधितमवसिञ्चति पश्चादपविध्यति पुटान् । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेन चतुर उदपात्रे सम्पातानानयति द्वौ पृथिव्यामावपति तौ प्रत्याहृत्याप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रे यवान् प्रक्षिप्य सम्पात्याभिमन्त्र्याप्लावयति पूर्ववत् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रे सयवे चतुरः सम्पातानानयति द्वौ पृथिव्यां तौ प्रत्याहृत्याप्लावयति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा अंहोलिङ्गेन यवमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेनाकृतिलोष्टं पाययति । सर्वव्याधिभैषज्यम् । आकृतिलोष्टवल्मीके उद्धृतमुदकं लाजा एवमाद्यभिमन्त्र्य पाययति । सर्वव्याधिभैषज्यम् । वैश्वानरीयाभ्यां पायनकर्माणि भवन्ति । अभ्यातानान्तं कृत्वांहोलिङ्गेनोदपात्रं सम्पात्याभिमन्त्र्य पिञ्जूलीभिराप्लावयति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्याभिमन्त्र्य मौञ्जैः पाशैः पर्वसु
बद्ध्वा पिञ्जूलीभिराप्लावयत्यवसिञ्चति । उत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गगणेन द्वाभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । अंहोलिङ्गेन मौञ्जैः पर्वसु बद्ध्वा दर्भमणिं सहोदकमभिमन्त्र्यावसिञ्चति । अंहोलिङ्गेन गणेनोदकमभिमन्त्र्याचमयति । अंहोलिङ्गेन गणेनालबिसोलं फाण्टं पाययति । अंहोलिङ्गेन त्रपुसमुसलखदिरतार्ष्टाघानां समिध आदधाति । अंहोलिङ्गेन खादिरानायसलोहांश्च शङ्कूनभिमन्त्र्य निखनति । यवान् सकृद्गृहीताननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य जुहोति । अंहोलिङ्गेन मेदो मधु सर्पिस्तैलमभिमन्त्र्य पाययति । सर्वव्याधिषु । यथासम्भवं पानं कर्तव्यम् । अंहोलिङ्गेन वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । अंहोलिङ्गेन यवमणिं वरणमणिं पृश्निपर्णीमूर्ध्निसम्पातशाकलमणिमाप्लावनं बहिर्विसर्जनं काण्डमणिं यवपलालमणिं तिलपिञ्जिकामणिमाकृतिलोष्टवल्मीक- जीवकोषण्या वेष्टितमणिं बध्नातीत्यादि । आज्यतन्त्रं सर्वत्र योजनीयम् । यथासम्भवं भैषज्यम् ॥
उक्तव्याधीनां परिगणनं क्रियते । ज्वररोगे । अतिसाररोगे । अतिमूत्रे । दुःखमूत्रे । दुःखपुरीषे उदावर्ते च । नाड्यावहने । अङ्गभेदे । अङ्गज्वरे । अङ्गछेदे । सोमवमने । सोमस्य छर्दनज्वरे । अप्सरोगन्धर्वयक्षराक्षसपिशाचासुरेषु ज्वरेषु । जलोदरे । वातपित्तश्लेष्मविकाररोगेषु । शिरोवेदनायाम् । अङ्गवेदनायाम् । अपस्मारे । हृद्रोगे । कामले । पापरोगे । 20 । उद्वेगरोगे । ज्वरे च । एकान्तरितज्वरे च । कामज्वरे । ब्राह्मणशापे च । आक्रोशे च । शिरोरोगे च । आक्रोशव्रणे । शत्रोराक्रोशे । पुत्रदुहितुरसजातासगोत्राणामाक्रोशरोगे । चक्षुर्दृष्टिनिपातरोगे । दुर्नामरोगे । गर्भसम्भवरोगे । निरृतिक्रव्यादगृहीतरोगे । राजयक्ष्मणि । धनुर्वाते । वातगुल्मे च । वातभङ्गे च । वातज्वरे च । कासे च । 20 । उत्कासे च । श्लेष्मणि च । श्लेष्मपतने च । रुधिरवहने च । कर्णरोगे । बलासे । व्याधिविसर्पणे । कक्षागन्धिविसर्पणे । अङ्गे गण्डविसर्पणे । कर्णविसर्पणे । अक्षिविसर्पणे । हृदयामये । कुष्ठरोगे । अष्टादशजातिकुष्ठरोगे । शरीरविस्फोटरोगे । ग्रहणीरोगे । अज्ञाते राजयक्ष्मशरीरशोषे । रोहिणीरोगे । अङ्गप्रसर्पणे । नितम्बरोगे । 20 । तीक्ष्णशृङ्गाद्यभिघाते । जलोदरे । कन्दविषे । उपविषे । सर्पविषे । कृत्याज्वरे । ग्रामज्वरे । ग्रामनगरजनपदेषु सहज्वरे । पापरोगे सहोत्पन्नरोगे । श्वेतकुष्ठे । श्वेताङ्गे । श्वेतकेशेषु । गोअश्वपुरुषेषु रोगेषु सह उत्पन्नेषु । गवां क्षयरोगे । पुरुषाणां क्षयरोगे । उदके अनिपाते । रुचितृषारोगे । बुभुक्षारोगे । स्वशरीरे क्षेत्रियरोगे । उदरगण्डुलकरोगे । उदरकृमिरोगे । शरीरपुरुषस्त्रीणां श्वाजाविहस्तिनादिषु कृमिरोगेषु । यूकालिक्षाद्यपुरुषरोगेषु । अक्षिरोगे । नासिकारोगे । कर्णरोगे । एकरोगे । अन्त्ररोगे । गुदरोगे । धमनिषु रोगे । उदररोगे । पाणिरोगे । हृदयरोगे । पांशुलिरोगे । अङ्गुलिषु रोगे । नखरोगे । उभूअर्वीवती (?) प्रपद-पार्ष्णि-भसदश्रोणितम् । उद्वेगज्वरे । ज्वरे च । एकान्तरितज्वरे । कामज्वरे च । ब्राह्मणशापे च । आक्रोशरोगे । आक्रोशव्रणे । शत्रोराक्रोशे । पुत्रदुहितुरसजातासगोत्राणामाक्रोशरोगे । चक्षुर्दृष्टिनिपातरोगे । दुर्नामरोगे । गर्भसम्भवरोगे । निरृतिक्रव्यादगृहीतरोगे । राजयक्ष्मणि । धनुर्वाते । वातगुल्मे च । वातभङ्गे च । वातज्वरे च । कासे च । उत्कासे च । श्लेष्मणि च । श्लेष्मपतने च । सद-अस्थिनजश्वाबाधमणिपाणिमवातरोगेषु । क्षेत्रियरोगे । सर्वव्याधिरोगे । पापरोगे । गन्धर्वरक्षाग्रहव्याधिरोगे । अमतिगृहीतरोगे । धर्मार्थकामेषु शून्यबुद्धिषु त्रिवर्गशून्येषु पुरुषेषु रोगे । शिरोरोगे । अक्षिदीर्घरोगे । 20 । शरीरदुःखव्याधिपीडारोगे । पदाभिघातरोगे । शरीराभिघातरोगे । इष्टिकालोष्टाभिघातरोगे । शस्त्राद्यभिघाते । काष्ठाभिघाते । प्रथमप्रसूतासूतिकारोगे । अद्भुतदर्शने । रोगमध्ये वैद्यकपठिते । अरिष्टरोगे ज्योतिषपठिते । ग्रहनक्षत्रविवक्षार्थं बन्धहिरण्यश्च तत्रारिष्टाभिघातरोगे । शरीरवातसम्भवरोगे । सन्निपाते । वातपित्तश्लेष्मविकाररोगे । मैथुनकृतरोगे । कर्णलोहितवहने । कर्णमूले । विसल्पके । यक्ष्मरोगे । शारदरोगे । 20 । शीतज्वरे । क्षुद्रज्वरे । कामज्वरे । श्लेष्मज्वरे । पामायाम् । ग्रीष्मज्वरे । वर्षाज्वरे । दाने द्रव्यत्यागे प्रतिग्रहे याजने अध्ययनेऽध्यापनेऽयाज्ययाजने रोगेषूत्पन्नेषु । बुद्धिप्रध्वंसने । अक्षिपटलरोगे । अङ्गभेदे । उद्वेगे । सर्पविषौपविषकन्दविषादिषु । स्त्रीपुरुषेषु पापलक्षणेषु । अपकामे हृदये । हृदयतापे । राजयक्ष्मणि । हरिषाकामतोविषये । अपस्मारेषु । 20 । उरसेषु गण्डेषु । गर्भभक्तेषु द्वादशजातिषु । सव्रणेऽव्रणे गण्डेषु । क्षये । कुष्ठे । साण्डेऽङ्गसूजने । अतिशोषायाम् । अङ्गे कृमिषूत्पन्नेषु । वृश्चिकदष्टे । सर्पकृकवाकुमयूरचक्रवाककाककपोतश्येनगृध्रहरिणव्याघ्रचित्रकतरक्षऋक्ष- महिषगोश्वमार्जारसर्वेषु मृगेषु सर्वेषु पक्षिष्वभिघातेषु । उदरे नाभ्यां कण्ठे ग्रीवायां चारुगृहीते । सर्पदर्शने । सर्पभये । सर्पदष्टे ।
मानुषादिदष्टे । श्वानादिदष्टे । हस्ताद्यभिघाते । योनिप्रवाहे । रुधिरप्रवाहे । सर्वव्याधिषु केशपतने । केशदृढीकरणे । 20 । गण्डमालायाम् । ग्रीवामालायाम् । खलतिकण्डूयने । केशबन्धने शतबृहत्प्रवाहे । पूतिनासिकायाम् । नाभितुण्डे । बृहदुदरे । उदरवृद्धौ । नाभिग्रीवानासिकापादकर्णदन्तादिवृद्धिषु । विस्फोटकापापरोगकुष्ठक्षयश्वित्रोदुम्बरादिषु कुष्ठेषु । दद्रविचर्चिकावतां स्त्रीसन्निपातेषु । सद्योवान्ती । अङ्गभेदे । वातरोगे । धनुर्वाते । नाडीवहने । स्त्र्यासक्तौ । ब्राह्मणाक्रोशे । स्त्र्याकोशे । द्रव्यनाशे । 20 । हृद्रोगे । फलमूलपत्रशाकार्द्रमांसतैलघृतव्यञ्जनमिष्टान्नभोजनेषु रोगेषु । अजीर्णे । चतुर्विधेषु सामान्याजीर्णेषु । उदरशूलेषु । मस्तकशूलेषु । शिश्नेषु पुरुषरोगेषु । स्त्रीरोगेषु च । बालरोगे । तरुणवलयोत्पत्तिः । वालाः श्वेतकचाः । अङ्गछेदे । शस्त्रछेदे । अरुगण्डे । पापेऽधर्मप्रवृत्तौ । कृमिव्याधौ । सत्त्वरजस्तमप्रवृत्तौ । कामक्रोधलोभमोहादिषु ।
शृङ्गाभिघाते । दन्ताभिघाते । 20 । नानाभिघाते । जनपदे चाङ्गुष्ठवेष्टके । अर्बुदरोगे । मशकानाम् । तिलकेषु । दुभित्तके । कुलिकेषु । व्याधिप्रकोपेषु सर्वव्याधिप्रकोपेषु । इत्युक्तव्याधिषु परिगणनं समाप्तम् ॥
अथ भैषज्यानि पठितानि तानि सर्वाण्यंहोलिङ्गेन सर्वव्याधिषु कर्तव्यानि । अंहोलिङ्गेनोदपात्रकर्म करोति । तन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्योदकेन वलीर्विमार्ष्टि । पुनस्तन्त्रं च । एवं सर्वव्याधिषु । तन्त्रं कृत्वांहोलिङ्गेन गणेन मुञ्जशिरो रज्ज्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन प्रमेहणं बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अथवा तैः सूक्तैः सर्वाणि कर्तव्यानि । अथवांहोलिङ्गेन गणेन कर्तव्यानि सर्वाणि । समिध आदधाति । आज्यं जुहोतीत्येवमादिसर्वभैषज्यम् । यानीह कर्माणि पठितानि तानि सर्वाण्यंहोलिङ्गेन कर्तव्यानि । यानि वैद्यकेष्वजीर्णप्रभवानि रोगजातानि चरकबाहडसुश्रुतेषु पठ्यन्ते तेषु तत्पठितानि सर्वाणि व्याधिष्वौषधानि । अंहोलिङ्गेन गणेन समाम्नातम् । अजीर्णप्रभवा रोगा इति सम्भवे कार्याणि । बन्धनपायनाचमनेषु बध्नाति । धूपनस्नानाभ्यञ्जनमर्दनपथ्यभोजन- विलेपनविपुलाञ्जनावसेचनशयनादीनि तान्यंहोलिङ्गेन संस्कर्तव्यानि । अभिमन्त्र्य कर्तव्यानीत्यर्थः । अभिमन्त्रणं संस्कारः सर्वत्र कर्तव्य इत्यर्थः । ऽसर्वाण्यभिमन्त्र्याणिऽ (कौश्स् 7.16) इति वचनात् । बन्धने तन्त्रम् । यानि स्वशास्त्रपठितानि तान्यंहोलिङ्गेन कर्तव्यानि । परशास्त्रपठितानि वैद्यकपठितानि च तानि सर्वाणि कर्तव्यानि । सर्वत्र तन्त्रं वा यथासम्भवं योज्यम् । तथा चोक्तं मूलकौशिकग्रन्थे । ओषधिबन्धनं पठितं तदंहोलिङ्गेन गणेन कर्तव्यम् । आज्यतन्त्रमध्ये सम्पात्याभिमन्त्र्य बध्नाति । तत्रैवोक्तं खननविधानेन बन्धनं च सर्वत्र ऽआश्यबन्ध्याप्लवनयानभक्ष्याणि सम्पातवन्तिऽ ऽसर्वाण्यभिमन्त्र्याणिऽ (कौश्स् 7.15-16) इति वचनात् । तथा चोक्तम् - ऽस्रजेनौषधिखननं व्याख्यातम्ऽ (कौश्स् 33.16) । ओषधिखननं विधानेनैव । बन्धनमपि विधानेनैव । तथा गोपथ उक्तम् । वैद्यकज्योतिषपुराणेषु बन्धनपायनस्नानादिष्वंहोलिङ्गः सर्वत्र प्रयोक्तव्यः । अधर्मसमुद्भवत्वाद्रोगनाम । हस्तिवैद्यकाश्ववैद्यकेषूक्तमेतदेव भैषज्यम् । मन्त्रविशेषकृतो विशेषः । अन्यथा क्रियमाणे दृष्टादृष्टेषूपकारो नास्ति । शूद्रेणैव ज्योतिष्टोमे न दृष्टं नाप्यदृष्टम् । द्विविधा व्याधयः आहारनिमित्ता अधर्मनिमित्ताश्च । आहारेण व्याधिरुत्पद्यते यस्तत्र वैद्यकम् । अधर्मेणोत्पन्ने व्याधौ वेदोक्तेन विधानेनाधर्मशमनं भवति । सर्वव्याधिभैषज्यानि समाप्तानि । अष्टोत्तरशतव्याध्यपनोदनानि विनाशकानि ॥
अथ भैषज्यानि (कौश्स् 25.1) इति यानि सूक्तानि भैषज्यानि कानिचित्पठितानि तानि सर्वाण्युपधाने उपस्थाने च विनियोज्यानि तत्र तत्र व्याधौ रुद्रभाष्यमते । उपदधीतेत्यनादेश आज्यसमित्पुरोडाशपयौदौदनपायसपशुव्रीहियवतिलधाना- करम्भशष्कुल्य एतानि हवींषि जानीयात् । हस्तहोमत्वात् तन्त्रविकल्पः । उपस्थानं चादित्यस्य । अन्वारब्धे यजमाने सर्वत्र होमाभिमन्त्रणम् । यथासम्भवं तन्त्रसम्बन्धः । उपधानमुपस्थानं च कर्तव्यम् । समाप्तानि भैषज्यानि ॥
[स्त्रीकर्माणि]
अथ स्त्रीकर्मणां विधिं वक्ष्यामः -
[पूर्वस्य पुत्रकामावतोकयोरुदकान्ते शान्ता अधिशिरोऽवसिञ्चति ॥ कौश्स्_4,8{32}.28 ॥]
पुत्रकामायै स्त्रियै मृतापत्यायै च रजोनाशे च शान्तिरुच्यते । ऽये त्रिषप्ताःऽ (1.1) इति सूक्तेन शान्तौषधिं सहोदकमभिमन्त्र्य स्त्रीमवसिञ्चति ॥
[आव्रजितायै पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति ॥ कौश्स्_4,8{32}.29 ॥]
ततोऽभ्यातानान्तं कृत्वा ऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः कृत्वा प्रयच्छति भक्षणार्थं क्रीडनार्थं बन्धनार्थम् । पर्यायेण स्त्रियः करोति । अभ्यातानाद्युत्तरतन्त्रम् । पुत्रकामामृतापत्ययो रजोनाशे च समाप्तमिदं कर्म ॥ अष्टमी कण्डिका
अथ प्रसवकाल इदं कर्म क्रियते । यथा सुखेनैव प्रसवो भवतीत्यर्थः.
अथ प्रसूतिकरणमुच्यते -
[वषट् ते पूषन् (1.11) इति चतुर उदपात्रे सम्पातानानीय चतुरो मुञ्जान् मूर्ध्नि विवृहति प्राचः ॥ कौश्स्_4,9{33}.1 ॥]
अभ्यातानान्तं कृत्वा ऽवषट् ते पूषन्ऽ इति सूक्तेनोष्णोदके चतुरोऽप्सु सम्पातानानयति । त्रयः सम्पाताः प्रत्यृचम् । चतुर्थसम्पातश्च तिसृभिरृग्भिः । ततः सर्वेण सूक्तेनानुमन्त्रणम् । चतुरो मुञ्जजातानिषीकान् गर्भिण्या मूर्ध्नि तत्र पृथक् विवृहति । तत
उदपात्रेण सम्पातितेनाप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् ॥
[प्रतीचीरिषीकाः ॥ कौश्स्_4,9{33}.2 ॥]
ततः पश्चादेवाभिमुख इषीका निःसारयति ॥
[छिद्यमानासु संशयः ॥ कौश्स्_4,9{33}.3 ॥
उष्णेनाप्लावयति दक्षिणात् केशस्तुकात् ॥ कौश्स्_4,9{33}.4 ॥]
छिद्यमानासु मुञ्जेषीकासु गर्भस्य मरणं भवेत् । एकं कर्म ॥
[शालाग्रन्थीन् विचृतति ॥ कौश्स्_4,9{33}.5 ॥]
ऽवषट् ते पूषन्ऽ इति सूक्तं जपित्वा शालाग्रन्थीन् विचृतति मोचयति । द्वितीयं कर्म ॥
[उभयतःपाशं योक्त्रमाबध्नाति ॥ कौश्स्_4,9{33}.6 ॥]
ऽवषट् ते पूषन्ऽ इति सूक्तेन योक्त्रमभिमन्त्र्य कटिप्रदेशे बध्नाति । तन्त्रम् । तृतीयं कर्म । केचित् ऽवषट् ते पूषन्ऽ इति सूक्तेन तैलमभिमन्त्र्याभ्यञ्जनं कुर्वन्ति प्रसवकाले । चतुर्थी ॥
लाङ्गलीओषधिविधानमुच्यते -
[यदि सोमस्यासि राज्ञः सोमात्त्वा राज्ञोऽधि क्रीणामि यदि वरुणस्यासि राज्ञो वरुणात्त्वा राज्ञोऽधि क्रीणामि इत्येकविंशत्या यवैः स्रजं परिकिरति ॥ कौश्स्_4,9{33}.7 ॥]
ऽयदि सोमस्यासि राज्ञःऽ इति मन्त्रेणैकविंशत्या यवैरोषध्युपरि प्रकिरति ॥
[अन्या वो अन्यामवत्वन्यान्यस्या उपावत । सध्रीचीः सव्रता भूत्वास्या अवत वीर्यम् इति सन्नयति ॥ कौश्स्_4,9{33}.8 ॥]
ऽअन्या वो अन्यामवऽ इत्योषध्या सयवमेकत्र बध्नाति ॥
[मा ते रिषत्खनिता यस्मै च त्वा खनामसि । द्विपाच्चतुष्पादस्माकं मा रिषद्देव्योषधे ॥ स्रजो नामासि । प्रजापतिष्ट्वामखनदात्मने शल्यस्रंसनम् । तां त्वा वयं खनामस्यमुष्मै त्वा शल्यस्रंसनम् इत्यस्तमिते छत्रेण चान्तर्धाय फालेन खनति ॥ कौश्स्_4,9{33}.9 ॥]
ओषधिखननविधानम् । ऽमा ते रिषत्खनिताऽ इति मन्त्रेण लोहफालेन खनति ॥
[अत्र तव राध्यताम् इत्यग्रमवदधाति ॥ कौश्स्_4,9{33}.10 ॥]
ऽअत्र तव राध्यताम्ऽ इति मन्त्रेणौषध्यग्रं तत्रैव दधाति ॥
[इह मम इति मूलमुपयच्छति ॥ कौश्स्_4,9{33}.11 ॥
एकसरेऽनुपलीढे कुमारः ॥ कौश्स्_4,9{33}.12 ॥]
ऽइह मम राध्यताम्ऽ इति मन्त्रेण मूलं गृह्णाति । गृहीत्वा ऽवषट् ते पूषन्ऽ इति सूक्तेनौषधीमभिमन्त्र्य गर्भिण्याः शिरसि निदधाति ॥
[दर्भेण परिवेष्ट्य केशेषूपचृतति ॥ कौश्स्_4,9{33}.13 ॥]
दर्भेण वेष्टयित्वा रात्रावोषधिखननं करोति । छत्रेण वान्तर्धाय खनति ॥
[एवं ह विवृहशाकवृषे ॥ कौश्स्_4,9{33}.14 ॥
अवपन्ने जरायुण्युपोद्धरन्ति ॥ कौश्स्_4,9{33}.15 ॥]
पतिते गर्भेऽन्यत्र स्फोटयति । चतुर्थं कर्म ॥
[स्रजेनौषधिखननं व्याख्यातम् ॥ कौश्स्_4,9{33}.16 ॥]
सर्वत्रौषधिखननमनेन विधानेन कर्तव्यम् । यत्र क्वचिदोषधिखननं तत्र सर्वत्रानेन विधानेन कर्तव्यम् । स्वशास्त्रे परशास्त्रे च वैद्यकाद्येषु सर्वत्र । ऽस्रजेनौषधिखननं व्याख्यातम्ऽ इति वचनात् । श्वेतकण्टारिकामूलं पुत्रकामा पिबति । यथोक्तेन सम्पातः । सर्वकर्मणां विकल्पेन प्रयोगः । एकं वा द्वे वा सर्वाणि वा कुर्यात् । कर्मबाहुल्यात् फलबाहुल्यम् । ओषधिवत् स्रजमूलं खात्वा ऽवषट् ते पूषन्ऽ इत्यभिमन्त्र्य शिरसि विचृतति । ओषधिवद् व्रीहिमूलं खात्वा ऽवषट् ते पूषन्ऽ इत्यभिमन्त्र्य ददाति । ओषधिवत् काकजङ्घामूलं खात्वा ऽवषट् तेऽ इत्यभिमन्त्र्य शिरस्युपरि ददाति ॥
[चत्वार्युमाफलानि पाणावद्भिः श्चोतयते ॥ कौश्स्_4,9{33}.17 ॥]
ऽवषट् तेऽ इति सूक्तेन चत्वार्यौदुम्बरफलानि हस्ते कृत्वा तत उदकं प्रक्षिप्य ततो निरीक्षते ॥
[संवर्तमानेषु कुमारः ॥ कौश्स्_4,9{33}.18 ॥]
यदि तान्येकत्र भवति तदा पुत्रो जायते । विज्ञानकर्मेदम् ॥
[ब्राह्मणायनोऽङ्गान्यभिमृशति ॥ कौश्स्_4,9{33}.19 ॥]
ऽवषट् ते पूषन्ऽ इति सूक्तेन ब्राह्मणमभिमन्त्र्य ततः स गर्भिण्या अङ्गान्यभिमृशति ॥
[पुन्नामधेये कुमारः ॥ कौश्स्_4,9{33}.20 ॥]
यदि पुन्नामधेयं स्पृशति तदा कुमारो जायते । विज्ञानकर्म । समाप्तानि सुखप्रसवकर्माणि । एभिः कर्मभिः कृतैः गर्भिण्याः सुखेन प्रसवो भवतीत्यर्थः ॥ नवमी कण्डिका
अथ वन्ध्याप्रजननकरणमुच्यते -
[इदं जनासः (1.32) इत्यस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरोऽवसिञ्चति ॥ कौश्स्_4,10{34}.1 ॥]
ऽइदं जनासःऽ इति सूक्तेन शिंशपाशाखासूपविष्टायै शान्त्यौषधिसहितमुदकमभिमन्त्र्य वन्ध्यामवसिञ्चति ॥
[आव्रजितायै ॥ कौश्स्_4,10{34}.2 ॥]
ततो गृहेऽभ्यातानान्तं कृत्वा ऽइदं जनासःऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं वन्ध्या काकवन्ध्या च प्रजननकर्म ॥
अथ मृतापत्यायाः स्त्र्यास्तस्याः शान्तिरुच्यते -
[निःसालाम् (2.14) इत्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेष्वप्सु सम्पातानानयति ॥ कौश्स्_4,10{34}.3 ॥]
गर्भास्त्रावे जातमात्रे मृते वा स्त्र्यां वा पुरुषे वा बाले वा यूनि वा मृते इदं कर्म । त्रीणि मण्डपानि प्राग्द्वाराणि कृत्वैकस्मिन् मण्डपेऽभ्यातानान्तं कृत्वा ऽनिःसालाम्ऽ इति सूक्तेन ततः स्त्री कृष्णं वासः परिधाय ॥
[पलाशे सीसेषूत्तरान् ॥ कौश्स्_4,10{34}.4 ॥]
तत उदपात्रे सम्पात्याभिमन्त्र्य पलाशपत्रे सीसं कृत्वा सीसेषूत्तरसम्पातानानयति ॥
[सीसान्यधिष्ठाप्याप्लावयति ॥ कौश्स्_4,10{34}.5 ॥]
सीसेषूपरि स्त्रीमधिष्ठाप्य तेनोदपात्रेणाप्लावयति ॥
[निधाय कृष्णं व्रजति ॥ कौश्स्_4,10{34}.6 ॥]
कृष्णवस्त्रं तस्मिन् मण्डपे निधाय ॥
[आदीप्य ब्रह्मा ॥ कौश्स्_4,10{34}.7 ॥]
तत उत्तरतन्त्रम् कृत्वा मण्डपमग्निना ज्वालयति ॥
[एवं पूर्वयोः पृथक्सम्भार्ये ॥ कौश्स्_4,10{34}.8 ॥
शाखासूक्तम् ॥ कौश्स्_4,10{34}.9 ॥]
तत द्वितीयमण्डप एवं कृत्वा श्वेतवस्त्रं परिधानं कृत्वा शिंशपाशाखासूपवेश्य स्त्रीं ऽनिःसालाम्ऽ इति सूक्तेन शान्तौषधिभिस्तदुदकमभिमन्त्र्यावसिञ्चति स्नपनं करोति । ततो गृह आगत्याज्यतन्त्रं कृत्वा ऽनिःसालाम्ऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । तत उत्तरतन्त्रम् । त्रिमण्डपाद्येकं कर्म ॥
[पश्चादग्नेरभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीराधापयति ॥ कौश्स्_4,10{34}.10 ॥]
एकं मण्डपं कृत्वा प्राक्पश्चिमद्वारे इषीकां द्वार्योपरि बद्ध्वा ततो ऽनिःसालाम्ऽ इति सूक्तेनौदुम्बरीः समिधो मृतापत्यायै आदधाति । तन्त्रविकल्पः । मन्त्रं कर्ता ब्रूयात् ॥
[उत्तमाव्रजितायै ॥ कौश्स्_4,10{34}.11 ॥]
ततो ऽनिःसालाम्ऽ इति सूक्तेनोदकान्ते शान्तौषधिसहोदकमभिमन्त्र्यावसिञ्चति । ततो गृहेऽभ्यातानान्तं कृत्वा ऽनिःसालाम्ऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । मृतापत्याविषये द्वितीयं कर्म । समाप्ता मृतापत्याशान्तिः । गर्भपतिते बालमरणे युवाने वा मृते एकस्मिन् वा मृते बहुषु वा मृतेषु स्त्रीणां शान्तिः कर्तव्या ॥
पतिलाभकर्माण्युच्यन्ते -
[पतिवेदनानि ॥ कौश्स्_4,10{34}.12 ॥
आ नो अग्ने (2.36) इत्यागमकृशरमाशयति ॥ कौश्स्_4,10{34}.13 ॥]
अभ्यातानान्तं कृत्वा ऽआ नो अग्नेऽ इति सूक्तेनागमकृशरं सम्पात्याभिमन्त्र्याशयति कुमारीम् । उत्तरतन्त्रम् । पतिलाभकर्मार्थिनाम् ॥
[मृगाखराद्वेद्यां मन्त्रोक्तानि सम्पातवन्ति द्वारे प्रयच्छति ॥ कौश्स्_4,10{34}.14 ॥]
मृगाखरमृत्तिकाया वेदिं कृत्वाभ्यातानान्तं समानम् । ऽआ नो अग्नेऽ इति सूक्तेन हिरण्यालङ्कारान् गुग्गुलमौक्षं च यथोक्तान् सम्पात्य बन्धनं धूपनं प्रलेपनं करोति कुमार्याः । अभ्यातानाद्युत्तरतन्त्रम् । द्रव्यं प्रति सूक्तावृत्तिः । पूर्वस्य संहिताविधिः । श्लोकः -
आवपेत् सुरभिर्गन्धान् क्षीरे सर्पिस्तथोदके.
एतदायनमित्याहुरौक्षं तु मधुना सह ॥
[उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति ॥ कौश्स्_4,10{34}.15 ॥]
ऽआ नो अग्नेऽ इति सूक्तेन कांस्यपात्रे उदकसहिते व्रीहियवौ गृहीत्वा प्रत्यृचं जुहोति रात्रौ । ततो दक्षिणामुखीं कुमारीं प्रक्रामति । तन्त्रं वा ॥
[पश्चादग्नेः प्रक्षाल्य सन्धाव्य सम्पातवतीं भगस्य नावम् (2.36.5) इति मन्त्रोक्तम् ॥ कौश्स्_4,10{34}.16 ॥]
अभ्यातानान्तं कृत्वा ऽआ नो अग्नेऽ इति सूक्तेन नावं सम्पात्योदके कृत्वा कुमारीं चटापयित्वा ऽभगस्य नावम्ऽ इत्यृचा
उत्तारयति । तत उत्तरतन्त्रम् ॥
[सप्तदाम्न्यां सम्पातवत्यां वत्सान् प्रत्यन्तान् प्रचृतन्तो वहन्ति ॥ कौश्स्_4,10{34}.17 ॥]
अभ्यातानान्तं कृत्वा ऽआ नो अग्नेऽ इति सूक्तेन सप्तदामतन्त्र्यां सम्पातवत्यां वत्सान् बन्धयित्वाभिमन्त्र्य कुमारी मोचयति स्वयं न कर्ता । उत्तरतन्त्रम् । दिशा पतिवेदनं च । यदि प्रदक्षिणं मोचयति तदा पतिलाभः ॥
[अहतेन सम्पातवता ऋषभमभ्यस्यति ॥ कौश्स्_4,10{34}.18 ॥
उदर्दयति यां दिशम् ॥ कौश्स्_4,10{34}.19 ॥]
तन्त्रं कृत्वा ऽआ नो अग्नेऽ इति सूक्तेनाहतवस्त्रेण वेष्टितं वृषभं सम्पात्याभिमन्त्र्य विसर्जयति । उत्तरतन्त्रम् ॥
[जाम्यै प्र यदेते (5.1.4) इत्यागमकृशरम् ॥ कौश्स्_4,10{34}.20 ॥]
ऽप्र यदेते प्रतरम्ऽ इत्यृचागमकृशरं सम्पात्याभिमन्त्र्याशयति । आज्यतन्त्रे ॥
[इमा ब्रह्म (5.2.8) इति स्वस्रे ॥ कौश्स्_4,10{34}.21 ॥]
ऽइमा ब्रह्मऽ इत्यृचागमकृशरं सम्पात्याभिमन्त्र्याशयति । आज्यतन्त्रे । भगिनीकम् ॥
[अयमा याति (6.60) इति पुरा काकसम्पातादर्यम्णे जुहोति ॥ कौश्स्_4,10{34}.22 ॥]
ऽअयमा यातिऽ इति सूक्तेनाज्यं जुहोति । आज्यतन्त्रे । पुरा काकसम्पातात् ॥
[अन्तःस्रक्तिषु बलीन् हरन्ति ॥ कौश्स्_4,10{34}.23 ॥]
ततः ऽअर्यम्णेऽ इत्यर्धर्चेन गृहाभ्यन्तरे कोणे बलिहरणं करोति । रात्राविदं कर्म ॥
[आपतन्ति यतः ॥ कौश्स्_4,10{34}.24 ॥]
यतः काक आगच्छति तत आगच्छति वरः । समाप्तानि पतिलाभकर्माणि ॥ दशमी कण्डिका
पुंसवनान्युच्यन्ते -
[पुंसवनानि ॥ कौश्स्_4,11{35}.1 ॥
रजौद्वासायाः पुन्नक्षत्रे ॥ कौश्स्_4,11{35}.2 ॥]
नक्षत्रकल्प उक्तानि पुन्नक्षत्राणि ॥
[येन वेहत् (3.23) इति बाणं मूर्ध्नि विवृहति बध्नाति ॥ कौश्स्_4,11{35}.3 ॥]
ऽयेन वेहत्ऽ इति सूक्तेन बाणमभिमन्त्र्य स्त्रीमूर्ध्नि विवृहति पुण्याहान्ते । ततः श्राद्धं करोति । एवं कर्म । अथवा इदं कर्म करोति । पुंसवनकर्मणि वर्तते । अभ्यातानान्तं कृत्वा ऽयेन वेहत्ऽ इति सूक्तेन शरमणिं सम्पात्याभिमन्त्र्य बध्नाति पुण्याहान्ते । अभ्यातानाद्युत्तरतन्त्रम् ॥
[फालचमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वमिव ॥ कौश्स्_4,11{35}.4 ॥]
ऽयेन वेहत्ऽ इति सूक्तेन फालचमसे सारूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा एकत्र पिष्ट्वाभिमन्त्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नासिकायां नस्तं ददाति । पुत्रार्थं कर्म पुंसवनमित्युच्यते । समाप्तं पुंसवनम् ॥
अथ गर्भाधानमुच्यते -
[पर्वताद्दिवः (5.25) इत्यागमकृशरमाशयति ॥ कौश्स्_4,11{35}.5 ॥
युगतर्द्मना सम्पातवन्तं द्वितीयम् ॥ कौश्स्_4,11{35}.6 ॥]
अभ्यातानान्तं कृत्वा ऽपर्वताद्दिवःऽ इति सूक्तेनागमकृशरं चरुद्वयं श्रपयित्वैकं चरुं सम्पात्याभिमन्त्र्य द्वितीयं चरुं युगछिद्रेण सम्पात्याभिमन्त्र्य ततः प्राशनम् । तत उत्तरतन्त्रम् ॥
[खे लूनांश्च पलाशत्सरून् निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति ॥ कौश्स्_4,11{35}.7 ॥]
केलूनांश्च पलाशत्सरून् निवृत्ते निघृष्य ऽपर्वताद्दिवःऽ इति सूक्तेनाभिमन्त्र्य शिश्ने आधाय । ततो मैथुनं करोति । समाप्तं गर्भाधानम् ॥
पुनःपुंसवनमुच्यते -
[शमीमश्वत्थः (6.11) इति मन्त्रोक्तेऽग्निं मथित्वा पुंस्याः सर्पिषि पैद्वमिव ॥ कौश्स्_4,11{35}.8 ॥]
ऽशमीमश्वत्थःऽ इति सूक्तेनाग्निं मथित्वा ततोऽग्निं सर्पिषि निक्षिप्य घृतमभिमन्त्र्य स्त्र्या दक्षिणनासिकायां नस्तं ददाति दक्षिणेनाङ्गुष्ठेन ॥
[मधुमन्थे पाययति ॥ कौश्स्_4,11{35}.9 ॥]
ततोऽग्निं मथित्वा ततो मधुमन्थेऽग्निं निक्षिप्य ऽशमीमश्वत्थःऽ इति सूक्तेनाभिमन्त्र्य पाययति स्त्रीम् ॥
[कृष्णोर्णाभिः परिवेष्ट्य बध्नाति ॥ कौश्स्_4,11{35}.10 ॥]
ऽशमीमश्वत्थःऽ इति सूक्तेन शमीगर्भाश्वत्थस्याग्निं कृष्णोर्णया वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रे । समाप्तं पुनःपुंसवनम् ॥
अथ गर्भाधानमुच्यते -
[यन्तासि (6.81) इति मन्त्रोक्तं बध्नाति ॥ कौश्स्_4,11{35}.11 ॥]
ऽयन्तासिऽ इति सूक्तेन हस्तावर्तं कङ्कणादिकं सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रे । समाप्तं गर्भाधानम् ॥
अथ गर्भदृंहणान्युच्यन्ते -
[ऋधङ्मन्त्रः (5.1.1) इत्येका यथेयं पृथिवी (6.17) अच्युता इति गर्भदृंहणानि ॥ कौश्स्_4,11{35}.12 ॥
जम्भगृहीताय प्रथमावर्जं ज्यां त्रिरुद्ग्रथ्य बध्नाति ॥ कौश्स्_4,11{35}.13 ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया धनुर्ज्यां त्रिरुद्ग्रथ्य सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रम् । ऽयथेयं पृथिवीऽ इति सूक्तम् । ऽअच्युता द्यौःऽ इति सूक्तम् । द्वाभ्यां धनुर्ज्यां त्रिरुद्ग्रथ्य सम्पात्याभिमन्त्र्य बध्नाति स्त्रियाः । अभ्यातानाद्युत्तरतन्त्रम् ॥
[लोष्टानन्वृचं प्राशयति ॥ कौश्स्_4,11{35}.14 ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया क्षेत्रलोष्टमृत्तिकामभिमन्त्र्य प्राशयति । ऽयथेयं पृथिवीऽ ऽअच्युताऽ इति सूक्ताभ्यां क्षेत्रलोष्टमृत्तिकामभिमन्त्र्य प्राशयति गर्भिणीं प्रत्यृचम् ॥
[श्यामसिकताभिः शयनं परिकिरति ॥ कौश्स्_4,11{35}.15 ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया कृष्णसिकता अभिमन्त्र्य गर्भिण्याः शयनं परिकिरति । ऽयथेयं पृथिवीऽ ऽअच्युताऽ इति सूक्ताभ्यां श्यामसिकता अभिमन्त्र्य प्रत्यृचं गर्भिण्याः शयनं परिकिरति । जम्भगृहीताय प्रथमावर्जम् । समाप्तानि गर्भदृंहणानि ॥
[यामिच्छेद्वीरं जनयेदिति धातर्व्याभिरुदरमभिमन्त्रयते ॥ कौश्स्_4,11{35}.16 ॥]
ऽधाता दधातुऽ (7.17) इति चतसृभिर्गर्भिण्या उदरमभिमन्त्रयते । ब्राह्मणक्षत्रियवैश्यशूद्राणां जात्याधर्मस्वजात्याधर्मबलवीर्यादियुक्ताः पुत्रा भवन्ति । वीरो जायते । वीरकर्म समाप्तम् ॥
अथ प्रजननकर्म -
[प्रजापतिः (7.20) इति प्रजाकामाया उपस्थे जुहोति ॥ कौश्स्_4,11{35}.17 ॥]
ऽप्रजापतिर्जनयतुऽ इति सूक्तेन प्रजाकामायाः स्त्रिय उत्सङ्गे आज्यं जुहोति । प्रजननकर्म ॥
[लोहिताजापिशितान्याशयति ॥ कौश्स्_4,11{35}.18 ॥]
अभ्यातानान्तं कृत्वा ऽप्रजापतिर्जनयतुऽ इत्यृचा रक्तच्छागमांसं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥
[प्रपान्तानि ॥ कौश्स्_4,11{35}.19 ॥]
अभ्यातानान्तं कृत्वा ऽप्रजापतिःऽ इत्यृचोदकुलिजं सम्पातवन्तं कृत्वा गर्भिणीं परिहृत्य मध्ये निनयति । उत्तरतन्त्रम् । तन्त्रे
सुराकुलिजं सम्पात्य स्त्रीं परिहृत्याग्रे निनयति । भक्तं सुरां प्रपां सम्पात्याभिमन्त्र्य प्रजाकामायै प्रयच्छति तन्त्रे । समाप्तं
प्रजाकर्म वन्ध्यायाः ॥
अथ सीमन्तकर्मोच्यते -
[यौ ते माता (8.6) इति मन्त्रोक्तौ बध्नाति ॥ कौश्स्_4,11{35}.20 ॥]
अभ्यातानान्तं कृत्वा ऽयौ ते माताऽ इत्यर्थसूक्तेन श्वेतपीतसर्षपान् सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं सीमन्तोन्नयनम् । समाप्तानि दृंहणानि ॥
अथ स्त्रीवशीकरणमुच्यते -
[यथेदं भूम्या अधि (2.30), यथा वृक्षम् (6.8), वाञ्छ मे (6.9), यथायं वाहः (6.102) इति संस्पृष्टयोर्वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणमाज्येन सन्नीय संस्पृशति ॥ कौश्स्_4,11{35}.21 ॥]
वृक्षत्वक् शरखण्डं तगरमञ्जनं कुष्ठं ज्येष्ठीमधु श्लेष्मवातसंश्रयगततृणमेतानि द्रव्याण्याज्यमध्ये पेषयित्वा ऽयथेदं भूम्याःऽ इति सूक्तेनाभिमन्त्र्य स्त्रिया अङ्गं समालभते । रुच्यर्थम् । ऽयथा वृक्षं लिबुजाऽ ऽवाञ्छ मे तन्वम्ऽ इति सूक्ताभ्यां वृक्षत्वक् तगरमञ्जनं कुष्ठं ज्येष्ठीमधु वातसम्भ्रमतृणान्येतानि द्रव्याण्याज्येनालोड्याभिमन्त्र्य जायां प्रलिम्पति । ऽयथायं वाहःऽ इत्येतानि द्रव्याण्यालोड्य घृतेन ततोऽभिमन्त्र्य जायां प्रलिम्पति । वशीकरणकामः ॥
[उत्तुदस्त्वा (3.25) इत्यङ्गुल्योपनुदति ॥ कौश्स्_4,11{35}.22 ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तं जपित्वा अङ्गुल्या नुदति भार्याम् उदरे पृष्टौ रुच्यर्थी ॥
[एकविंशतिं प्राचीनकण्टकानलङ्कृताननूक्तानादधाति ॥ कौश्स्_4,11{35}.23 ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेनैकविंशति बदरीकण्टकानादधाति । घृतेनाभ्यज्य ॥
[कूदीप्रान्तानि ससूत्राणि ॥ कौश्स्_4,11{35}.24 ॥]
एकविंशतिबदरीप्रान्तानि सूत्रेण वेष्टयित्वा ऽउत्तुदस्त्वाऽ इति सूक्तेन सकृत् जुहोति । रुच्यर्थी ॥
[नवनीतान्वक्तं कुष्ठं त्रिरहनः प्रतपति त्रिरात्रे ॥ कौश्स्_4,11{35}.25 ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेन कुष्ठं नवनीतेनाभ्यज्याग्नौ प्रक्षिपति प्रातर्मध्यन्दिने सायं च । एकरात्रौ वा ॥
[दीर्घोत्पलेऽवगृह्य संविशति ॥ कौश्स्_4,11{35}.26 ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेन खट्वाधोमुखपट्टिकां गृहीत्वा संविशति स्वपिति । त्रिरात्रं कर्म ॥
[उष्णोदकं त्रिपादे पत्तः प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छेते ॥ कौश्स्_4,11{35}.27 ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेनोष्णोदकं त्रिपादे शिक्ये प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छेते । रुच्यर्थी ॥
[प्रतिकृतिमावलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्रयासितालकाण्डया हृदये विध्यति ॥ कौश्स्_4,11{35}.28 ॥]
प्रतिकृतिमावलेखनीं दार्भ्यषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्रयासितालकाण्डया ऽउत्तुदस्त्वाऽ इति सूक्तेन हृदये विध्यति ।
समाप्तानि संवननानि वशीकरणानि । कामविषये स्त्रिया उत्साहो भवति । तथा च यस्य कामो नास्ति तस्य कामोऽतिशयेन कामकरणमित्यर्थः । अनेन कर्मणा कामो भवति ॥ एकादशमी कण्डिका
स्वापनविघ्नशमनम् । स्त्रीस्वापनकर्मोच्यते -
[सहस्रशृङ्गः (4.5) इति स्वापनम् ॥ कौश्स्_4,12{36}.1 ॥
उदपात्रेण सम्पातवता शालां सम्प्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति ॥ कौश्स्_4,12{36}.2 ॥]
अभ्यातानान्तं कृत्वा ऽसहस्रशृङ्गःऽ इति सूक्तेनोदपात्रं सम्पात्य शालां सम्प्रोक्षति । शयनशालां सर्वां प्रोक्षति । अभ्यन्तरद्वारे
शेषमुदकं न्युब्जति । अभ्यातानाद्युत्तरतन्त्रम् । स्वापनकर्म ॥
[एवं नग्नः ॥ कौश्स्_4,12{36}.3 ॥
उलूखलमुत्तरां स्रक्तिं दक्षिणशयनपादं तन्तूनभिमन्त्रयते ॥ कौश्स्_4,12{36}.4 ॥]
ऽसहस्रशृङ्गःऽ इति सूक्तेन नग्नो भूत्वोलूखलमभिमन्त्रयते । ऽसहस्रशृङ्गःऽ इति सूक्तेन गृहस्योत्तरं कोणमभिमन्त्रयते । ऽसहस्रशृङ्गःऽ इति सूक्तेन स्त्रियाः खटवाया दक्षिणं पादमभिमन्त्रयते । ऽसहस्रशृङ्गःऽ इति सूक्तेन खट्वाया रज्जुमभिमन्त्रयते । कर्मणां विकल्पः । स्त्रीस्वापनम् । पुरुषस्य विषये काम उत्पद्यते । कामविषये स्त्रीस्वापनं समाप्तम् । लज्जाप्रच्छादनं न भवतीत्यर्थः । स्वापनं सर्वेषां मानुषाणां निद्राकामानां निद्रा भवति । मैथुनमाचरतो विघ्नं न भवति । अन्तःस्वापनमित्युच्यते । मैथुनान्निद्रेच्छा भवतीत्यर्थः ॥
अथ पलायिन्याः स्त्रियो बन्धनकर्म तन्त्रक्रमेण क्रियते । रज्जुः कल्पते । तद्रज्जुवेष्टनमुच्यते । पलायमानाया निरोधकरणं कर्मोच्यते -
[अस्थाद् द्यौः (6.77) इति निवेष्टनम् ॥ कौश्स्_4,12{36}.5 ॥
आवेष्टनेन वंशाग्रमवबध्य मध्यमायां बध्नाति ॥ कौश्स्_4,12{36}.6 ॥]
ऽअस्थाद् द्यौःऽ इति सूक्तेन द्वितीयेन रज्जुवेष्टनमभिमन्त्र्य वंशाग्रे बद्ध्वा मध्यमस्थूणे बध्नाति ॥
[शयनपादमुत्पले च ॥ कौश्स्_4,12{36}.7 ॥
आकृष्टे च ॥ कौश्स्_4,12{36}.8 ॥
आकर्षेण तिलाञ्जुहोति ॥ कौश्स्_4,12{36}.9 ॥]
ऽअस्थाद् द्यौःऽ इति सूक्तेन शयनपादमभिमन्त्र्योत्पले च बध्नाति । ऽअस्थाद् द्यौःऽ इति सूक्तेनाङ्कुशेन तिलाञ्जुहोति । पलायिन्याः स्त्रिया बन्धनकर्माणि समाप्तानि । निरोधकरणानि ॥
जायापत्योरक्रोधकरणमुच्यते -
[इदं यत्प्रेण्यः (6.89) इति शिरःकर्णमभिमन्त्रयते ॥ कौश्स्_4,12{36}.10 ॥]
ऽइदं यत्प्रेण्यः शिरःऽ इति सूक्तेन स्त्रीशिरःकर्णं चानुमन्त्रयते । पुरुषस्य च ॥
[केशान् धारयति ॥ कौश्स्_4,12{36}.11 ॥]
ऽइदं यत्प्रेण्यः शिरःऽ इति सूक्तेन केशान् धारयति । समाप्तं स्त्रीपुरुषयोरक्रोधकरणम् ॥
सौभाग्यकरणमुच्यते -
[भगेन मा (6.129) न्यस्तिका (6.139) इदं खनामि (7.38) इति सौवर्चलमोषधिवच्छुक्लप्रसूनं शिरस्युपचृत्य ग्रामं प्रविशति ॥ कौश्स्_4,12{36}.12 ॥]
अभ्यातानान्तं कृत्वा ऽभगेन मा शांशपेनऽ इति सूक्तेन शङ्खपुष्पीमूलमोषधिवत् खात्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । ऽभगेन माऽ इति सूक्तेन सौवचलपुष्पमभिमन्त्र्य यस्य सौभाग्यमिच्छति तस्य शिरसि बद्ध्वा स मैथुनं करोति । समाप्तं सौभाग्यकरणम् ॥
सौभाग्यसंवननमुच्यते -
अभ्यातानान्तं कृत्वा ऽन्यस्तिका रुरोहिथऽ इति सूक्तेन सौवर्चलमूलं सम्पात्याभिमन्त्र्य बध्नाति पुष्पं च शिरसि ददाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽइदं खनामिऽ इति सूक्तेन सौवर्चलमूलं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सौवर्चलं सूर्यवेलेति प्रसिद्धा । ऽइदं खनामिऽ इति सूक्तेन सौवर्चलमूलमभिमन्त्र्य बध्नाति । तन्त्रे । शिरसि स्त्रियः । समाप्तं पतिरुचिकरणम् ॥
दुष्टास्त्रीवशीकरणमुच्यते -
[रथजिताम् (6.130-132) इति माषस्मरान् निवपति ॥ कौश्स्_4,12{36}.13 ॥]
ऽरथजिताम्ऽ इति सूक्तैस्त्रिभिर्माषानभिमन्त्र्य स्त्रिया आक्रमेषु वपति । ऽरथजिताम्ऽ इति त्रिभिः सूक्तैश्चणकानभिमन्त्र्य स्त्रिया आक्रमेषु वपति । खट्वास्थाने वा गृहे शयनदेशे वा ॥
[शरभृष्टीरादीप्ताः प्रतिदिशमभ्यस्यत्यर्वाच्या आवलेखन्याः ॥ कौश्स्_4,12{36}.14 ॥]
ऽरथजिताम्ऽ इति त्रिभिः सूक्तैः शरभृष्टीरादीप्ता अभिमन्त्र्य प्रतिदिशमभ्यस्यति । एषु पतिः प्रतिकृतिं कृत्वा ऽरथजिताम्ऽ इति त्रिभिसूक्तैः हृदये विध्यति दार्भ्यूषेण भाङ्गज्येन । समाप्तानि दुष्टस्त्रीवशीकरणानि । पुरुषो वा स्त्रीणां द्वेषं करोति । अनेन कर्मणा शान्तिर्भवति ॥
अथ स्त्रियो वा पुरुषस्य वा दौर्भाग्यकरणमुच्यते -
[भगमस्या वर्चः (1.14) इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशमुलूखलदरणे त्रिशिले निखनति ॥ कौश्स्_4,12{36}.15 ॥]
स्त्रियाः पुष्पमालानिष्प्रमन्ददन्तधावनकेशास्तानेकीकृत्य । ज्वरहतगोचर्मणावेष्ट्य ऽभगमस्याःऽ इति सूक्तेनाभिमन्त्र्योलूखलदरणे त्रिशिले निखनति । तत उलूखले ददाति । दौर्भाग्यकामः । मालानिष्प्रमन्ददन्तधावनकेशास्तानेकीकृत्य ऽभगमस्याःऽ इति सूक्तेनाभिमन्त्र्य । दहनघातिता गौरनुस्तरणीत्युच्यते । ईशानहता ज्वरहतेत्युच्यते । तस्याश्चर्मणावेष्ट्य तत उलूखलदरणे त्रिशिले निखनति । तत उलूखले ददाति उपरि । यस्य दौर्भाग्यं क्रियते तस्यैतानि गृह्णीयात् ॥
[मालामुपमथ्यान्वाह ॥ कौश्स्_4,12{36}.16 ॥]
ऽभगमस्या वर्चःऽ इति सूक्तेन स्त्रीपुष्पमालां हस्तेन मथित्वा स्त्रीं दृष्ट्वान्वाह । जपतीत्यर्थः । दौर्भाग्यकामः ॥
[त्रीणि केशमण्डलानि कृष्णसूत्रेण विग्रथ्य त्रिशिलेऽश्मोत्तराणि व्यत्यासम् ॥ कौश्स्_4,12{36}.17 ॥]
ऽभगमस्या वर्चःऽ इति सूक्तेन त्रीणि केशमण्डलानि कृष्णसूत्रेण वेष्टयित्वाभिमन्त्र्य त्रिशिलेऽश्मोत्तराणि व्यत्यासमश्मानं शालाया उपरि ददाति । व्यत्यासेन निखनति । दौर्भाग्यकामः । समाप्तं दौर्भाग्यकरणम् ॥
दुष्टस्त्री वेश्याकुलटादि । अथ तस्याः सौभाग्यकरणमुच्यते -
[अथास्यै भगमुत्खनति यं ते भगं निचख्नुस्त्रिशिले यं चतुःशिले । इदं तमुत्खनामि प्रजया च धनेन च इति ॥ कौश्स्_4,12{36}.18 ॥]
ऽयं ते भगं निचख्नुःऽ इत्यृचा शिला उत्खनति । उत्पाटयति । ऽभगमस्याःऽ इत्यनेन सूक्तेन यत्कृतं तदनया विनश्यति । समाप्तं यस्या दौर्भाग्यं कृतं तस्याः सौभाग्यकरणम् ॥
अथ सपत्नीजयकर्माण्युच्यन्ते । भर्त्रा सह विद्वेषो भवतीत्यर्थः -
[इमां खनामि (3.18) इति बाणापर्णीं लोहिताजाया द्रप्सेन सन्नीय शयनमनु परिकिरति ॥ कौश्स्_4,12{36}.19 ॥]
ऽइमां खनामिऽ इति सूक्तेन बाणापर्णीं रक्तवर्णाया अजाया दध्युदकेन सन्नीय ततोऽभिमन्त्र्य सपत्नीशयने परिकिरति । सपत्नीविद्वेषणं भर्त्रा सह ॥
[अभि तेऽधाम् (3.18.6) इत्यधस्तात् पलाशमुपचृतति ॥ कौश्स्_4,12{36}.20 ॥]
ऽअभि तेऽधाम्ऽ इति पादेन बाणापर्णीपत्राण्यभिमन्त्र्य शयनाधस्तात् प्रक्षिपति । सपत्नीशयने जयकामः ॥
[उप तेऽधाम् (3.18.6) इत्युपर्युपास्यति ॥ कौश्स्_4,12{36}.21 ॥]
ऽउप तेऽधाम्ऽ इति पादेन बाणापर्णी-ओषधिपत्राण्यभिमन्त्र्य सपत्नीशयन उपरि क्षिपति । बाणापर्णी मासिका लोके प्रसिद्धा । समाप्तानि सपत्नीजयकर्माणि । भर्त्रा सह विद्वेषो भवतीत्यर्थः ॥
अथ स्त्रीविषये काम उत्पन्ने कामविनाशकान्युच्यन्ते -
[कामं विनेष्यमाणोऽपाघेनासङ्ख्याताः शर्कराः परिकिरन् व्रजति ॥ कौश्स्_4,12{36}.22 ॥]
ऽअप नः शोशुचदघम्ऽ (4.33) इति सूक्तेनासङ्ख्याताः शर्करा अभिमन्त्र्य परिकिरन् व्रजति । यस्मिन् देशे काम उत्पन्नः तत्
स्थानं यावत् । स्त्री वा पुरुषो वा ॥
[सम्मृद्नञ्जपति ॥ कौश्स्_4,12{36}.23 ॥]
ऽअप नः शोशुचत्ऽ इति सूक्तेनासङ्ख्याताः शर्करा हस्ते गृहीत्वा परिकिरन् व्रजति । स्त्रीगृहं यावत् कामोत्पत्तिदेशम् ॥
[असम्मृद्नन् ॥ कौश्स्_4,12{36}.24 ॥]
ऽअप नः शोशुचत्ऽ इति सूक्तेनासङ्ख्याताः शर्करा हस्ते गृहीत्वा जपति । कामो विनश्यति । स्त्रीकामं यावत् । स्त्रीणां पुरुषाणां कामविनाशकानि समाप्तानि ॥
स्त्रीविषय ईर्ष्याविनाशकान्युच्यन्ते -
[ईर्ष्याया ध्राजिम् (6.18) जनाद्विश्वजनीनात् (7.45) त्वाष्ट्रेणाहम् (7.74.3) इति प्रतिजापः प्रदानाभिमर्शनानि ॥ कौश्स्_4,12{36}.25 ॥]
ऽईर्ष्याया ध्राजिं प्रथमाम्ऽ इति सूक्तेनेर्ष्यालुं दृष्ट्वा जपति । ईर्ष्या विनश्यति । ऽजनाद्विश्वजनीनात्ऽ इति द्व्यृचमीर्ष्यालुं दृष्ट्वा जपति । ऽत्वाष्ट्रेणाहम्ऽ इत्यृचेर्ष्यालुं दृष्ट्वा जपति । ईर्ष्या विनश्यति । ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तेन सक्तुमन्थमभिमन्त्र्येर्ष्यालुकाय ददाति । ईर्ष्याविनाशकामः । ऽजनाद्विश्वजनीनात्ऽ इत्यृचा मन्थमभिमन्त्र्येर्ष्यालुकाय ददाति भक्षणार्थम् । ऽत्वाष्ट्रेणाहम्ऽ इत्यृचा मन्थमभिमन्त्र्येर्ष्यालुकाय ददाति । ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तमीर्ष्यालुं स्पृष्ट्वा जपति । ऽजनाद्विश्वजनीनात्ऽ इत्यृचेर्ष्यालुं स्पृष्ट्वा जपति । ऽत्वाष्ट्रेणाहम्ऽ इत्यृचेर्ष्यालुं स्पृष्ट्वा जपति ॥
[प्रथमेन वक्षणासु मन्त्रोक्तम् ॥ कौश्स्_4,12{36}.26 ॥]
ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तेन कटिप्रदेशे वक्षणे खल्वामभिमन्त्र्य धमति । ईर्ष्याविनाशनम् ॥
[अग्नेरिव (7.45.2) इति परशुफाण्टम् ॥ कौश्स्_4,12{36}.27 ॥]
ऽअग्नेरिवऽ इत्यृचा परशुना तप्तेन क्वाथितमुदकमभिमन्त्र्य पाययति । समाप्तानीर्ष्याविनाशकानि । स्त्रीविषये ॥
अथ मन्युविनाशकान्युच्यन्ते स्त्रीविषये पुरुषस्य -
[अव ज्यामिव (6.42) इति दृष्ट्वाश्मानमादत्ते ॥ कौश्स्_4,12{36}.28 ॥]
ऽअव ज्यामिवऽ इति सूक्तेन मन्युमन्तं पुरुषं दृष्ट्वाश्मानमभिमन्त्र्य हस्तेन गृह्णाति । सर्वत्र कर्ता कर्म करोति ॥
[द्वितीययाभिनिदधाति ॥ कौश्स्_4,12{36}.29 ॥]
ऽसखायाविव सचावहैऽ (6.42.2) इत्येकां जपित्वाश्मानं भूमौ निदधाति ॥
[तृतीययाभिनिष्ठीवति ॥ कौश्स्_4,12{36}.30 ॥]
ऽअभि तिष्ठामि ते मन्युम्ऽ (6.42.3) इत्येकां जपित्वाश्मनोपरि निष्ठीवति ॥
[छायायां सज्यं करोति ॥ कौश्स्_4,12{36}.31 ॥]
ऽअव ज्यामिवऽ इति सूक्तेन मन्युमतः पुरुषस्य छायायां धनुरभिमन्त्र्य सज्यं करोति । चटापयतीत्यर्थः । स्त्रीविषये पुरुषस्य
मन्युर्भवति । पुरुषविषये स्त्रीणां वा । समाप्तानि स्त्रीविषये मन्युविनाशकानि ॥
अथ सर्वविषये मन्युविनाशकान्युच्यन्ते -
[अयं दर्भः (6.43) इत्योषधिवत् ॥ कौश्स्_4,12{36}.32 ॥]
तन्त्रं कृत्वा ऽअयं दर्भःऽ इति सूक्तेन दर्भमूलमोषधिवत् खात्वा सम्पात्याभिमन्त्र्य बध्नाति मन्युके । तत उत्तरतन्त्रम् । मन्युविनाशम् । स्त्रीविषये मन्युविनाशो भवति । समाप्तानि स्त्रीमन्युविनाशकानि ॥
अवीरजननमुच्यते । अपुत्रजननमित्यर्थः -
[अग्ने जातान् (7.34) इति न वीरं जनयेत् प्रान्यान् (7.35) इति न विजायेतेत्यश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्य भक्तेऽलङ्कारे ॥ कौश्स्_4,12{36}.33 ॥
सीमन्तमन्वीक्षते ॥ कौश्स्_4,12{36}.34 ॥]
ऽअग्ने जातान्ऽ इत्यचाश्वतरीमूत्रेण पाषाणं निघृष्य ततोऽभिमन्त्र्य भक्तेन सह ददाति विद्वेषिण्य परस्त्र्यै । ऽअग्ने जातान्ऽ इत्यृचाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्यालङ्कारं समालभते परस्त्र्यै विद्वेषिण्यै । ऽअग्ने जातान्ऽ इत्यृचा सीमन्तमन्वीक्षते परस्त्र्यै । दुहिता वा पुरुषो वेति । कृष्णो वा जायते । समाप्तान्यवीरजननानि ॥
अथ वन्ध्याकरणमुच्यते -
ऽप्रान्यान्त्सपत्नान्ऽ इति तृचेनाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्य भक्ते ददाति । तद्भक्तं परस्त्र्यै विद्वेषिण्यै ददाति भोजनार्थम् । ऽप्रान्यान्त्सपत्नान्ऽ इति तृचेनाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्य तस्यालङ्कारा;म्ल्लेपयति । ऽप्रान्यान्ऽ इति तृचेन सीमन्तमन्वीक्षते विद्वेषिण्यै । समाप्तानि परस्त्रीवन्ध्याकरणानि ॥
जारोच्चाटनमुच्यते -
[अपि वृश्च (7.90) इति जायायै जारमन्वाह ॥ कौश्स्_4,12{36}.35 ॥]
ऽअपि वृश्चऽ इति सूक्तं तृचं जारं दृष्ट्वा जपति ॥
[क्लीबपदे बाधकं धनुर्वृश्चति ॥ कौश्स्_4,12{36}.36 ॥]
ऽअपि वृश्चऽ इति सूक्तेन जारपदस्थाने बाधकं धनुर्वृश्चति ॥
[आशयेऽश्मानं प्रहरति ॥ कौश्स्_4,12{36}.37 ॥]
ऽअपि वृश्चऽ इति तृचेन सूक्तेन पाषाणमभिमन्त्र्य जारमैथुनस्थाने प्रक्षिपत्युच्चाटनार्थम् । समाप्तं जारोच्चाटनम् ॥
पुरुषस्य स्त्रियाः परस्परविद्वेषकरणान्युच्यन्ते -
[तृष्टिकः (7.133) इति बाणापर्णीम् ॥ कौश्स्_4,12{36}.38 ॥]
ऽतृष्टिकःऽ इति द्व्यर्चेन सूक्तेन बाणापर्णीं लोहिताजाया द्रप्सेन सन्नीयाभिमन्त्र्य शयनमनु परिकिरति । पुरुषस्त्रीशयने च । समाप्तं विद्वेषणकरणं स्त्रीपुरुषस्योभयरुचिविनाशकरणम् ॥
अथ दौर्भाग्यकरणमुच्यते -
[आ ते ददे (7.114.1) इति मन्त्रोक्तानि संस्पृशति ॥ कौश्स्_4,12{36}.39 ॥
अपि चान्वाहापि चान्वाह ॥ कौश्स्_4,12{36}.40 ॥]
ऽआ ते ददेऽ इत्येका । हृदयं मुखं वाभिमन्त्रयते परस्त्र्यै । ऽआ ते ददेऽ इत्येकां जपित्वान्वाह । दौर्भाग्यकरणं स्त्रियो वा पुरुषस्य वा । समाप्तानि स्त्रीकर्मकरणानि । तत्र भद्रश्लोकः -
भैषज्यकर्माणि प्रोक्तानि सर्वव्याध्युपशान्तये.
स्त्रीकर्माणि ततः पश्चाच्चतुर्थे संहिताविधौ ॥
द्वादशमी कण्डिका
इति कौशिके संहिताविधौ चतुर्थोऽध्यायः समाप्तः ॥
॥ चतुर्थोऽध्यायः समाप्तः ॥
अथ पञ्चमोऽध्यायः
[विज्ञानकर्माणि]
अथ विज्ञानकर्मणां विधिं वक्ष्यामः । लाभालाभजयपराजयसुखदुःखोत्कर्षापकर्षसुभिक्षदुर्भिक्षक्षेमाक्षेमभयाभयरोगारोग- त्रासोऽस्तीति न वेति । धनाधनधर्माधर्मजीवाजीवमरणामरणधान्यं भविष्यति न वेति । क्षेत्रे भविष्यति न वेति । गृहे वासो भविष्यति नेति । धान्यपुत्रपशुहिरण्यरत्नवस्त्राणि च । विद्याशास्त्रादिलाभो भविष्यति न वा । जीवितमरणे गमनागमने बलाबले सदसद्योगाद् । व्याधितस्य जीवितमरणाभ्याम् । प्रसवे पुत्रयोगात् । पुत्रे जाते धर्मसंयोगात् । मित्रामित्रसंयोगात् । ग्रामोऽस्ति वा न वेति । पुरुषस्य विवाहोऽस्ति वा न वेति । संवत्सरे मासे वा भविष्यति । सुभगा दुर्भगा वा । गृहं ग्रामादि भविष्यति न वा । अध्ययनं भवति न वेति । इत्यादि मनसा वाचा वा सञ्चित्य तत्कर्म कुर्यात् ॥
अथ विधानमुच्यते विज्ञानकर्मणाम् -
[अम्बयो यन्ति (1.4) इति क्षीरौदनोत्कुचस्तम्बपाटाविज्ञानानि ॥ कौश्स्_5,1{37}.1 ॥]
ऽअम्बयो यन्तिऽ इति सूक्तेन राध्यमानं क्षीरौदनमभिमन्त्र्य तत आसिञ्चेत् । मनसा चिन्तयेद्वाता चिन्तयेत् । ओदनं शृतं भवेदशृतं वा भवेत् । यदि यथाचिन्तितं भवति यदा तस्य कार्यसिद्धिर्भविष्यति जानीयात् । अथाशंसितं भवति न कार्यसिद्धिर्भविष्यतीति विद्यात् । अभिमन्त्र्याशंसेत् । यदि पाकश्चिन्तितस्तदा पाकेनार्थसिद्धिः । ऽअम्बयो यन्तिऽ इति सूक्तेनेध्ममुपसमाधायाभिमन्त्र्यायाचेत् । उत्कुचनेनार्थः । ऽअम्बयो यन्तिऽ इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । यत्र समविषमभावेनार्थसिद्धिः । ऽअम्बयो यन्तिऽ इति सूक्तेन पूर्वेद्युः पाठामभिमन्त्र्यायाचेत् । पत्राणां सङ्कोचेनार्थसिद्धिः ॥
[साङ्ग्रामिकं वेदिविज्ञानम् ॥ कौश्स्_5,1{37}.2 ॥]
ऽअम्बयो यन्तिऽ इति सूक्तेन सङ्ग्रामे पूर्वेद्युर्वेदिं कृत्वाभिमन्त्र्यायाचेत् । द्वितीयेऽहनि समविषमेन भावेन सिद्धिः । ऽअम्बयो यन्तिऽ इति सूक्तेन व्यासकष्टादयोऽभिमन्त्र्य कर्तव्यानि । भोगे केवल्यादि लौकिकान्युपश्रुतये व्यासाष्टका व्यासः कष्टादयः । अन्यानि ज्योतिःशास्त्रपठितानि सर्वाणि विज्ञानानि शास्त्राण्यभिमन्त्र्य कर्तव्यानि ॥
[वेनस्तत् (2.1) इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुगेध्माक्षेषु पाण्योरेकविंशत्यां शर्करास्वीक्षते ॥ कौश्स्_5,1{37}.3 ॥]
ऽवेनस्तत्ऽ इति सूक्तेन पञ्चग्रन्थिवेणुदण्डमभिमन्त्र्यायाच्य समे धारयत्यभीष्टदिशि पतनेनार्थसिद्धिः । ऽवेनस्तत्ऽ इति सूक्तेनेषुं सन्धायाभिमन्त्र्यायाचेत् । चिन्तितप्रक्षेपणेनार्थम् । ऽवेनस्तत्ऽ इति सूक्तेन कुम्भ उदकपूर्णं दुग्धं प्रक्षिप्यायाचेत् । ऊनाधिकेनार्थसिद्धिः । यथाचिन्तितं तथा सिद्धिः । ऽवेनस्तत्ऽ इति सूक्तेन कमण्डलुमुदकपूर्णं दुग्धमाक्षिप्याभिमन्त्र्यायाचेत् । ऊनाधिकेनार्थसिद्धिः । ऽवेनस्तत्ऽ इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । स्त्यायनेनार्थसिद्धिः । ऽवेनस्तत्ऽ इति सूक्तेन काम्पीलशाखां मूर्ध्ना धारयित्वाभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः । ऽवेनस्तत्ऽ इति सूक्तेन युगमभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः । ऽवेनस्तत्ऽ इति सूक्तेनेध्मन्यभिमन्त्र्यायाचेत् । अग्नौ प्रक्षिपेत । प्रदक्षिणज्वलनेनार्थः । ऽवेनस्तत्ऽ इत्यक्षावभिमन्त्र्य पातयति । अभियातनेनार्थः । ऽवेनस्तत्ऽ इति सूक्तेन हस्तयोरङ्गुलिद्वयमभिमन्त्र्यायाचेत् । अज्ञाने स्पर्शनेनार्थः । ऽवेनस्तत्ऽ इति सूक्तेनैकविंशत्या शर्करा अभिमन्त्र्यायाचेत् । समविषमभावेन यथावतार्थः ॥
अथ नष्टद्रव्ये परीक्षणे क्रियमाणे च इदं कर्म -
[कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते सम्पातानतिनयति ॥ कौश्स्_5,1{37}.4 ॥
अनतीकाशमवच्छाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् ॥ कौश्स्_5,1{37}.5 ॥]
अभ्यातानान्तं कृत्वा कुम्भमहतेन परिवेष्ट्याधाय शयने ऽवेनस्तत्ऽ इति सूक्तेन कुम्भे सम्पातानानयति । अरजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् । अभ्यातानाद्युत्तरतन्त्रम् ॥
[एवं सीरे साक्षे ॥ कौश्स्_5,1{37}.6 ॥]
तन्त्रं कृत्वा ऽवेनस्तत्ऽ इति सूक्तेनाहतेन वस्त्रेण वेष्टितं हलं सम्पात्याभिमन्त्र्य येन हरेतां ततो नष्टम् । तत
उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽवेनस्तत्ऽ इति सूक्तेनाक्षान् कुम्भवत् कृत्वा सम्पात्य येन हरेतां ततो नष्टम् । तत उत्तरतन्त्रम् । समाप्तं नष्टद्रव्ये परीक्षणे विज्ञानम् ॥
अथ कुमारीविज्ञानमुच्यते -
[लोष्टानां कुमारीमाह यमिच्छसि तमादत्स्व इति ॥ कौश्स्_5,1{37}.7 ॥
आकृतिलोष्टवल्मीकौ कल्याणम् ॥ कौश्स्_5,1{37}.8 ॥
चतुष्पथाद्बहुचारिणी ॥ कौश्स्_5,1{37}.9 ॥
श्मशानान्न चिरं जीवति ॥ कौश्स्_5,1{37}.10 ॥
उदकाञ्जलिं निनय इत्याह ॥ कौश्स्_5,1{37}.11 ॥
प्राचीनमपक्षिपन्त्यां कल्याणम् ॥ कौश्स्_5,1{37}.12 ॥]
आकृतिलोष्टवल्मीकलोष्टचतुष्पथलोष्टश्मशानमृत्तिकाः । ऽवेनस्तत्ऽ इति सूक्तेनाभिमन्त्र्य चतस्रो मृत्तिकाः । ततः कुमारीं प्रेष्यति । तां मृत्तिकास्पर्शनम् । ऽवेनस्तत्ऽ इति सूक्तेन कुमारीमुदकाञ्जलिं पूरयित्वाभिमन्त्र्याजानत्यै ऽनिनयऽइति । यदि प्राचीं निनयति तदा कल्याणम् । आकृतिलोष्टवल्मीक आलभते कल्याणम् । चतुष्पथे स्पर्शे बहुचारिणी । श्मशाने स्पर्शेऽचिरं भविष्यतीति जानीयात् । समाप्तं कुमारीविवाहकाले ज्ञानम् । गृहपुत्रधनधान्यादिसर्वकल्याणम् । समाप्तानि विज्ञानानि । सर्वत्र कर्मणां विकल्पः ॥ पञ्चमेऽध्याये प्रथमा कण्डिका
[नैमित्तिकानि]
अथ नैमित्तिकान्युच्यन्ते -
[जरायुजः (1.12) इति दुर्दिनमायन् प्रत्युत्तिष्ठति ॥ कौश्स्_5,2{38}.1 ॥]
ऽजरायुजःऽ इति सूक्तेन दुर्दिनमभिमुखमुपतिष्ठते । सर्वत्र दुर्दिनविनाशकानि ॥
[अन्वृचमुदवज्रैः ॥ कौश्स्_5,2{38}.2 ॥]
ऽजरायुजःऽ इति सूक्तेन प्रत्यृचमुदकं प्रक्षिपति ॥
[अस्युल्मुककिष्कुरूनादाय ॥ कौश्स्_5,2{38}.3 ॥]
ऽजरायुजःऽ इति सूक्तेन खङ्गं गृहीत्वोपतिष्ठतेऽभिमुखम् । ऽजरायुजःऽ इति सूक्तेनोल्मुकं गृहीत्वोपतिष्ठते सूर्यस्याभिमुखः । ऽजरायुजःऽ इति सूक्तेन लकुटं गृहीत्वोपतिष्ठते ॥
[नग्नो ललाटमुन्मृजानः ॥ कौश्स्_5,2{38}.4 ॥]
ऽजरायुजःऽ इति सूक्तेन नग्नो ललाटमुन्मृजानः अर्कमुखो भूत्वोपतिष्ठते ॥
[उत्साद्य बाह्यतोऽङ्गारकपाले शिग्रुशर्करा जुहोति ॥ कौश्स्_5,2{38}.5 ॥]
ऽजरायुजःऽ इति सूक्तेनाभ्यन्तरे प्रविश्याङ्गान्युद्वर्त्य बहिर्निष्क्रम्याङ्गारकपालेऽग्निं कृत्वा शिग्रुं जुहोति । ऽजरायुजःऽ इति सूक्तेन कपालेऽग्निं कृत्वा शर्करां जुहोति ॥
[केरार्कावादधाति ॥ कौश्स्_5,2{38}.6 ॥]
ऽजरायुजःऽ इति सूक्तेन पटेरकसमिध आदधाति स्थण्डिले । अभ्यन्तरे प्रविश्य तत उद्वर्त्य ततो होमः । दुर्दिनस्य विनाशकामः । दुर्दिनमम्भादि पांशुवृष्ट्यादि । ऽजरायुजःऽ इति सूक्तेनार्कसमिध आदधाति । समाप्तानि दुर्दिनकर्माणि । सर्वत्र कर्मणां विकल्पः ॥
वृष्टिनिवारणं वक्ष्यामः -
[वर्षपरीतः प्रतिलोमकर्षितस्त्रिः परिक्रम्य खदायामर्कं क्षिप्रं संवपति ॥ कौश्स्_5,2{38}.7 ॥]
ऽजरायुजःऽ इति सूक्तेन खदां खात्वा खदां त्रिष्परिक्रम्यार्कं निर्लुचितं कृत्वा खदायां प्रक्षिपति सूक्तान्तेन । ततः पांशुना खदां पूरयति । नाग्निम् । वृष्टिनिवारणं समाप्तम् ॥
अशनिनिवारणं वक्ष्यामः -
[नमस्ते अस्तु (1.13) यस्ते पृथु स्तनयित्नुः (7.11) इत्यशनियुक्तमपादाय ॥ कौश्स्_5,2{38}.8 ॥]
ऽनमस्ते अस्तु विद्युतेऽ इत्यशन्यभिमुखमुपतिष्ठते । ऽयस्ते पृथु स्तनयित्नुःऽ इत्यृचाशन्यभिमुखमुपतिष्ठते । ऽनमस्ते अस्तु विद्युतेऽ इति सूक्तेन खङ्गं गृहीत्वोपतिष्ठते । ऽनमस्ते अस्तुऽ इति सूक्तेन दण्डं गृहीत्वोपतिष्ठते ॥
[प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरस्युर्वरामध्ये निखनति ॥ कौश्स्_5,2{38}.9 ॥]
ऽनमस्ते अस्तुऽ इति सूक्तेन सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रमेतानि द्रव्याणि भूर्जे कृत्वा मन्थशिरसि कृत्वाभिमन्त्र्य क्षेत्रमध्ये निखनति । एतत्कर्म क्षेत्रे । अशनिनिवारणम् ॥
"अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः.
स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥"
समाप्तान्यशनिनिवारणानि ॥
दधिनवे नाश्नात्या संहरणात् ॥ कौश्स्_5,2{38}.10 ॥
अवदीर्यमाणे ग्रामे वावसाने वाग्निशरणे वा समज्यायां वा गृहे वा प्राकारे वा यान्यवातरक्षार्थं कर्म वक्ष्यामः -
[आशापालीयं तृतीयावर्जं दृंहणानि ॥ कौश्स्_5,2{38}.11 ॥
भौमस्य दृतिकर्माणि ॥ कौश्स्_5,2{38}.12 ॥
पुरोडाशानश्मोत्तरानन्तःस्रक्तिषु निदधाति ॥ कौश्स्_5,2{38}.13 ॥]
अभ्यातानान्तं कृत्वा ऽआशानामाशापालेभ्यःऽ (1.31) इति सूक्तेन ऽअस्रामस्त्वाऽ (1.31.3) इत्यृचं वर्जयित्वा चतुःपुरोडाशान् सम्पात्य गृहकोणेषु निखनति । पाषाणमुपरि दधाति । चतुः सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् ॥
[उभयान् सम्पातवतः ॥ कौश्स्_5,2{38}.14 ॥]
अभ्यातानान्तं कृत्वा ऽआशानामाशापालेभ्यःऽ इति तृतीयावर्जेन सूक्तेन पुरोडाशानश्मनश्चोभयान् सम्पातवतः करोति । सूक्तस्याष्टावावृत्तिः ॥
[सभाभागधानेषु च ॥ कौश्स्_5,2{38}.15 ॥]
ग्रामकोणेषु चतुर्षु निखनति । अभ्यातानाद्युत्तरतन्त्रम् । ऽआशानामाशापालेभ्यःऽ इति सूक्तं तृतीयाऋग्वर्जं जपति । रात्रावग्निशरणमुपतिष्ठति । समाप्तान्यवदीरणे रक्षाकर्माणि ॥
पत्तने रक्षार्थान्युच्यन्ते -
[असन्तापे ज्योतिरायतनस्यैकतोऽन्यं शयानो भौमं जपति ॥ कौश्स्_5,2{38}.16 ॥]
अभ्यातानान्तं कृत्वा ऽसत्यं बृहत्ऽ (12.1) इत्यनुवाकेन पुरोडाशान् सम्पात्याश्मोत्तरान् कृत्वा निखनति ग्रामस्य कोणेषु । चतुः सूक्तावृत्तिः । अभ्यातानान्तं कृत्वा ऽसत्यं बृहत्ऽ इत्यनुवाकेन पुरोडाशानश्मनश्च सम्पात्य गृहकोणेषु निखनति । अष्टावावृत्तिः । पतने रक्षा । तत उत्तरतन्त्रम् । ऽसत्यं बृहत्ऽ इत्यनुवाकं जपति शयानोऽग्निशरण उपविष्टः सन् । समाप्तानि दृढकर्माणि ।
सर्वत्र कर्मणां विकल्पः । गृहपतने ग्रामपतने कार्याणि दृढकरणेऽवदीरणरक्षार्थम् ॥
अथ विवादे जयकर्मणां विधिं वक्ष्यामः -
[इयं वीरुत् (1.34) इति मदुघं खादन्नपराजितात् परिषदमाव्रजति ॥ कौश्स्_5,2{38}.17 ॥]
ऽइयं वीरुत्ऽ इति सूक्तेन ज्येष्ठीमधुमभिमन्त्र्य भक्षयति । ततः सभां प्रविशति । अपराजिताद्देशात् । पर्षदं सभा । जयकर्म समाप्तम् ॥
विवादे जयकर्माण्युच्यन्ते -
[नेच्छत्रुः (2.27) इति पाटामूलं प्रतिप्राशितम् ॥ कौश्स्_5,2{38}.18 ॥]
ऽनेच्छत्रुःऽ इति पाटामूलमभिमन्त्र्य मुखे प्रक्षिप्य खादन्नपराजिताद् देशादागच्छति ॥
[अन्वाह ॥ कौश्स्_5,2{38}.19 ॥]
ऽनेच्छत्रुःऽ इति सूक्तेन पाटामूलं मुखे प्रक्षिप्यान्वाह ॥
[बध्नाति ॥ कौश्स्_5,2{38}.20 ॥]
आज्यतन्त्रं कृत्वा ऽनेच्छत्रुःऽ इति सूक्तेन पाटामूलं सम्पात्याभिमन्त्र्य बध्नाति । जयार्थम् ॥
[मालां सप्तपलाशीं धारयति ॥ कौश्स्_5,2{38}.21 ॥]
ऽनेच्छत्रुःऽ इति सूक्तेन पाटापुष्पमालामभिमन्त्र्य शिरसि धारयति केचिज्जात्यादिगन्धपुष्पाणि । ऽनेच्छत्रुःऽ इति सूक्तेन पाटापलाशीं सप्तपलाशीं सप्तपर्णीमालामभिमन्त्र्य धारयति । विवादे जयकर्मार्थम् ॥
परिषदि निवारणं कर्मोच्यते -
[ये भक्षयन्तः (2.35) इति परिषद्येकभक्तमन्वीक्षमाणो भुङ्क्ते ॥ कौश्स्_5,2{38}.22 ॥]
ऽये भक्षयन्तःऽ इति सूक्तेन भक्तमभिमन्त्र्य भक्तं शाकादि च ततो भुञ्जति । परिषदि निवारणं समाप्तम् ॥
[ब्रह्म जज्ञानम् (4.1) इत्यध्यायानुपाकरिष्यन्नभिव्याहारयति ॥ कौश्स्_5,2{38}.23 ॥]
ऽब्रह्म जज्ञानम्ऽ इति प्रथमेन काण्डादिना सूक्तेन वेदं वा अनुवाकं वा सूक्तं वा कल्पं वा ब्राह्मणं वाऽध्ययनं कर्तुमिच्छति तदा तदा सूक्तं जपित्वा ततोऽध्ययनं कुर्यात् । कलहशमनं समाप्तम् ॥
[प्राशमाख्यास्यन् ॥ कौश्स्_5,2{38}.24 ॥]
ऽब्रह्म जज्ञानम्ऽ इति सूक्तं जपति विवादे जयार्थम् ॥
[ब्रह्मोद्यं वदिष्यन् ॥ कौश्स्_5,2{38}.25 ॥]
ऽब्रह्म जज्ञानम्ऽ इति सूक्तं जपित्वा मीमांसाव्याकरणादिशास्त्रवादं करोति । तदा जपित्वा करोति । प्रतिवादिनं जयति ॥
विभागकर्मोच्यते -
[ममाग्ने वर्चः (5.3) इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति ॥ कौश्स्_5,2{38}.26 ॥]
ऽममाग्ने वर्चो विहवेषुऽ इति सूक्तेन चाक्रिकस्य रज्जुमभिमन्त्र्य धारयति हस्तेन । कलहो न भवति । इति विवादकर्तुर्वदने कलहो न भवति ॥
सभाजयकर्माण्युच्यन्ते -
[सभा च मा (7.12) इति भक्षयति ॥ कौश्स्_5,2{38}.27 ॥]
सभास्तम्भनं कर्म जयकर्म । तदा सभासदधर्माधिकरणादि जीयते । आज्यतन्त्रं कृत्वा ऽसभा च मा समितिःऽ इति पञ्चर्चेन सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽसभा च माऽ इति पुरोडाशं सम्पात्याभिमन्त्र्य
भक्षयति । तत उत्तरतन्त्रम् । ऽसभा च माऽ इति पञ्चर्चेन रसान् सम्पात्याभिमन्त्र्य भक्षयति आज्यतन्त्रे ॥
[स्थूणे गृह्णात्युपतिष्ठते ॥ कौश्स्_5,2{38}.28 ॥]
ऽसभा च माऽ इति पञ्चर्चं सूक्तं जपित्वा स्थूणां गृह्णाति । ऽसभा च माऽ इति सभामुपतिष्ठते । धर्माधिकरणमपि जीयते । सभास्तम्भनम् ॥
[यद्वदामि (12.1.58) इति मन्त्रोक्तम् ॥ कौश्स्_5,2{38}.29 ॥]
ऽयद्वदामिऽ इत्यृचं जपित्वा सभां वदेत् । ऽयद्वदामिऽ इत्यृचं जपित्वा सभां निरीक्षते । ऽयद्वदामिऽ इत्यृचं जपित्वान्वाह । यद्वदति तत् तथैव वदति यच्चक्षुषा पश्यति तद्वदन् । विघातो न भवति ॥
[अहमस्मि (12.1.54) इत्यपराजितात् परिषदमाव्रजति ॥ कौश्स्_5,2{38}.30 ॥]
ऽअहमस्मि सहमानःऽ इत्यृचं जपित्वाऽपराजितात् पर्षदमाव्रजति जयकामः । समाप्तानि विवादजयकर्माणि । प्रतिवादी जीयते । सर्वत्र कर्मणां विकल्पः ॥ पञ्चमेऽध्याये द्वितीया कण्डिका
[दूष्या दूषिरसि (2.11) इति स्राक्त्यं बध्नाति ॥ कौश्स्_5,3{39}.1 ॥]
अभ्यातानान्तं कृत्वा ऽदूष्या दूषिरसिऽ इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आत्मरक्षार्थो मणिः । अभिचारदोषान्मुच्यते । सर्वत्रान्वारब्धायाभिमन्त्रणहोमाः । प्रत्यभिचरणार्थी च मणिं बध्नाति । स्त्रीकृते शूद्रकृते राजकृते ब्राह्मणकृते कपालिककृते शाकिनीकृतेऽन्त्यजादिकृतेऽन्येषां वा दुःसिद्धिः । अयं रक्षार्थो मणिः । मणिना रक्षा भवति । अभिचाररक्षामणिः ॥
अथ कृत्याप्रतिहरणमुच्यते । अभ्यातानान्तं कृत्वा ऽदूष्या दूषिरसिऽ इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आत्मरक्षार्थो मणिः ॥
[पुरस्तादग्नेः पिशङ्गं गां कारयति ॥ कौश्स्_5,3{39}.2 ॥
पश्चादग्नेर्लोहिताजम् ॥ कौश्स्_5,3{39}.3 ॥
यूषपिशितार्थम् ॥ कौश्स्_5,3{39}.4 ॥]
कारयितुः शान्त्युदकं करोति । पुरस्तादग्नेः पिशङ्गं गां धारयित्वा पश्चादग्नेर्लोहिताजं धारयित्वा ततः शान्त्युदकं करोति । महाशान्त्युदकं करोति ॥
[मन्त्रोक्ताः ॥ कौश्स्_5,3{39}.5 ॥
वाशाकाम्पीलसितीवारसदम्पुष्पा अवधाय ॥ कौश्स्_5,3{39}.6 ॥]
मन्त्रोक्ताः चित्त्याद्योषधीरानयति । दर्भा अपामार्गा सहदेवी आटरूषकः काम्पीलं सितीवारसदम्पुष्पा एता मन्त्रोक्ताः भाजन आनयति शान्तिगणेन ॥
[दूष्या दूषिरसि (2.11), ये पुरस्तात् (4.40), ईशानां त्वा (4.17), समं ज्योतिः (4.18), उतो अस्य बन्धुः (4.19), सुपर्णस्त्वा (5.14), यां ते चक्रुः (5.31), अयं प्रतिसरः (8.5), यां कल्पयन्ति (10.1) इति महाशान्तिमावपते ॥ कौश्स्_5,3{39}.7 ॥]
यन्मातलीवर्जं कृत्यादूषणगणम् । ऽदूष्या दूषिरसिऽ सूक्तं, ऽये पुरस्तात्ऽ इति सूक्तम्, ऽईशानां त्वाऽ त्रीणि सूक्तानि, ऽसुपर्णस्त्वाऽ सूक्तं, ऽयां ते चक्रुःऽ सूक्तम्, ऽअयं प्रतिसरःऽ अर्थसूक्तं, ऽयां कल्पयन्तिऽ इत्यर्थसूक्तम् कृत्याप्रतिहरगणः । ततो वास्तोष्पत्यः, मातृनामा, चातन, बृहच्छान्तिगण एते पञ्च गणाः शान्त्युदक आवाप्यन्ते । ततो मातलीं कृत्वा ऽसर्वा इमाःऽ इत्यादि करोति ॥
[निश्यवमुच्योष्णीष्यग्रतः प्रोक्षन् व्रजति ॥ कौश्स्_5,3{39}.8 ॥
यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुसीमेऽहं वामाभूः इति ॥ कौश्स्_5,3{39}.9 ॥]
तेन शान्त्युदकेन प्रोक्षन् व्रजति कृत्यानिखननस्थानं च । अतो रात्रविदं कर्म क्रियते । उपानहौ परिधायोष्णीषं कृत्वाऽग्रे भूत्वा कर्ता शान्त्युदकेन प्रोक्षति । ऽयतायै शान्तायैऽ इत्यनेन मन्त्रेण कृत्यास्थानं यावत् । वालागमपात्रेषु कृत्यादिषु च सर्वेष्विदं कर्म भवति ॥
[अभावादपविध्याति ॥ कौश्स्_5,3{39}.10 ॥
कृत्ययामित्रचक्षुषा समीक्षन् कृतव्यधनि (5.14.9) इत्यवलिप्तं कृत्यया विध्यति ॥ कौश्स्_5,3{39}.11 ॥
उक्तावलेखनीम् ॥ कौश्स्_5,3{39}.12 ॥]
अमित्रचक्षुः । यदि कृत्या दुष्टा भवति तदा वक्ष्यमाणं कर्म करोति । अथ न भवति तदा न कुर्यात् । एवं वालागमपात्रेषु
कृत्यादिषु च सर्वेषु इदं कर्म भवति अमित्रचक्षुषा इति । अनेन मन्त्रेण कृत्यां निरीक्षते । कारयिता निरीक्षते । ऽकृतव्यधनिऽ इत्यृचा कृत्यामवलेपनं करोति । ऽकृतव्यधनिऽ इत्यृचा कर्ता काण्डेन विध्यति । आङ्गिरसकल्पविधानात् । धनुषाथवा दार्भ्यूषेण कार्योत्पन्नेन विध्यविधिना काण्डेन विध्यति ॥
[दूष्या दूषिरसि (2.11) इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति ॥ कौश्स्_5,3{39}.13 ॥]
ऽदूष्या दूषिरसिऽ इत्यृचा दर्व्या त्रिः सारूपवत्सस्य विनोदकेन मन्थेन गुल्फान् परिषिञ्चति । सकृन्मन्त्रः ॥
[शकलेनावसिच्य यूषपिशितान्याशयति ॥ कौश्स्_5,3{39}.14 ॥]
मथितं शकलेनावसिच्य तां यूषपिशितान्याशयति ॥
[यष्टिभिश्चर्म पिनह्य प्रैषकृत् परिक्रम्य बन्धान्मुञ्चति सन्दंशेन ॥ कौश्स्_5,3{39}.15 ॥]
मांसानि शकले निधाय कर्ता लकुटैश्चर्मणा बद्ध्वा प्रैषकृत् परिक्रम्य बन्धान्मुञ्चति सन्दंशेन ॥
[अन्यत्पार्श्वीं संवेशयति ॥ कौश्स्_5,3{39}.16 ॥]
पार्श्वीं संवेशयति ॥
[शकलेनोक्तम् ॥ कौश्स्_5,3{39}.17 ॥]
शकलेनावसिच्य तां यूषपिशितान्याशयति ॥
[अभ्यक्ता (10.1.25) इति नवनीतेन मन्त्रोक्तम् ॥ कौश्स्_5,3{39}.18 ॥]
ऽअभ्यक्ताक्ता स्वरङ्कृताऽ इत्यृचा नवनीतेनाभ्यज्याक्षिणी चाङ्क्ते । कृत्यां सालङ्कारां बध्नाति ॥
[दर्भरज्ज्वा सन्नह्य उत्तिष्ठैव (10.1.20) इत्युत्थापयति ॥ कौश्स्_5,3{39}.19 ॥]
ऽउत्तिष्ठैव परेहिऽ इत्यर्धर्चेन दर्भरज्ज्वा सन्नह्योत्थापयति प्रषकृत् ॥
[सव्येन दीपं दक्षिणेनोदकालाब्वादाय वाग्यताः ॥ कौश्स्_5,3{39}.20 ॥]
सव्येन हस्तेन दीपं धारयति । दक्षिणेनालाबूदकपूर्णमादाय ततोऽरण्ये गच्छन्ति सह कर्त्रा सर्वे ॥
[प्रैषकृदग्रतः ॥ कौश्स्_5,3{39}.21 ॥
अनावृतम् ॥ कौश्स्_5,3{39}.22 ॥
अगोष्पदम् ॥ कौश्स्_5,3{39}.23 ॥
अनुदकखातम् ॥ कौश्स्_5,3{39}.24 ॥
दक्षिणाप्रवणे वा स्वयन्दीर्णे वा स्वकृते वेरिणेऽन्याशायां वा निदधाति ॥ कौश्स्_5,3{39}.25 ॥]
अनावृते वाऽगोष्पददेशे वाऽनुदकखाते वा दक्षिणाप्रवणे वा स्वयमवदीर्णे वा स्वकृते वेरिणेऽन्याशायां वा तत्र कृत्यां
निदधाति ॥
[अलाबुना दीपमवसिच्य यथा सूर्यः (10.1.32) इत्यावृत्याव्रजति ॥ कौश्स्_5,3{39}.26 ॥]
अलाबुना दीपमवसिच्य ततः सर्वे गृहानागच्छन्ति । ऽयथा सूर्यःऽ इत्यावृत्य व्रजति । गृहद्वार इदं कर्म करोति ॥
[तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ॥ कौश्स्_5,3{39}.27 ॥]
अभिचरितपुरुषसन्मुखो भूत्वा कर्ता चोपद्रष्टारश्च । वास्तोष्पत्यादयश्चत्वारो गणाः । उच्चैः पठन्ति ॥
[मर्माणि सम्प्रोक्षन्ते ॥ कौश्स्_5,3{39}.28 ॥]
कर्ताऽभिचरितपुरुषस्य शान्त्युदकेन मर्माणि सम्प्रोक्षते । गार्हपत्यसभामपात्रकूपकुक्कुट इत्यादीनि मर्माणि सम्प्रोक्षन्ते ॥
[कृष्णसीरेण कर्षति ॥ कौश्स्_5,3{39}.29 ॥
अधि सीरेभ्यो दश दक्षिणा ॥ कौश्स्_5,3{39}.30 ॥
अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि ॥ कौश्स्_5,3{39}.31 ॥]
कृत्यास्थानं कृष्णवृषभेण हलेन कर्षति । दश गावो दक्षिणा वृषभैर्युक्तं हलं च आङ्गिरसकल्पे कृतां कृत्यां शमयति । अन्यां च । क्षुद्रविद्याकृतोऽभिचारः । सर्वावस्थस्याभिचारस्येयं चिकित्सा । शान्तिरित्यर्थः । अभिचारो यथाऽऽक्रोशपापान्मुच्यते । येन कृतोऽभिचारस्तस्यैव गच्छति यतः प्रत्यभिचारो भवति । ततस्तन्त्रं सर्वत्र । समाप्तं कृत्याप्रतिहरणमभिचारकृतं कर्म ॥ पञ्चमेऽध्याये तृतीया कण्डिका
अथ नदीप्रवाहविधिं वक्ष्यामः -
[यददः सम्प्रयतीः (3.13) इति येनेच्छेन्नदी प्रतिपद्येतेति प्रसिञ्चन् व्रजति ॥ कौश्स्_5,4{40}.1 ॥]
नदीप्रवाहं खात्वा ऽयददः सम्प्रयतीःऽ इति सूक्तेन प्रसिञ्चन् व्रजति । उदकं प्रक्षिपति वहनिकामध्यप्रवाहस्थाने । अन्यत्रैव वहनं कार्यम् । वहनविरोधो न भवति । इति नदीकर्म । नदीप्रवाहं खात्वा तस्मिन् प्रवाह इदं करोति ॥
[काशदिविधुवकवेतसान्निमिनोति ॥ कौश्स्_5,4{40}.2 ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन काशमभिमन्त्र्य तत्र खाते रोपयति । ऽयददः सम्प्रयतीःऽ इति सूक्तेन दिवि सेवालपर्णीमभिमन्त्र्य रोपयति नदीप्रवाहे । ऽयददः सम्प्रयतीःऽ इति सूक्तेन धुवक पटेरकमभिमन्त्र्य नदीप्रवाहे निखनति । ऽयददः सम्प्रयतीःऽ इति सूक्तेन वेतसशाखामभिमन्त्र्य रोपयति । इति नदीप्रवाहकर्म ॥
[इदं व आपः (3.13.7) इति हिरण्यमधिदधाति ॥ कौश्स्_5,4{40}.3 ॥]
ऽइदं व आपःऽ इति पादेन हिरण्यमभिमन्त्र्य नदीमार्गखाते निदधाति ॥
[अयं वत्सः (3.13.7) इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा ॥ कौश्स्_5,4{40}.4 ॥]
ऽअयं वत्सःऽ इति पादेनेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां बद्ध्वाभिमन्त्र्य निदधाति खातप्रवाहे ॥
[इहेत्थम् (3.13.7) इत्यवकया प्रच्छादयति ॥ कौश्स्_5,4{40}.5 ॥]
ऽइहेत्थमेतऽ इति पादेनावकामभिमन्त्र्य मण्डूकोपरि निदधाति ॥
[यत्रेदम् (3.13.7) इति निनयति ॥ कौश्स्_5,4{40}.6 ॥]
ऽयत्रेदम्ऽ इति पादेनोदकमभिमन्त्र्य मण्डूकस्योपरि निनयति । समाप्तं वहनकर्म । वहने विघातो न भवति । पूर्णप्रवाहो न भवति ॥
अथ नवप्रवाह इदं कुर्यात् -
[मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर्जुहोति ॥ कौश्स्_5,4{40}.7 ॥]
वरुणदेवतापाकयज्ञविधानेनाज्यभागान्तं कृत्वा ऽयददः सम्प्रयतीःऽ इति सूक्तेन त्रिर्विभज्य जुहोति । तत उत्तरतन्त्रम् । कृष्णव्रीहिः कृष्णाया गोः पयः घृतं च वेतसकाष्ठस्रुव इन्धनं च वेतसपत्रैः स्तरणं पटेरकेन वा । अस्मिन् तन्त्रे सर्वं मारुतं कर्तव्यम् । उदके प्रवाह उदकप्रवाहभये नदीभये ग्रामे नगरे वा यत्रोदकनदीभयं भवति तत्र सर्वत्र वारुणो होमः कर्तव्यः । मुख्यं प्रवाहे कर्म ॥
[उक्तमुपमन्थनम् ॥ कौश्स्_5,4{40}.8 ॥
दधिमन्थं बलिं हृत्वा सम्प्रोक्षणीभ्यां प्रसिञ्चन् व्रजति ॥ कौश्स्_5,4{40}.9 ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन दधिसक्तुमन्थं बलिहरणं कृत्वा वैतसे चमसे वैतसाभ्यामुपमन्थनीभ्यामुपमथ्य बलिं हरेत् । ततः ऽअति धन्वानिऽ (7.41.1-2) इति द्वाभ्यां सम्प्रोक्षणीभ्यां मन्त्रोदकं नदीप्रवाहे प्रसिञ्चन् व्रजति । समाप्तं नदीदूरगमनकर्म ॥
यदि न वहति नदी तदा वक्ष्यमाणमिदं कर्म -
[पाणिना वेत्रेण वा प्रत्त्याहत्योपरि निपद्यते ॥ कौश्स्_5,4{40}.10 ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन हस्तेन नदीं वहन्ति । ऽयददः सम्प्रयतीःऽ इति सूक्तेन वेतसशाखामभिमन्त्र्य नदीमवसिञ्चति । ऽयददः सम्प्रयतीःऽ इति सूक्तं जपित्वा स्वयं पतति । निवर्तमानायां नदीमध्ये स्वपति निश्चयम् । यदि दूरं गता पुनर्निवर्तते तदेदं कर्म । एक आचार्याः ऽयददः सम्प्रयतीःऽ इत्यादि सर्वमेकं कर्म मन्यन्ते । अन्ये भिन्नानि कर्माणि मन्यन्ते । अन्ये प्रसिञ्चनकर्म हिरण्यमण्डूककर्म योगकर्म मन्थनकर्म पाणिकर्मैतेषां विकल्पं मन्यन्ते । समुच्चयो वेति दारिलभद्रमतम् । समाप्तमन्यप्रवाहे नदीकर्म ॥
अथारणिसमारोपणकर्मोच्यते -
[अयं ते योनिः (3.20) इत्यरण्योरग्निं समारोपयति ॥ कौश्स्_5,4{40}.11 ॥]
ऽअयं ते योनिःऽ इत्यृचारणिद्वयं प्रतापयति ॥
[आत्मनि वा ॥ कौश्स्_5,4{40}.12 ॥]
पाणी वा प्रतापयति । उत्थाय वा गृह्णाति । अनेन विधानेन समारोपणं कृत्वा पथि गच्छतां दोषो न भवति । समाप्तं समारोपणम् ॥
अथावरोहणमुच्यते -
[उपावरोह जातवेदः पुनर्देवो देवेभ्यो हव्यं वहतु प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि इत्युपावरोहयति ॥ कौश्स्_5,4{40}.13 ॥]
ऽउपावरोहऽ इत्यृचारणिद्वयमभिमन्त्र्य ततो मन्थति । अथवा लौकिकाग्निमुपर्युच्छ्वासं प्रक्षिप्य ततोऽग्निकार्यं करोति । लौकिकाग्नौ हस्तौ प्रताप्य ततोऽग्निकार्याणि करोति । एकाग्नौ वा त्रेतायां वा शान्तिकपौष्टिकादौ च सर्वत्र समारोपणमुपावरोहणं भवति । समाप्तमुपावरोहणम् ॥
पुरुषस्य वीर्यकरणे विधिं वक्ष्यामः -
[यां त्वा गन्धर्वो अखनत् (4.4) वृषणस्ते खनितारो वृषा त्वमस्योषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि (पैप्प्स् 4.5.2) इत्युच्छुष्मापरिव्याधावायसेन खनति ॥ कौश्स्_5,4{40}.14 ॥
दुग्धे फाण्टावधिज्योपस्थ आधाय पिबति ॥ कौश्स्_5,4{40}.15 ॥]
कपिकच्छुमूलं ओषधिवत् खात्वा ऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेन ऽवृषणस्ते खनिताऽ इति मन्त्रेण दुग्धे श्रपयित्वोपविष्टं धनुरुत्सङ्गे कृत्वा दुग्धे प्रक्षिप्य ततो दुग्धं ऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेन ऽवृषणस्तेऽ इत्यभिमन्त्र्य पाययति । ऽयां त्वा गन्धर्वो अखनत्ऽ ऽवृषणस्तेऽ इत्यृचा सुरवालकमोषधिवत् खात्वा दुग्धे श्रपयति । उपविष्टं धनुरुत्सङ्गे कृत्वा ऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेन ऽवृषणस्ते खनितारःऽ इति दुग्धमभिमन्त्र्य पाययति ॥
[मयूखे मुसले वासीनः]
ऽयां त्वा गन्धर्वो अखनत्ऽ इति ऽवृषणस्ते खनितारःऽ इत्यृचा कपिकच्छ्वोषधिवत् खात्वा दुग्धे श्रपयित्वा कीलक उपविश्य ऽयां त्वाऽ इति दुग्धमभिमन्त्र्य पिबति । ऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेन ऽवृषणस्ते खनितारःऽ इत्यृचैभिर्मन्त्रैः सुरवालकमोषधिवत् खात्वा दुग्धे क्वाथयित्वा मुशल उपविश्य दुग्धमभिमन्त्र्य ऽयां त्वाऽ इति मन्त्रैः पिबति । यतो बाहुल्यं भवति । वीर्यकरणं समाप्तम् ॥
शिश्नस्य स्थूलकरणमुच्यते -
[यथासितः (6.72) इत्येकार्कसूत्रमार्कं बध्नाति ॥ कौश्स्_5,4{40}.16 ॥]
अभ्यातानान्तं कृत्वा ऽयथासितःऽ इति सूक्तेनैकशाखाकर्मणिं सम्पात्याभिमन्त्र्यार्कसूत्रेण बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पतितस्योत्थापनं च भवति ॥
[यावदङ्गीनम् (6.72.3) इत्यसितस्कन्धमसितवालेन ॥ कौश्स्_5,4{40}.17 ॥]
अभ्यातानान्तं कृत्वा ऽयावदङ्गीनम्ऽ इत्यृचा कृष्णमृगचर्ममणिं सम्पात्याभिमन्त्र्य कृष्णवालेन बध्नाति । तत उत्तरतन्त्रम् । एतत्स्थूलकरणम् ॥
[आ वृषायस्व (6.10.1) इत्युभयमप्येति ॥ कौश्स्_5,4{40}.18 ॥]
अभ्यातानान्तं कृत्वा ऽआ वृषायस्वऽ इति सूक्तेनैकार्कसूत्रमार्कं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽआ वृषायस्वऽ इति सूक्तेन हरिणस्कन्धचर्ममणिं कृत्वा कृष्णवालेन बध्नाति सम्पात्याभिमन्त्र्य च । अभ्यातानाद्युत्तरतन्त्रम् । वीर्यकरणमुत्थापनं स्थूलकरणं च भवति । रेतनाशे च । समाप्तानि पुरुषस्य वीर्यकरणानि ॥ पञ्चमेऽध्याये चतुर्थी कण्डिका
अथ वृष्टिकर्मविधिं वक्ष्यामः -
[समुत्पतन्तु (4.15) प्र नभस्व (7.18) इति वर्षकामो द्वादशरात्रमनुशुष्येत् ॥ कौश्स्_5,5{41}.1 ॥
सर्वव्रत उपश्राम्यति ॥ कौश्स्_5,5{41}.2 ॥
मरुतो यजते यथा वरुणं जुहोति ॥ कौश्स्_5,5{41}.3 ॥]
द्वादशरात्रं कृच्छ्रम् । त्रयोदशेऽहनि पाकयज्ञविधानेन व्रतोपायनान्तं कृत्वा ततो ऽदेवस्य त्वा सवितुःऽ इत्यादि ऽमरुद्भ्यो जुष्टं निर्वपामि मरुद्भ्यस्त्वा जुष्टं प्रोक्षामिऽ इत्यनेन यजुषा तावत्समानं यावदाज्यभागौ । ततः क्षीरौदनं जुहोति ऽसमुत्पतन्तुऽ इति सूक्तेन । पञ्चभिरृग्भिरेकामाहुतिम् । ततः पञ्चभिरृग्भिर्द्वितीयाम् । षड्भिस्तृतीयामाहुतिं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम् । पाकयज्ञियं तन्त्रमाज्यभागान्तं कृत्वा ततः क्षीरौदनं जुहोति । ऽप्र नभस्वऽ इत्यृचैकामाहुतिम् ऽन घ्रंस्ततापऽ (7.18.2) इत्यृचा द्वितीयामाहुतिं युक्ताभ्यां तृतीयामाहुतिम् । पार्वणाद्युत्तरतन्त्रम् । बर्हिर्होमे ऽमरुद्भ्यो गच्छतु हविः स्वाहाऽ इति । सर्वेषु वृष्टिकर्मसु कृष्णाया गोराज्यं कृष्णाया गोः पयः । कृष्णा व्रीहिशालयः । वेतसः स्रुवः । वेतसी समित् इन्धनं च । काशादयो बर्हिः कार्यम् । आज्यभागान्तं कृत्वा ऽसमुत्पतन्तुऽ इति सूक्तेन प्रत्यृचमाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽप्र नभस्वऽ इति सूक्तेन प्रत्यृचमाज्यं जुहोति । तत उत्तरतन्त्रम् ॥
[ओषधीः सम्पातवतीः प्रवेश्याभिन्युब्जति ॥ कौश्स्_5,5{41}.4 ॥]
अभ्यातानान्तं कृत्वा ऽसमुत्पतन्तुऽ इति सूक्तेन काशदिविधुवकवेतसानेकत्र कृत्वा सम्पात्याभिमन्त्र्य तत उदकमध्ये पात्रमधोमुखं निनयति । तत उत्तरतन्त्रम् । आज्यभागान्तमभ्यातानान्तं कृत्वा ऽप्र नभस्वऽ इति सूक्तेन काशाद्योषधीः पात्रे कृत्वा सम्पात्याभिमन्त्र्य पात्रमुदकमध्येऽधोमुखं निनयति । तत उत्तरतन्त्रम् ॥
[विप्लावयेत ॥ कौश्स्_5,5{41}.5 ॥]
अभ्यातानान्तं कृत्वा ऽसमुत्पतन्तुऽ इति सूक्तेन काशदिविधुवकवेतसानेकत्र कृत्वा सम्पात्याभिमन्त्र्योदकमध्ये विप्लावयति । तत उत्तरतन्त्रम् । ऽप्र नभस्वऽ इति द्व्यर्चेन सूक्तेन काशाद्येकत्र कृत्वा सम्पात्याभिमन्त्र्योदके विप्लावयति । उत्तरतन्त्रम् ॥
[श्वशिरएटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति ॥ कौश्स्_5,5{41}.6 ॥]
ऽसमुत्पतन्तुऽ इति सूक्तेन कुक्कुरशिरमभिमन्त्र्योदके प्रक्षिपति । ऽप्र नभस्वऽ इति सूक्तेन कुक्कुरशिरमभिमन्त्र्योदके विप्लावयति । ऽसमुत्पतन्तुऽ इति सूक्तेन मेषशिरमभिमन्त्र्योदके प्रक्षिपति । ऽप्र नभस्वऽ इति सूक्तेन मेषशिरमभिमन्त्र्योदके प्रक्षिपति । ऽसमुत्पतन्तुऽ इति सूक्तेन मानुषकेशजरदुपानहौ वंशाग्रे प्रबध्य योधयति । ऽप्र नभस्वऽ इति सूक्तेन केशजरदुपानहौ वंशाग्रे प्रबध्य योधयति जपन् ॥
[उदपात्रेण सम्पातवता सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति ॥ कौश्स्_5,5{41}.7 ॥]
ऽसमुत्पतन्तुऽ इति सूक्तेनोदपात्रं सम्पात्य तेनोदकेन तुषसहितमामपात्रं त्रिपादे शिक्येऽश्मानमवधाय सूक्तं जप्त्वा सम्प्रोक्ष्याप्सु निदधाति । तत उत्तरतन्त्रम् । ऽप्र नभस्वऽ इति सूक्तेनोदपात्रेण सम्पातवता सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति । तन्त्रं च । समाप्तानि वृष्टिकर्माणि । षोडश । वृष्टि । समानम् । सर्वत्र कर्मणां विकल्पः । एकं वा द्वे वा सर्वान् वा करोति । क्रमोऽपि नास्ति ॥
अर्थोत्थापने विघ्नशमनविधिं वक्ष्यामः -
[अयं ते योनिः (3.20) आ नो भर (5.7) धीती वा (7.1) इत्यर्थमुत्थास्यन्नुपदधीत ॥ कौश्स्_5,5{41}.8 ॥]
ऽअयं ते योनिःऽ इति सूक्तेन हविषामुपदधीताज्यसमिदादि । तन्त्रविकल्पो हस्तहोमे ॥
[जपति ॥ कौश्स्_5,5{41}.9 ॥]
ऽअयं ते योनिःऽ इति सूक्तं जपति । अर्थकाम उद्यमं यदा करोति तदेदं करोति । ऽआ नो भरऽ इति सूक्तेनाज्यसमित्पुरोडाशादि जुहोति । ऽआ नो भरऽ इति सूक्तं जपति । द्रव्यहस्त्यश्वरत्नधनधान्याद्येवङ्कामो यदोद्यमं वणिजादि करोति तदेदं कर्म करोति । यस्मिन्नारम्भो गृहादि न सिध्यति तदेदं कर्म । ऽधीती वा येऽ इति द्वाभ्यामृग्भ्यामाज्याद्युपदधीत । ऽधीती वाऽ इति द्व्यर्चं सूक्तं जपति । अर्थ उद्यमं करिष्यमाणः । समाप्तम् अर्थविघ्नशमनं द्रव्योत्थापनम् ॥
अथ द्यूतजयकर्मोच्यते -
[पूर्वास्वषाढासु गर्तं खनति ॥ कौश्स्_5,5{41}.10 ॥]
पूर्वाषाढानक्षत्रे गर्तं खनति तूष्णीम् ॥
[उत्तरासु सञ्चिनोति ॥ कौश्स्_5,5{41}.11 ॥]
उत्तराषाढानक्षत्रे सञ्चिनोति पूरयति तूष्णीम् ॥
[आदेवनं संस्तीर्य ॥ कौश्स्_5,5{41}.12 ॥
उद्भिन्दन्तीं सञ्जयन्तीं (4.38) यथा वृक्षमशनिः (7.50) इदमुग्राय (7.109) इति वासितानक्षान्निवपति ॥ कौश्स्_5,5{41}.13 ॥]
तत्र द्यूतस्थानं कृत्वा त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा अक्षयति तान् पाशान् वाक्षान् वा कपर्दिकान् वा । ऽउद्भिन्दन्तीं सञ्जयन्तीम्ऽ इति सूक्तेनाभिमन्त्र्य द्यूतक्रीडां कुर्यात् । पूर्वाषाढासु गर्तं खनत्युत्तरासु सम्मिनोति पूरयति । कपर्दकान् दधिमधुनि वासयित्वा ऽयथा वृक्षमशनिःऽ इति नवर्चेन सूक्तेनाभिमन्त्र्य द्यूतक्रीडां करोति । जयकामः । दधिमधुनि अक्षान् वासयित्वा ऽइदमुग्राय बभ्रवेऽ इति सप्तर्चेन सूक्तेनाभिमन्त्र्य द्यूतक्रीडां करोति । द्यूते जयो भवति । समाप्तानि द्यूतजयकर्माणि । द्यूतक्रीडां करोति तस्याभिमन्त्र्य ददाति द्यूतकाराय ॥
अथार्थोत्थापनोद्यमकरविघ्नशमनकर्मोच्यते -
[अम्बयो यन्ति (1.4) शम्भुमयोभू हिरण्यवर्णाः (1.33) यददः (3.13) पुनन्तु मा (6.19) सस्रुषीः (6.23) हिमवतः प्र स्रवन्ति (6.24) वायोः पूतः पवित्रेण (6.51) शं च नो मयश्च नः (6.57.3) अनडुद्भ्यस्त्वं प्रथमम् (6.59) मह्यमापः (6.61) वैश्वानरो रश्मिभिः (6.62) इत्यभिवर्षणावसेचनानाम् ॥ कौश्स्_5,5{41}.14 ॥]
ऽअम्बयो यन्तिऽ, ऽआपो हि ष्ठाऽ (1.5) ऽशं नो देवीःऽ (1.6) इति त्रिभिः सूक्तैर्मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् । ऽमारुतं क्षीरौदनं मारुतशृतम्ऽ इत्यादि भवति । अर्थकामः । ऽहिरण्यवर्णाःऽ इति मरुतो यजते यथा वरुणम् । ऽयददः सम्प्रयतीःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । ऽपुनन्तु माऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । ऽसस्रुषीःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । ऽहिमवतःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । ऽवायोः पूतःऽ इति तृचेन मरुतो यजते यथा वरुणम् । ऽशं च नो मयश्च नःऽ इति मरुतो यजते यथा वरुणम् । ऽअनडुद्भ्यस्त्वं प्रथमम्ऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । ऽमह्यमापःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । ऽवैश्वानरो रश्मिभिःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । एवमाद्या ओषधीः सम्पात्याभिन्युब्जनं विप्लावनं श्वशिर एडकशिरः केशजरदुपानहयुद्ध उदपात्रकर्म एतान्यभिवर्षणानि कर्माणि भवन्ति । एकैकस्य सूक्तस्य । एके आचार्या मरुतयागस्थाने मन्त्रोक्तादेवतायागं कुर्यात् यथा वरुणम् । अथौषध्यादि समानम् । वर्षकर्मणामर्थोत्थापनकामः । अभ्यातानान्तं कृत्वा ऽअम्बयो यन्तिऽ इति ऽआपो हि ष्ठाःऽ, ऽशं नो देवीःऽ इति त्रिभिः
सूक्तैरुदकघटं सम्पात्याभिमन्त्र्य तत आप्लावयति । तत उत्तरतन्त्रम् । विघ्नोपशमनकामः । पूर्वतन्त्रं कृत्वा ऽहिरण्यवर्णाःऽ इति सूक्तेनोदकपूर्णं घटं सम्पात्याभिमन्त्र्य तत आप्लावयति । तत उत्तरतन्त्रम् । अर्थोत्थापनकामः । अभ्यातानान्तं कृत्वा ऽयददः सम्प्रयतीःऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । विघ्नशमनकामः । तन्त्रं कृत्वा ऽपुनन्तु माऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । अर्थमुत्थापनकामः । तन्त्रं कृत्वा ऽसस्रुषीःऽ, ऽहिमवतःऽ इति सूक्ताभ्यामुदकघटं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽवायोः पूतःऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽशं च नो मयश्च नःऽ इत्यृचोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽअनडद्भ्यस्त्वं प्रथमम्ऽ इति सूक्तनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽमह्यमापःऽ ऽवैश्वानरो रश्मिभिःऽ इति सूक्ताभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । अर्थोत्थापने विघ्नशमनकामः । ऽअम्बयो यन्तिऽ ऽआपो हि ष्ठाःऽ ऽशं नो देवीःऽ इति त्रिभिः सूक्तैरुदकघटमभिमन्त्र्यावसिञ्चति । ऽहिरण्यवर्णाःऽ इति सूक्तेनावसिञ्चति । ऽयददः सम्प्रयतीःऽ इति सूक्तेनोदकघटमभिमन्त्र्य पुरुषमवसिञ्चति । विद्याधनविषये विघ्नं न भवति.
ऽपुनन्तु माऽ इति सूक्तेनोदकमभिमन्त्र्यावसिञ्चति पुरुषम् । ऽसस्रुषीःऽ ऽहिमवतःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्यावसिञ्चति । ऽवायोः पूतःऽ इत्युदकमभिमन्त्र्यावसिञ्चति । ऽशं च नो मयश्च नःऽ इत्यृचोदकमभिमन्त्र्यावसिञ्चति । ऽअनडुद्भ्यस्त्वं प्रथमम्ऽ इत्युदकमभिमन्त्र्यावसिञ्चति । ऽमह्यमापःऽ ऽवैश्वानरो रश्मिभिःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्यावसिञ्चति । विघ्नशमनकामः । समाप्तान्यभिवर्षणावसेचनानि कर्माणि ॥
[उत्तमेन वाचस्पतिलिङ्गाभिरुद्यन्तमुपतिष्ठते ॥ कौश्स्_5,5{41}.15 ॥]
ऽवैश्वानरो रश्मिभिःऽ सूक्तेन ऽउदेहि वाजिन्ऽ (13.1.1-20) इति विंशतिभिरृग्भिश्चोद्यन्तमुपतिष्ठते । अर्थकामः ॥
[स्नातोऽहतवसनो निक्त्वाहतमाच्छादयति ॥ कौश्स्_5,5{41}.16 ॥]
ऽवैश्वानरो रश्मिभिःऽ इति सूक्तेन ऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्च स्नानं कृत्वोपतिष्ठते । अर्थमुत्थापनकामः । अहतवस्त्रपरिधानं कृत्वा ऽवैश्वानरो रश्मिभिःऽ इति सूक्तेन ऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्चोपतिष्ठते । अर्थसिद्धिकामः ॥
[ददाति ॥ कौश्स्_5,5{41}.17 ॥]
ऽवैश्वानरो रश्मिभिःऽ ऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्च वस्त्रमभिमन्त्र्य परिधापयति । अर्थो मम सिध्यताम् एवङ्कामः । ऽवैश्वानरो रश्मिभिःऽ ऽउदेहि वाजिन्ऽ इति विंशतिरृग्भिश्च वस्त्रमभिमन्त्र्य ददाति । विद्रावनादिविषये शमनकामः । समाप्तानि विघ्नशमनकर्माणि ॥
अथ गोवत्सद्वेषविरोधे साम्मनस्यमुच्यते -
[यथा मांसम् (6.70) इति वननम् ॥ कौश्स्_5,5{41}.18 ॥
वत्सं सन्धाव्य गोमूत्रेणावसिच्य त्रिः परिणीयोपचृतति ॥ कौश्स्_5,5{41}.19 ॥]
ऽयथा मांसम्ऽ इति सूक्तेन वत्सं स्नानं कारयित्वा गोमूत्रेणावसिच्य ततो वत्सं त्रिः परिभ्रामयित्वा ततोऽभिमन्त्र्य ततः पानार्थं मुञ्चति ॥
[शिरःकर्णमभिमन्त्रयते ॥ कौश्स्_5,5{41}.20 ॥]
ऽयथा मांसम्ऽ इति सूक्तेन गोः शिरः कर्णं चाभिमन्त्रयते । गवां वत्सेन सह विरोधे । वत्सगोविरोधे साम्मनस्यं कर्म । समाप्तं गोवत्सस्य विरोधे साम्मनस्यम् । अकरणे गौः पूर्वा विनश्यति ॥
अश्वविनाशे प्रकार उच्यते । अथाश्वशान्तिविधिं वक्ष्यामः -
[वातरंहा (6.92) इति स्नातेऽश्वे सम्पातानभ्यतिनयति ॥ कौश्स्_5,5{41}.21 ॥]
अभ्यातानान्तं कृत्वा अश्वान् स्नापयित्वा अग्रेकृत्य स्वाश्वं ऽवातरंहा भवऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य ॥
[पलाशे चूर्णेषूत्तरान् ॥ कौश्स्_5,5{41}.22 ॥]
ततः पलाशपत्रे सर्वौषधीः कृत्वोत्तरसम्पातानौषधावानयति ॥
[आचमयति ॥ कौश्स्_5,5{41}.23 ॥
आप्लावयति ॥ कौश्स्_5,5{41}.24 ॥]
उदपात्रेणाचामयत्याप्लावयति च ॥
[चूर्णैरवकिरति ॥ कौश्स्_5,5{41}.25 ॥
त्रिरेकया चेति ॥ कौश्स्_5,5{41}.26 ॥]
सर्वौषधिचूर्णैरवकिरति त्रिः । ऽएकया च दशभिःऽ (7.4.1) इत्यृचा स्नातान् मर्ध्नि परिकिरति । अभ्यातानाद्युत्तरतन्त्रम् । अश्वशान्तिः । अश्वाः शान्तास्तेजस्विनो निरुपद्रवा वेगवन्त आरोग्यवन्तो भवन्ति । अश्वशान्तिः समाप्ता ॥ पञ्चमेऽध्याये पञ्चमी कण्डिका
अथ प्रवासेन द्रव्योत्थापनमुच्यते -
[भद्रादधि (7.8) इति प्रवत्स्यन्नुपदधीत ॥ कौश्स्_5,6{42}.1 ॥]
ऽभद्रादधिऽ इत्यृचाज्यं जुहोति । आज्यतन्त्रे । ऽभद्रादधि श्रेयःऽ इत्यृचा समिध आदधाति शान्ताः । विघ्नशमनकामः । ऽभद्रादधि श्रेयःऽ इत्यृचा पुरोडाशं जुहोति । तन्त्रविकल्पः । ऽभद्रादधिऽ इत्यृचा पयो जुहोति । तन्त्रे । ऽभद्रादधि श्रेयःऽ इत्यृचोदौदनादि हविषामुपधानं कुर्यात् । सर्वत्र तन्त्रविकल्पः । प्रवासे गत्वा चौरभयमुदकभयं गमने विघ्नं न भवति । समाप्तं प्रवासे गच्छतां विघ्नशमनम् ॥
[जपति ॥ कौश्स्_5,6{42}.2 ॥]
ऽभद्रादधिऽ इत्यृचं जपति । पथि गच्छतां विघ्नं न भवति । इति विघ्नशमनम् ॥
[यानं सम्प्रोक्ष्य विमोचयति ॥ कौश्स्_5,6{42}.3 ॥]
ऽभद्रादधिऽ इत्यृचा यानं सम्पात्याभिमन्त्र्याज्यतन्त्रे ग्रामे गत्वा तत उदकेन सम्प्रोक्षति विमोचयति । विघ्नशमनकामः । द्रव्योत्थापनं च ॥
[द्रव्यं सम्पातवदुत्थापयति ॥ कौश्स्_5,6{42}.4 ॥]
यदि यानेन याति तदा इदं कर्म । आज्यतन्त्रे सम्पात्याभिमन्त्र्यारोहणं कुर्यात् ॥
[निर्मुज्योपयच्छति ॥ कौश्स्_5,6{42}.5 ॥]
अभ्यातानान्तं कृत्वा ऽभद्रादधिऽ इत्यृचा वणिजद्रव्यं वस्त्रवलयाश्वादि सर्वद्रव्यं सम्पात्याभिमन्त्र्य । प्रतिद्रव्यं मन्त्रावृत्तिः । अश्ववस्त्रवलयादि । तत उत्तरतन्त्रम् । वस्त्रादिद्रव्यं विक्रयार्थं नयति । यदा द्रव्यं गृह्णाति तदेदं कर्म । ऽभद्रादधिऽ इत्यृचाभिमन्त्र्य गृह्णाति । समाप्तं वणिजलाभकर्म । पथि गृहेऽन्यत्र वा वणिजविघातो न भवति ॥
अथाभ्यागतपुरुषाणां साम्मनस्यं क्रियते । यदा विशिष्टो गृह आगच्छति तदेदं मैत्रीकर्म क्रियते । मित्रं त्वेषां दर्शने आगतानां यदा गृह आगच्छति तदेदं कुर्यात् ॥
[उभा जिग्यथुः (7.44) इत्यार्द्रपादाभ्यां साम्मनस्यम् ॥ कौश्स्_5,6{42}.6 ॥]
आज्यतन्त्रं कृत्वा ऽउभा जिग्यथुःऽ इत्यृचा हस्त्यादि यानं सम्पात्याभिमन्त्र्य तत उत्तरतन्त्रम् । तस्मिन् याने यस्य साम्मनस्यं क्रियते । सर्वे यानस्योपर्युपविशन्ति । सर्वे यानस्योपरि चटन्ति ॥
[यानेन प्रत्यञ्चौ ग्रामान् प्रतिपाद्य प्रयच्छति ॥ कौश्स्_5,6{42}.7 ॥]
ततः पश्चिमदिग्भागे गत्वा पुनर्गृह आगच्छन्ति । तत ऽउभा जिग्यथुःऽ इत्यृचोदनमभिमन्त्र्य प्रयच्छति भोजनार्थम् । मन्थं वा । सर्वैः सह भुञ्जन्ति । समाप्तं साम्मनस्यम् । एकस्मिन् युद्धे क्रियमाणे सहायगतस्य कर्म । अन्यस्य च साधारणमित्यर्थः । यो युद्धे साहायत्वं करोति तस्येदं कर्म । प्रथमं पादौ प्रक्षाल्य ततः कर्म चेति । केचित् क्षत्रिययोरिदं कर्म मन्यन्ते । समाप्तं साम्मनस्यमर्थोत्थापनं विघ्नशमनं युद्धादि ॥
अथ गृहे विरुद्धे सति साम्मनस्यमुच्यते -
[आयातः समिध आदाय ऊर्जं बिभ्रत् (7.60) इत्यसङ्कल्पयन्नेत्य सकृदादधाति ॥ कौश्स्_5,6{42}.8 ॥]
कर्तारण्ये गत्वा समिधो गृहीत्वा तूष्णीं गृह आगत्य ततः ऽऊर्जं बिभ्रत्ऽ इति सूक्तेन ताः समिधः सकृत्सर्वाः सूक्तान्तेनादधाति । गृहमानुषाणां साम्मनस्यं भवति । कलहनिवारणम् । कलहो न भवतीत्यर्थः । समाप्तं गृहसाम्मनस्यं विघ्नशमनं च ॥
मन्त्रब्राह्मणयोर्द्रव्यमिच्छति तस्येदं कर्म प्रतिग्रहाद्युच्यते -
[ऋचं साम (7.54.1-2) इत्यनुप्रवचनीयस्य जुहोति ॥ कौश्स्_5,6{42}.9 ॥
युक्ताभ्यां तृतीयाम् ॥ कौश्स्_5,6{42}.10 ॥
आनुमतीं चतुर्थीम् ॥ कौश्स्_5,6{42}.11 ॥]
अभ्यातानान्तं कृत्वा ऽऋचं सामऽ इत्यृचाज्यं जुहोति । ऽऋचं साम यदप्राक्षम्ऽ इत्यृचाज्यं जुहोति । ऽऋचं सामऽ इति द्वाभ्यां तृतीयामाहुतिं जुहोति । ऽअनुमतये स्वाहाऽ इति चतुर्थीमाहुतिं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । वेदपाठेन शास्त्रपाठेनार्थोत्थापनमिच्छन्निदं करोति । समाप्तं वेदेन शास्त्रेण अर्थोत्थापने विघ्नशमनम् ॥
अथ परिमोक्षसमावर्तनविधिं वक्ष्यामः -
[समावर्तनीयसमापनीययोश्चैषेज्या ॥ कौश्स्_5,6{42}.12 ॥
अपो दिव्याः (7.89) इति पर्यवेतव्रत उदकान्ते शान्त्युदकमभिमन्त्रयते ॥ कौश्स्_5,6{42}.13 ॥
अस्तमिते समित्पाणिरेत्य तृतीयावर्जं समिध आदधाति ॥ कौश्स्_5,6{42}.14 ॥
इदावत्सराय (कौश्स् 42.17) इति व्रतविसर्जनमाज्यं जुहुयात् ॥ कौश्स्_5,6{42}.15 ॥
समिधोऽभ्यादध्यात् ॥ कौश्स्_5,6{42}.16 ॥
इदावत्सराय परिवत्सराय संवत्सराय प्रतिवेदयाम एनत् । यद्व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ यन्मे व्रतं व्रतपते लुलोभाहोरात्रे समाधातां म एनत् । उद्यन् पुरस्ताद्भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभिगृणात्वेनत् ॥ यद् व्रतमतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास्तन्मयि वसवश्च समिन्धताम् ॥ व्रतानि व्रतपतय उपाकरोम्यग्नये । स मे द्युम्नं बृहद्यशो दीर्घमायुः कृणोतु मे इति व्रतसमापनीरादधाति ॥ कौश्स्_5,6{42}.17 ॥]
गोदानिकं तन्त्रमाज्यभागान्तं कृत्वा ततः शान्त्युदकं कृत्वाभिमन्त्रयते । ऽअपो दिव्याःऽ इति चतसृभिः.
ततोऽभ्यातानादि परिधापनान्तं कृत्वा केचित् परिदानान्ते ततोऽभ्यातानं हुत्वा तत ऽइदावत्सरायऽ इति कल्पजैश्चतुर्भिरृग्भिराज्यं जुहुयात् । पुनः ऽइदावत्सरायऽ इति चतस्रः समिध आदधीत । इति व्रतविसर्जनम् । व्रतश्रावणम् । व्रतं विसर्जति । ततोऽभ्यातानानि जुहोति । तत ऽऋचं सामऽ इति प्रथमयर्चाज्याहुतिं हुत्वा ऽऋचं साम यदप्राक्षम्ऽ इति द्वितीयाम् । युक्ताभ्यां तृतीयामानुमतीं चतुर्थीम् ॥
[त्रिरात्रमरसाशी स्नातव्रतं चरति ॥ कौश्स्_5,6{42}.18 ॥]
ततोऽभ्यातानानि जुहोति । ऽदोषो गायऽ (6.1) इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । इति परिमोक्षं समाप्तम् । वेदव्रतं कल्पव्रतं मृगारव्रतं विषासहिव्रतं यमव्रतं शिरोव्रतम् अङ्गिरोव्रतम् इत्येवमादिष्वभ्यातानान्तं कृत्वा ऽइदावत्सरायऽ इति व्रतविसर्जनं व्रतश्रावणं च करोति । तन्त्रविकल्पो हस्तहोमत्वात् । यत्र क्वचिद् व्रतं वैदिकं लौकिकं च तत्र सर्वत्र व्रतादानं व्रतविसर्जनं च भवति विधानेन । शिरोव्रतादीनि नित्यानि । कृच्छ्रचान्द्रायणादीनि स्मृतिविहितानि । कृच्छ्रचान्द्रायणादीनि काम्यानि स्मृतिपुराणशास्त्रवेदविहितानि च । तस्मात् सर्वाणि व्रतशब्दवाच्यानि । तानि सर्वाण्येव विधानेन कर्तव्यानि । यत्र वपनं तत्र सर्वत्र गोदानिकं कुर्यात् । परिमोक्षादनन्तरं त्रिरात्रं स्नातव्रतं चरेत् । अस्तमिते ऽअपो दिव्याःऽ इति तिसृभिः समिध आदधाति । तृतीयावर्जम् । अन्ये एकरात्रं समिदाधानं कुर्वन्ति । इति परिमोक्षः समाप्तः ॥
अथ पापलक्षणस्त्री तस्याः शान्तिरुच्यते -
[निर्लक्ष्म्यम् (1.18) इति पापलक्षणाया मुखमुक्षत्यन्वृचं दक्षिणात् केशस्तुकात् ॥ कौश्स्_5,6{42}.19 ॥]
ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन सा स्त्री मुखं प्रत्यृचं प्रक्षालयति । तस्या मुखे हस्तयोर्मशकशिग्रुवारकावस्थानतिलकं ह्रस्वकेशादिपापलक्षणं सामुद्रिके स्त्रीलक्षणं व्याख्यातम् । ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेनोदकघटमभिमन्त्र्य स्त्रीं
पापलक्षणामभिषिञ्चति दक्षिणात् केशादारभ्य यावदुत्तरं पार्श्वम् । ततः पापलक्षणं विनश्यति ॥
[पलाशेन फलीकरणान् हुत्वा शेषं प्रत्यानयति ॥ कौश्स्_5,6{42}.20 ॥
फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति ॥ कौश्स्_5,6{42}.21 ॥]
अभ्यातानान्तं कृत्वा ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन पालाशपर्णेन कुकुसाञ्जुहोति । होमशेषान् कुकुसान् सव्यायां पादपार्ष्ण्यां निदधाति । तत उत्तरतन्त्रम् । ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन फलीकरणाञ्जुहोति । हस्तहोमत्वात् तन्त्रविकल्पः । ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन व्रीहितुषान् जुहोति । होमशेषान् व्रीहितुषान् सव्यायां पादपार्ष्ण्यां निदधाति । ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन बुसं जुहोति । सव्यायां पादपार्ष्ण्यां निदधाति । ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन काष्ठावतक्षणानि जुहोति । सव्यायां पादपार्ष्ण्यां निदधाति । अनेन पापलक्षणं न भवति । इति पापलक्षणदोषशमनशान्तिः समाप्ता ॥
अथ पापदर्शने शान्तिरुच्यते -
[अपनोदनापाघाभ्यामन्वीक्षं प्रतिजपति ॥ कौश्स्_5,6{42}.22 ॥]
ऽआरेऽसौऽ (1.26) इति ऽअप नः शोशुचदघम्ऽ (4.33) इति सूक्ताभ्यामन्वीक्षं दृष्ट्वा जपेत् । दर्शनदोषो न भवति.
एको वा यदि वा त्रीणि पञ्च सप्त नवस्तथा.
पुरुषस्य भाग्यकाले हरिणा यान्ति प्रदक्षिणाः ॥
अप्रदक्षिणेषु हरिणेष्वयं जपः । पक्षिषु च । ग्रामेऽपि बहिर्वापशकुने दृष्ट इदं करोति । श्वानरुदिते काकरुदिते शिवारुदिते चायम् । काकमैथुने पुरुषस्य मैथुने श्येनमैथुनदर्शने नग्नास्त्रीदर्शने नग्नपुरुषस्य नपुंसकस्य दर्शने पुंश्चलीचन्द्रमण्डलश्यामस्य च । कृत्तिकारोहिणी पठिता अपशकुनाः । यत्र क्वचिदपशकुनाः पठितास्तत्र सर्वत्रायं जपः । श्रुतौ स्मृतौ वा पठिता अदृष्टव्यास्तेषां सर्वेषां दर्शनेऽद्भुतानां दर्शनेष्वयं जपः कर्तव्यः । लोके यद्विरुद्धम् । अन्वीक्षं प्रसिद्धमदृष्टव्यास्तेषामयं जपः । अपशकुनजपः समाप्तः ॥
अथ पुरुषो स्त्री वा कार्यकरणे विघ्नशमने च कर्मोच्यते -
[दीर्घायुत्वाय (2.4) इति मन्त्रोक्तं बध्नाति ॥ कौश्स्_5,6{42}.23 ॥]
अभ्यातानान्तं कृत्वा ऽदीर्घायुत्वायऽ इति सूक्तेन जङ्गिडमणिं शणसूत्रेण बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । कृत्यादूषणार्थः । आप्याययति । विघ्नशमने रक्षाकरणः । विघ्नः विस्कन्धेयः । समाप्तं विघ्नशमनम् ॥ पञ्चमेऽध्याये षष्ठी कण्डिका
पुनर्विघ्नशमनमुच्यते -
[कर्शफस्य (3.9) इति पिशङ्गसूत्रमरलुदण्डं यदायुधम् ॥ कौश्स्_5,7{43}.1 ॥]
अभ्यातानान्तं कृत्वा ऽकर्शफस्यऽ इति सूक्तेन पिशङ्गवर्णसूत्रेऽरलुमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । विस्कन्धविघ्नशमनो मणिः । स्पर्धाविनाशो भवतीत्यर्थः । स्पर्धमानस्य स्पर्धा विनश्यतीत्यर्थः । समाप्ता विघ्नशमने मणिशान्तिः । अभ्यातानान्तं कृत्वा ऽकर्शफस्यऽ इति सूक्तेन वेणुदण्डादीन् सम्पात्य ततः सूक्तेन विमृज्य धारयति । तत उत्तरतन्त्रम् । चित्रदण्डे ध्वजदण्डे चिह्नदण्डे वेदयष्टौ लकुटादिदण्डं सर्वं सम्पात्य यो धारयति तस्य सर्पशृङ्गिदंष्ट्रादि विघ्नं न भवति । अज्ञाते ज्ञाते तेजवृद्धिश्च भवति । अभ्यातानान्तं कृत्वा ऽकर्शफस्यऽ इति सूक्तेनायुधं सम्पात्य विमृज्य धारयति । तत उत्तरतन्त्रम् । सर्वशस्त्रसम्पातिते मायादिकं मायाजालयुद्धे निवारणम् । सङ्ग्राम इन्द्रजालनिवारणम् । युद्धे विघ्नं न भवति । शत्रुहठं निवारयति । शत्रवो गच्छन्ति । स्पर्धमानशत्रुं जयति । हठं विनाशयति ॥
[फलीकरणैर्धूपयति ॥ कौश्स्_5,7{43}.2 ॥]
ऽकर्शफस्यऽ इति सूक्तेन फलीकरणानग्नौ प्रक्षिप्य विघ्नगृहीतं पुरुषं धूपयति । विघ्नशमनं भवति । यस्यारम्भा न सिध्यन्ति तस्येदं कर्म भवति । इति विघ्नशमनं समाप्तम् ॥
अथ भूमिशुद्धिः । गृहं करिष्यमाण इदं करोति -
[अति धन्वानि (7.41) इत्यवसाननिवेशनानुचरणानि निनयनेज्या ॥ कौश्स्_5,7{43}.3 ॥]
ऽअति धन्वानिऽ इति द्वाभ्यामुदपात्रमभिमन्त्र्य तत्र निनयति भूमौ यत्र गृहं करिष्यति । तत्र विघ्नशमनं भवति । श्येनदेवतायै पाकयज्ञविधानेनाज्यभागान्तं कृत्वा ऽअति धन्वानिऽ इति द्वाभ्यामृग्भ्यां चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । भूमिस्थाने यत्र गृहं करिष्यति तत्र श्येनयागं कृत्वा गृहं कुर्यात् । अथवा नवे गृहे श्येनयागः कर्तव्यः । विकल्प इति भाष्यकारः । प्रथमतो वा श्येनयागो नवे गृहे ॥
अथ गृहप्रवेश उच्यते । वास्तुसंस्कार उच्यते -
[वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतोऽग्नेः सम्भारमाहरति ॥ कौश्स्_5,7{43}.4 ॥
वास्तोष्पत्यादीनि महाशान्तिमावपते ॥ कौश्स्_5,7{43}.5 ॥]
ऽइहैव ध्रुवाम्ऽ इत्यादि गणेन भूमिं हलेन कर्षति । ततो दक्षिणतः सम्भारमाहरत्यग्नेः । ततः शान्त्युदकं करोति । मातलीवर्जं कृत्वा वास्तोष्पत्यादीनि चतुर्गणी महाशान्तिः । शान्त्युदक आवपते । ततो मातलीं कृत्वा ततः शान्त्युदकं समाप्यते । तेन भूमिं प्रोक्षयेत् । ततः ॥
मध्यमे गर्ते दर्भेषु व्रीहियवमावपति ॥ कौश्स्_5,7{43}.6 ॥
निक्षिपति ॥
शान्त्युदकशष्पशर्करमन्येषु ॥ कौश्स्_5,7{43}.7 ॥
शान्त्युदकं शष्पशर्करानन्येषु स्थूणागर्तेषु पार्श्वस्थितेषु प्रक्षिपति ॥
[इहैव ध्रुवाम् (3.12) इति मीयमानामुच्छ्रीयमाणामनुमन्त्रयते ॥ कौश्स्_5,7{43}.8 ॥]
ऽइहैव ध्रुवाम्ऽ इति सूक्तेन मीयमानां शालामनुमन्त्रयते । यदा स्थूणोच्छ्रीयते तदा ऽइहैव ध्रुवाम्ऽ इति सूक्तेनानुमन्त्रयते ॥
[अभ्यज्य ऋतेन (3.12.6) इति मन्त्रोक्तम् ॥ कौश्स्_5,7{43}.9 ॥]
स्थूणावंशं घृतेनाभ्यज्य तूष्णीम् । ततः ऽऋतेन स्थूणाम्ऽ इत्यृचा वंशान् रोपयति ॥
[पूर्णं नारी (3.12.8) इत्युदकुम्भमग्निमादाय प्रपद्यन्ते ॥ कौश्स्_5,7{43}.10 ॥]
ततः पुण्याहवाचनं कृत्वा ऽपूर्णं नारीऽ इत्यृचोदकुम्भसहितां पत्नीमभिमन्त्र्य बाह्यतो गृहं प्रवेशयन्ति । यजमानपुरुषोऽग्निं गृहीत्वा । अन्ये प्रविशन्ति ॥
[ध्रुवाभ्यां दृंहयति ॥ कौश्स्_5,7{43}.11 ॥]
ऽइहैव ध्रुवाम्ऽ (3.12.1-2) इति द्वाभ्यामृग्भ्यां दृढां कारयति शालाभूमिम् ॥
[शम्भुमयोभुभ्यां विष्यन्दयति ॥ कौश्स्_5,7{43}.12 ॥]
ऽआपो हि ष्ठाऽ (1.5) ऽशं नो देवीःऽ (1.6) इति द्वाभ्यामुदकुम्भमभिमन्त्र्य तेन गृहभूमिमाप्लावयति ॥
[वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो न एधि । यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह ॥ अनमीवो वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः इति वास्तोष्पतये क्षीरौदनस्य जुहोति ॥ कौश्स्_5,7{43}.13 ॥]
ततः पाकयज्ञविधानेन ऽवास्तोष्पतये जुष्टं निर्वपामिऽ इति निर्वापः । ऽवास्तोष्पतये त्वा जुष्टं प्रोक्षामिऽ इति प्रोक्षणम् । ऽवास्तोष्पतिं गच्छतु हविः स्वाहाऽ इति बर्हिर्होमे । वास्तोष्पतिदेवताकं क्षीरौदनं चाज्यभागान्तं कृत्वा ऽवास्तोष्पते प्रति जानीहिऽ इति द्वाभ्यां चरुं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम् । केचिदस्मिन् तन्त्रेऽभ्यातानान्तं हुत्वा । ऽयजूंषि यज्ञेऽ (5.26) इति द्वादशर्चेन सूक्तेन नवशालायां सर्पिर्मधुमिश्रं जुह्वति सकृदेकामाहुतिम् । ऽदोषो गायःऽ (6.1) इति द्वितीयामाहुतिं जुहोति । युक्ताभ्यां तृतीयामाहुतिं जुहोति । आनुमतीं चतुर्थीम् । कलशोदकपानीयमाचार्यो गृहीत्वा शालामङ्गुलिभ्यां सम्प्रोक्ष्य यजमानपत्नीसहितेषु गृहेषु मध्य आसाद उपविश्य कलशोदकं भूमौ निनयति तूष्णीम् । आचार्याद्या आदौ वाङ्मौनं कुर्वन्ति । ऽइहैव स्तऽ (7.62.7) इत्यृचा वाग्विसर्गः । अभ्यातानाद्युत्तरतन्त्रम् ॥
सर्वान्नानि ब्राह्मणान् भोजयति ॥ कौश्स्_5,7{43}.14 ॥
मिष्टान्नानीत्यर्थः ॥
[मङ्गल्यानि ॥ कौश्स्_5,7{43}.15 ॥]
वृद्धा स्त्रियो गीतमङ्गल्यादि कुर्वन्ति । ब्राह्मणाः पुण्याहानि पठन्ति । श्राद्धं च केचित् पश्चात् कुर्वन्ति केचित् पूर्वं कुर्वन्ति । सर्वत्र भूमिशुद्धिविधानम् । गृहकरणविधानं च । यत्र यत्र गृहं मण्डपं वा कुटी वा चित्रशाला वा मठस्थानं वा प्राकाराट्टालकं वा देवगृहं वाऽन्यद्वा तृणमयं वा काष्ठमयं वेष्टिकामयं वा पाषाणमयं वा गृहादिकं करोति । तत्रानेन विधानेन वास्तुयागः कर्तव्यः । समाप्तं गृहप्रवेशकर्म । अनेन विधिना शाला कृता शान्ता । गृहिणो निरुपद्रवाः सुखिनः पुत्रवन्तो गोधनधान्यपुष्टाः । भोग्या च शाला भवति । एवं वास्तुसुखं भवति ॥
अथ क्रव्यादोपहतगृहे क्षेत्रे वान्यत्र गोष्ठे वा यत्र क्वचित् तत्र शान्तिरुच्यते -
[ये अग्नयः (3.21) इति क्रव्यादनुपहत इति पालाशं बध्नाति ॥ कौश्स्_5,7{43}.16 ॥]
अभ्यातानान्तं कृत्वा ऽये अग्नयो अप्स्वन्तःऽ इति सप्तर्चेन पालाशवृक्षमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[जुहोति ॥ कौश्स्_5,7{43}.17 ॥]
ऽये अग्नयःऽ इति सप्तर्चेनाज्यं जुहोति । आज्यतन्त्रे ॥
[आदधाति ॥ कौश्स्_5,7{43}.18 ॥]
ऽये अग्नयःऽ इति सप्तर्चेन पालाशसमिध आदधाति । तन्त्रविकल्पः । क्रव्यादे प्रविष्टे गृहे कुमारा म्रियन्ते वत्सा वा किशोरा वा अन्या वोपहतिः कुलकलहो हानिर्धननाशो यत्र भवति तद्गृहं ग्रामं नगरं वा क्रव्यादोपहतं जानीयात् ॥
[उदञ्चनेनोदपात्र्यां यवानद्भिरानीयोल्लोपम् ॥ कौश्स्_5,7{43}.19 ॥]
ऽये अग्नयःऽ इति सप्तर्चेन सूक्तेन पालाश्युदञ्चनेनोदकं जुहोति अग्नौ । तन्त्रविकल्पः । ऽये अग्नयःऽ इति सप्तर्चेनोदधान्यास्तदुदकं चोदकपात्र्यां पालाश्यां यवान् प्रक्षिप्य ततः प्रत्यृचं जुहोत्यग्नौ । हस्तहोमे तन्त्रविकल्पः । कुले कलहकुमारवत्समरणगोमरणादि धनधान्यविनाशादि चिन्तितोद्वेगादि क्रव्यादचिह्नानि । क्रव्यादोपहतशान्तिः समाप्ता ॥
अथ क्रव्याच्छमनविधानमुच्यते -
[ये अग्नयः (3.21) इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्याम् ॥ कौश्स्_5,7{43}.20 ॥]
ऽये अग्नयःऽ इति दशर्चेन सूक्तेन सक्तूदकं काम्पीलसमिद्द्वयेन मन्थमालोड्य ततः पालाश्या दर्व्या जुहोति प्रत्यृचम् । तन्त्रविकल्पः दर्विहोमत्वात् । समाप्तं क्रव्याच्छमनम् । लौकिके वाग्नौ गृह आवसथ्ये वा शान्तिकपौष्टिकार्थे मन्थने वा यत्र वा क्रव्यादोपहतिर्दृश्यते तत्र सर्वत्र कुर्यादिति ॥
अथ वशाशमनविधानमुच्यते -
[शमनं च ॥ कौश्स्_5,7{43}.21 ॥]
ऽये अग्नयःऽ इति दशर्चेन सूक्तेन वशामभिमन्त्र्य ततो ब्राह्मणाय ददाति । यस्य गृहे वशा भवति जायते तद् गृहं दैवहतं जानीयात् । इति वशाविधानेन शमनं समाप्तम् ॥ पञ्चमेऽध्याये सप्तमी कण्डिका
अथ वशाशमनविधानमुच्यते -
[य आत्मदा (4.2) इति वशाशमनम् ॥ कौश्स्_5,8{44}.1 ॥
पुरस्तादग्नेः प्रतीचीं धारयन्ति ॥ कौश्स्_5,8{44}.2 ॥
पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति ॥ कौश्स्_5,8{44}.3 ॥]
पाकतन्त्रमाज्यभागान्तं कृत्वा पुरस्तादग्नेः प्रतीचीं गां धारयित्वा पश्चादग्नेः प्राङ्मुख उपविश्य कर्ता शान्त्युदकं
करोति । वशाया अन्वारब्धायै ॥
[तत्रैतत् सूक्तमनुयोजयति ॥ कौश्स्_5,8{44}.4 ॥]
काष्ठेन तृणेन वा ऽय आत्मदाऽ इति सूक्तं शान्त्युदकेऽनुयोजयेत् ॥
[तेनैनामाचामयति च सम्प्रोक्षति च ॥ कौश्स्_5,8{44}.5 ॥]
मातल्यन्तेन शान्त्युदकेनाचामयति च सम्प्रोक्षति च वशाम् ॥
[तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ॥ कौश्स्_5,8{44}.6 ॥]
कर्तोर्ध्वस्थितः । वास्तोष्पत्यादिचतुर्गणीमहाशान्तिमुच्चैरभिनिगदति । वशामभिमुखस्थितः कर्ता ॥
[य ईशे पशुपतिः पशूनाम् (2.34) इति हुत्वा वशामनक्ति शिरसि ककुदे जघनदेशे ॥ कौश्स्_5,8{44}.7 ॥]
ऽय ईशे पशुपतिःऽ इति सूक्तेनाज्यं हुत्वा ततो वशाया शिरसि अनक्ति ककुदे स्कन्धे जघनदेशे ॥
[अन्यतरां स्वधितिधारामनक्ति ॥ कौश्स्_5,8{44}.8 ॥]
छुरिकायां पश्चादनक्ति ॥
[अक्तया वपामुत्खनति ॥ कौश्स्_5,8{44}.9 ॥
दक्षिणे पार्श्वे दर्भाभ्यामधिक्षिपति अमुष्मै त्वा जुष्टम् इति यथादेवतम् ॥ कौश्स्_5,8{44}.10 ॥
निःसालाम् (2.14) इत्युल्मुकेन त्रिः प्रसव्यं परिहरत्यनभिपरिहरन्नात्मानम् ॥ कौश्स्_5,8{44}.11 ॥]
दक्षिणे पार्श्वे दर्भाभ्यां द्वाभ्यामधिक्षिपति ऽप्रजापतये त्वाधिक्षिपामिऽ इत्यनेन मन्त्रेण । ऽनिःसालाम्ऽ इति सूक्तेनोल्मुकेन त्रिः प्रदक्षिणं परिभ्रामयित्वा पशुं मध्ये कृत्वात्मानं हि ॥
[दर्भाभ्यामन्वारभते ॥ कौश्स्_5,8{44}.12 ॥]
द्वाभ्यां दर्भाभ्यां वशामन्वालभ्य ॥
[पश्चादुत्तरतोऽग्नेः प्रत्यक्शीर्षीमुदक्पादीं निविध्यति ॥ कौश्स्_5,8{44}.13 ॥
समस्यै तन्वा भव इत्यन्यतरं दर्भमवास्यति ॥ कौश्स्_5,8{44}.14 ॥]
पश्चादुत्तरतोऽग्नेर्वशां नीत्वा तत एकं दर्भं ऽसमस्यैऽ इति मन्त्रेण भूमौ कृत्वा तत उपरि वशां पातयति प्रत्यक्शीर्षीमुदक्पादीं निविध्यति ॥
[अथ प्राणानास्थापयति प्रजानन्तः (2.34.5) इति ॥ कौश्स्_5,8{44}.15 ॥]
ततः समिदाध्वर्युर्वशामुखं निरोधयति निरुच्छ्वासं करोति मारयति ऽप्रजानन्तःऽ इत्यृचा ॥
[दक्षिणतस्तिष्ठन् रक्षोहणं जपति ॥ कौश्स्_5,8{44}.16 ॥]
दक्षिणतस्तिष्ठन् ऽरक्षोहणम्ऽ (8.3.4) अनुवाकं जपति ॥
[सञ्ज्ञप्तायां जुहोति यद्वशा मायुमक्रतोरो वा पड्भिराहत । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः इति ॥ कौश्स्_5,8{44}.17 ॥]
ऽयद्वशा मायुम्ऽ इत्यृचा कल्पजयाज्यं जुहोति सञ्ज्ञप्तायाम् । ततः पत्न्युदपात्रं गृहीत्वा पशुसमीपं गच्छति ॥
[उदपात्रेण पत्न्यभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते ॥ कौश्स्_5,8{44}.18 ॥]
ततः पशोर्मुखादीनि गात्राणि प्रक्षालयति ॥
[मुखं शुन्धस्व देवयज्यायै इति ॥ कौश्स्_5,8{44}.19 ॥
प्राणान् इति नासिके ॥ कौश्स्_5,8{44}.20 ॥
चक्षुः इति चक्षुषी ॥ कौश्स्_5,8{44}.21 ॥
श्रोत्रम् इति कर्णौ ॥ कौश्स्_5,8{44}.22 ॥
यत्ते क्रूरं यदास्थितम् इति समन्तं रज्जुधानम् ॥ कौश्स्_5,8{44}.23 ॥
चरित्राणि इति पादान् समाहृत्य ॥ कौश्स्_5,8{44}.24 ॥
नाभिम् इति नाभिम् ॥ कौश्स्_5,8{44}.25 ॥
मेढ्रम् इति मेढ्रम् ॥ कौश्स्_5,8{44}.26 ॥
पायुम् इति पायुम् ॥ कौश्स्_5,8{44}.27 ॥]
ऽमुखं शुन्धस्व देवयज्यायैऽ इति मन्त्रं कर्ता ब्रूयात् । ऽप्राणान् शुन्धस्व देवयज्यायैऽ इति प्राणान् । ऽनासिके शुन्धस्वऽ इति नासिके । ऽचक्षुषी शुन्धस्वऽ इति चक्षुषी । ऽश्रोत्रं शुन्धस्वऽ इति श्रोत्रम् । ऽकर्णौ शुन्धस्वऽ इति कर्णौ । ऽयत्ते क्रूरं यदास्थितम्ऽ इति समन्तं रज्जुधानम् । ऽचरित्राणिऽ इति मन्त्रेण पादान् समाहरति । ऽनाभिं शुन्धस्व देवयज्यायैऽ इति नाभिम् । ऽमेढ्रं शुन्धस्वऽ इति मेढ्रम् । ऽपायुं शुन्धस्वऽ इति पायुम् प्रतिमन्त्रं गात्रप्रक्षालनम् ॥
[यत्ते क्रूरं यदास्थितं तच्छुन्धस्व इत्यवशिष्टाः पार्श्वदेशेऽवसिच्य यथार्थं व्रजति ॥ कौश्स्_5,8{44}.28 ॥]
शेषमुदकं पार्श्वदेशे निक्षिप्य ऽयत्ते क्रूरं यदास्थितं तच्छुन्धस्वऽ इति मन्त्रेण ततो पत्नी यथार्थं व्रजति ॥
[वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादायाभिव्रज्योत्तानां परिवर्त्मानुलोमं नाभिदेशे दर्भमास्तृणाति ॥ कौश्स्_5,8{44}.29 ॥]
ततो वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादाय पशुस्थाने गच्छति । परिवर्त्मानुलोमं ततो नाभिदेशे दर्भमास्तृणाति ॥
औषधे त्रायस्वैनं स्वधिते मैनं हिंसीः इति शस्त्रं प्रयच्छति ॥ कौश्स्_5,8{44}.30 ॥
ऽओषधे त्रायस्वैनम्ऽ इति छुरिकां प्रयच्छति ॥
[इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावपकृन्तामि इत्यपकृत्य ॥ कौश्स्_5,8{44}.31 ॥]
ऽइदमहं महुमदस्य भूतिकर्णपुत्रस्यऽ इत्यनेन मन्त्रेण दर्भसहितं नाभिदेशं छिनत्ति ॥
[अधरप्रव्रस्केन लोहितस्यापहत्य ॥ कौश्स्_5,8{44}.32 ॥
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामि इत्यास्ये निखनति ॥ कौश्स्_5,8{44}.33 ॥]
ऽइदमहम्ऽ इति मन्त्रेणावरदर्भखण्डं लोहितलिप्तमास्यस्थानेऽपहन्ति । निखनतीत्यर्थः ॥
[वपया द्यावापृथिवी प्रोर्णुवाथाम् इति वपाश्रपण्यौ वपया प्रच्छाद्य ॥ कौश्स्_5,8{44}.34 ॥
स्वधितिना प्रकृत्योत्कृत्य ॥ कौश्स्_5,8{44}.35 ॥
आव्रस्कमभिघार्य ॥ कौश्स्_5,8{44}.36 ॥]
ऽवपया द्यावापृथिवीऽ इत्यनेन वपाश्रपण्यौ वपया प्रच्छाद्य स्वधितिना प्रकृत्योत्कृत्य ततश्छेदनस्थानं घृतेनाभिघार्य । शान्तवृक्षमयावेकैकशृङ्गा द्वितीया द्विशृङ्गा ॥
[वायवे स्तोकानाम् इति दर्भाग्रं प्रास्यति ॥ कौश्स्_5,8{44}.37 ॥]
ऽवायवे स्तोकानाम्ऽ इति दर्भाग्रं प्रास्यति क्षिपति ॥
[प्रत्युष्टं रक्षः इति चरुमङ्गारे निदधाति ॥ कौश्स्_5,8{44}.38 ॥]
ऽप्रत्युष्टं रक्षःऽ इत्यनेन मन्त्रेणाग्नेः पश्चाद्भागे निदधाति ॥
[देवस्त्वा सविता श्रपयतु इति श्रपयति ॥ कौश्स्_5,8{44}.39 ॥
सुशृतां करोति ॥ कौश्स्_5,8{44}.40 ॥]
ऽदेवस्त्वाऽ इति मन्त्रेण श्रपयति । सुशृतां करोति ततः ॥ पञ्चमेऽध्यायेऽष्टमी कण्डिका
[यद्यष्टापदी स्याद् गर्भञ्जलौ सहिरण्यं सयवं वा य आत्मदा (4.3) इति खदायां त्र्यरत्नावग्नौ सकृज्जुहोति ॥ कौश्स्_5,9{45}.1 ॥]
यद्यष्टापदी स्याद् गर्भञ्जलौ सहिरण्यं सयवं वा ऽय आत्मदाऽ इति सूक्तेन खदायां त्र्यरत्नावग्नौ सकृज्जुहोति ॥
[विशस्य समवत्तान्यवद्येत् ॥ कौश्स्_5,9{45}.2 ॥
हृदयं जिह्वा श्येनश्च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्येकादश दैवतानि ॥ कौश्स्_5,9{45}.3 ॥
दक्षिणः कपिललाटः सव्या श्रोणिर्गुदश्च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव ॥ कौश्स्_5,9{45}.4 ॥
तदवद्य प्रज्ञातानि श्रपयेत् ॥ कौश्स्_5,9{45}.5 ॥]
अवदानानि पशोरेकादश गृह्णाति । हृदयम् । जिह्वा । क्रोडम् । वामबाहुः । पार्श्वे द्वे । यकृत् कालेयमित्युच्यते । पृष्टकौ द्वौ । गुदश्च । पश्चिमदक्षिणबाहुश्च । एकादश गृहीत्वा । ततः स्विष्टकृदवदानानि गृह्णाति । तानि त्रीणि । दक्षिणो बाहुः । वामजङ्घा च । अन्त्रविभागम् । एतानि त्रीणि गृहीत्वा । चरुमध्ये मांसानि निदधाति । ऽपरि त्वाग्नेऽ इत्यादि करोति ॥
[होष्यन् द्विर्द्विर्देवतानामवद्येत् ॥ कौश्स्_5,9{45}.6 ॥
सकृत्सकृत्सौविष्टकृतानाम् ॥ कौश्स्_5,9{45}.7 ॥]
ततो यद्दैवत्यः पशुस्तद्दैवत्यश्चरुः श्रपयितव्यः ॥
[वपायाः समिद्धः (5.12) ऊर्ध्वा अस्य (5.27) इति जुहोति ॥ कौश्स्_5,9{45}.8 ॥]
ततो वपायाश्चत्वारि खण्डानि करोति । ऽसमिद्धो अद्यऽ इति सूक्तेनैकं खण्डं जुहोति । ऽऊर्ध्वा अस्यऽ इति सूक्तेन द्वितीयं खण्डं जुहोति ॥
[युक्ताभ्यां तृतीयाम् ॥ कौश्स्_5,9{45}.9 ॥]
ऽसमिद्धो अद्यऽ ऽऊर्ध्वा अस्यऽ इति सूक्ताभ्यां तृतीयं खण्डं जुहोति ॥
[आनुमतीं चतुर्थीम् ॥ कौश्स्_5,9{45}.10 ॥]
ऽअनुमतये स्वाहाऽ इति चतुर्थं खण्डं जुहोति ॥
[जातवेदो वपया गच्छ देवांस्त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा ॥ कौश्स्_5,9{45}.11 ॥]
ततो ऽजातवेदो वपया गच्छ देवान्ऽ इति मन्त्रेणाज्यं जुहोति ॥
[ऊर्ध्वं नभसं मारुतं गच्छतम् इति वपाश्रपण्यावनुप्रहरति ॥ कौश्स्_5,9{45}.12 ॥
प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् ॥ कौश्स्_5,9{45}.13 ॥]
ऽऊर्ध्वं नभसं मारुतं गच्छतम्ऽ इत्यनेन मन्त्रेण वपाश्रपण्यौ द्वे सह जुहोति । प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गां कृत्वा ॥
[पित्र्येषु वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या
एषामाशिषः सन्तु कामाः स्वाहा स्वधा इति वपायास्त्रिर्जुहोति ॥ कौश्स्_5,9{45}.14 ॥
समवत्तानाम् ॥ कौश्स्_5,9{45}.15 ॥]
ततोऽवदानानि जुहोति ऽय आत्मदाऽ इति सूक्तेन । प्रत्यृचं जुहोति । पुनः ऽय आत्मदाऽ इति सूक्तेन चरुं जुहोति ॥
[स्थालीपाकस्य सम्राडस्यधिश्रयणं नाम सखीनामभ्यहं विश्वा आशाः साक्षीय । कामोऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि ॥ अन्वद्य नोऽनुमतिः पूषा सरस्वती मही । यत् करोमि तदृध्यतामनुमतये स्वाहा इति जुहोति ॥ कौश्स्_5,9{45}.16 ॥]
ऽसम्राडस्यधिऽ इति मन्त्रेणाज्यं जुहोति । ऽसर्ववीराय स्वाहा सर्वपुरुषाय स्वाहा सर्वगणाय स्वाहा सर्वकामाय स्वाहाऽ चतस्र आहुतीर्जुहोति । ऽअन्वद्य नोऽनुमतिः । पूषा सरस्वती मही यत्करोमि तदृध्यतामनुमतये स्वाहाऽ जुहोति । पार्वणादि प्रजापतिं च हुत्वा ततः सकृन्मांसं चरुं चावद्य स्विष्टकृतं यजति । ऽस्वाहेष्टेभ्यःऽ इत्याद्युत्तरतन्त्रम् । समाप्तं वशाशमनविधानम्.
दैवहतं तस्य गृहं यस्य गृहे वशा जायते । तस्य धनादिनाशो भवति । तस्माच्छान्तिः कर्तव्येति । वशाया द्वे प्रतिपत्ती । अभिमन्त्र्य वा ददाति शमनं वा विधानेन कुर्यात् । एतेन विधानेन पशवो व्याख्याताः । नित्ये नैमित्तिके काम्ये पशवो व्याख्याताः । ऽद्वादशरात्रेऽग्निं पशुना यजेतऽ इति नित्यम् । नैमित्तिकाकाम्याश्च धूमकेतुः पञ्च पशवस्तायन्ते । धातारं च पशुना च पुरोहितपरिशिष्टेषु पठ्यते । इत्येवमादयो नैमित्तिकाः । पैठीनसिना काम्याः पठिताः । ऽछागेन स्वहुतेन त्रयोदशमासान्ऽ इत्यादि पुष्टिकर्मणामुपधानमध्ये पशुः पठितः । तस्मात् मन्त्रोक्ता देवताः । काम्याः पशवः । तथा वैतानसूत्रे ऐन्द्राग्नः पशुरायुःप्रजापशुकामस्येत्यादयः काम्याः पशवः । तेषां विधिरुच्यते.
पाकयज्ञमाज्यभागान्तं कृत्वा शान्त्युदकाभिवादनपर्यन्तं कृत्वा ऽय ईशे पशुपतिः पशूनाम्ऽ इत्यादि भवति । समानं नित्ये पशौ । ऽसमिद्धो अद्यऽ इति ऽऊर्ध्वा अस्यऽ इति वपाहोमः । नैमित्तिके च । तथा द्वयोः प्रधानकर्म होमः । प्रधानसूक्तेनैव काम्येषु तथैव च.
अथ पित्र्येषु काम्येषु विशेषः तत्र ऽवह वपाम्ऽ इत्यृचा त्रिरावृत्तिः । वपां त्रिर्जुहोति । तथा अवदानानि । तथा चरुं ऽवह वपाम्ऽ इति त्रिर्जुहोति । शेषं समानम् ॥
अथ दुष्टे प्रतिग्रहे सौम्ये वा कृते याजने वा दक्षिणाप्रतिग्रहणे येन कर्मणा पापं विनश्यति तदुच्यते-
[क इदं कस्मा अदात् (3.29.7-8) कामस्तदग्रे (19.52) यदन्नं (6.71) पुनर्मैन्त्विन्द्रियम् (7.68) इति प्रतिगृह्णाति ॥ कौश्स्_5,9{45}.17 ॥
उत्तमा सर्वकर्मा ॥ कौश्स्_5,9{45}.18 ॥
वशया पाकयज्ञा व्याख्याताः ॥ कौश्स्_5,9{45}.19 ॥]
ऽक इदम्ऽ इति द्वाभ्यामृग्भ्यां प्रतिग्रहमभिमन्त्र्य गृह्णाति । प्रतिग्रहदोषो न भवति । ऽयदन्नम्ऽ इति तृचेन ऽभूमिष्ट्वाऽ(3.29.8) इत्यृचा भूमिप्रतिग्रहे विशेषः । ऽकामस्तदग्रेऽ इति सूक्तेन प्रतिग्रहमभिमन्त्र्य गृह्णाति । ऽयदन्नम्ऽ इति तृचेन सूक्तेन प्रतिग्रहमभिमन्त्र्य गृह्णाति । ऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचा प्रतिग्रहमभिमन्त्र्य गृह्णाति । समाप्तं प्रतिग्रहदोषनाशनकर्म । सर्वाणि कर्माणि कृत्वा ऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचा कर्म समाप्य तत आत्मानमनुमन्त्रयते । सर्वकर्मसु भवतीत्यात्मशान्तिः । सन्ध्यावन्दन आज्यतन्त्रे पाकतन्त्रेऽस्मिन् कर्मणि नित्यनैमित्तिककाम्येषु ऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचात्महृदयमनुमन्त्रयते ॥ पञ्चमेऽध्याये नवमी कण्डिका
अथ अकृते पापे लोके पापवचनमुत्पद्यते तत्र शान्तिरुच्यते -
[उतामृतासुः (5.1.7) शिवास्ते (8.2.15) इत्यभ्याख्याताय प्रयच्छति ॥ कौश्स्_5,10{46}.1 ॥]
ऽउतामृतासुःऽ इत्यृचाभ्याख्यातमग्रे कृत्वा गृहे प्रविश्य तूष्णीं ततः सक्तुमन्थमभिमन्त्र्याभ्याख्याताय ददाति । पापं विनश्यति । प्रथममग्रे कृत्वाभ्याख्यातं गृहे प्रवेश्य कर्ता पश्चात् प्रविशति । ऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा सक्तुमन्थमभिमन्त्र्य ततोऽभ्याखाताय ददाति । लोके निन्दा भवति । ऽउतामृतासुःऽ इत्यृचा भक्तमभिमन्त्र्य ददाति । ऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा भक्तमभिमन्त्र्य ददाति । लोके निन्दा विनश्यति ॥
[द्रुघणशिरो रज्ज्वा बध्नाति ॥ कौश्स्_5,10{46}.2 ॥]
अभ्यातानान्तं कृत्वा ऽउतामृतासुःऽ इत्यृचा द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभिशस्त इदं कर्म ।
आज्यतन्त्रं कृत्वा ऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । तत उत्तरतन्त्रम् ॥
[प्रतिरूपं पलाशायोलोहहिरण्यानाम् ॥ कौश्स्_5,10{46}.3 ॥]
तन्त्रं कृत्वा ऽउतामृतासुःऽ इत्यृचा पालाशमणिं द्रुघणसदृशं कृत्वा ततः सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽशिवास्तेऽ इत्यृचा पालाशकाष्ठमणिं द्रुघणप्रतिरूपं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽउतामृतासुःऽ इत्यृचा लोहमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्याभिशस्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा ऽशिवास्तेऽ इत्यृचा कृष्णलोहमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । पापश्रवणे पापविनाशो भवति । तन्त्रं कृत्वा ऽउतामृतासुःऽ इत्यृचा ताम्रमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽशिवास्तेऽ इत्यृचा ताम्रमयद्रुघणप्रतिरूपं मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽउतामृतासुःऽ इत्यृचा हिरण्यमणिं द्रुघणप्रतिरूपं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽशिवास्तेऽ इत्यृचा हिरण्यमयमणिं कृत्वा द्रुघणप्रतिरूपं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अकृते पापे निन्दा यस्य भवति तस्येदं कर्म । कृते वा प्रायश्चित्तम् । यदि पापश्रवणं भवति तदेदं कर्म । समाप्तं लोके निन्दाविघातकर्म । सर्वत्र कौशिके कर्मणां विकल्पः । एकस्मिन् विषये यत्र बहूनि कर्माणि पठितानि तत्रैकं कुर्याद् द्वे वा सर्वाणि वा ॥
अथ यागे क्रियमाणे येन कर्मणा विघ्नशमनं भवति तदुच्यते -
[येन सोम (6.7) इति याजयिष्यन् सारूपवत्समश्नाति ॥ कौश्स्_5,10{46}.4 ॥]
अभ्यातानान्तं कृत्वा ऽयेन सोमऽ इति सूक्तेन सारूपवत्सं पायसं सम्पात्याभिमन्त्र्य ऋत्विजो यजमानं चाशयति । अविघ्नेन यज्ञसिद्धिर्भवति । तत उत्तरतन्त्रम् । यागे विघ्नशमनं समाप्तम् ॥
यागसमाप्तौ विघ्नशमनमुच्यते -
[निधने यजते ॥ कौश्स्_5,10{46}.5 ॥]
सोमदेवत्यं चरुं पाकयज्ञविधानेनाज्यभागान्तं कृत्वा ऽयेन सोमऽ इति तृचेन चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । समाप्तं सोमयागे याजनदोषशमनं विघ्नशमनं च । अनेन कर्मणा अयाज्ययाजनदोषान्मुच्यते ॥
अथ धनधान्यादिप्रतिग्रहादियाचनमिच्छन्निदं कर्म कृत्वा याचति । विघातो न भवति ॥
[यं याचामि (5.7.5) यदाशसा (7.57.1-2) इति याचिष्यन् ॥ कौश्स्_5,10{46}.6 ॥]
अभ्यातानान्तं कृत्वा ऽयं याचामिऽ इत्यृचा सारूपवत्सं पायसं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । याचितं न प्रतिषेधयति । आज्यतन्त्रं कृत्वा ऽयदाशसाऽ इति द्वाभ्यामृग्भ्यां सारूपवत्सं पायसं सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । समाप्तं याचने प्रतिषेधशान्तिः ॥
अथ कपोत उलूके वा गृहे प्रविष्टेऽन्यत्राभीष्टदेशेऽपि तत्र शान्तिरुच्यते -
[मन्त्रोक्तानि पतितेभ्यो देवाः कपोतः (6.27) ऋचा कपोतम् (6.28) अमून् हेतिः (6.29) इति महाशान्तिमावपते ॥ कौश्स्_5,10{46}.7 ॥]
शान्त्युदकं विधानेन कृत्वा ततो मातलीं न करोति । ऽदेवाः कपोतःऽ ऽऋचा कपोतम्ऽ ऽअमून् हेतिःऽ इति सूक्तत्रयं वास्तोष्पत्यं चातनं मातृनामा शान्तिगणः एते चत्वारो गणाः । शान्त्युदक आवपति । ततो मातलीं कृत्वा शान्त्युदकं समापयेत् । रात्रौ तेन शान्त्युदकेन तत्स्थानं प्रोक्षति ऽयतायैऽ इत्येतैर्मन्त्रैः । कपोतोलूकस्थानं यावत् । कारयितुः सम्प्रोक्षणमाचमनं च कर्तव्यम् । गृहादिस्थानं प्रोक्षति ॥
[परीमेऽग्निम् (6.28.2) इत्यग्निं गामादाय निशि कारयमाणस्त्रिः शालां परिणयति ॥ कौश्स्_5,10{46}.8 ॥]
ऽपरीमेऽग्निम्ऽ इत्यृचा गामग्निं गृहीत्वा त्रिः शालां परिणयति । कपोतस्थानं वा परिभ्रामयेत् । सकृन्मन्त्रः । कर्ता सर्वं कुर्यात् । अरण्यके पक्षिणि प्रविष्ट इदं कर्म कुर्यात् । कपोत उलूके वा प्रविष्टे । द्विपदचतुष्पदविनाशो वेदे श्रूयते तस्य दोषशमनम् । कपोतोलूकशान्तिः । समाप्ता महाशान्तिः । घृतकम्बलादिकं करोति । अमृतां वा दशगणीं वा करोति ॥
अथ स्वप्नाध्याये पठित उग्रे स्वप्नदर्शने शान्तिरुच्यते । स्वप्नाध्यायपठितं दुःस्वप्नं रुद्रभाष्यकारमतेन
गृहीतव्यम् । पक्वमांसे प्रेतदमने परिष्वङ्गमर्कटशकटे दृष्ट्वा तैलाभ्यङ्गे नग्नपुरुषदर्शने नग्नस्त्रीदर्शने च कालसूत्रेत्यादि स्वप्नाध्यायपठिता अनेकशः । इति दुःस्वप्नदर्शने शान्तिरुच्यते -
[परोऽपेहि (6.45) यो न जीवः (6.46) इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि ॥ कौश्स्_5,10{46}.9 ॥
अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशमन्याशायां वा निदधाति ॥ कौश्स्_5,10{46}.10 ॥]
ऽपरोऽपेहिऽ ऽयो न जीवःऽ इति सूक्ताभ्यां स्वप्नं कुत्सितं दृष्ट्वा मुखं प्रक्षालयति । ऽपरोऽपेहिऽ ऽयो न जीवःऽ इति सूक्ताभ्यां मैश्रधान्यं पुरोडाशं श्रपयित्वाग्नौ जुहोति । तन्त्रविकल्पः । ऽपरोऽपेहिऽ ऽयो न जीवःऽ इति सूक्ताभ्यां द्वितीयं पुरोडाशं श्रपयित्वाऽभिमन्त्र्य शत्रुक्षेत्रे निदधाति । समाप्तं दुःस्वप्ननाशनम् ॥
[पर्यावर्तः (7.100) इति पर्यावर्तते ॥ कौश्स्_5,10{46}.11 ॥]
ऽपर्यावर्तःऽ इत्यृचं जपित्वा पर्यावर्तते ॥
[यत्स्वप्ने (7.101) इत्यशित्वा वीक्षते ॥ कौश्स्_5,10{46}.12 ॥]
ऽयत्स्वप्नेऽ इत्यृचं जपति । अन्नं स्वप्ने भक्षयति तदेदं करोति ॥
अथ पुनर्घोरदुःस्वप्ननाशनकर्मोच्यते -
[विद्म ते स्वप्न (6.46.2) इति सर्वेषामप्ययः ॥ कौश्स्_5,10{46}.13 ॥]
ऽविद्म ते स्वप्नऽ इति एकेन पर्यायेण दुःस्वप्नं दृष्ट्वा मुखं विमार्ष्टि । ऽविद्म ते स्वप्नऽ इति सूक्तेन स्वप्नं दृष्ट्वा पार्श्वेण द्वितीयेन भयते । ऽविद्म ते स्वप्नऽ इति सूक्तेनान्नं स्वप्ने दृष्ट्वा निरीक्षते । ऽविद्म ते स्वप्नऽ इति सूक्तेन मैश्रधान्यं पुरोडाशं जुहोति । तन्त्रविकल्पः । समाप्तं दुःस्वप्ननाशनम् ॥
अथ आचार्ये मृते ब्रह्मचारीदं कर्म करोति श्रेयस्कामः -
[न हि ते अग्ने तन्वः (6.49) इति ब्रह्मचार्याचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति ॥ कौश्स्_5,10{46}.14 ॥
त्रिरात्रमपर्यावर्तमानः शयीत ॥ कौश्स्_5,10{46}.15 ॥
नोपशयीतेति कौशिकः ॥ कौश्स्_5,10{46}.16 ॥]
आचार्यस्य दहने ऽअग्निर्भूम्याम्ऽ (12.1.19-23) इत्यादि पञ्च सामिधेनीहुत्वा ततो दहनं त्रिः परिभ्राम्य ततो ऽन हि ते अग्ने तन्वःऽ इति सूक्तान्तेन पुरोडाशं जुहोति तस्मिन् दहने । त्रिरात्रं तस्य दहनसमीपे शेतेऽभिमुखस्थितः । कौशिकस्तत्र शयनं न मन्यते । प्रेतादिभयात् । तद्विघातशमनम् ॥
[स्नानीयाभिः स्नायात् ॥ कौश्स्_5,10{46}.17 ॥
अपर्यवेतव्रतः प्रत्युपेयात् ॥ कौश्स्_5,10{46}.18 ॥]
ऽअपो दिव्याःऽ (7.94) इति चतसृभिरृग्भिः स्नानं कृत्वा त्रिरात्रं गृह आगत्य ततः शयीतेति कौशिकमतम् । मृतं आचार्य इदं कर्म । प्रायश्चित्तं कृत्वा ततः समावर्तनं कुर्यात् इत्यर्थः । अन्यं गुरुमुपासीत । समाप्तं ब्रह्मचारिप्रायश्चित्तम् ॥
अथ ब्रह्मचारी स्त्रिया मैथुनसंयोग इदं करोति सोऽवकीर्णीत्युच्यते । तस्य प्रायश्चित्तमिदं कर्मोच्यते -
[अवकीर्णिने दर्भशुल्बमासज्य यत्ते देवी (6.63) इत्यावपति ॥ कौश्स्_5,10{46}.19 ॥
एवं सम्पातवतोदपात्रेणावसिच्य ॥ कौश्स्_5,10{46}.20 ॥
मन्त्रोक्तं शान्त्युदकेन सम्प्रोक्ष्य ॥ कौश्स्_5,10{46}.21 ॥]
ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वा ऽयत्ते देवी निरृतिःऽ इति सूक्तेन तिलाञ्जुहोति । ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वा ततो ऽयत्ते देवी निरृतिःऽ इति सूक्तेन व्रीहिञ्जुहोति । अवकीर्णिनं दर्भरज्ज्वा कण्ठे बद्ध्वा अभ्यातानान्तं कृत्वा ऽयत्ते देवीऽ इति सूक्तेनोदपात्रं सम्पात्य ततो दर्भरज्ज्वा सम्प्रोक्ष्य ततो ऽयत्ते देवीऽ इति मुञ्चति । तत उत्तरतन्त्रम् । दर्भरज्ज्वावकीर्णिनं कण्ठे बद्ध्वा ततः शान्त्युदकं कृत्वा ततो ऽयत्ते देवीऽ इति सूक्तेन प्रोक्ष्य ततः सूक्तेनैव दर्भरज्जुं मुञ्चति । समाप्तमवकीर्णिप्रायश्चित्तम् । सर्वत्र कर्मणां विकल्पः । क्रमोऽपि नास्ति सर्वत्र ॥
अथ स्वयम्प्रज्वलितेऽग्नौ प्रायश्चित्तमुच्यते -
[सं समिद् (6.63.4) इति स्वयम्प्रज्वलितेऽग्नौ ॥ कौश्स्_5,10{46}.22 ॥]
ऽसं समिद्ऽ इत्यृचा यवाञ्जुहोति । ऽसं समिद्ऽ इत्यृचा तिलाञ्जुहोति । यदि ज्वलति स्वयमग्निस्तदेदं कर्म । स्वयम्प्रज्वलिते शान्तिः ॥
अथाग्निशब्दकरणे शान्तिरुच्यते -
[अग्नी रक्षांसि सेधति (8.3.26) इति सेधन्तम् ॥ कौश्स्_5,10{46}.23 ॥]
ऽअग्नी रक्षांसिऽ इत्यृचाग्निमुपतिष्ठतेऽग्निसेधने एषा शान्तिः ॥
[यदस्मृति (7.111) इति सन्देशमपर्याप्य ॥ कौश्स्_5,10{46}.24 ॥]
अथ सन्देशे विस्मृते ऽयदस्मृतिऽ इत्यृचाग्निमुपतिष्ठते । यदि ग्रामे वा गृहे वा सन्देशं न कथयति तदा इदं प्रायश्चित्तम् ॥
अथ पापनक्षत्रे जाते स्त्री वा पुरुषो वा यो जातस्तस्य शान्तिरुच्यते -
[प्रत्नो हि (6.110) इति पापनक्षत्रे जाताय मूलेन ॥ कौश्स्_5,10{46}.25 ॥]
अभ्यातानान्तं कृत्वा तस्य मुञ्जरज्ज्वा कण्ठे च पादे च बद्ध्वा ततः ऽप्रत्नो हिऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्य दर्भपिञ्जूली घटे प्रक्षिप्य ततोऽभिषिञ्चति । ततोऽभ्यातानाद्युत्तरतन्त्रम् । ग्रीवां पाशं नदीफेनेषु निदधाति ऽनदीनां फेनान्ऽ (6.113.2) इत्यर्धर्चेन कटिपाशमुदकमध्ये प्रक्षिपति । मातृपितृभ्रातृषु दोषः श्रूयते तस्मात् पापनक्षत्रे शान्तिः कर्तव्येति । आर्द्राश्लेषा मघा चित्रा स्वाति विशाखा ज्येष्ठा मूलं शतभिषक् भरणी एतानि पापनक्षत्राणि । एतेषु यो जायते तस्येदं कर्म गण्डेन सन्धौ च । मूले नक्षत्र इदं कर्म क्रियते । यो नक्षत्रकल्पोक्तं कर्म कुर्यात्तदुच्यते । अभ्यातानान्तं कृत्वा ऽप्रत्नो हिऽ इति सूक्तेनागमक्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । एतस्मिन् तन्त्रे समूलं बर्हि स्तृणाति समूलमिध्ममुपसमाधायैष विशेषः । नक्षत्रकल्पोक्तं सर्वं च । काले प्रयोगः । एतन्नक्षत्रकल्प उक्तम् । एतानि पापनक्षत्रे जातस्य समाप्तानि । एषा नक्षत्रकल्पोक्ता शान्तिः । आप्लावनावसेचने च क्षीरौदनप्राशनं चैतानि त्रीणि । अथवा ऽप्रत्नो हिऽ इति सूक्तेनोदकमभिमन्त्र्य पापनक्षत्रजातमवसिञ्चति शिरसि । एतानि त्रीणि कर्माणि भवन्ति । समाप्ता पापनक्षत्रजातशान्तिः ॥
अथ ज्येष्ठे भ्रातरि जीवति विवाहमाधानं दीक्षां च करोति तस्य शान्तिरुच्यते -
[मा ज्येष्ठम् (6.112) त्रिते देवाः (6.113) इति परिवित्तिपरिविविदानावुदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौश्स्_5,10{46}.26 ॥
अवसिञ्चति ॥ कौश्स्_5,10{46}.27 ॥
फेनेषूत्तरान् पाशानाधाय नदीनां फेनान् (6.113.2) इति प्रप्लावयति ॥ कौश्स्_5,10{46}.28 ॥]
तन्त्रं कृत्वा ऽमा ज्येष्ठम्ऽ ऽत्रिते देवाःऽ इति सूक्ताभ्यामुदकघटं सम्पात्याभिमन्त्र्य ततो मौञ्जैः पाशैर्बद्ध्वा ततो दर्भसहितेन घटेनाप्लावयति । तत उत्तरतन्त्रम् । उत्तरपाशं ऽनदीनां फेनान्ऽ इत्यर्धर्चेन नदीफेने निदधाति । अधरपाशान् गृहीत्वा नदीमध्ये प्रविश्य तूष्णीं प्रक्षिपति ॥
[सर्वैश्च प्रविश्यापां सूक्तैः ॥ कौश्स्_5,10{46}.29 ॥]
ऽमा ज्येष्ठम्ऽ ऽत्रिते देवाःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य ततो बन्धनं कृत्वा ततोऽवसिञ्चति । पूर्ववत् पाशोत्सर्गः । अभ्यातानान्तं तन्त्रं कृत्वा ऽअम्बयो यन्तिऽ इत्यादिभिः सर्वैरपां सूक्तैर्घटं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । परिवित्तिपरिवेत्तृप्रायश्चित्तम् । ऽअम्बयो यन्तिऽ इत्यादिभिः सर्वैरपां सूक्तैरुदकमभिमन्त्र्यावसिञ्चति । समाप्तं परिवित्तिपरिवेत्तृप्रायश्चित्तम् । द्वयोः पृथक् पृथक् भवति ॥
अथ मृते आचार्य इदं कर्म -
[देवहेडनेन मन्त्रोक्तम् ॥ कौश्स्_5,10{46}.30 ॥
आचार्याय ॥ कौश्स्_5,10{46}.31 ॥
उपदधीत ॥ कौश्स्_5,10{46}.32 ॥]
देवहेडनेनानुवाकेन (6.114-124) स्रुवेणाज्यं जुहोति । मृत आचार्य आहिताग्नौ इदं कर्म भवति ॥
अथ देवपितृवर्जितखदाशयहितस्यान्नस्य याज्ञिकेन कर्मणा भवति तदुच्यते -
[खदाशयस्यावपते ॥ कौश्स्_5,10{46}.33 ॥
वैवस्वतं यजते ॥ कौश्स्_5,10{46}.34 ॥
चतुःशरावं ददाति ॥ कौश्स्_5,10{46}.35 ॥]
ऽयद्देवा देवहेडनम्ऽ इत्यनुवाकेन खदाया अन्नादुद्धृत्य सेतिकामेकां जुहोति । तन्त्रविकल्पः । प्रत्यृचं यवहोमः । वैवस्वतदेवताकं पाकयज्ञमाज्यभागान्तं कृत्वा ऽयद्देवा देवहेडनम्ऽ इत्यनुवाकेन चरुं जुहोति । खदाशयस्य प्रायश्चित्तम् । पार्वणाद्युत्तरतन्त्रम् । यद्देवा देवहेडनमित्यनुवाकेन खदान्नं चतुःशरावपरिमितमभिमन्त्र्य ततो ब्राह्मणाय ददाति । खदाशयान्नसंस्कारशान्तिः समाप्ता ॥
अथ मृते धनिक ऋणिकस्यर्णदानशान्तिरुच्यते -
[उत्तमर्णे मृते तदपत्याय प्रयच्छति ॥ कौश्स्_5,10{46}.36 ॥]
ऽअपमित्यमप्रतीत्तम्ऽ (6.117-119) इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य पुत्राय ददाति । अनृणो भवति ॥
[सगोत्राय ॥ कौश्स्_5,10{46}.37 ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य गोत्रिणे ददाति । अनृणो भवति ॥
[श्मशाने निवपति ॥ कौश्स्_5,10{46}.38 ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैः द्रव्यमभिमन्त्र्य धनिकस्य श्मशाने निक्षिपति । अनृणो भवति ॥
[चतुष्पथे च ॥ कौश्स्_5,10{46}.39 ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य ग्रामचतुष्पथे निक्षिपेत् । अनृणो भवति ॥
[कक्षानादीपयति ॥ कौश्स्_5,10{46}.40 ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्याग्नौ प्रज्वलिते प्रक्षिप्य ततोऽनृणो भवति । ऋणदानशान्तिः समाप्ता ॥
आकाशोदकेन शरीराप्लवने दोषो भवति तस्य शान्तिरुच्यते -
[दिवो नु माम् (6.124) इति वीध्रबिन्दून् प्रक्षालयति ॥ कौश्स्_5,10{46}.41 ॥
मन्त्रोक्तैः स्पृशति ॥ कौश्स्_5,10{46}.42 ॥]
ऽदिवो नु मां बृहतःऽ इति सूक्तेनोदकमभिमन्त्र्य शरीरं प्रक्षालयति । आकाशबिन्दुपतनदोषो न भवति । ऽदिवो नु मां बृहतःऽ इति सूक्तेनैकत्र तैलं सर्वौषधिः गन्धं हिरण्यं वास एतान्यभिमन्त्र्य शरीरमुद्वर्तयेत् । ततः शान्तिर्भवति । आकाशबिन्दुदोषोपशान्तिः समाप्ता ॥
अथ कुमारस्य कुमार्या वा यस्योत्तमदन्तौ पूर्वौ जातौ तत्र मातापित्रोर्मरणशङ्का भवति तत्र शान्तिरुच्यते -
[यस्योत्तमदन्तौ पूर्वौ जायेते यौ व्याघ्रौ (6.140) इत्यावपति ॥ कौश्स्_5,10{46}.43 ॥]
ऽयौ व्याघ्रौऽ इति सूक्तेन व्रीहिञ्जुहोति । ऽयौ व्याघ्रौऽ इति सूक्तेन यवाञ्जुहोति । ऽयौ व्याघ्रौऽ इति सूक्तेन तिलाञ्जुहोति । तन्त्रविकल्पः । सर्वत्र क्रमो नास्ति ॥
[मन्त्रोक्तान् दंशयति ॥ कौश्स्_5,10{46}.44 ॥]
ऽयौ व्याघ्रौऽ इति सूक्तेन व्रीहियवतिलमाषानेकीकृत्वाभिमन्त्र्योत्तमजातदन्ताभ्यां दंशयति ॥
[शान्त्युदकशृतमादिष्टानामाशयति ॥ कौश्स्_5,10{46}.45 ॥
पितरौ च ॥ कौश्स्_5,10{46}.46 ॥]
अथाज्यभागान्तं कृत्वा व्रीहियवतिलमाषानेकीकृत्य ततः शान्त्युदकं कृत्वा स्थालीपाकं श्रपयित्वा ततोऽभ्यातानानि हुत्वा ऽयौ व्याघ्रौऽ इति सूक्तेन स्थालीपाकं सम्पात्याभिमन्त्र्य तत उत्तमजातदन्तमाशयति । मातापितरौ वाशयतः । शान्त्युदकेन स्थालीपाकस्य श्रपणम् । आज्यभागान्ते सर्वत्र शान्त्युदकक्रिया कर्तव्या । अभ्यातानाद्युत्तरतन्त्रम् । उत्तमदन्तजातदोषशान्तिः समाप्ता ॥
अथ शिरसि अङ्गे वा काकोपविष्टदोषः श्रूयते तस्य शान्तिरुच्यते -
[इदं यत्कृष्णः (7.64) इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति ॥ कौश्स्_5,10{46}.47 ॥]
ऽइदं यत्कृष्णःऽ इति द्वाभ्यामृग्भ्यामुदकमभिमन्त्र्य शरीरं प्रक्षालयति । काकोपविष्टदोषो न भवति । स्नानं वा करोति ॥
[उपमृष्टं पर्यग्नि करोति ॥ कौश्स्_5,10{46}.48 ॥]
ऽइदं यत्कृष्णःऽ इति द्वाभ्यामृग्भ्यामुल्मुकमभिमन्त्र्य काकमुखेनोपमृष्टं पुरुषं पर्यग्नि करोति । उपरि भ्रामयित्वा दूरे निक्षिपति । काकोपविष्टदोषशान्तिः समाप्ता ॥
अथ संसर्गदोषशान्तिरुच्यते -
[प्रतीचीनफलः (7.65) इत्यपामार्गेध्मेऽपामार्गीरादधाति ॥ कौश्स्_5,10{46}.49 ॥]
बर्हिर्लवनाद्याज्यतन्त्र इध्मस्थानेऽपामार्गेध्ममुपसमाधाय ततोऽभ्यातानान्तं कृत्वा ऽप्रतीचीनफलःऽ इति तिसृभिरृग्भिरपामार्गसमिध आदधाति । सर्वत्र प्रादेशमात्रीः समिधो भवति । अभ्यातानाद्युत्तरतन्त्रम् । अथवापामार्गकाष्ठप्रज्वलितेऽग्नौ ऽप्रतीचीनफलःऽ इति तिसृभिरपामार्गसमिध आदधाति । हस्तहोमत्वात् तन्त्रविकल्पः । सर्वेषु रोगेषु श्यावदता कुनखिना षण्डेन ज्वरेणापामार्गादि सर्वेषु रोगेषु संसर्गेषु सर्वदोषान्मुच्यते । संसर्गे दोषशान्तिः समाप्ता ॥
[यदर्वाचीनम् (10.5.22) इत्याचामति ॥ कौश्स्_5,10{46}.50 ॥]
ऽयदर्वाचीनम्ऽ इत्यृचोदकमभिमन्त्र्याचामयति । अनृतमुक्त्वाचमनं करोति ॥ वणिज्यनृतं कृत्वाचमनं करोति । अनृतदोषो न भवति । अनृतवचनदोषशमनशान्तिः समाप्ता ॥
[यत्ते भूमे (12.1.35) इति विखनति ॥ कौश्स्_5,10{46}.51 ॥]
यत्र क्वचित् खनति तत्र सर्वत्र ऽयत्ते भूमेऽ इत्यृचा खनति गृहनिधौ वा स्थूणागर्ते वा स्नानार्थं मृत्तिकाग्रहप्रकरणार्थं सर्वत्र मृत्तिकाखननं विधानेन ॥
[यत्त ऊनम् (12.1.61) इति संवपति ॥ कौश्स्_5,10{46}.52 ॥]
ऽयत्त ऊनम्ऽ इत्यृचा गृहादि पूरयति सर्वत्रानेन विधानेन पूरणम् । खनने खननदोषो न भवति । पूरणे पूरणदोषो न भवति । समाप्ता खननपूरणशान्तिः ॥
अथ शकुनशान्तिरुच्यते -
[प्रेहि प्र हर इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ॥ कौश्स्_5,10{46}.53 ॥
प्रेहि प्र हर वा दावान् गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद ॥ भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात् कपिञ्जल ॥ शुनं वद दक्षिणतः शुनमुत्तरतो वद । शुनं पुरस्तान्नो वद शुनं पश्चात् कपिञ्जल ॥ भद्रं वद पुत्रैर्भद्रं वद गृहेषु च । भद्रमस्माकं वद भद्रं नो अभयं वद ॥ आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन् वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥ यौवनानि महयसि जिग्युषामिव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ॥ कौश्स्_5,10{46}.54 ॥]
ऽप्रेहि प्र हर वा दावान्ऽ इति सूक्तेन षडर्चेनापशब्दं श्रुत्वा जपति कपिञ्जलवासितं श्रुत्वा ग्रामेऽरण्ये पक्षिवासितं श्रुत्वा वा स्वयं वा क्रुद्धभाषणं कृत्वान्यस्यासद्वचनं श्रुत्वा सागोवासे वा उलूकवासने कपोतवासने पूर्वतो वोत्तरतो वा लोके निन्दितः । यत्किञ्चिल्लोकविरुद्धं दृष्ट्वा श्रुत्वा वा सर्वत्र जपने स्वस्त्ययनं भवति । ऽप्रेहि प्र हरऽ इति सूक्तं नित्यं जपति ।
स्वस्त्ययनकामः । समाप्तं नित्यजपस्वस्त्ययनम् । अपशकुनजपस्त्ययनशान्तिः समाप्ता ॥
[यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगत्स्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान् वरुणो दधत् इत्यभ्यवकाशे संविशत्यभ्यवकाशे संविशति ॥ कौश्स्_5,10{46}.55 ॥]
आकाशे यद्धि स्वपिति अरण्ये वा गृहे वा शून्ये गृहे वा पर्वते वा तदा ऽयो अभ्यु बभ्रुणाऽ इत्यृचं जपित्वा स्वपिति । राजसेना आकाशे स्वपिति अरण्ये तदेदं कर्म कुर्यात् । नैमित्तिकान्यवश्यं कर्तव्यानि । अकरणे धनधान्यपश्वादिविनाशः । तस्मान्नित्यनैमित्तिकानि कार्याणि । ऽजरायुज इति दुर्दिनमायन्ऽ (कौश्स् 38.1) इत्यादीनि । अथाद्भुतानि वर्षे यक्षष्वादीनि नैमित्तिकानि तान्यवश्यं कार्याणि । अकरणे गृहे ग्रामे वा नगरे वा जनपदे वा दोष उत्पद्यते । मेधाजनन-ग्रामसम्पदा-सर्वसम्पदा-साम्मनस्य-वर्चस्य-विजय-राजकर्म-पौष्टिक-स्त्रीकर्म-स्वस्त्ययनायुष्य-काम्यादीनि इज्यायाः प्रवृत्तिः । यदि काम्येच्छा तदा तदा प्रवृत्तिः । अथवा नेच्छा तदा न प्रयुञ्ज्यात् । नित्यानि जातकर्मादीनि । नित्यानां नैमित्तिकानामकरणे प्रत्यवायो भवति । तथा चोक्तम् -
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया.
मन्त्रक्रमेण नैमित्तिकान्युक्तानि संहिताविधौ ॥
मन्त्रविधानं कौशिके । ब्राह्मणपाठत्वात् समाप्तानि नैमित्तिकानि.
सर्वज्ञानप्रबोधार्थं विज्ञानं प्रोक्तवानृषिः.
दुष्टदोषविनाशाय नैमित्तिकानि पञ्चमे ॥
दशमी कण्डिका
इति कौशिकपद्धतौ पञ्चमोऽध्यायः समाप्तः ॥
अथ षष्ठोऽध्यायः
[अभिचारकर्माणि]
अथ क्रमप्राप्तोऽथर्ववेदविहितोऽभिचार उच्यते । मीमांसायामभिचारो निषिद्धः । ऽचोदनालक्षणोऽर्थो धर्मःऽ (जैसू 1.1.2) इति । हिंसाचारः प्रतिषिद्धः । पुनरुपपादेऽभिचारः समर्थितः । मनुस्मृतौ च विहितोऽभिचारो ऽन ब्राह्मणो वेदयिता कदाचित्ऽ इत्यादिना । तस्मात् श्रुतिरथर्वाङ्गिरसी कुर्यादभिचारकम् इति । दोषश्च श्रूयते । ऽषट्स्वभिचरन् पततिऽ इति मनुः । ऽप्रमाणं स्मृतिःऽ इत्युक्तं मीमांसायाम् । तस्माद्विहितोऽभिचारः कर्तव्यः ॥
उभयतः परिच्छिन्नं शरमयं बर्हिराभिचारिकेषु ॥ कौश्स्_6,1{47}.1 ॥
दक्षिणतः सम्भारमाहरत्याङ्गिरसम् ॥ कौश्स्_6,1{47}.2 ॥
आङ्गिरसकल्पोक्ताः सम्भाराः प्रत्येतव्याः । दक्षिणस्यां दिशि मण्डपं कुर्यात् । कृत्तिकानक्षत्रे प्रयोगः कृष्णपक्षे वा रात्रौ निरोधि वा.
मण्डपं कारयेत्तत्र यथोक्तविधिना गुरुः.
पताकातोरणैर्युक्तं द्वारं वा दक्षिणं स्मृतम् ॥
[इङ्गिडमाज्यम् ॥ कौश्स्_6,1{47}.3 ॥]
विषमिश्रमिङ्गिडमाज्यम् ॥
सव्यानिं ॥ कौश्स्_6,1{47}.4 ॥
दक्षिणापवर्गाणि ॥ कौश्स्_6,1{47}.5 ॥
दक्षिणाप्रवण ईरिणे दक्षिणामुखः प्रयुङ्क्ते ॥ कौश्स्_6,1{47}.6 ॥
साग्नीनि ॥ कौश्स्_6,1{47}.7 ॥
अग्ने यत्ते तपः (2.19-23) इति पुरस्ताद्धोमाः ॥ कौश्स्_6,1{47}.8 ॥
[तथा तदग्ने कृणु जातवेदः (5.29.2, 3) इत्याज्यभागौ ॥ कौश्स्_6,1{47}.9 ॥
निरमुं नुदे (6.75) इति संस्थितहोमाः ॥ कौश्स्_6,1{47}.10 ॥
कृत्तिकारोकारोधावाप्येषु ॥ कौश्स्_6,1{47}.11 ॥]
ऽतथा तदग्नेऽ इत्यादि स्मर्तव्यं सर्वत्र । अभ्यातानान्तं कृत्वा ऽदूष्या दूषिरसिऽ (2.11) इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति । कारयिता कर्ता सदस्याश्च सर्वेषां बन्धनमात्मरक्षार्थम् ॥
अधुना दीक्षोच्यते -
[भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति ॥ कौश्स्_6,1{47}.12 ॥]
शुक्लपक्षे त्रयोदश्यां पूर्वाह्णेऽभ्यातानान्तं कृत्वा ऽद्यावापृथिवी उर्वन्तरिक्षम्ऽ (2.12) इति सूक्तम् । ऽकनकरजतऽ इति सूक्तम् । द्वाभ्यां वेणुदण्डं वृश्चति छिनत्ति कर्ता ॥
[मृत्योरहम् (6.133.3) इति बाधकीमादधाति ॥ कौश्स्_6,1{47}.13 ॥]
ऽमृत्योरहम्ऽ इत्यृचा बाधकीरादधाति समिधः ॥
[य इमाम् (6.133) अयं वज्रः (6.134) इति द्विगुणामेकवीरां सन्नह्य पाशान्निमुष्टितृतीयं दण्डं सम्पातवत् ॥ कौश्स्_6,1{47}.14 ॥
पूर्वाभिर्बध्नीते ॥ कौश्स्_6,1{47}.15 ॥]
ऽय इमां देवो मेखलाम्ऽ इति पञ्चर्चेन सूक्तेन मेखलां सम्पात्य । ऽअयं वज्रःऽ इति तृचेन सूक्तेन दण्डं सम्पात्य ऽय इमाम्ऽ इति तृचेन मेखलां बध्नाति ॥
[वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वामद्य वनस्पते वृक्षाणामुदयुष्महि ॥ स न इन्द्र पुरोहितो विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥ प्राण प्राणं त्रयस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च इति दण्डमादत्ते ॥ कौश्स्_6,1{47}.16 ॥]
ऽवज्रोऽसि सपत्नहाऽ इति तृचेन सूक्तेन दण्डं गृह्णाति । ऽनमो नमस्कृद्भ्यःऽ इति सप्तर्षिभ्य उपस्थानं करोति शालाया बहिः । ततः शालायां प्रविश्य ततो व्रतादानीयाः समिध आदधाति शान्ताः । व्रतश्रावणं तस्मिन् करोति । अभ्यातानाद्युत्तरतन्त्रम् । दीक्षितस्त्रिरात्रमनशनम् । त्रिरात्रे निवृत्ते कृष्णपक्षे प्रतिपदि कर्म भविष्यति.
ऽनमो नमस्कृद्भ्यः सुमति प्रयुञ्जे न मे प्रसूत तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणा नयामेन्याऽ इत्युपस्थानमन्त्रः.
ऽअग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तस्मिन् मे ऋद्धिः । तस्मै नमस्तस्मै स्वाहाऽ इति । इन्द्र । सोम । सूर्य । चन्द्र । देवा व्रतपतयः । आपो व्रतपत्न्यः । व्रतानां व्रतपतयः । व्रतादानीयाः समिधमन्त्राः ॥
ऽकनकरजतकरेद्वसोपा मारयिष्यामि तं जनम् । प्रजां तस्य पशूंश्च एते अग्ने आवृश्चाम्यहन् न्युदितो जने । गृहांश्च तस्य विनाशनकामे कामवानहंऽ च.
अन्वा वृश्चामि देवेभ्य अन्वा वृश्चाम्यग्नये.
अन्वा पृथिव्यै वृश्चामि अन्वा वृश्चामि मृत्यवे ॥
आवृक्ते असि देवेभ्यो दृष्ट्वा ओषधीषु च.
आवृक्त इति द्वे (द्वे) । विष्णो सं त्वा वृश्चामि सर्वतः ॥
ऽअन्वा वृश्चामि देवमनुष्येभ्यो भूतये । अन्वा निरृत्याः पाशेभ्यो वृश्चामि यथा मृत्यो न मोच्छिषत्ऽ । आङ्गिरसदण्डवृश्चनसूक्तम् ॥
[भक्तस्याहुतेन मेखलाया ग्रन्थिमालिम्पति ॥ कौश्स्_6,1{47}.17 ॥]
प्रतिदिनं भक्तं गृहीत्वा मेखलाया ग्रन्थिमालिम्पति ऽआहुतास्यभिहुतऽ (6.133.2) इत्यृचा ॥
[अयं वज्रः (6.134) इति बाह्यतो दण्डमूर्ध्वमवागग्रं तिसृभिरन्वृचं निहन्ति ॥ कौश्स्_6,1{47}.18 ॥
अन्तरुपस्पृशेत् ॥ कौश्स्_6,1{47}.19 ॥]
ऽअयं वज्रःऽ इति तिसृभिरृग्भिः बाह्यतो दण्डमर्धमवागग्रं कृत्वान्वृचं निहन्ति ॥
[यदश्नामि (6.135) इति मन्त्रोक्तम् ॥ कौश्स्_6,1{47}.20 ॥
यत्पात्रमाहन्ति फड्ढतोऽसौ इति ॥ कौश्स्_6,1{47}.21 ॥
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावप्यायच्छामि इत्यायच्छति ॥ कौश्स्_6,1{47}.22 ॥]
ऽयदश्नामिऽ, ऽयद् गिरामिऽ इति द्वाभ्यामृग्भ्यां भोजनं करोति । ऽयत्पिबामिऽ इत्यृचोदकं पिबति । अमुष्यस्थाने शत्रुनामग्रहणममुंस्थाने च । ऽफड्ढतो महुमदःऽ इत्येतेन मन्त्रेण भोजनपात्रं भिनत्ति । आचमनं कृत्वा । ऽइदमहं महुमदस्य तुरष्कस्य सूतिकर्णपुत्रस्य प्राणापानावप्यायच्छामिऽ इत्यनेन मन्त्रेण मेखलाग्रन्थिं बध्नाति गाढं करोति । प्रत्यहमेतत् कर्म ॥
[येऽमावास्याम् (1.16) इति सन्नह्य सीसचूर्णानि भक्तेऽलङ्कारे ॥ कौश्स्_6,1{47}.23 ॥]
ऽयेऽमावास्याम्ऽ इति सूक्तेन सीसचूर्णानि कृत्वाभिमन्त्र्य भक्ते ददाति द्वेषस्य । ऽयेऽमावास्याम्ऽ इति सूक्तेनालङ्कारान् समालभते द्वेषस्य ॥
[पराभूतवेणोर्यष्ट्या बाहुमात्र्यालङ्कृतयाहन्ति ॥ कौश्स्_6,1{47}.24 ॥]
ऽयेऽमावास्याम्ऽ इति सूक्तेन वेणुयष्ट्यालङ्कृतया शत्रुमाहन्ति । बाहुमात्रा लोहितविषमिश्रा स्वयञ्छिन्ना यष्टिसंस्कारः ॥
[द्यावापृथिवी उरु (2.12) इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति ॥ कौश्स्_6,1{47}.25 ॥]
ऽद्यावापृथिवी उरुऽ इति सूक्तेन परशुं वृक्षपत्रं च गृहीत्वा दक्षिणा धावतः शत्रोः पदं रजं छिनत्ति ॥
[अन्वक् त्रिस्तिर्यक् त्रिः ॥ कौश्स्_6,1{47}.26 ॥
अक्ष्णया संस्थाप्य ॥ कौश्स्_6,1{47}.27 ॥]
तिरश्चीनं त्रिः कोणे एकैकम् । एवमष्टवारान् । सूक्तावृत्तिः ॥
[आव्रस्कान् पांशून् पलाशमुपनह्य भ्रष्टेऽभ्यस्यति ॥ कौश्स्_6,1{47}.28 ॥]
तस्माच्छेदात् पांसूंश्च गृहीत्वा बधकपत्रे बद्ध्वा सूक्तेनाभिमन्त्र्य भ्रष्टेऽभ्यस्यति क्षिपति ॥
[स्फोटत्सु स्तृतः ॥ कौश्स्_6,1{47}.29 ॥]
यदि स्फोटति द्वेष्यो मृतो जानीयात् । अथवा एतत्सर्वं प्रतिकृतेः कर्तव्यमिति ॥
अभिचारतन्त्रमुच्यते -
दक्षिणामुखः प्रयुङ्क्ते । ऽअव्यसश्चऽ (19.69.1) बर्हिर्लवनम्, वेदिः, उत्तरवेदिः, चाण्डालाग्निप्रणयनम्, अग्निप्रतिष्ठापनम्, ऽममाग्ने वर्चःऽ (5.3.1) इति व्रतग्रहणम्, इध्मप्रोक्षणम्, इध्मोपसमाधानम्, ब्रह्मासनं पश्चिमतः, ब्रह्मस्थापनम्, शरमयं बर्हिःप्रोक्षणम्, प्रसव्यं स्तरणम्, स्तीर्णप्रोक्षणम् प्रसव्यमात्मासनसंस्कारः, उदपात्रस्थापनम्, लोहमयस्रुवग्रहणम्, शाकपात्रेणेमामिङ्गिडविषमिश्राज्यं संस्कृत्य ग्रहग्रहणे विशेषः । ऽमहुमदस्य त्वा प्राणाय गृह्णेऽ इत्यादि पञ्चमग्रहग्रहणम् । ऽअग्ने यत्ते तपःऽ (2.19-23) इति पुरस्ताद्धोमाः । पञ्च सूक्तानि । ऽतथा तदग्ने कृणु जातवेदःऽ (5.29.2-3) इति ऋचावाज्यभागौ । ततोऽभ्यातानान्तं पूर्वतन्त्रम् । आभिचारिके तन्त्रे पूर्वतन्त्रम्.
अथोत्तरतन्त्रमुच्यते-स्विष्टकृदाद्युत्तरतन्त्रम् । सर्वत्राभिचारकर्मणि अभ्यातानानि हुत्वा ततः स्विष्टकृदाद्युत्तरतन्त्रम् । विष्णुक्रमा द्वादश । ऽनिरमुं नुदेऽ (6.75) इति संस्थितहोमाः । उदपात्रे सम्पाता न भवन्ति । अभिचारतन्त्रे सर्वत्रास्मिन् -
पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयीत ॥ कौश्स्_6,1{47}.30 ॥
द्वादशरात्रं यावत् ॥
तत उत्थाय त्रिरह्न उदवज्रान् प्रहरति ॥ कौश्स्_6,1{47}.31 ॥
दक्षिणामुखः संवेशनं करोति । शय्याया उत्थाय त्रिरह्नः प्रातर्मध्यन्दिने सन्ध्यायां चोदकं हस्ते कृत्वा दक्षिणामुखः प्रक्षिपति ऽद्यावापृथिवीऽ (2.12) सूक्तेन प्रत्यृचम् ॥
[नद्या अनामसम्पन्नाया अश्मानं प्रास्यति ॥ कौश्स्_6,1{47}.32 ॥]
ततो नद्या अनामसम्पन्नाया अश्मानं गृहीत्वा दक्षिणप्रदेशे प्रहरति । ऽद्यावापृथिवी उरुऽ इति सूक्तेन प्रत्यृचम् । अश्मानं त्रिकालं प्रहरति ॥
[उष्णेऽक्षतसक्तूननूपमथिताननुच्छ्वसन् पिबति ॥ कौश्स्_6,1{47}.33 ॥]
उष्णोदकमध्येऽक्षतसक्तून् प्रक्षिप्य पिबेत् अनालोडितान् एकोच्छ्वासेन ॥
[कथं त्रींस्त्रीन् काशींस्त्रिरात्रम् ॥ कौश्स्_6,1{47}.34 ॥
द्वौ द्वौ त्रिरात्रम् ॥ कौश्स्_6,1{47}.35 ॥
एकैकं षड्रात्रम् ॥ कौश्स्_6,1{47}.36 ॥]
त्रींस्त्रीन् मुष्टीन् त्रिरात्रं द्वौ द्वौ द्विरात्रम् । एकैकं षड्रात्रं भुङ्क्ते ऽआहुतास्यभिहुतऽ (6.133.2) इत्येवमादि स्मर्तव्यम् ॥
[द्वादश्याः प्रातः क्षीरौदनं भोजयित्वोच्छिष्टानुच्छिष्टं बहुमत्स्ये प्रकिरति ॥ कौश्स्_6,1{47}.17 ॥
सन्धावत्सु स्तृतः ॥ कौश्स्_6,1{47}.38 ॥]
त्रयोदशेऽहनि शय्याया उत्थायोत्तरतन्त्रं कृत्वा ब्राह्मणान् परिचारकांश्च क्षीरौदनं भोजयित्वा पात्रस्थमुच्छिष्टमेकधा कृत्वा ऽद्यावापृथिवी उरुऽ इति सूक्तेनाभिमन्त्रयेत्.
तं गृहीत्वा बहुमत्स्ये गर्ते प्रक्षिपेत् । यदि ते धावन्तो दृश्यन्ते ततो द्वेष्यो मृतो जानीयात् । एकं कर्म ॥
आभिचारिकं पूर्वतन्त्रं कृत्वा "पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयति । तत उत्थाय त्रिरह्न" इति वर्तते ॥ नद्या अनामसम्पन्नाया अश्मानं प्रास्यति प्रत्यृचम् । ऽद्यावापृथिवी उरुऽ इति सूक्तेन त्रिकालम् । उष्णोदकसक्तूनिति समानम् ॥
[लोहितशिरसं कृकलासम् अमून् हन्मि इति हत्वा सद्यः कार्यो भाङ्गे शयने ॥ कौश्स्_6,1{47}.39 ॥
लोहितालङ्कृतं कृष्णवसनमनूक्तं दहति ॥ कौश्स्_6,1{47}.40 ॥]
ऽद्यावापृथिवीऽ इति सूक्तेन लोहितशिरसं कृकलासं शत्रोर्नामोच्चार्य मारयित्वा प्रेतवत् कृत्वाभिमन्त्र्य दहति ॥
[एकपदाभिरन्योऽनुतिष्ठति ॥ कौश्स्_6,1{47}.41 ॥]
ततः ऽअग्ने यत्ते तपःऽ (2.19-23) इति पञ्चभिः सूक्तैरुपतिष्ठते । अन्यः कर्ता । एकपादेनोर्ध्वस्थितः ॥
[अङ्गशः सर्वहुतमन्यम् ॥ कौश्स्_6,1{47}.42 ॥]
आभिचारिकं तन्त्रं कृत्वा ऽद्यावापृथिवीऽ इति सूक्तेन कृकलासमष्टधा कृत्वा प्रत्यृचं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदजननात् ॥ कौश्स्_6,1{47}.43 ॥]
अभ्यातानान्तं कृत्वा पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदजननात् ॥
[निवृत्य स्वेदालङ्कृता जुहोति ॥ कौश्स्_6,1{47}.44 ॥]
निवृत्य वेद्यामुपवेश्य ऽद्यावापृथिवीऽ इति सूक्तेन स्वेदाक्ताः शरभृष्टीः प्रत्यृचं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[कोश उरःशिरोऽवधाय पदात् पांसून् ॥ कौश्स्_6,1{47}.45 ॥]
अभ्यातानान्तं कृत्वा कृकलासस्योरःशिरोऽवधाय पश्चादग्नेर्निधायोदग्व्रजत्या स्वेदजननात् । निवृत्य स्वेदेनालङ्कृत्य ऽद्यावापृथिवीऽ इति सूक्तेन जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा शत्रुपादात् पांसून् गृहीत्वा पश्चादग्नेर्निधायोदग्व्रजत्या स्वेदजननात् । निवृत्य स्वेदालङ्कृतान् पांसून् ऽद्यावापृथिवीऽ इति सूक्तेन जुहोति । उत्तरतन्त्रम् ॥
[पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणाम् ॥ कौश्स्_6,1{47}.46 ॥
विषं शिरसि ॥ कौश्स्_6,1{47}.47 ॥
बाधकेनावागग्रेण प्रणयन्नन्वाह ॥ कौश्स्_6,1{47}.48 ॥
पाशे स (2.12.2) इति कोशे ग्रन्थीनुद्ग्रथ्नाति ॥ कौश्स्_6,1{47}.49 ॥]
पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणां कृकलासशरीरेऽवधाय विषं शिरसि दत्त्वा बाधकेनावागग्रेण नीत्वा ऽद्यावापृथिवीऽ इति सूक्तेनाभिमन्त्र्य ऽपाशे सःऽ इति पादेन ग्रन्थीन्कोशे बध्नाति ॥
आमुम् (2.12.4) इत्यादत्ते ॥ कौश्स्_6,1{47}.50 ॥
मर्मणि खादिरेण स्रुवेण गर्तं खनति ॥ कौश्स्_6,1{47}.51 ॥
बाहुमात्रम् [अतीव यः (2.12.6) इति शरैरवज्वालयति ॥ कौश्स्_6,1{47}.52 ॥]
ऽअतीव यःऽ इत्यवज्वाल्य तत्र निदधाति ॥
[अवधाय सञ्चित्य लोष्टं स्रुवेण समोप्य ॥ कौश्स्_6,1{47}.53 ॥]
सञ्चित्य लोष्टं मृत्तिकोपरि निदधाति । ऽद्यावापृथिवीऽ इति सूक्तेन स्रुवेण जुहोति ॥
[अमुमुन्नैषम् इत्युक्तावलेखनीम् ॥ कौश्स्_6,1{47}.54 ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनावलेखनीं हृदये विध्यत्यसितालकाण्डेन ॥
[छायां वा ॥ कौश्स्_6,1{47}.55 ॥]
ऽद्यावापृथिवीऽ इति सूक्तेन यष्टिना द्वेष्यस्य छायामाहन्ति ॥
[उपनिनयते ॥ कौश्स्_6,1{47}.56 ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनोदपात्रमभिमन्त्र्य निनयति ॥
[अन्वाह ॥ कौश्स्_6,1{47}.57 ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनान्वाह शत्रुमारणकामः ॥ षष्ठेऽध्याये प्रथमा कण्डिका
[भ्रातृव्यक्षयणम् (2.18) इत्यरण्ये सपत्नक्षयणीरादधाति ॥ कौश्स्_6,2{48}.1 ॥]
ऽभ्रातृव्यरक्षणम्ऽ इति सूक्तेन अश्वत्थसमिध आदधाति । ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन बाधकसमिध आदधाति । ऽभ्रातृव्यक्षयणम्ऽ इत्येरण्डसमिध आदधाति । ऽभ्रातृव्यक्षयणम्ऽ इति श्लेष्मान्तकसमिध आदधाति । ऽभ्रातृव्यक्षयणम्ऽ इति खदिरसमिध आदधाति । ऽभ्रातृव्यक्षयणम्ऽ इति शरसमिध आदधाति । अरण्यकर्म ॥
[ग्राममेत्यावपति ॥ कौश्स्_6,2{48}.2 ॥]
ग्राममेत्य । ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णव्रीहीनावपति । ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णयवानावपति । ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णतिलानावपति । पुनरपि ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन व्रीहीनावपति । ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन यवानावपति । ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन तिलानावपति । एवं षडावृत्तिः सूक्तस्य ॥
[पुमान् पुंसः (3.6) इति मन्त्रोक्तमभिहुतालङ्कृतं बध्नाति ॥ कौश्स्_6,2{48}.3 ॥]
अभ्यातानान्तं कृत्वा ऽपुमान् पुंसःऽ इति सूक्तेनाभिहुतालङ्कृतमाश्वत्थमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । स्रुवाग्रे दण्डे बन्धनमभिहुतं सम्पातितं भवति ॥
[यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रांश्चम्वा मर्मणि निखनति ॥ कौश्स्_6,2{48}.4 ॥]
अभ्यातानान्तं कृत्वा ऽपुमान् पुंसःऽ इति सूक्तेन यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽभिमन्त्र्य शत्रुमर्मणि निखनति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[नावि प्रैणान् (3.6.8) नुदस्व काम (9.2.4) इति मन्त्रोक्तं शाखया प्रणुदति ॥ कौश्स्_6,2{48}.5 ॥]
अभ्यातानान्तं कृत्वा यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रान् सप्तसु मर्मसु ऽपुमान् पुंसःऽ इति सूक्तेन निखनति । ततोऽश्वत्थशाखया ऽप्रैणान् नुदे मनसाऽ इत्यृचा ऽनुदस्व कामऽ इत्यृचा प्रणुदति । तत उत्तरतन्त्रम् ॥
[तेऽधराञ्चः (3.6.7) इति प्रप्लावयति ॥ कौश्स्_6,2{48}.6 ॥]
अभ्यातानान्तं कृत्वा यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रान् सम्पात्याभिमन्त्र्य ऽपुमान् पुंसःऽ इति ततः ऽतेऽधराञ्चःऽ इत्यृचोदके प्लावयति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[बृहन्नेषाम् (4.16) इत्यायन्तं शप्यमानमन्वाह ॥ कौश्स्_6,2{48}.7 ॥]
ऽबृहन्नेषाम्ऽ इति सूक्तेन शत्रुं क्रोशन्तमन्वाह । मरणं भवति ॥
[वैकङ्कतेन (5.8) इति मन्त्रोक्तम् ॥ कौश्स्_6,2{48}.8 ॥]
बर्हिर्लवनादि कृत्वा वैकङ्कतवृक्षस्येध्मोपसमाधानम् । वैकङ्कतस्रवग्रहणम् । अभ्यातानान्तं समानम् । ऽवैकङ्कतेनऽ इति सूक्तेन जुहोति । तत उत्तरतन्त्रम् ॥
[ददिर्हि (5.13) इति साग्नीनि ॥ कौश्स्_6,2{48}.9 ॥]
ऽददिर्हि मह्यम्ऽ इति सूक्तेन कृकलासकर्म । शरभृष्टिकर्म । सपत्नक्षयणीकर्माणि षट् । ग्राममेत्यावपनकर्माणि षट् । मणिकर्म । पाशकर्माणि त्रीणि । वैकङ्कतस्रुवकर्म । एकोनविंशतितन्त्राणि भवन्ति । ऽददिर्हि मह्यम्ऽ इति सूक्तेन प्रधानमव्ययं मत्स्यादिब्राह्मणतर्पणपर्यन्तं समानम् ॥
[देशकपटु प्रक्षिणाति ॥ कौश्स्_6,2{48}.10 ॥]
ऽददिर्हि मह्यम्ऽ इति सूक्तेन सर्पच्छत्रं चूरयति ॥
[तेऽवदन् (5.17) इति नेतॄणां पदं वृश्चति ॥ कौश्स्_6,2{48}.11 ॥]
ऽतेऽवदन्ऽ इति सूक्तेन नेतॄणां पदं वृश्चति । विधानेन सूक्तावृत्तिः ॥
गोहरणेऽभिचारः -
[अन्वाह ॥ कौश्स्_6,2{48}.12 ॥]
ऽतेऽवदन्ऽ इति सूक्तेन चौरानन्वाह ॥
[ब्रह्मगवीभ्यामन्वाह ॥ कौश्स्_6,2{48}.13 ॥]
ऽनैतां ते देवाःऽ ऽअतिमात्रम्ऽ (5.18, 19) इति सूक्ताभ्याम् । ऽश्रमेण तपसाऽ (12.5) इत्यनुवाकः । सदा गोहरण - मारण - विशसनदोहनेषु क्रियमाणेषु ब्रह्मगवीं जपति ॥
[चेष्टाम् ॥ कौश्स्_6,2{48}.14 ॥
विचृतति ॥ कौश्स्_6,2{48}.15 ॥
ऊबध्ये ॥ कौश्स्_6,2{48}.16 ॥
श्मशाने ॥ कौश्स्_6,2{48}.17 ॥]
ऽनैतां तेऽ इति सूक्ताभ्यां चेष्टां विचृतति श्मशान ऊबध्येऽश्मानमवधाय ततोपरि स्थितः । ऽनैतां तेऽ इति सूक्ताभ्यां ऽश्रमेण तपसाऽ इत्यनुवाकं जपति ॥
[त्रिः अमून् हनस्व इत्याह ॥ कौश्स्_6,2{48}.18 ॥]
त्रिः ऽअमून् हनस्वऽ इति वदति ॥
[द्वितीययाश्मानमूबध्ये गूहयति ॥ कौश्स्_6,2{48}.19 ॥
द्वादशरात्रं सर्वव्रत उपश्राम्यति ॥ कौश्स्_6,2{48}.20 ॥
द्विरुदिते स्तृतः ॥ कौश्स्_6,2{48}.21 ॥
अवागग्रेण निवर्तयति ॥ कौश्स्_6,2{48}.22 ॥]
द्वादशरात्रं यावत् । अहरहः ऽददिर्हिऽ इति सूक्तेन । ततः दधोहनि (?) मृतो द्वेष्य इति जानीयात् । न सन्देहः । अयं भवितव्यम् ॥
[उप प्रागात् (6.37) इति शुने पिण्डं पाण्डुं प्रयच्छति ॥ कौश्स्_6,2{48}.23 ॥]
ऽउप प्रागात् सहस्राक्षःऽ इति श्वेतमृत्तिकामभिमन्त्र्य शुने प्रयच्छति ॥
[तार्च्छं बध्नाति ॥ कौश्स्_6,2{48}.24 ॥]
तन्त्रं कृत्वा ऽउप प्रागात्ऽ इति सूक्तेन पलाशमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥
[जुहोति ॥ कौश्स्_6,2{48}.25 ॥]
तन्त्रं कृत्वा ऽउप प्रागात्ऽ इति सूक्तेन इङ्गिडं जुहोति । उत्तरतन्त्रम् ॥
[आदधाति ॥ कौश्स्_6,2{48}.26 ॥]
ऽउप प्रागात्ऽ इति सूक्तेन समिध आदधाति ॥
[इदं तद्युजे (6.54) यत् किं चासौ मनसा (7.70) इत्याहिताग्निं प्रतिनिर्वपति ॥ कौश्स्_6,2{48}.27 ॥
मध्यमपलाशेन फलीकरणाञ्जुहोति ॥ कौश्स्_6,2{48}.28 ॥]
ऽइदं तद्युजेऽ इति सूक्तेनाहिताग्नौ यवादि निर्वपति । आहिताग्नेरभिचारः । ऽइदं तद्युजेऽ इति सूक्तेन मध्यमपलाशपर्णेन फलीकरणाञ्जुहोति । ऽयत् किं चासौ मनसाऽ इति पञ्चर्चेन सूक्तेनाहिताग्नौ यवादि प्रतिनिर्वपति । ऽयत् किं चासौऽ इति सूक्तेन फलीकरणाञ्जुहोति ॥
[निरमुम् (6.75) इत्यङ्गुष्ठेन त्रिरनुप्रस्तृणाति ॥ कौश्स्_6,2{48}.29 ॥]
बर्हिर्लवनादि प्रतिष्ठापनान्तं कृत्वा ऽनिरमुं नुदेऽ इति सूक्तेन तमग्निमङ्गुष्ठेन त्रिवारं स्फोटयति । पुनः शरम् । अन्यमग्निं प्रणयति । ऽनिरमुं नुदेऽ इति सूक्तेन स्तरणं कृत्वा पुनर्मन्त्रेण स्तृणाति ॥
[शरं कद्विन्दुकोष्ठैरनुनिर्वपति ॥ कौश्स्_6,2{48}.30 ॥]
ऽनिरमुं नुदेऽ इति सूक्तेन कध्विण्डकोष्ठैरनुनिर्वपति ॥
[लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति ॥ कौश्स्_6,2{48}.31 ॥]
अभ्यातानान्तं कृत्वा लोहिताश्वत्थेन स्रुवेण पलाशेन वेङ्गिडमाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[त्वं वीरुधाम् (6.138) इति मूत्रपुरीषं वत्सशेप्यायां ककुचैरपिधाप्य सम्पिष्य निखनति ॥ कौश्स्_6,2{48}.32 ॥
शेप्यानडे ॥ कौश्स्_6,2{48}.33 ॥
शेप्यायाम् ॥ कौश्स्_6,2{48}.34 ॥]
ऽत्वं वीरुधाम्ऽ इति सूक्तेन मूत्रपुरीषे बन्धवत्सखल्वायां कृत्वा तस्य वृषणैरपिधाप्य बाधकेन काष्ठेन हत्वा सूक्तेन मर्म निखनति ॥
[यथा सूर्यः (7.13) इत्यन्वाह ॥ कौश्स्_6,2{48}.35 ॥]
ऽयथा सूर्यो नक्षत्राणाम्ऽ इति द्व्यर्चं सूक्तं शत्रुं दृष्ट्वा जपति ॥
[उत्तरया यांस्तान् पश्यति ॥ कौश्स्_6,2{48}.36 ॥]
ऽयावन्तो मा सपत्नानाम्ऽ (7.13.2) इत्यृचा शत्रुं निरीक्षते । चक्षुषा ॥
[इन्द्रोतिभिः (7.31) अग्ने जातान् (7.34) यो नस्तायद्दिप्सति (7.108) यो नः शपात् (7.59) इति वैद्युद्धतीः ॥ कौश्स्_6,2{48}.37 ॥]
ऽइन्द्रोतिभिर्बहुलाभिःऽ इत्येकया विद्युद्धतवृक्षस्य समिध आदधाति । ऽअग्ने जातान्ऽ इति द्व्यर्चेन विद्युद्धतवृक्षस्य समिध आदधाति । ऽयो नस्तायद्दिप्सतिऽ इति द्वाभ्यामृग्भ्यां विद्युद्धतसमिध आदधाति । ऽयो नः शपात्ऽ इत्येकया विद्युद्धतवृक्षस्य समिध आदधाति ॥
[सान्तपनाः (7.77) इत्यूर्ध्वशुषीः ॥ कौश्स्_6,2{48}.38 ॥
घ्रंसशृतं पुरोडाशं घ्रंसविलीनेन सर्वहुतम् ॥ कौश्स्_6,2{48}.39 ॥]
ऽसान्तपनाःऽ इति तृचेनोर्ध्वशुष्कवृक्षसमिध आदधाति । ऽसान्तपनाःऽ इति तृचेन घ्रंसश्रृतं पुरोडाशं जुहोति । ऽसान्तपनाःऽ इति तृचेन घ्रंसविलीनमाज्यमिङ्गिडं जुहोति । सर्वहुतम् । आज्यतन्त्रे । तन्त्रं कृत्वा ॥
[उदस्य श्यावौ (7.95) इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वोष्णोदके व्यादाय प्रत्याहुति मण्डूकमपनुदत्यभिन्युब्जति ॥ कौश्स्_6,2{48}.40 ॥]
अभ्यातानान्तं कृत्वा ऽउदस्य श्यावौऽ इति तृचेन सूक्तेनाज्यं जुहोतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वोष्णोदके व्यादाय प्रत्याहुति मण्डूकमुखमपनुदति । अभ्यातानाद्युत्तरतन्त्रम् । अभिन्युब्जत्युपधावन्तम् ॥
[उपधावन्तम् असदन् गावः (7.96) इति काम्पीलं सन्नह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम् ॥ कौश्स्_6,2{48}.41 ॥]
ऽअसदन् गावःऽ इत्यृचा काम्पीलं सन्नह्य क्षीरोत्सिक्ते पाययति ॥
[अशिशिषोः क्षीरौदनम् ॥ कौश्स्_6,2{48}.42 ॥]
ऽअसदन् गावःऽ इत्यृचा रक्तशालिक्षीरौदनं पक्त्वाभिमन्त्र्य द्वेष्याय प्रयच्छति । भक्षार्थम् ॥
[आमपात्रमभ्यवनेनेक्ति ॥ कौश्स्_6,2{48}.43 ॥]
ऽअसदन् गावःऽ इत्यृचामपात्रस्योपरि हस्तप्रक्षालनं करोति मन्त्रेण ॥ षष्ठेऽध्याये द्वितीया कण्डिका
मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0