भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · श्लोक 49-77

49

[सपत्नहनम् (9.2) इत्यृषभं सम्पातवन्तमतिसृजति ॥ कौश्स्_6,3{49}.1 ॥]
ऽसपत्नहनम्ऽ इत्यर्थसूक्तेनर्षभं सम्पातवन्तं कृत्वा द्वेष्याभिमुखं विसृजति । वृषोत्सर्गवत् । यन्ता । अभ्यातानाद्युत्तरतन्त्रम् ॥
[आश्वत्थीरवपन्नाः ॥ कौश्स्_6,3{49}.2 ॥]
ऽसपत्नहनम्ऽ इत्यर्थसूक्तेनाश्वत्थीः स्वयम्पतिताः समिध आदधाति ॥
उदवज्राणां विधानमुच्यते -
[स्वयम् इन्द्रस्यौजः (10.5) इति प्रक्षालयति ॥ कौश्स्_6,3{49}.3 ॥]
ऽइन्द्रस्यौजः स्थऽ इति पूर्वार्धर्चैर्घटं प्रक्षालयति ॥
[जिष्णवे योगाय (10.5) इत्यपो युनक्ति ॥ कौश्स्_6,3{49}.4 ॥]
ऽजिष्णवे योगायऽ इत्युत्तरार्धर्चैः षडुदकसमीपे घटं निदधाति ॥
[वातस्य रंहितस्यामृतस्य योनिः इति प्रतिगृह्णाति ॥ कौश्स्_6,3{49}.5 ॥
उत्तमाः प्रताप्याधराः प्रदाय एनमेनानधराचः पराचोऽवाचस्तपसस्तमुन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानाम् इत्यतिसृजति ॥ कौश्स्_6,3{49}.6 ॥
इदमहं यो मा प्राच्या दिशोऽघायुरभिदासादपवादीदिषूगुहः तस्येमौ प्राणापानावपक्रामामि ब्रह्मणा ॥ कौश्स्_6,3{49}.7 ॥
दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाया ऊर्ध्वायाः ॥ कौश्स्_6,3{49}.8 ॥
इदमहं यो मा दिशामन्तर्देशेभ्यः इति अपक्रामामि इति ॥ कौश्स्_6,3{49}.9 ॥
एवमभिष्ट्वा ॥ कौश्स्_6,3{49}.10 ॥
नापोहननिवेष्टनानि सर्वाणि खलु शश्वद्भूतानि ॥ कौश्स्_6,3{49}.11 ॥
ब्राह्मणाद्वज्रमुद्यच्छमानाच्छङ्कन्ते मां हनिष्यसि मां हनिष्यसि इति तेभ्योऽभयं वदेत्
शमग्नये शं पृथिव्यै शमन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवं मह्यम् इति ॥ कौश्स्_6,3{49}.12 ॥
यो व आपोऽपाम् (10.5.15-21), यं वयम् (10.5.42-49) अपामस्मै वज्रम् (10.5.50) इत्यन्वृचमुदवज्रान् ॥ कौश्स्_6,3{49}.13 ॥
विष्णोः क्रमोऽसि (10.5.25-35) इति विष्णुक्रमान् ॥ कौश्स्_6,3{49}.14 ॥]
ऽइदमहं यो मा प्राच्या दिशःऽ इत्यष्टर्चेन कल्पजेन सूक्तेनोदकमध्ये घटं निदधाति । ऽइदमहम्ऽ इति घटमुदकेऽधोमुखं करोति । ऽइदमहम्ऽ इति सूक्तेन घटमुदकपूर्णं कृत्वापक्रामति । ऽइदमहं यो मा प्राच्या दिशःऽ सूक्तेनोदकपूर्णं घटं मण्डपे स्थापयति । एतदभिचार उदकाहरणम्.
येन विधानेन वज्रप्रहरणं क्रियते तदुच्यते -
ऽइन्द्रस्यौजःऽ (10.5) इत्यादि सर्वं कृत्वा ऽइदमहम्ऽ इति स्थापनान्तं कृत्वा ऽअग्नेर्भागः स्थऽ (10.5.8-14) इत्यष्टाभिरृग्भिर्द्विधाकरणम् । अर्धं घटे कृत्वार्धं भाजने करोति । भाजनमग्नौ तापयति । घटमन्यस्मै पुरुषाय प्रदापयति । ऽअग्नेर्भागःऽ इत्यष्टौ तापने मन्त्राः । बर्हिरासने दक्षिणामुख उपविश्य भाजनमग्नौ कृत्वा ऽवातस्य रंहितस्यामृतस्य योनिःऽ इति मन्त्रेणोदकं गृहीत्वा ऽशमग्नयेऽ इति सूक्तेन कल्पजेन सर्वेभ्यो भूतेभ्योऽभयं वदेत् । ऽयो व आपोऽपां भागोऽप्स्वन्तःऽ इत्यृचोदवज्रप्रक्षेपः । पुनरपि ऽवातस्य रंहितस्यऽ इत्युदकं सङ्गृह्य ऽशमग्नयेऽ इत्यभयं दत्त्वा ऽयो व आपोऽपामूर्मिरप्स्वन्तःऽ इत्यृचा वज्रप्रक्षेपः । पुनरपि ऽवातस्य रंहितस्यऽ इत्युदकं सङ्गृह्य ऽशमग्नयेऽ इत्यभयं दत्त्वा ऽयो व आपोऽपां वत्सोऽप्स्वन्तःऽ इति वज्रं प्रक्षिपेत् । ऽवातस्य रंहितस्यऽ इत्युदकं सङ्गृह्य ऽशमग्नयेऽ इत्यभयं दत्त्वा ऽयो व आपोऽपां वृषभोऽप्स्वन्तःऽ इत्यृचा वज्रं प्रक्षिपेत् । पुनः ऽवातस्य रंहितस्यऽ इत्युदकं गृहीत्वा ऽशमग्नयेऽ इत्यभयं दत्त्वा ऽयो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तःऽ इत्यृचा वज्रं प्रक्षिपेत् । पुनः ऽवातस्य रंहितस्यऽ इत्युदकं सङ्गृह्य ऽशमग्नयेऽ इत्यभयं दत्त्वा ऽयो व आपोऽपामश्मा पृश्निःऽ इत्यृचा वज्रं प्रक्षिपेत् । पुनः ऽवातस्य रंहितस्यामृतस्य योनिःऽ इति मन्त्रेणोदकं सङ्गृह्य ऽशमग्नयेऽ इत्यभयं दत्त्वा ऽयो व आपोऽपामग्नयोऽप्स्वन्तःऽ इत्यृचा वज्रं प्रक्षिपेत् । ऽएनमेनानधराचः पराचःऽ इति कल्पजयर्चा भाजनस्थमुदकं भूमौ निनयति । ऽयं वयम्ऽ (10.5.42) इति सूक्तेनैवम् ऽअपामस्मै वज्रम्ऽ (10.5.50) इत्येकयैवमेव । ऽइन्द्रस्यौजःऽ इत्यादि कर्तव्यम् । तत्र रुद्रकृताः श्लोकाः -
प्रक्षालनं तथा योगो अप्सु पात्रनिधापनम्.
अपोहनमनेनैव तं निवेष्ट्य पात्रपूरणम् ॥
अपक्रामस्तदायं तु सूक्तेनेदमहं ततः.
निधापनादि तेनैव सर्वत्रानीय सादयेत् ॥
विभागदानसन्तापा ग्रहणं शान्तयश्च याः.
वज्रातिसर्गावित्येते सप्त वज्रस्य केवलाः ॥
ग्रहणं प्रतिवज्रं चाभयदानं तथैव च ॥
एते श्लोकाः । ऽविष्णोः क्रमोऽसिऽ इति द्वादशभिः प्रत्यृचं विष्णुक्रमान् क्रमते शत्रोरभिमुखम् ॥
[ममाग्ने वर्चः (5.3) इति बृहस्पतिशिरसं पृषातकेनोपसिच्याभिमन्त्र्योपनिदधाति ॥ कौश्स्_6,3{49}.15 ॥]
सवविधानेन बृहस्पतिशिरसमोदनं द्वेष्याय ददाति । ऽममाग्ने वर्चःऽ इति सूक्तेन तं पृषातकेनोपसिच्य ऽतस्यौदनस्यऽ इत्यर्थसूक्तेनाभिमन्त्र्य ददाति । सूक्तेनाभिमृशति । सूक्तेन सम्पातवन्तं करोति । तन्त्रम् । सूक्तं वाचयति । ऽत्रिभिः स्थानैःऽ इत्युक्तम् ॥
प्रतिजानन् नानुव्याहरेत् ॥ कौश्स्_6,3{49}.16 ॥
उत्तमेनोपद्रष्टारम् ॥ कौश्स्_6,3{49}.17 ॥
[उदेहि वाजिन् (13.1.1) इत्यर्धर्चेन नावं मज्जतीम् ॥ कौश्स्_6,3{49}.18 ॥]
ऽउदेहि वाजिन्ऽ इत्यर्धर्चेन नावचटितं द्वेष्यमन्वाह ॥
[समिद्धोऽग्निः (13.1.28-32) य इमे द्यावापृथिवी (13.3) अजैष्म (16.6-9) इत्यधिपाशानादधाति ॥ कौश्स्_6,3{49}.19 ॥
पदेपदे पाशान् वृश्चति ॥ कौश्स्_6,3{49}.20 ॥
अधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति ॥ कौश्स्_6,3{49}.21 ॥]
ऽसमिद्धो अग्निः समिधानो घृतवृद्धःऽ इति पञ्चर्चेन शङ्कुसहितान् पाशानभिमन्त्र्यारण्ये निदधाति । ऽसमिद्धो अग्निःऽ इति सूक्तेन पञ्चर्चेन पाशानभिमन्त्र्य द्वेष्यस्य पदं वृश्चति विधानेन । ऽसमिद्धो अग्निःऽ इति सूक्तेन पञ्चर्चेन शङ्कुसहितान् पाशान् पदेऽवच्छिनत्ति । तान् सन्नह्य भ्रष्टेऽभ्यस्यति । ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेन शङ्कुसहिताञ्छत्रुषु पाशान् बद्ध्वाभिमन्त्र्य वृश्चति पदेपदे । ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेनाधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति । अष्टौ सूक्तावृत्तिः । ऽअजैष्मऽ इति सूक्तचतुष्टयेन ऽअगन्म स्वःऽ (16.9.3-4) इत्यवसानद्वयवर्जितेन शत्रुषु पाशान् बद्ध्वाभिमन्त्र्यारण्ये निदधाति । ऽअजैष्मऽ इति सूक्तचतुष्टयेनोत्तमावसानद्वयवर्जितेन पाशानभिमन्त्र्य पदे पदे वृश्चति । ऽअजैष्मऽ इति सूक्तचतुष्टयेन ऽअगन्म स्वःऽ इति वर्जितेनाधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति ॥
[अशिशिषोः क्षीरौदनादीनि त्रीणि ॥ कौश्स्_6,3{49}.22 ॥]

ऽसमिद्धो अग्निः समिधानःऽ इति पञ्चर्चेनामपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति । अभ्यातानान्तं कृत्वा ऽसमिद्धो अग्निःऽ इति पञ्चर्चेन वृषभं सम्पात्यातिसृजति । अभ्यातानाद्युत्तरतन्त्रम् । ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेन रक्तशालिक्षीरौदनं सम्पात्याभिमन्त्र्य द्वेष्याय ददाति । ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेनामपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति । तन्त्रं कृत्वा ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेन वृषभं सम्पातवन्तं कृत्वा शत्रुमभिमुखं विसृजति । उत्तरतन्त्रम् । ऽअजैष्मऽ इति चतुर्भिः पर्यायैः ऽअगन्म स्वःऽ इत्यवसानद्वयवर्ज्यं रक्तशालिक्षीरौदनमभिमन्त्र्य ददाति । तन्त्रे । ऽअजैष्मऽ इति पूर्वम् । आमपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति । ऽअजैष्मऽ इति पूर्वं वृषभं सम्पातवन्तं कृत्वा शत्रुगृहानभिमृशति । वृषोत्सर्गवत् ॥
[गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं सम्पातानभ्यतिनिनयति ॥ कौश्स्_6,3{49}.23 ॥]
प्रथमे दिवसेऽभ्यातानान्तं कृत्वा शत्रुप्रतिकृतिं च मृन्मयां कृत्वा वेदिमध्य ऊर्ध्वं स्थाणौ निबध्य ऽसमिद्धो अग्निःऽ इति पञ्चर्चेन मूर्ध्नि सम्पातानानयति । घृतेन पाचयति प्रदिदिनम् । एकतन्त्रं यावत् । अभ्यातानाद्युत्तरतन्त्रम् । आभिचारिकं तन्त्रं कृत्वा ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेन शत्रुप्रतिकृतिं मृन्मयां पश्चादग्नेः स्थाणौ बद्ध्वा तस्य मूर्ध्नि सम्पातानानयति । प्रतिदिनं सूक्तावृत्तिः । द्वादशमे दिवसेऽभ्यातानाद्युत्तरतन्त्रम् । अभिचारं तन्त्रं कृत्वा ऽअजैष्मऽ इति चतुर्भिः सूक्तैर्गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं सम्पातानानयति । अभ्यातानानि हुत्वा । ततः स्विष्टकृदाद्युत्तरतन्त्रम् ॥
[षष्ठ्योदवज्रान् प्रहरति ॥ कौश्स्_6,3{49}.24 ॥]
ऽयस्मिन् षडुर्वीः पञ्चऽ (13.3.6) इत्युदवज्रान् प्रहरति । उक्तेन विधानेन ॥
[सप्तम्याचामति ॥ कौश्स्_6,3{49}.25 ॥]
ऽयो अन्नादोऽन्नपतिःऽ (13.3.7) इत्यृचोदकमभिमन्त्र्य द्वेष्यं मनसा चाध्यायन् स चाचामति । स्वयं कर्ता । द्वेष्यस्य मरणं भवति ॥
[यश्च गाम् (13.1.56) इत्यन्वाह ॥ कौश्स्_6,3{49}.26 ॥]
ऽयश्च गां पदा स्फुरतिऽ इत्यर्धर्चेन द्वेष्यं दृष्ट्वान्वाह जपति । उत्तरतन्त्रम् । आभिचारिके तन्त्रे विशेषः । पार्वणौ समृद्धिः सन्नतिरेते होमा न भवन्ति । अभ्यातानानि हुत्वा ततः स्विष्टकृदाद्युत्तरतन्त्रं भवति । ऽनिरमुं नुदऽ इति संस्थितहोमः । ऽविष्णोः क्रमोऽसिऽ इति विष्णुक्रमान् । द्वादश भवन्ति । जाङ्मायने सम्पाता न भवन्ति । शेषं समानम् । अभ्यातानान्तं कृत्वा ऽइदावत्सरायऽ इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात् (कौश्स् 42.15-16) । व्रतसमापनीरष्टौ समिध आदध्यात् । अभ्यातानादि शान्तमुत्तरतन्त्रम् ॥
[निर्दुर्मण्यः (16.2) इति सन्धाव्याभिमृशति ॥ कौश्स्_6,3{49}.27 ॥]
अवभृथं स्नात्वा ऽनिर्दुर्मण्यःऽ इति सूक्तेन सर्वौषधिरात्मानमभिमृशति । स्पृशतीत्यर्थः । अभिचारं कृत्वा कर्तेमां शान्तिं करोति । मरणं बन्धनं वा व्यसनं वा प्रणिपातो वोन्मत्तताभावो वा भवति । अभिचारपद्धतिः समाप्ता ॥
भद्रमतेन भाष्यकार तथा दारिलमतेन च.
एभिस्त्रिभिर्भाष्यकारैः कौशिकीयो विचारितः ॥
तस्य तस्यैते पदार्था भवन्ति । मरणं वा बन्धनं वा व्यसनं वा प्रणिपातो वोन्मत्तता वा दैवोपहतिर्वा पुत्रधनादिविनाशो भवति । तत्र श्लोकाः -
मरणं व्यसनं चैव बन्धनं च विशेषतः.
प्रणिपातोन्मत्तता वा दैवोपहतिरेव च ॥
पुत्रादिधननाशश्च गृहे दोषान् बहूनपि.
अभिचरति पुरुष एतानि तु विनिर्दिशेत्.
त्रयाणां भाष्यकाराणां मतं जग्राह कौशिकी ॥
उपाध्यायकवीश्वरेण नामतोऽभिचारः कृतः तुरुष्कमहुमदस्योपरि कारितः ॥
पृथिव्यां दुष्ट उत्पन्नः सर्वदा च विनाशयेत्.
अधर्मसम्भवो दुष्टः प्रजाहिंसनतत्परः ॥
तुरुष्कनाम्ना पापिष्ठा देवब्राह्मणहिंसकाः.
पृथिव्यां श्रीभोजदेवो धर्मसंरक्षणाय च ॥
देशे मालवक उत्पन्नः श्रीराजगृहेषु च.
श्रीभोजदेवो जगद्विख्यातो राज्ञां सर्वेषां च मूर्धनि ॥
न च तुल्यो जगत्पतिर्न भूतो न भविष्यति.
अथर्ववेदविहितानामनुष्ठाता सवकर्मणाम्.
प्रतिबोद्धारशास्त्राणां स्वयं राज्यस्य चिन्तकः.
देवब्राह्मणभक्तश्च गुरुशुश्रूषणे रतः ॥
अथर्ववेदविहिता महाशान्तिरनेकशः.
कारापिता यथोक्तास्तेन यथाविहितदक्षिणाः ॥
ब्रह्मक्षत्रियरक्षणार्था अभिचारा महर्षिणा.
क्रमेण सूत्रिताः षष्ठे संहिताक्रमकारणात् ॥
इति षष्ठे तृतीया कण्डिका

50

इति कौशिकपद्धतौ षष्ठोऽध्यायः समाप्तः ॥
अथ सप्तमोऽध्यायः
[स्वस्त्ययनकर्माणि]
स्वस्त्ययनकर्मणां विधिं वक्ष्यामः -
[स्वस्तिदाः (1.21) ये ते पन्थानः (7.55) इत्यध्वानं दक्षिणेन प्रक्रामति ॥ कौश्स्_7,1{50}.1 ॥]
यदा ग्रामे गच्छति तदाचमनं कृत्वा ऽस्वस्तिदाःऽ इति सूक्तं जपित्वा दक्षिणेन पादेन प्रक्रामत्यध्वानम् । ऽये ते पन्थानोऽव दिवःऽ इत्यृचं जपित्वाध्वानं दक्षिणेन पादेन प्रक्रामति । ततो ग्रामं गच्छति । स्वस्त्ययनं भवति ॥
[व्युदस्यत्यसङ्ख्याताः शर्कराः ॥ कौश्स्_7,1{50}.2 ॥]
ऽस्वस्तिदाःऽ इति सूक्तेन शर्करा अभिमन्त्र्य गृहे क्षेत्रेऽन्यत्र वा प्रक्षिपति । स्वस्त्यर्थी । इदं कर्म । सर्वार्थकामः । ऽये ते पन्थानःऽ इत्येकर्चेन सूक्तेनासङ्ख्याताः शर्करा अभिमन्त्र्य गृहादिषु प्रक्षिपति । इदं कर्म सर्वार्थस्वस्त्ययनकामः । यत्र क्षिपति तत्राविनाशो भवति । द्विपदचतुष्पदादीनां स्वस्त्ययनं भवतीत्यर्थः ॥
[तृणानि छित्त्वोपतिष्ठते ॥ कौश्स्_7,1{50}.3 ॥]
ऽस्वस्तिदाःऽ इति सूक्तेन दर्भादीनि तृणान्यभिमन्त्र्य गृहे वा क्षेत्रे वा प्रक्षिपति स्वस्त्ययनकामः । ऽये ते पन्थानोऽव दिवःऽ इत्यृचा तृणान्यभिमन्त्र्य प्रक्षिपति । गृहे पथि वा स्वस्त्ययनकामः । ऽस्वस्तिदाःऽ इति सूक्तेन इन्द्रमुपतिष्ठते स्वस्त्ययनकामः । ऽये ते पन्थानोऽव दिवःऽ इत्यृचेन्द्रमुपतिष्ठते स्वस्त्ययनकामः ॥
[आरे (1.26) अमूः पारे (1.27) पातं नः (6.3) य एनं परिषीदन्ति (6.76) यदायुधं दण्डेन व्याख्यातम् ॥ कौश्स्_7,1{50}.4 ॥]
अभ्यातानान्तं कृत्वा ऽआरेऽसौऽ इति सूक्तेन शस्त्रं सम्पात्याभिमन्त्र्य प्रयच्छत्यभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽअमूः पारेऽ इति सूक्तेन खड्गादिशस्त्रं सम्पात्य हस्तेन विमृज्याभिमन्त्र्य धारयति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वा ऽपातं नःऽ इति सूक्तेन छुरिकादिशस्त्रं सम्पात्य विमृज्याभिमन्त्र्य राज्ञे प्रयच्छति । सुखं भवतीत्यर्थः । तन्त्रं कृत्वा ऽय एनं परिषीदन्तिऽ इति सूक्तेन यस्य यच्छस्त्रं तत् सम्पात्य विमृज्याभिमन्त्र्य युधि वीराय प्रयच्छति । स्वस्त्ययनकामः । उत्तरतन्त्रम् । शस्त्रम् । छुरिका । धनुषम् । कण्ड । खड्गम् । कुन्त । कडनल । वज्र । गदा । परशु । कुठार । भिण्डमाला । त्रासगण्डा । लोहदण्ड । लष्टि । पागानिम् । इत्याद्यायुधम् ॥
[दिष्ट्या मुखं विमाय संविशति ॥ कौश्स्_7,1{50}.5 ॥]
ऽआरेऽसौऽ इति सूक्तं जपित्वा दिष्ट्या मुखं मीत्वा स्वपिति रात्रौ स्वस्त्ययनकामः । मध्यमाङ्गुल्यङ्गुष्ठाभ्यां प्रादेशिन्यङ्गुष्ठाभ्यां प्रादेशी दिष्टिरित्युच्यते । ऽअमूः पारेऽ इति सूक्तं जपित्वा दिष्ट्या मुखं विमाय स्वपिति रात्रौ स्वस्त्ययनकामः । ऽपातं नःऽ इति सूक्तेन दिष्ट्या मुखं मीत्वा स्वपिति रात्रौ स्वस्त्ययनकामः । ऽय एनं परिषीदन्तिऽ इति सूक्तं जपित्वा दिष्ट्या मुखं विमाय स्वपिति । स्वस्त्ययनकामः ॥
[त्रीणि पदानि प्रमायोत्तिष्ठति ॥ कौश्स्_7,1{50}.6 ॥]
ऽआरेऽसौऽ इति सूक्तेन यदोत्तिष्ठति तदा सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति स्वस्त्ययनकामः । प्रभाते निद्रां त्यक्त्वा ऽअमूः पारेऽ इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति प्रातर्ग्रामे वा । यदा प्रयोजनार्थं गच्छति तदा ऽपातं नःऽ इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति । गच्छतां स्वस्तिर्भवति । यो मन्त्रं पठति स स्वयं करोति । अन्यकर्तृके दक्षिणादानं सर्वत्र । निद्रां त्यक्त्वा ऽय एनं परिषीदन्तिऽ इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति । स्वस्त्ययनकामः ॥
[तिस्रो दिष्टीः ॥ कौश्स्_7,1{50}.7 ॥]
सुप्तोत्थाय ऽआरेऽसौऽ इति सूक्तं जपित्वा भूमौ तिस्रो दिष्टीर्मीत्वा ततो गच्छति । प्रयोजनार्थम् । स्वस्त्ययनकामः । निद्रां त्यक्त्वा ऽअमूः पारेऽ इति सूक्तं जपित्वा तिस्रः प्रादेशीर्भूमौ मीत्वोत्थाय गच्छति । स्वस्त्ययनकामः । यदा प्रयोजनार्थं गच्छति तदा ऽपातं नःऽ इति सूक्तं जपित्वा तिस्रो दिष्टीः प्रादेशीर्मीत्वा भूमौ ततो गच्छति । स्वस्त्ययनकामः । सुप्त्वोत्थाय ऽय एनं
परिषीदन्तिऽ इति सूक्तेन तिस्रः प्रादेशीर्भूमौ मीत्वा तत उत्तिष्ठन् गच्छति । प्रयोजनार्थम् । ग्रामे वाऽध्वनि वा । स्वस्त्ययनकामः ॥
अथाध्वाने गच्छतां कर्मोच्यते -
[प्रेतं पादौ (1.27.4) इत्यवशस्य ॥ कौश्स्_7,1{50}.8 ॥
पाययति ॥ कौश्स्_7,1{50}.9 ॥]
पथि गच्छन्तं सम्बलं सक्त्वादि ऽप्रेतं पादौऽ इत्यृचाभिमन्त्र्य ब्राह्मणाय ददाति । स्वस्त्ययनकामः ॥
[उपस्थास्ते (12.1.62) इति त्रीण्योप्यातिक्रामति ॥ कौश्स्_7,1{50}.10 ॥]
ऽउपस्थास्तेऽ इत्यृचौदनसक्तून् वटकादीनि त्रीणि द्रव्याण्यभिमन्त्र्य भूमौ निक्षिपति । त्रीणि त्रीणि प्रसृतीर्वाञ्जलीर्वा मुष्टीर्वा पथि । ततो गच्छति । स्वस्तिर्भवति । सर्वस्यानेन विधानेन । एतदध्वानकर्म समाप्तम् ॥
अथ सर्वार्थस्वस्त्ययनकर्मोच्यते -
[स्वस्ति मात्रे (1.31.4) इति निश्युपतिष्ठते ॥ कौश्स्_7,1{50}.11 ॥]
ऽस्वस्ति मात्रेऽ इत्यृचा निश्युपतिष्ठते स्वस्त्ययनकामः । गृहे वाथवारण्ये वा भये वा समुपस्थिते स्वस्त्ययनं नित्यं वा कुर्वीत ॥
वणिक्कर्मलाभ उच्यते -
[इन्द्रमहम् (3.15) इति पण्यं सम्पातवदुत्थापयति ॥ कौश्स्_7,1{50}.12 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽइन्द्रमहम्ऽ इति सूक्तेन वणिजं वस्त्रं वा पूगीफलं वाश्वान् वा हस्तिनो वा रत्नादि सम्पात्याभिमन्त्र्य तत उत्थापयति ॥
[निमृज्य दिग्युक्ताभ्यां दोषो गाय (6.1) पातं नः (6.3-7) इति पञ्च अनडुद्भ्यः (6.59) यमो मृत्युः (6.93) विश्वजित् (6.107) शकधूमम् (6.128) भवाशर्वौ (4.28) इत्युपदधीत ॥ कौश्स्_7,1{50}.13 ॥]
निमृज्य विक्रययोग्यं कृत्वा । अभ्यातानाद्युत्तरतन्त्रम् । लाभो भवति स्वस्तिर्भवति । सर्वत्राधिकरणं धेनुर्दक्षिणा । ब्रह्मणे च धेनुः । अभ्यातानान्तं कृत्वा ऽयेऽस्याम्ऽ (3.26) ऽप्राची दिक्ऽ (3.27) इति सूक्ताभ्यामाज्यं जुहुयात् । तत उत्तरतन्त्रम् । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां पालाशसमिध आदधाति । हस्तहोमत्वात् तन्त्रविकल्पः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्याम् उदुम्बरसमिध आदधाति स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां जम्बसमिध आदधाति स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां काम्पीलसमिध आदधाति स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां स्रक्समिध आदधाति स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां वन्दकसमिध आदधाति शुभकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां शिरीषसमिध आदधाति स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां स्रक्त्यसमिध तिलकसमिध आदधाति । सर्वत्र धेनुर्दक्षिणा.

ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां वरणसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां बिल्वसमिध आदधाति । स्वस्त्ययनकामोऽनुवर्तते सर्वत्र । हस्तहोमे तन्त्रं वा । कर्मबाहुल्यात् फलबाहुल्यम् । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां जङ्गिडसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां कुटकसमिध आदधाति स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां गर्ह्यकसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां गलाबलसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां वेतससमिध आदधाति स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां शाल्मलिसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां सिवनिसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां स्यन्दनकसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्याम् अरणिकसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्याम् अश्मन्तकसमिध आदधाति । ऽयेऽस्याम्ऽ
ऽप्राची दिक्ऽ इति सूक्ताभ्यां तुन्यकसमिध आदधाति । स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां देवदारुसमिध आदधाति । स्वस्त्ययनकामः । पालाशादिवृक्षद्वाविंशतिसमिध आदधाति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्याम् । तत्र सर्वत्रैते समुच्चिता वा विकल्पिता भवन्ति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां पुरोडाशं जुहोति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वा ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां दुग्धं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यामुदौदनं जुहोति । आज्यतन्त्रे । तन्त्रं कृत्वा ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां पायसं जुहोति । तन्त्रं समापयेत् । स्वस्त्ययनकामः । पशुतन्त्रं कृत्वा ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां रुद्रदैवत्यान्यवदानानि स्थालीपाकं च जुहोति । पशुतन्त्रोत्तरतन्त्रम् । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां व्रीहीन् जुहोति । स्वस्त्ययनकामः । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां यवाञ्जुहोति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां तिलाञ्जुहोति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां दधिधानाञ्जुहोति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वा ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां दधिसक्तूञ्जुहोति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां शष्कुलीर्जुहोति । तत उत्तरतन्त्रम् । सर्वत्र स्वस्त्ययनकामः.
अभ्यातानान्तं कृत्वा ऽदोषो गायऽ इति तृचेन सूक्तेनाज्यं जुहोति । उत्तरतन्त्रम् । स्वस्त्ययनकामः । ऽदोषो गायऽ इति तृचेन सूक्तेन पालाशादयो द्वाविंशतिवृक्षाणां समिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वा ऽदोषो गायऽ इति तृचेन सूक्तेन पुरोडाशं जुहोति । तत उत्तरतन्त्रम् । ब्राह्मणतर्पणान्तं समानम् । दुग्धम् । ओदनम् । पायसम् । पशुतन्त्रं कृत्वा ऽदोषो गायऽ इति सूक्तेनाथर्वविधानेनाथर्वणं यजते । पश्ववदानानि जुहोति । स्थालीपाकं च । स्वस्त्ययनकामः । ऽदोषो गायऽ इति सूक्तेन व्रीहीनावपति । ऽदोषो गायऽ इति सूक्तेन यवानावपति । ऽदोषो गायऽ इति सूक्तेन तिलानावपति । स्वस्त्ययनकामः । ऽदोषो गायऽ इति सूक्तेन धानान् जुहोति । ऽदोषो गायऽ इति सूक्तेन करम्भं जुहोति । आज्यतन्त्रे । स्वस्त्ययनकामः । ऽदोषो गायऽ इति सूक्तेन तिलशष्कुलीर्जुहोति । आज्यतन्त्रे । अभ्यातानान्तं कृत्वा ऽपातं नःऽ इति पञ्चभिरृग्भिराज्यं जुहोति । तत उत्तरतन्त्रम् । स्वस्त्ययनकामः । ऽपातं नःऽ इति पञ्चभिरृग्भिः पालाशादयः समिध आदधाति वृक्षाणां द्वाविंशतीनां स्वस्त्ययनकामः । ऽपातं नःऽ इति पयो जुहोति आज्यतन्त्रे । ऽपातं नःऽ इति भक्तं जुहोत्याज्यतन्त्रे । ऽपातं नःऽ इति पायसं जुहोत्याज्यतन्त्रे । ऽपातं नःऽ इति इन्द्रं पशुना यजेत । वशाविधानेन । स्वस्त्ययनकामः । ऽपातं नःऽ इति व्रीहीन् जुहोति । तन्त्रविकल्पः । ऽपातं नःऽ इति यवानावपति । स्वस्त्ययनकामः । ऽपातं नःऽ इति तिलानावपति । ऽपातं नःऽ इति धाना जुहोति । ऽपातं नःऽ इति दधिसक्तून् जुहोत्याज्यतन्त्रे । ऽपातं नःऽ इति शष्कुलीर्जुहोति । शष्कुल्यः श्रीआनन्दपुरे प्रसिद्धः.
ऽअनडुद्भ्यःऽ इत्याज्यं जुहोति सूक्तेनाज्यतन्त्रे । स्वस्त्ययनकामः । ऽअनडुद्भ्यःऽ इति तृचेन सूक्तेन पालाशादयो द्वाविंशतिवृक्षाणां समिध आदधाति । स्वस्त्ययनकामः । यत्र समिध आदधाति तत्र पालाशादिद्वाविंशतिवृक्षाणां गृहीतव्याः । शान्तिकपौष्टिकेषु च । ऽअनडुद्भ्यःऽ इति सूक्तेन पुरोडाशं जुहोत्याज्यतन्त्रे । ऽअनडुद्भ्यःऽ इति सूक्तेन दुग्धं जुहोति । ऽअनडुद्भ्यःऽ इति सूक्तेन उदौदनं जुहोत्याज्यतन्त्रे । ऽअनडुद्भ्यःऽ इति तृचेन सूक्तेन क्षीरौदनं जुहोत्याज्यतन्त्रे । ऽअनडुद्भ्यःऽ इति तृचेन रुद्राय पायसं जुहोति पशुतन्त्रे । ऽअनडुद्भ्यःऽ इति तृचेन व्रीहीनावपति । स्वस्त्ययनकामः । ऽअनडुद्भ्यःऽ इति तृचेन यवानावपति । तन्त्रविकल्पः । ऽअनडुद्भ्यःऽ इति तृचेन तिलानावपति । हस्तहोमे तन्त्रविकल्पः । ऽअनडुद्भ्यःऽ इति तृचेन धाना जुहोति । स्वस्त्ययनकामः । ऽअनडुद्भ्यःऽ इति तृचेन दधिसक्तून् जुहोत्याज्यतन्त्रे । ऽअनडुद्भ्यःऽ इति तृचेन शष्कुलीर्जुहोति । स्वस्त्ययनकामः.
ऽयमो मृत्युःऽ इति सूक्तेनाज्यं जुहोत्याज्यतन्त्रे । ऽयमो मृत्युःऽ इति सूक्तेन समिध आदधाति पालाशादीनां द्वाविंशतिवृक्षाणां स्वस्त्ययनकामः । ऽयमो मृत्युःऽ इति तिसृभिः ऋग्भिः पुरोडाशं जुहोत्याज्यतन्त्रे । ऽयमो मृत्युःऽ इति सूक्तेन पयो जुहोति । ऽयमो मृत्युःऽ इति सूक्तेन उदौदनं जुहोति तन्त्रे । ऽयमो मृत्युःऽ इति सूक्तेन पायसं जुहोति तन्त्रे । ऽयमो मृत्युःऽ इति सूक्तेन विश्वेभ्यो देवेभ्यः पशुं यजेत् । पशुतन्त्रे ऽयमो मृत्युःऽ इति सूक्तेन व्रीहीनावपति । ऽयमो मृत्युःऽ इति सूक्तेन यवानावपति । ऽयमो मृत्युःऽ इति सूक्तेन तिलानावपति । ऽयमो मृत्युःऽ इति सूक्तेन धाना जुहोति । ऽयमो मृत्युःऽ इति सूक्तेन दधिसक्तून् जुहोति । ऽयमो मृत्युःऽ इति सूक्तेन शष्कुलीर्जुहोति । स्वस्त्ययनकामः.
अभ्यातानान्तं कृत्वा ऽविश्वजित्ऽ इति सूक्तेनाज्यं जुहोति । उत्तरतन्त्रम् । स्वस्त्ययनकामः । ऽविश्वजित्ऽ इति सूक्तेन पालाशादीनां समिध आदधाति । तन्त्रविकल्पः । ऽविश्वजित्ऽ इति सूक्तेन पुरोडाशं जुहोति । आज्यतन्त्रे । स्वस्त्ययनकामः । ऽविश्वजित्ऽ इति सूक्तेन पयो जुहोति । तन्त्रं कृत्वा ऽविश्वजित्ऽ इति उदौदनं जुहोति । उत्तरतन्त्रम् । ऽविश्वजित्ऽ इति सूक्तेन पायसं जुहोति तन्त्रे । ऽविश्वजित्ऽ इति सूक्तेन विश्वजिते देवतायै पशुना यजेत् । पशुतन्त्रेण । ऽविश्वजित्ऽ इति सूक्तेन व्रीहीनावपति । ऽविश्वजित्ऽ इति यवानावपति । ऽविश्वजित्ऽ इति तिलानावपति । ऽविश्वजित्ऽ इति धाना आवपति । ऽविश्वजित्ऽ इति करम्भं जुहोति । ऽविश्वजित्ऽ इति शष्कुलीर्जुहोति । स्वस्त्ययनकामः.

अभ्यातानान्तं कृत्वा ऽशकधूमम्ऽ इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । ऽशकधूमम्ऽ इति समिधपुरोडाशादि पूर्ववत् भवति । शकधमदेवतापशुम् । स्वस्त्ययनकामः । ऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेनाज्यादित्रयोदशद्रव्याणि भवन्ति । आज्यतन्त्रे । अनेन पालाशादीनां समिदाधानम् । स्वस्त्ययनकामः । यत्र शान्तिकहोमस्तत्र सर्वत्र स्वस्त्ययनकामः । यथासम्भवं तन्त्रविकल्पः । सर्वत्र कर्मणां विकल्पः । क्रमोऽपि नास्ति ।
द्विपदे चतुष्पदे गृहे बहिर्ग्रामे नगरे वा मण्डले वा यत्र क्वचिद् होमस्तत्र सर्वत्र शान्तिं करोतीत्यर्थः । महाशान्तिं वा सर्वत्र कारयेद् विकल्पेन । पाकयज्ञविधानेन रुद्रदेवतायै चरुमाज्यभागान्तं कृत्वा ऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेन सर्वेण तिस्र आहुतीर्जुहोति । पार्वणाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । समाप्तानि स्वस्त्ययनानि । यत्र यत्र क्वचिद्धोमस्तत्र तत्र स्वस्त्ययनकामः । कुर्याच्छान्तिकपौष्टिके सर्वत्र ॥
अथ जनविधाते स्वस्त्ययनम् -
[उत्तमेन सारूपवत्सस्य रुद्राय त्रिर्जुहोति ॥ कौश्स्_7,1{50}.14 ॥]
रुद्रदेवताकं पाकयज्ञमाज्यभागान्तं कृत्वा ऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेन सारूपवत्सस्य चरुं त्रिर्विभज्य ततः तिस्र आहुतीर्जुहोति । पार्वणाद्युत्तरतन्त्रम् । रुद्रभूतप्रेतराक्षसलोकपालदेवग्रहमहादेवगणाद्युपहताभिघाते स्वस्त्ययनम् । समाप्तं महादेवाभिघाते स्वस्त्ययनम् ॥
अथ शीघ्रेण पुण्यमङ्गलकर्मकरणे स्वस्त्ययनमुच्यते -
[उपोत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वस्वाधाय शकधूमं किमद्याहः इति पृच्छति ॥ कौश्स्_7,1{50}.15 ॥
भद्रं सुमङ्गलम् इति प्रतिपद्यते ॥ कौश्स्_7,1{50}.16 ॥]
ऽशकधूमम्ऽ इति चतुरृचेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वस्वाधायाग्रे भूत्वाभिमन्त्र्य ततः शकधूमं ऽकिमद्याहःऽ इति पृच्छति । स च ऽशोभनमद्याहःऽ ऽमङ्गलमद्याहःऽ इति ब्राह्मणो वदति । यदा कर्ता कर्म कुर्याच्चतुर्दश्यां चतुर्थ्यां नवम्यां वा शनिदिने व्यतीपाते विष्टावन्यत्रापि निन्दितेऽहनि ततश्चन्दनम् । अन्नप्राशनचूडाकर्मनामकरणगृहप्रवेशवस्त्रायलङ्कारधारणम् । राजदर्शनाश्वहस्त्यादियानरथारोहणं पुण्यकर्मे नित्यनैमित्तिककाम्यादीनि कर्माणि । यदा शीघ्रे प्रयोजने कार्यं कर्तुमिच्छतीदं कर्म कृत्वा ततः शान्तिकपुण्यकर्म करोति । समाप्ता शीघ्रकर्मकरणे शान्तिः ॥
अथ सर्पादिस्वस्त्ययनमुच्यते -
[युक्तयोः मा नो देवाः (6.56) यस्ते सर्पः (12.1.46) इति शयनशालोर्वराः परिलिखति ॥ कौश्स्_7,1{50}.17 ॥]
सर्पवृश्चिकद्विदंशकमशकभ्रमरभूमिकीटककृमय एतेषां भयं न भवति । ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां सिकतामभिमन्त्र्य शयनं परिकिरति । ऽयेऽस्यां स्थऽ इति सूक्तेन सिकतामभिमन्त्र्य शालां परितः किरति । ऽयेऽस्यां स्थऽ इति सूक्तेन सिकतामभिमन्त्र्य क्षेत्रे परिकिरति । ऽप्राची दिक्ऽ इति सूक्तेन शालां परिकिरति । ऽप्राची दिक्ऽ इति सूक्तेन सिकतामभिमन्त्र्य क्षेत्रे परिकिरति । स्वस्त्ययनकामः । ऽमा नो देवाःऽ इति सूक्तेन शर्करामभिमन्त्र्य शयनं शालां वा क्षेत्रे वा परिकिरति । स्वस्त्ययनकामः । ऽभवाशर्वो मृडतम्ऽ (11.2) इति सूक्तेन शर्करामभिमन्त्र्य गृहे क्षेत्रे वा प्रकिरति स्वस्त्ययनकामः । ऽयस्ते सर्पो वृश्चिकःऽ इत्यृचा शर्करामभिमन्त्र्य शयने वा शालायां वोर्वरायां वा गृहे वा वने वा ग्रामे वा पत्तने वा तत्र परिकिरति । सर्पादिस्वस्त्ययनं भवति । शान्तिः । निर्भयो भवतीत्यर्थः ॥
[तृणानि युगतर्द्मना सम्पातवन्ति द्वारे प्रचृतति ॥ कौश्स्_7,1{50}.18 ॥]
अभ्यातानान्तं कृत्वा ऽयेऽस्यां स्थ प्राच्याम्ऽ इति सूक्तेन तृणमालां सम्पात्याभिमन्त्र्य द्वारे बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । महानवम्यां दीपोत्सवे च शिष्टाचारः । अभ्यातानान्तं कृत्वा ऽप्राची दिक्ऽ इति सूक्तेन तृणमालां युगच्छिद्रेण सम्पात्याभिमन्त्र्य द्वारे प्रचृतति । तत अभ्यातानाद्युत्तरतन्त्रम् । महानवम्यामिदं जयकर्म । अभ्यातानान्तं कृत्वा ऽयस्ते सर्पःऽ इत्यृचा तृणमालां युगच्छिद्रेण सम्पात्याभिमन्त्र्य अभ्यातानान्तं कृत्वा ऽनमो देववधेभ्यःऽ (6.13) इति तृचेन सूक्तेन तृणानि युगछिद्रेण सम्पात्य द्वारे बध्नाति । तत उत्तरतन्त्रम् । पथि वा गृहद्वारे वा पत्तनद्वारे वा प्रचृतति । अभ्यातानाद्युत्तरतन्त्रम् । अहिभये वृश्चिकभये मशकभये भ्रमरसङ्घे कृमिभये इदं कर्म ॥
[ऊबध्यं सम्भिनत्ति ॥ कौश्स्_7,1{50}.19 ॥]
ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां गोमयमभिमन्त्र्य गृहे विसृजति । ऽमा नो देवाःऽ इति सूक्तेन गोमयमभिमन्त्र्य द्वारे विसृजति । ऽयस्ते सर्पःऽ इत्यृचा गोमयमभिमन्त्र्य द्वारे सम्भिनत्ति ॥
[निखनति ॥ कौश्स्_7,1{50}.20 ॥]
ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां गोमयमभिमन्त्र्य द्वारे निखनति । ऽमा नो देवाःऽ इति सूक्तेन शुष्कगोमयमभिमन्त्र्य गृहे निखनति । ऽयस्ते सर्पःऽ इत्यृचा गोमयमभिमन्त्र्य गृहे निखनति ॥
[आदधाति ॥ कौश्स्_7,1{50}.21 ॥]
ऽयेऽस्याम्ऽ ऽप्राची दिक्ऽ इति सूक्ताभ्यां शुष्कगोमयमादधात्यग्नौ । ऽमा नो देवाःऽ इति सूक्तेन गोमयमग्नौ जुहोति । ऽयस्ते सर्पःऽ इत्यृचा गोमयमग्नौ जुहोति । गृहे क्षेत्रे ग्रामे नगरे वा स्वस्त्ययनकामः ॥
[अपामार्गप्रसूनान् कुद्रीचीशफान् पराचीनमूलान् ॥ कौश्स्_7,1{50}.22 ॥]

ऽयेऽस्याम्ऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य द्वारे सम्भिनत्ति । ऽयेऽस्यां स्थऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य द्वारे निखनति । ऽयेऽस्यां स्थऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्याग्नौ जुहोति । ऽप्राची दिक्ऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य गृहे स्तृणाति । ऽप्राची दिक्ऽ इति सूक्तेनापामार्गप्रसूनमभिमन्त्र्य द्वारे निखनति । ऽप्राची दिक्ऽ इति सूक्तेनापामार्गमञ्जरीं जुहोति । ऽमा नो देवाःऽ इति सूक्तेनापामार्गमभिमन्त्र्य गृहे स्तृणाति । ऽमा नो देवाःऽ इति सूक्तेनापामार्गमभिमन्त्र्य भूमौ निखनति स्वस्त्ययनकामः । ऽमा नो देवाःऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य अग्नौ जुहोति । ऽयस्ते सर्पःऽ इति अपामार्गमञ्जरीमभिमन्त्र्य सम्भिनत्ति । ऽयस्ते सर्पःऽ इति अपामार्गमञ्जरीं निखनति ग्राममध्ये स्वस्त्ययनकामः । ऽयस्ते सर्पःऽ इत्यृचापामार्गं जुहोति । ऽयेऽस्यां स्थऽ इति सूक्तेन गुडूचीमभिमन्त्र्य नाना करोति । ऽयेऽस्याम्ऽ इति सूक्तेन गुडूचीमभिमन्त्र्य निखनति । ऽयेऽस्याम्ऽ इति सूक्तेन गुडूचीपादानभिमन्त्र्याग्नौ जुहोति । ऽप्राची दिक्ऽ इति गुडूचीपादानभिमन्त्र्य गृहे स्तृणाति । ऽप्राची दिक्ऽ इति गुडूचीपादा ये अधोमुखास्तानभिमन्त्र्य निखनति । ऽप्राची दिक्ऽ इति गुडूचीमग्नौ जुहोति । ऽमा नो देवाःऽ इति गुडूचीमभिमन्त्र्य ग्रामे स्तृणाति । स्वस्त्ययनकामः । ऽमा नो देवाःऽ इति गुडूचीमभिमन्त्र्य निखनति । ऽमा नो देवाःऽ इति गुडूचीमग्नौ जुहोति । ऽयस्ते सर्पःऽ इत्यृचा गुडूचीमभिमन्त्र्य स्तृणाति । ऽयस्ते सर्पःऽ इत्यृचा गुडूचीमभिमन्त्र्य निखनति । ऽयस्ते सर्पःऽ इत्यृचा गुडूचीमग्नौ जुहोति । मशककीटकसर्पवृश्चिकादिस्वस्त्ययनानि भवन्ति । समाप्तानि मशकादीनां स्वस्त्ययनानि ॥ सप्तमे प्रथमा कण्डिका

51

अथ व्याघ्रचौरवृकचरकसिंहारण्यकादीनां भये स्वस्त्ययनान्युच्यन्ते-
[उदितः (4.3) इति खादिरं शङ्कुं सम्पातवन्तमुद्गृह्णन् निखनन् गा अनुव्रजति ॥ कौश्स्_7,2{51}.1 ॥]
अभ्यातानान्तं कृत्वा ऽउदितस्त्रयो अक्रमन्ऽ इति सूक्तेन खदिरकीलकं सम्पात्य तत उत्तरतन्त्रं कृत्वा कीलकं निखनन्नुत्पाटयन् गृहादरण्यं गां पृष्ठतो गच्छति । व्याघ्रादिस्वस्त्ययनकामः ॥
[निनयनं समुह्य चारे सारूपवत्सस्येन्द्राय त्रिर्जुहोति ॥ कौश्स्_7,2{51}.2 ॥]
ऽउदितःऽ इति सूक्तेनोदकघटमभिमन्त्र्य गोप्रचारे निनयति । ततः पांशुकूटं तत्र कृत्वार्द्धं दक्षिणेन हस्तेन विक्षिपति । इन्द्राय पाकयज्ञविधानेनाज्यभागान्तं कृत्वा ऽउदितःऽ इति सूक्तेन सप्तर्चेन द्वाभ्यां द्वे आहुती तिसृभिरृग्भिस्तृतीया । पार्वणाद्युत्तरतन्त्रम् ॥
[दिश्यान् बलीन् हरति ॥ कौश्स्_7,2{51}.3 ॥]
सारूपवत्सेन दुग्धे चरुश्रपणं हविरुच्छिष्टेन बलिहरणं कुर्यात् ॥
[प्रतिदिशमुपतिष्ठते ॥ कौश्स्_7,2{51}.4 ॥
मध्ये पञ्चममनिर्दिष्टम् ॥ कौश्स्_7,2{51}.5 ॥]
ऽयेऽस्यां स्थऽ इति सूक्तेन प्रत्यृचमुपतिष्ठते । मध्ये पञ्च बलिहरणम् । प्राची । दक्षिणा । प्रतीची । उदीची । एवं मध्यं च । प्राची । दक्षिणा । प्रतीची । उदीची । एवं चोपस्थानानि ॥
[शेषं निनयति ॥ कौश्स्_7,2{51}.6 ॥]
अनिर्दिष्टं शेषं हविर्भूमौ निनयतीति पञ्चमम् ॥
[ब्रह्म जज्ञानम् (5.6) भवाशर्वौ (4.28) इत्यासन्नमरण्ये पर्वतं यजते ॥ कौश्स्_7,2{51}.7 ॥]
पर्वतदेवताया अरण्ये पाकयज्ञविधानेनाज्यभागान्तं कृत्वा ऽब्रह्म जज्ञानम्ऽ ऽअनाप्ता येऽ (5.6.1-2) इति सूक्तेन जुहोति । ऽहिमवते जुष्टं निर्वपामि । हिमवते त्वा जुष्टं प्रोक्षामि । हिमवन्तं गच्छतु हविः स्वाहाऽ इति । निकटपर्वतं यजते । पार्वणाद्युत्तरतन्त्रम् ॥
[अन्यस्मिन् भवशर्वपशुपत्युग्ररुद्रमहादेवेशानानां पृथगाहुतीः ॥ कौश्स्_7,2{51}.8 ॥]
पर्वतदेवतायै पाकयज्ञमाज्यभागान्तं कृत्वा ऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेन चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । पाकयज्ञतन्त्रं कृत्वा ऽभवाय जुष्टं निर्वपामिऽ इत्यादि । भव । शर्व । पशुपति । उग्र । रुद्र । महादेव । ईशान । एताः सप्त देवताः । देवतानिर्वापं कृत्वैकस्मिन् भाण्डके श्रपणम् । ऽब्रह्म जज्ञानम्ऽ इति सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । भवाशर्वादिभ्यो देवताभ्यो निर्वापं कृत्वा बृहद्भाण्डके श्रपणम् । आज्यभागान्तं कृत्वा ऽभर्वाशर्वौ मृडतम्ऽ इति सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । भवम् । शर्वम् । पशुपतिम् । उग्रम् । रुद्रम् । महादेवम् । ईशानं यजते । एते सप्त पर्वतदेवताः । व्याघ्रचौरवृश्चिकहस्त्यारण्यकमहिषारण्यकगो-इत्यादिभये स्वस्त्ययनम् ॥
गोष्ठकर्मोच्यते -
[गोष्ठे च द्वितीयमश्नाति ॥ कौश्स्_7,2{51}.9 ॥]
गोशान्तिः । पाकयज्ञतन्त्रं कृत्वेन्द्रदेवतायै ऽब्रह्म जज्ञानम्ऽ ऽअनाप्ता येऽ (5.6.1-3) इति सूक्तेन चरुं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा भवाशर्वादिभ्यो निर्वापं कृत्वैकस्मिन् भाण्डे श्रपणं कृत्वा ततो ब्रह्मजज्ञानेन जुहोति । सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । पर्वतदेवतायै पाकयज्ञविधानमाज्यभागान्तं कृत्वा ऽभवाशर्वौ मृडतम्ऽ इति सूक्तेन चरुं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा भव-शर्व-पशुपति-उग्र-रुद्र-महादेव-ईशानान्तं निर्वापं कृत्वैकस्मिन् भाण्डके श्रपणं कृत्वा ऽभवाशर्वौऽ इति सूक्तेन जुहोति । प्रतिदेवतं सूक्तावृत्तिः । तत उत्तरतन्त्रम् । रुद्रदेवस्य चरोर्हविरुच्छिष्टं यजमानोऽश्नाति । यद्धि कर्मणि तत्र सर्वत्र ॥
[दर्भानाधाय धूपयति ॥ कौश्स्_7,2{51}.10 ॥ भूत्यै वः पुष्ट्यै वः इति ।]
अग्नौ दर्भानाधाय यजमानो धूमं नियच्छति । ऽभूत्यै वः पुष्ट्यै वःऽ इति मन्त्रेण । द्वितीयचरोर्हविरुच्छिष्टभक्षणं धूमपानं च । इति गोष्ठकर्माणि समाप्तानि । इति गोशान्तिः । इन्द्रयागो भवादियागश्चैकं कर्म द्वितन्त्रम् ॥
प्रथमप्रसवे गवां शान्तिरुच्यते-
[प्रथमजयोर्मिथुनयोर्मुखमनक्ति ॥ कौश्स्_7,2{51}.11 ॥]
ऽब्रह्म जज्ञानम्ऽ सहस्रधारेण घृतमभिमन्त्र्य वत्सवात्सिकामुखमनक्ति । एवं ऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेन घृतमभिमन्त्र्य वत्सस्य वत्सिकाया वा मुखं म्रक्षति । स्वस्त्ययनकामः । गोष्ठे प्रथमप्रसव एतत्कर्म ॥
[तिस्रो नलदशाखा वत्सान् पाययति ॥ कौश्स्_7,2{51}.12 ॥]
ऽब्रह्म जज्ञानम्ऽ इति सूक्तेन तिस्रो नलदशाखाः पिष्ट्वाभिमन्त्र्य वत्सिकां पाययति । स्वस्त्ययनकामः । ऽभावाशर्वौऽ इत्यर्थसूक्तेन तिस्रो नलदशाखा उदकेन पिष्ट्वाभिमन्त्र्य वत्सिकां पाययति । स्वस्त्ययनकामः ॥
[शाखयोदकधारया गाः परिक्रामति ॥ कौश्स्_7,2{51}.13 ॥]
गवां प्रथमप्रसवे ऽब्रह्म जज्ञानम्ऽ इति महत्काण्डिकेन सूक्तेन शाखामुदकमभिमन्त्र्य गोभ्यो बहिरुदकधारां निनयति । स्वस्त्ययनकामः । नलदो मासिका नलो वा । ऽभवाशर्वौऽ इत्यर्थसूक्तेन शाखामुदकमभिमन्त्र्य तत उदकधारां गोर्बहिर्निनयति । शाखया सहाव्यवच्छिन्ना धारा । समाप्ता गोभ्यः प्रथमप्रसवे शान्तिः ॥
अथ पत्तनग्रामस्य गृहस्य शान्तिरुच्यते-
[अश्मवर्म मे (5.10) इति षडश्मनः सम्पातवतः स्रक्तिषु पर्यधस्तान्निखनति ॥ कौश्स्_7,2{51}.14 ॥]
अभ्यातानान्तं कृत्वा ऽअश्मवर्म मेऽ इति षडर्चेन सूक्तेन सप्तम्यृचा सर्वासां द्वितीया कर्तव्या । ऽये दिशामन्तर्देशेभ्यःऽ इति षट्सु ऋक्षु द्वितीया । षट् सम्पाताः । षडश्मनः सम्पातवतोऽभिमन्त्र्य ततो गृहकोणेषु निखनति चतुरः । एकं गृहमध्य एकं गृहोपरि निदधाति । उत्तरतन्त्रम् । गृहग्रामनगरपत्तनानां सर्वत्र स्वस्त्ययनं समाप्तम् ॥
अथान्नस्वस्त्ययनमुच्यते-
[अलसाला (6.16.4) इत्यालभेषजम् ॥ कौश्स्_7,2{51}.15 ॥
त्रीणि सिलाञ्जालाग्राण्युर्वरामध्ये निखनति ॥ कौश्स्_7,2{51}.16 ॥]
ऽअलसालाऽ इत्यृचा तिस्रः सस्यवल्लीरभिमन्त्र्य क्षेत्रमध्ये निखनति । अन्नव्याधिरक्षास्वस्त्ययनं समाप्तम् ॥
अथ मूषकपतङ्गशलभहरिणरोरुशल्यादीनि सस्यविनाशकानि तेषां शान्तिरुच्यते -
[हतं तर्दम् (6.50) इत्ययसा सीसं कर्षन्नुर्वरां परिक्रामति ॥ कौश्स्_7,2{51}.17 ॥]
ऽहतं तर्दम्ऽ इति सूक्तेन सीसं लोहमुद्घर्षन् सूक्तं जपित्वाभिप्रक्रामति । मूषकादिस्थाने ॥
[अश्मनोऽवकिरति ॥ कौश्स्_7,2{51}.18 ॥]
ऽहतं तर्दम्ऽ इति सूक्तेन शर्करानभिमन्त्र्य यत्र मूषकादीनि तत्र परिकिरति ॥
[तर्दमवशिरसं वदनात् केशेन समुह्योर्वरामध्ये निखनति ॥ कौश्स्_7,2{51}.19 ॥]
मूषकादिमुखं केशेन बन्धयित्वा ऽहतं तर्दम्ऽ इति सूक्तेनाभिमन्त्र्य क्षेत्रमध्ये निखनति ॥
[उक्तं चारे ॥ कौश्स्_7,2{51}.20 ॥]

अश्विनदेवतायै पाकयज्ञमाज्यभागान्तं कृत्वा ऽहतं तर्दम्ऽ इति सूक्तेन सारूपवत्सं चरुं जुहोति । तत उत्तरतन्त्रम् । ऽअश्विभ्यां जुष्टं निर्वपामि । अश्विभ्यां त्वा जुष्टं प्रोक्षामि । अश्विनौ गच्छतु हविः स्वाहाऽ इति.
[बलीन् हरत्याशाया आशापतयेऽश्विभ्यां क्षेत्रपतये ॥ कौश्स्_7,2{51}.21 ॥]
हविःशेषेण बलिहरणं करोति प्रतिदिशम् ऽआशायै बलिं हरामि वषट्ऽ । ऽआशापतयेऽ । ऽअश्विभ्याम्ऽ । ऽक्षेत्रपतयेऽ ॥
[यदैतेभ्यः कुर्वीत वाग्यतस्तिष्ठेदास्तमयात् ॥ कौश्स्_7,2{51}.22 ॥]
तस्मिन्नहनि मौनं कुर्यादस्तमनं यावत् । तस्मिन्नहनि पाकयज्ञविधानं क्रियते । समाप्तं मूषकशलभपतङ्गटिट्टिभकीटककीटिकाहरिणरोरुशल्यकगोधासेधाकृम्यादिभये स्वस्त्ययनम् ॥ सप्तमे द्वितीया कण्डिका

52

अथ देशान्तरगमनस्य स्वस्त्ययनमुच्यते-
[ये पन्थानः (6.55) इति परीत्योपदधीत ॥ कौश्स्_7,3{52}.1 ॥
प्रयच्छति ॥ कौश्स्_7,3{52}.2 ॥]
ऽये पन्थानो बहवो देवयानाःऽ इति तृचेन सूक्तेनाज्यं जुहोति । आज्यतन्त्रे । ऽये पन्थानःऽ इति समिध आदधाति । पुरोडाशादि योज्यं सर्वत्र । ऽये पन्थानःऽ इति सूक्तेन तृचेन मन्थमभिमन्त्र्य पथिकाय प्रयच्छति स्वस्त्ययनकामः । ऽये पन्थानःऽ इति तृचेन भक्तमभिमन्त्र्य प्रयच्छति भोजनार्थम् । समाप्ता ग्रामदूरागमनस्य शान्तिः । अनेन कर्मणा कलहादि दोषो न भवति ॥
पुरुषबन्धने मोचनशान्तिरुच्यते-
[यस्यास्ते (6.84) यत्ते देवीं (6.63) विषाणा पाशान् (6.121) इत्युन्मोचनप्रतिरूपं सम्पातवन्तं करोति ॥ कौश्स्_7,3{52}.3 ॥]
अभ्यातानान्तं कृत्वा ऽयस्यास्तेऽ इति सूक्तेन चतुरृचेन येन बद्धः तत्सदृशं सम्पातवन्तं कृत्वा सूक्तसदृशं द्वितीयं च सम्पातवन्तं करोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽयत्ते देवी निरृतिःऽ इति तृचेन सूक्तेन बन्धसदृशं निगडयुगलद्वयं च सम्पातवन्तं करोति । नाभिमन्त्रणम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽविषाणा पाशान्ऽ इति चतुरृचेन निगडयुगलद्वयं सम्पात्यैकं मुक्तं निगडं चर्ममयं वा लोहमयं वा येन बद्धस्तन्मयं कृत्वा । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं बन्धमोचनम् ॥
वाचाबन्धस्य मोचनमुच्यते-
[वाचा बद्धाय भूमिपरिलेखम् ॥ कौश्स्_7,3{52}.4 ॥]
तन्त्रं कृत्वा ऽयस्यास्तेऽ इति सूक्तेन भूमिलेखां सम्पात्य । तत उत्तरतन्त्रम् । समाप्तं वाचाबन्धनम् । स्वस्त्ययनकामः । बद्धो अनेन कर्मणा कृतेन मुच्यते बन्धनात् ॥
अग्निदाघरक्षार्थमुच्यते-
[आयने (6.106) इति शमनमन्तरा ह्रदं करोति ॥ कौश्स्_7,3{52}.5 ॥]
ऽआयने ते परायणेऽ इति सूक्तेनोदकमभिमन्त्र्य गर्ते प्रक्षिपति मध्ये दाघे । अदाघे च कृत्वा उदकपूरणं करोति ॥
[शाले च ॥ कौश्स्_7,3{52}.6 ॥]
ऽआयने तेऽ इति सूक्तेन शालामध्ये द्वयोरुदकमभिमन्त्र्य गर्ते प्रक्षिपति । अग्निरक्षा भवति ॥
[अवकया शालां परितनोति ॥ कौश्स्_7,3{52}.7 ॥]
ऽआयने तेऽ इति सूक्तेन अवकामभिमन्त्र्य शालामुपरि परितनोति दाघरक्षार्थी । अग्न्युपसर्गे एतत् कर्म ॥
[शप्यमानाय प्रयच्छति ॥ कौश्स्_7,3{52}.8 ॥]
ऽआयने तेऽ इति सूक्तेन दिव्यमभिमन्त्र्य शप्यमानाय प्रयच्छति । दिव्ये शुध्यति । तप्तमाषके दिव्ये ॥
[निदग्धं प्रक्षालयति ॥ कौश्स्_7,3{52}.9 ॥]
ऽआयने तेऽ इति सूक्तेनोदकमभिमन्त्र्य अङ्गं दग्धं प्रक्षालयति । अङ्गमारोग्यं भवति । अङ्गे अग्निरक्षा । समाप्तानि अग्निदाहरक्षाणि ॥
नावापेटकपटिकादिस्वस्त्ययनार्थोदकतरणरक्षार्थमुच्यते-
[महीमू षु (7.6.2-4) इति तरणान्यालम्भयति ॥ कौश्स्_7,3{52}.10 ॥]
ऽमहीमू षुऽ इति तृचेन सूक्तेन नावाद्यभिमन्त्र्य ततश्चटन्ति । उपविशन्ति । न कदाचिन्मज्जति क्वचित् ॥
[दूरान्नावं सम्पातवतीं नौमणिं बध्नाति ॥ कौश्स्_7,3{52}.11 ॥]
उदकरक्षार्थे दूरदेशगमन अभ्यातानान्तं कृत्वा ऽमहीमू षुऽ इति तृचेन नावं सम्पात्य ततश्चटन्ति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽमहीमू षुऽ इति तृचेन नौमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । समाप्तं दूरदेशगमने एतत् कर्म । नाविकेभ्यो बध्नाति । ये नावं चटन्ति तेषां बन्धनम् । समाप्तं नावार्थं स्वस्त्ययनम् ॥
अथ नष्टे द्रव्ये लाभकर्म उच्यते-
[प्रपथे (7.9) इति नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान् पाणीन् निमृज्योत्थापयति ॥ कौश्स्_7,3{52}.12 ॥]
नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां ऽप्रपथे पथाम्ऽ इति चतुरृचं जपित्वा दक्षिणं पाणिमुग्मृज्योत्थापयति । नष्टनिरोक्षणार्थे ॥
[एवं सम्पातवतः ॥ कौश्स्_7,3{52}.13 ॥]
अभ्यातानान्तं कृत्वा ऽप्रपथे पथाम्ऽ इति चतुरृचेन सूक्तेन नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां ततः पाणी सम्पात्य विमृज्योत्थापयति । तत उत्तरतन्त्रम् ॥
[निमृज्यैकविंशतिं शर्कराश्चतुष्पथेऽवक्षिप्यावकिरति ॥ कौश्स्_7,3{52}.14 ॥]
ऽप्रपथे पथाम्ऽ इति चतुरृचेन सूक्तेन एकविंशतिशर्करानभिमन्त्र्य चतुष्पथे प्रक्षिपति । समाप्तं नष्टलाभकर्म ॥
[नमस्कृत्य (7.102.1) इति मन्त्रोक्तम् ॥ कौश्स्_7,3{52}.15 ॥]
ऽनमस्कृत्य द्यावापृथिवीभ्याम्ऽ इत्येकां जपित्वा ऊर्ध्वस्तिष्ठन्नुपतिष्ठते ॥
[अंहोलिङ्गानामापो भोजनहवींष्यभिमर्शनोपस्थानमादित्यस्य ॥ कौश्स्_7,3{52}.16 ॥
स्वयं हविषां भोजनम् ॥ कौश्स्_7,3{52}.17 ॥]
अंहोलिङ्गः - ऽय आशानाम्ऽ (1.31.2) इत्येका । ऽअग्नेर्मन्वेऽ (4.23-29) इति सप्त सूक्तानि । ऽया ओषधयःऽ (6.96.1) इत्येका । ऽवैश्वानरो न आगमत्ऽ (6.35.2) इत्येका । ऽशुम्भनीऽ (7.117.1) इत्येका । ऽयदर्वाचीनम्ऽ (10.5.22) इत्येका । ऽअग्निं ब्रूमःऽ (11.6) इत्यर्थसूक्तम् । सप्तप्रतीक अंहोलिङ्गगणः । एकैकस्य प्रतीकस्य त्रयोदशहविर्भिः होमः प्रत्येतव्यः विकल्पेन.
ऽय आशानाम्ऽ इत्येकयोदकमभिमन्त्र्य पाययति । स्वस्त्ययनकामः । ऽय आशानाम्ऽ इत्येकया भोजनमभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । ऽय आशानाम्ऽ इत्येकया हविर्जुहोति । तन्त्रविकल्पः । स्वस्त्ययनकामः । प्रतिदिनं कुर्यादित्यर्थः । हविरुपदधीताज्यादि त्रयोदश । ऽअग्नेर्मन्वेऽ इति सप्तभिः सूक्तैरुदकमभिमन्त्र्य पाययति । ऽअग्नेर्मन्वेऽ इति सप्तभिः सूक्तैः भक्तमभिमन्त्र्य भक्षयति । ऽअग्नेर्मन्वेऽ इति सप्तभिः सूक्तैः हविर्जुहोति । तन्त्रविकल्पः । स्वस्त्ययनकामः । ऽया ओषधयःऽ इत्येकयोदकमभिमन्त्र्य पिबति । ऽया ओषधयःऽ इति भक्तमभिमन्त्र्य भक्षयति । ऽया ओषधयःऽ इति हविर्जुहोति । स्वस्त्ययनकामः । आप्लवनावसेचनाचमनादीनि यथासम्भवं कर्तव्यानि । प्रतीकविकल्पः । भोजने ओषधिवद् हविषः । आज्यसमिधादि । स्वस्त्ययनकामः । ऽवैश्वानरो न आगमत्ऽ इत्येकयोदकमभिमन्त्र्य पिबति । स्वस्त्ययनकामः । ऽशुम्भनी द्यावापृथिवीऽ इत्येकया भक्तमभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । ऽशुम्भनी द्यावापृथिवीऽ इत्येकयाज्यादिहविर्जुहोति । तन्त्रं वा । ऽयदर्वाचीनम्ऽ इत्यृचा पानभोजनहविरपि एतत् त्रितयं करोति । ऽअग्निं ब्रूमःऽ इति सूक्तेनोदकमभिमन्त्र्य पिबति । स्वस्त्ययनकामः । ऽअग्निं ब्रूमःऽ इति सूक्तेन भक्तमभिमन्त्र्य भक्षयति । ऽअग्निं ब्रूमःऽ इति सूक्तेन हविराज्यसमिधादि जुहोति । स्वस्त्ययनकामः । पापसंसर्गे व्याधिसंसर्गे वर्णसंसर्गे अन्यस्मिन् पापे स्वस्त्ययनम् । सर्वस्वस्त्ययनं समाप्तम्.

अंहोलिङ्गेन विकल्पेन एतेन सूक्तेन हृदयमालभ्य जपं कृत्वा उपस्थानमादित्यस्य कुर्यात् तेनैव सूक्तेन । स्वस्त्ययनकामः । अभिमर्शनं पुरुषस्य अन्यस्य वा । हस्त्यश्ववृक्षगृहस्त्रीपुरुषादीनां स्वस्त्ययनं क्रियते । तस्याभिमर्शनमुपस्थानं च । स्वस्त्ययनकामः । ऽय आशानाम्ऽ इत्येकया हविरभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । भक्ष्यं हविः । पाकतन्त्रे आज्यतन्त्रे च सर्वत्राभिमन्त्रणम् । पाकतन्त्रस्य वा हविरुच्छिष्टम् । आज्यतन्त्रस्य वा हविरुच्छिष्टम्मभिमन्त्र्य ततो भक्षणम् । इदं कर्म स्वयं करोति । ऽअग्नेर्मन्वेऽ इति सप्तभिः सूक्तैर्हविरभिमन्त्र्य भक्षयति । पाकतन्त्रे । आज्यतन्त्रे नाभिमन्त्रणम् । स्वस्त्ययनकामः । ऽया ओषधयःऽ इत्येकया हविरभिमन्त्र्य भक्षयति । ऽवैश्वानरो न आगमत्ऽ इत्येकया हविरभिमन्त्र्य भक्षयति । ऽशुम्भनी द्यावापृथिवीऽ इत्यृचा हविरभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । ऽअग्निं ब्रूमःऽ इत्यर्थसूक्तेन हविरभिमन्त्र्य भक्षयति । पाकतन्त्रे वा । आज्यतन्त्रे वा । अंहोलिङ्गेन प्रतीकेन हविर्हुत्वा ततोऽभिमन्त्रणं करोति । ततो भक्षणं कुर्यात् । इति स्वस्त्ययनं क्रियते । स्वयमभिमन्त्रणं करोति । ऽस्वयं हविषां भोजनम्ऽ (कौश्स् 52.17) इति वचनात् । शान्तिकपौष्टिकयोर्यदुच्छिष्टं तस्याभिमन्त्रणम् । शान्तिकपौष्टिके हविरुच्छिष्टे न भक्षणं वा । अंहोलिङ्गेन हविरुच्छिष्टभक्षणं वा नियमे कुर्यात् । यत्र क्वचिच्छान्तिः क्रियते तत्र सर्वत्र स्वस्त्ययनहोमं कुर्यात् । गृहे नगरे वने वा बहिर्वा पत्तने वा ग्रामे पुरे वा सर्वत्र स्वस्त्ययनं कृत्वा सर्वेषु काम्येषु स्वस्त्ययनहोमः । समाप्तानि स्वस्त्ययनानि ॥
[आयुष्यकर्माणि]
आयुष्यकर्मणां विधिं वक्ष्यामः-
[विश्वे देवा (1.30) इत्यायुष्याणि ॥ कौश्स्_7,3{52}.18 ॥
स्थालीपाके घृतपिण्डान् प्रतिनीयाश्नाति ॥ कौश्स्_7,3{52}.19 ॥]
अभ्यातानान्तं कृत्वा ऽविश्वे देवाऽ इति सूक्तेन स्थालीपाकं श्रपयित्वा तत्स्थालीपाके घृतपिण्डत्रयं प्रतिनीय सम्पात्याभिमन्त्र्य घृतेन सह स्थालीपाकमश्नाति । त्रिरिति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[अस्मिन् वसु (1.9) यदाबध्नन् (1.35) नव प्राणान् (5.28) इति युग्मकृष्णलमादिष्टानां स्थालीपाक आधाय बध्नाति ॥ कौश्स्_7,3{52}.20 ॥
आशयति ॥ कौश्स्_7,3{52}.21 ॥]
ऽअस्मिन् वसुऽ इति सूक्तेन हिरण्यमणिं युग्मकृष्णलं स्थालीपाके स्थापयित्वा सम्पात्याभिमन्त्र्य बध्नाति । स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति । आज्यतन्त्रे । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽयदाबध्नन्ऽ इति सूक्तेन हिरण्यमणिं
युग्मकृष्णलं सम्पात्याभिमन्त्र्य बध्नाति । स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽनव प्राणान्ऽ इति सूक्तेन हिरण्यरजतलोहयुग्मकृष्णलमणिं त्रिगुणं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । चतुःसूक्तावृत्तिः । बध्नाति स्थालीपाके स्थापयित्वा स्थालीपाकं चाश्नाति । तत उत्तरतन्त्रम् । केचित् स्थालीपाके सम्पातं न कुर्वन्ति । आयुष्कामः ॥
अथ क्रमेण ऽयथा द्यौःऽ (2.15) इत्यादि गोदानमध्ये पठितम् । प्रथमं व्याख्यायते । ऽयथा द्यौश्चऽ इति सूक्तेन स्थालीपाकं महाव्रीहिमयं श्रपयित्वा ततः शान्त्युदकेन सम्प्रोक्ष्य ततोऽभिमन्त्र्याश्नाति । आयुष्कामः । ऽमनसे चेतसे धियःऽ (6.41) इति सूक्तेन महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन प्रोक्ष्य तमभिमन्त्र्य प्राश्नाति । आयुष्कामः । ऽप्राणापानौऽ ऽओजोऽसिऽ (2.16-17) इति सूक्ताभ्याम् आज्यं जुहोति तन्त्रे । आयुष्कामः । ऽप्राणापानौऽ ऽओजोऽसिऽ इति सूक्ताभ्यां समिध आदधाति । तन्त्रविकल्पः । पालाशादयः प्रशस्ताः । आयुष्कामः । ऽप्राणापानौऽ ऽओजोऽसिऽ इति सूक्ताभ्यां पुरोडाशं जुहोति । तन्त्र आयुष्कामः । ऽप्राणापानौऽ, ऽओजोऽसिऽ इति सूक्ताभ्यां पायसं जुहोति । तन्त्रे । ऽप्राणापानौऽ, ऽओजोऽसिऽ इति सूक्ताभ्यां पशुं जुहोति पशुतन्त्रेण । देवतानामग्रहणम् । ऽप्राणापानौऽ, ऽओजोऽसिऽ इति सूक्ताभ्यां व्रीहीनावपति । आयुष्कामः । ऽप्राणापानौऽ, ऽओजोऽसिऽ इति सूक्ताभ्यां यवानावपति । ऽप्राणापानौऽ ऽओजोऽसिऽ इति सूक्ताभ्यां तिलानावपति । आयुष्कामः । ऽप्राणापानौऽ, ऽओजोऽसिऽ इति सूक्ताभ्यां धाना जुहोति । सर्वत्र तन्त्रे वा । ऽप्राणापानौऽ, ऽओजोऽसिऽ इति सूक्ताभ्यां करम्भं जुहोति । तन्त्रे । ऽप्राणापानौऽ, ऽओजोऽसिऽ इति शष्कुलीर्जुहोति । आयुष्कामः । ऽयथा द्यौःऽ, ऽमनसे चेतसे धियःऽ इत्यादि अक्रमेण व्याख्यातम् ॥ सप्तमे तृतीया कण्डिका

53

[गोदानकर्म]
अथ गोदानम् । संवत्सरे गोदानं यथाकुलधर्मेण वा कुर्यात् । अथ गोदानविधिं वक्ष्यामः-
[आयुर्दा (2.13) इति गोदानं कारयिष्यन् सम्भारान् सम्भरति ॥ कौश्स्_7,4{53}.1 ॥
अमम्रिमोजोमानीं दूर्वामकर्णमश्ममण्डलमानडुहशकृत्पिण्डं षड् दर्भप्रान्तानि कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ कौश्स्_7,4{53}.2 ॥
बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ कौश्स्_7,4{53}.3 ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ कौश्स्_7,4{53}.4 ॥
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ कौश्स्_7,4{53}.5 ॥
पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति ॥ कौश्स्_7,4{53}.6 ॥]
ऽआयुर्दाऽ इति सूक्तेन उक्तसम्भारान् सम्भरति । आज्यतन्त्रं कृत्वा इध्महोमान्ते ऽयदग्ने तपसाऽ (7.61.1-2) इति द्वाभ्यामृग्भ्यामग्निं परिसमूहति । ऽसं मा सिञ्चन्तुऽ (7.33.1) इत्यृचाग्निं त्रिः पर्युक्षति । गोदाने विशेषः । आज्यभागान्तं कृत्वा ततः शान्त्युदकं करोति ॥
[तत्रैतत् सूक्तमनुयोजयति ॥ कौश्स्_7,4{53}.7 ॥]
ऽआयुर्दाऽ इति सूक्तं शान्त्युदक अनुयोजयेत् ॥
[त्रिरेवाग्निं सम्प्रोक्षति त्रिः पर्युक्षति ॥ कौश्स्_7,4{53}.8 ॥]
मातल्यन्तेन शान्त्युदकेन त्रिरेवाग्निं सम्प्रोक्षति । त्रिः पर्युक्षति ॥
[त्रिः कारयमाणमाचामयति च सम्प्रोक्षति च ॥ कौश्स्_7,4{53}.9 ॥]
माणवकं त्रिराचामयति च सम्प्रोक्षति च मन्त्रेण । ततोऽभ्यातानानि हुत्वा ऽआयुर्दाऽ इति सूक्तेनाज्यं जुह्वन् मूर्धि सम्पातानानयति ॥
[शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयच्छति ॥ कौश्स्_7,4{53}.10 ॥
तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ कौश्स्_7,4{53}.11 ॥
अथास्मा अन्वारब्धाय करोति ॥ कौश्स्_7,4{53}.12 ॥
आयुर्दा (2.13) इत्यनेन सूक्तेनाज्यं जुह्वन् मूर्ध्नि सम्पातानानयति ॥ कौश्स्_7,4{53}.13 ॥
दक्षिणे पाणावश्ममण्डल उदपात्र उत्तरसम्पातान् स्थालरूप आनयति ॥ कौश्स्_7,4{53}.14 ॥]
उत्तरसम्पातान् दक्षिणतः सुहृदो हस्ते शकृत्पिण्ड आनयति । ततो दक्षिणाहस्त अश्वमण्डल उदपात्रे च सम्पातानानयति । उत्तरसम्पातान् स्थालरूप आनयति । चतुः सूक्तावृत्तिः ॥
[अमम्रिमोजोमानीं चोदपात्रेऽवधाय ॥ कौश्स्_7,4{53}.15 ॥]
उदपात्रे पूतुदारुं गुडूचीं च प्रक्षिप्य तत उष्णोदकं कृत्वा ततः सम्पातः । शकृत्पिण्डे दूर्वां कृत्वा ततः सम्पातः ॥
[स्थालरूपे दुर्वां शान्त्युदकमुष्णोदकं चैकधाभिसमासिच्य ॥ कौश्स्_7,4{53}.16 ॥
आयमगन्सविता क्षुरेण (6.68) इत्युदपात्रमनुमन्त्रयते ॥ कौश्स्_7,4{53}.17 ॥]
शान्त्युदकमुष्णोदकं चैकधाभिसमासिच्य ऽआयमगन् सविता क्षुरेणऽ इति तृचेनोदपात्रमनुमन्त्रयते ॥
[अदितिः श्मश्रु (6.68.1) इत्युन्दति ॥ कौश्स्_7,4{53}.18 ॥]
ऽअदितिः श्मश्रुऽ इत्यृचा उदपात्रोदकेन शिरसि केशान् क्लेदयेत् ॥
[यत्क्षुरेण (8.2.1) इत्युदक्पत्रं क्षुरमद्भि श्चोत्य त्रिः प्रमार्ष्टि ॥ कौश्स्_7,4{53}.19 ॥]
ऽयत्क्षुरेणऽ इत्यृचा क्षुरं मार्जयति त्रिः । सकृन्मन्त्रः ॥
[येनावपत् (6.68.3) इति दक्षिणस्य केशपक्षस्य दर्भपिञ्जूल्या केशानभिनिधाय प्रच्छिद्य स्थालरूपे करोति ॥ कौश्स्_7,4{53}.20 ॥
एवमेव द्वितीयं करोति ॥ कौश्स्_7,4{53}.21 ॥
एवं तृतीयम् ॥ कौश्स्_7,4{53}.22 ॥]
ऽयेनावपत्ऽ इत्यृचा दर्भपिञ्जूलीं गृहीत्वा दक्षिणपार्श्वे केशछेदनं पिञ्जूल्या सह करोति । ततः स्थालरूपे केशान् करोति । ऽअदितिः श्मश्रुऽ इति उन्दनम् । ऽयेनावपत्ऽ इति दर्भपिञ्जूल्या सह केशछेदनम् । पुनः उन्दनम् । छेदनम् । सह पिञ्जूल्या एकस्मिन् पार्श्वे त्रीणि वपनानि करोति ॥
[एवमेवोत्तरस्य केशपक्षस्य करोति ॥ कौश्स्_7,4{53}.23 ॥]
उत्तरेऽपि त्रीणि ॥ सप्तमेऽध्याये चतुर्थी कण्डिका

54

अत्र ब्राह्मणवाचनम् । वृद्धस्त्रीभिः गीतं च कारापयेत् ॥
[अथ नापितं समादिशति अक्षण्वन् वप केशश्मश्रु रोम परिवप नखानि च कुरु इति ॥ कौश्स्_7,5{54}.1 ॥]
अथ नापिताय प्रैषं ददाति । ऽअक्षण्वन् वप केशश्मश्रु रोम परिवप नखानि च कुरुऽ इति ॥
[पुनः प्राणः (6.53.1) पुनर्मैत्विन्द्रियम् (6.67) इति त्रिर्निमृज्य ॥ कौश्स्_7,5{54}.2 ॥
त्वयि महिमानं सादयामि इत्यन्ततो योजयेत् ॥ कौश्स्_7,5{54}.3 ॥]
अर्धमुण्डिते ऽपुनः प्राणःऽ, ऽपुनर्मैत्विन्द्रियम्ऽ इति द्वाभ्यामृग्भ्यां त्रिर्निमृज्य क्षुरं ऽसोमदेवशर्मणि त्वयि महिमानं सादयामिऽ इति क्षुरं मार्जयित्वा नापिताय प्रयच्छति । पुनर्वपनार्थम् ॥
[अथैनमुप्तकेशश्मश्रुं कृत्तनखमाप्लावयति ॥ कौश्स्_7,5{54}.4 ॥
हिरण्यवर्णाः (1.33) इत्येतेन सूक्तेन गन्धप्रवादाभिरलङ्कृत्य ॥ कौश्स्_7,5{54}.5 ॥]
ततो ऽहिरण्यवर्णाःऽ इति सूक्तेन शान्तिकलशमभिमन्त्र्य तेन कुमारमाप्लावयति । ऽयस्ते गन्धःऽ (12.1.23-25) इति तिसृभिः ऋग्भिः पुष्पं कुङ्कुमं चन्दनाद्यभिमन्त्र्य कुमारमलङ्करोति हिरण्यालङ्कारान् ॥
[स्वाक्तं मे (7.30.1) इत्यानक्ति ॥ कौश्स्_7,5{54}.6 ॥]
ऽस्वाक्तं मेऽ इत्यृचा अञ्जन अभिमन्त्र्याक्षिणी अङ्क्ते ॥
[अथैनमहतेन वसनेन परिधापयति परि धत्त (2.13.2-3) इति द्वाभ्याम् ॥ कौश्स्_7,5{54}.7 ॥]
ऽपरि धत्तऽ इति द्वाभ्यां वस्त्रमभिमन्त्र्य प्रयच्छेत् ॥
[एह्यश्मानमा तिष्ठ (2.13.4) इति दक्षिणेन पादेनाश्ममण्डलमास्थाप्य प्रदक्षिणमग्निमनुपरिणीय ॥ कौश्स्_7,5{54}.8 ॥]
ऽएह्यश्मानमा तिष्ठऽ इत्यृचा दक्षिणेन पादेनाश्ममण्डलमास्थाप्य वेद्युपरि प्रदक्षिणमग्निमनुपरिणीय ॥
[अथास्य वासो निर्मुष्णाति यस्य ते वासः (2.13.5) इत्येतया ॥ कौश्स्_7,5{54}.9 ॥]
ऽयस्य ते वासःऽ इत्यृचोपरितनं वस्त्रं गृह्णाति कर्ता ॥
[अथैनमपरेणाहतेन वसनेनाच्छादयति अयं वस्ते गर्भं पृथिव्याः (13.1.16-20) इति पञ्चभिः ॥ कौश्स्_7,5{54}.10 ॥]
ऽअयं वस्ते गर्भं पृथिव्याःऽ इति पञ्चभिरृग्भिः परिधानवस्त्रेणोपपर्याच्छादयति माणवकम् ॥
[यथा द्यौः (2.15) मनसे चेतसे धियः (6.41) इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेनोपसिच्याभिमन्त्र्य प्राशयति ॥ कौश्स्_7,5{54}.11 ॥
प्राणापानौ (2.16) ओजोऽसि (2.17) इत्युपदधीत ॥ कौश्स्_7,5{54}.12 ॥]
ऽयथा द्यौश्चऽ ऽमनसे चेतसे धियःऽ इत्यादि प्रथमतो व्याख्यानं कृत्वा ततो गोदानं प्रारब्धम् । आयुष्यमन्त्रा आयुष्यकर्ममध्ये पठिताः । ऽप्राणापानौऽ ऽओजोऽसिऽ इत्येवमन्तं व्याख्यातं प्रथमतः । इह न भवन्ति परप्रकरणपठितत्वात् । प्रकृतमुच्यते ॥
[तुभ्यमेव जरिमन् (2.28) इति कुमारं मातापितरौ त्रिः सम्प्रयच्छेते ॥ कौश्स्_7,5{54}.13 ॥]
ऽतुभ्यमेव जरिमन्ऽ इति सूक्तेन पुत्रं मातापितरौ त्रिः सम्प्रयच्छेते । पिता मन्त्रं जपित्वा मातुः समर्पयति । पुनर्मन्त्रं जपित्वा माता पितुः समर्पयति । एवं त्रिर्मन्त्रप्रयोगः । पितुर्मन्त्रः ॥
[घृतपिण्डानाशयतः ॥ कौश्स्_7,5{54}.14 ॥]
त्रीन् घृतपिण्डान् कृत्वा प्रत्येकं सम्पात्याभिमन्त्र्य ततः कुमारं प्राशयतः । मातापितरौ ॥
[चूडाकरणम्]
[चूडाकरणं च गोदानेन व्याख्यातम् ॥ कौश्स्_7,5{54}.15 ॥
परिधापनाश्ममण्डलवर्जम् ॥ कौश्स्_7,5{54}.16 ॥
शिवे ते स्ताम् (8.2.14-15) इति परिदानान्तानि ॥ कौश्स्_7,5{54}.17 ॥
पार्थिवस्य (2.29.1-2) मा प्र गाम (13.1.59-60) इति चतस्रः सर्वाण्यपियन्ति ॥ कौश्स्_7,5{54}.18 ॥]
ऽशिवे ते स्ताम्ऽ इति द्वे । ऽपार्थिवस्यऽ इति द्वे । ऽमा प्र गामऽ इति द्वे । एताभिरृग्भिः व्रीहियवशमीमभिमन्त्र्य कुमारस्य मूर्ध्नि ददाति । ऽशिवौ ते स्ताम्ऽ (8.2.18) इति द्वे । ऽपार्थिवस्यऽ इति द्वे । ऽमा प्र गामऽ इति द्वे । एताभिः ऋग्भिः व्रीहियवशमीमभिमन्त्र्य मूर्ध्नि ददाति । ऽअह्ने च त्वाऽ (8.2.20) इत्येका । ऽपार्थिवस्यऽ इति द्वे । ऽमा प्र गामऽ इति द्वे । ऽअहोरात्राभ्यां परिददामिऽ । व्रीह्यादि मूर्ध्नि ददाति । ऽशरदे त्वाऽ (8.2.22) इत्येका । ऽपार्थिवस्यऽ द्वे । ऽमा प्र गामऽ इति द्वे । ऽऋतुभ्यष्ट्वा परिददामिऽ । व्रीह्यादि मूर्ध्नि ददाति । अभ्यातानाद्युत्तरतन्त्रम् । गोदानं समाप्तम् ॥
अथ चूडाकरणमुच्यते-
[अमम्रिमोजोमानीं च दूर्वां च केशांश्च शकृत्पिण्डं चैकधाभिसमाहृत्य ॥ कौश्स्_7,5{54}.19 ॥
शान्तवृक्षस्योपर्यादधाति ॥ कौश्स्_7,5{54}.20 ॥
अधिकरणं ब्रह्मणः कंसवसनं गौर्दक्षिणा ॥ कौश्स्_7,5{54}.21 ॥
ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ कौश्स्_7,5{54}.22 ॥]
द्विसंवत्सरे वा गोदानवत् चूडाकरणं कार्यं पूर्वतन्त्रं कृत्वा । चूडाकरणं च गोदानेन व्याख्यातं परिधापनाश्ममण्डलवर्जम् । शेषं गोदानवत् कार्यम् । शान्त्युदके ऽतुभ्यमेवऽ (2.28) इति सूक्तमनुयोजयेत् । शेषं समानम् । तत उत्तरतन्त्रम् । इति चूडाकरणम्.
तथा च याज्ञवल्क्यः ऽचूडा कार्या यथाकुलम्ऽ (यास्मृ 1.12) । पुनरुपनयने गोदानविधानेन वपनं कर्तव्यम् । सवान् दास्यतो गोदानवत् वपनम् । अग्निहोत्रं करिष्यमाणस्य गोदानविधानेन वपनम् । यथा ब्रह्मचर्यपरिमोक्षे गोदानेन वपनम् । सोमयागे गोदानविधानेन वपनम् । दीक्षणीयाप्राक् एवं भवति । अन्यत्र यत्र वपनं पठ्यते तत्र सर्वत्र गोदानविधानेन वपनं कुर्यात् इति दारिलमतम् । पुनरुपनयनादिष्वेतेषां तदेव शान्त्युदकमुष्णोदकं कृत्वोदपात्रे विशेषः । शेषं गोदानवत् भवति ॥ पञ्चमी कण्डिका

55

[उपनयनम्]
अथोपनयनमुच्यते-
[उपनयनम् ॥ कौश्स्_7,6{55}.1 ॥]
गर्भपञ्चमे गर्भाष्टमे वर्षे कुर्यादिति पैठीनसिः । वसन्ते ब्राह्मणमुपनयीतेति च मीमांसायाम् । आज्यतन्त्रे गोदानिकमाज्यभागान्तं कृत्वा ततः शान्त्युदके ऽआ यातु मित्रःऽ (3.8) इति सूक्तमनुयोजयेत् । ततोऽभ्यातानानि । ततः ऽआ यातु मित्रःऽ इति । ऽआयुर्दाऽ (2.13) इति केचित् । सूक्तेन मूर्ध्नि सम्पातानानयति । दक्षिणे पाणौ । अश्ममण्डलवर्जम् । शान्त्युदकमुष्णोदकं कृत्वा तस्मिन्नुदपात्रे सम्पातानानयति । उत्तरसम्पातान् स्थालरूप आनयति ॥
[आयमगन् (6.68.1) इति मन्त्रोक्तम् ॥ कौश्स्_7,6{55}.2 ॥]
ऽआयमगन् सविता क्षुरेणऽ इति पादेनोदपात्रमनुमन्त्रयते ॥
[यत्क्षुरेण (8.2.17) इत्युक्तम् ॥ कौश्स्_7,6{55}.3 ॥]
ऽयत्क्षुरेणऽ इत्यृचा क्षुरं मार्जयति त्रिः । ऽउष्णेन वायऽ इति पादेनोदपात्रमनुमन्त्रयते । ऽआदित्या रुद्रा वसवःऽ इति पादेन ऽअदितिः श्मश्रुऽ (6.68.2) इत्यृचा उन्दनं करोति ॥
[येनावपत् (6.68.3) इति सकृदपिञ्जूलि ॥ कौश्स्_7,6{55}.4 ॥]
ऽसोमस्य राज्ञो वपत प्रचेतसःऽ इति पादेन ऽयेनावपद्ऽ इत्यृचा वपनं करोति । सकृत् दक्षिणे पिञ्जूलीवर्जम् । एवमुत्तरे शिरःपार्श्वे वपनं सकृत् पिञ्जूलीवर्जं च ॥
[लौकिकं च समानमा परिधानात् ॥ कौश्स्_7,6{55}.5 ॥
उपेतपूर्वस्य नियतं सवान् दास्यतोऽग्नीनाधास्यमानः पर्यवेतव्रतदीक्षिष्यमाणानाम् ॥ कौश्स्_7,6{55}.6 ॥]
लौकिकं च समानं गोदानेन व्याख्यातमा परिधानात् । पुण्याहवाचनम् । वृद्धास्त्रीगीतं च कारयेत् ॥
[सोष्णोदकं शान्त्युदकं प्रदक्षिणमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य ॥ कौश्स्_7,6{55}.7 ॥]
ततः प्रदक्षिणमग्निमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य स्वयं प्राङ्मुखः ॥
[आह ब्रूहि ॥ कौश्स्_7,6{55}.8 ॥
ब्रह्मचर्यमागामुप मा नयस्व इति ॥ कौश्स्_7,6{55}.9 ॥]
ब्रह्मचारी ब्रवीति । ऽआह ब्रूहि ब्रह्मचर्यमागामुप मा नयस्वऽ इति ॥
[को नामासि किङ्गोत्रः इति असौ इति यथा नामगोत्रे भवतस्तथा प्रब्रूहि ॥ कौश्स्_7,6{55}.10 ॥]
तत आचार्यो ब्रवीति - ऽको नामासि किङ्गोत्रःऽ इति । पुनर्ब्रह्मचारी ब्रवीति - ऽसोमदेवदत्तशर्मनामाहम् । अमुकसगोत्रोऽहम् । यथासङ्ख्यप्रवरोऽहम्ऽ ॥
[आर्षेयं मा कृत्वा बन्धुमन्तमुपनय ॥ कौश्स्_7,6{55}.11 ॥]
पुनः ब्रह्मचारी वदति - ऽआर्षेयं मा कृत्वा बन्धुमन्तमुपनयऽ ॥
[आर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामि इति ॥ कौश्स्_7,6{55}.12 ॥]
ततः पुनराचार्य आह - ऽआर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामिऽ इति ॥
[ओम्भूर्भुवः स्वर्जनदोम् इत्यञ्जलावुदकमासिञ्चति ॥ कौश्स्_7,6{55}.13 ॥]
ऽओम् भूर्भुवःस्वर्जनदोम्ऽ इति मन्त्रेणोदकाञ्जलिमादित्याय ददाति ब्रह्मचारी ॥
[उत्तरोऽसानि ब्रह्मचारिभ्यः इत्युत्तमं पाणिमन्वादधाति ॥ कौश्स्_7,6{55}.14 ॥]
ऽउत्तरोऽसानिऽ इति मन्त्रेण दक्षिणपाणिं गृह्णात्याचार्यः ॥
[एष म आदित्यपुत्रस्तन्मे गोपायस्व इत्यादित्येन समीक्षते ॥ कौश्स्_7,6{55}.15 ॥]
ऽएष म आदित्यपुत्रःऽ इति मन्त्रेणादित्यं निरीक्षते ॥
[अपक्रामन् पौरुषेयाद्वृणानः (7.105.1) इत्येनं बाहुगृहीतं प्राञ्चमवस्थाप्य दक्षिणेन पाणिना नाभिदेशेऽभिसंस्तभ्य जपति ॥ कौश्स्_7,6{55}.16 ॥
अस्मिन् वसु वसवो धारयन्तु (1.9) विश्वे देवा वसवः (1.30) आ यातु मित्र (3.8) अमुत्रभूयात् (7.53) अन्तकाय मृत्यवे (8.1) आ रभस्व (8.2) प्राणाय नमः (11.4) विषासहिम् (17.1-5) इत्यभिमन्त्रयते ॥ कौश्स्_7,6{55}.17 ॥]
ऽअपक्रामन्ऽ इत्यृचा पश्चादग्नेः पूर्वाभिमुखं ब्रह्मचारिणमुपवेश्य ततो दक्षिणेन पाणिना नाभिदेशं संस्पृश्य ततः ऽअस्मिन् वसु वसवो धारयन्तुऽ इति गणं जपत्याचार्यः ॥
[अथापि परित्वरमाणः आ यातु मित्र (3.8) इत्यपि खल्वेतावतैवोपनीतो भवति ॥ कौश्स्_7,6{55}.18 ॥]
अथवा ऽआ यातु मित्रऽ इति सूक्तं जपति ॥
[प्रच्छाद्य त्रीन् प्राणायामान् कृत्वावच्छाद्य वत्सतरीमुदपात्रे समवेक्षयेत् ॥ कौश्स्_7,6{55}.19 ॥]
ब्रह्मचारिणं वस्त्रेण प्रच्छाद्य ततस्त्रीन् प्राणायामान् कृत्वा । तत अवच्छाद्य ब्रह्मचारिणमुदपात्रे वत्सिकामुखमवेक्षयेत् ॥
[समिन्द्र नः (7.97.2) सं वर्चसा (6.53.3) इति द्वाभ्यामृत्सृजन्ति गाम् ॥ कौश्स्_7,6{55}.20 ॥]
ऽसमिन्द्र नःऽ ऽसं वर्चसाऽ इति द्वाभ्यामृग्भ्यां गामुत्सृजति ॥ सप्तमे षष्ठी कण्डिका

56

[श्रद्धाया दुहिता (6.133.4-5) इति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति ॥ कौश्स्_7,7{56}.1 ॥]
ऽश्रद्धाया दुहिताऽ इति द्वाभ्यां मौञ्जीं मेखलां त्रिप्रवरां चतुःप्रवरां वाभिमन्त्र्य ब्रह्मचारिणः कटिप्रदेशे बध्नाति ॥
[मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयच्छामि इति पालाशं दण्डं प्रयच्छति ॥ कौश्स्_7,7{56}.2 ॥
मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्ववक्रोऽविथुरोऽहं भूयासम् इति प्रतिगृह्णाति ॥ कौश्स्_7,7{56}.3 ॥
श्येनोऽसि (6.48) इति च ॥ कौश्स्_7,7{56}.4 ॥]
ततो ऽमित्रावरुणयोस्त्वा हस्ताभ्याम्ऽ इति मन्त्रेण ऽश्येनोऽसिऽ इति च सूक्तेन पालाशदण्डमभिमन्त्र्य ब्रह्मचारिणे प्रयच्छति । ऽमित्रावरुणयोस्त्वाऽ इति ऽश्येनोऽसिऽ इति च पठित्वा ब्रह्मचारी दण्डं गृह्णाति । ऽपुनर्मैत्विन्द्रियम्ऽ (7.67.1) इत्यृचा यज्ञोपवीतमभिमन्त्र्य परिधत्ते मन्वादिविहितम् । ऽअहं रुद्रेभिःऽ इति सूक्तं प्रत्यृचं ब्रह्मचारिणं वाचयति । अथ
व्रतग्रहणं करोति । ऽब्रह्मचारिव्रतं द्वादशवार्षिकं षड्वार्षिकं वा त्रिवार्षिकं वा यथाशास्त्रविहितं यथास्मर्यमाणधर्मकम्ऽ इत्याद्युक्तमाङ्गिरसकल्पे व्रतश्रावणम् । अग्नये गुरवे च ब्रह्मचारी व्रतं निवेदयेत् ॥
[अथैनं व्रतादानीयाः समिध आधापयति ॥ कौश्स्_7,7{56}.5 ॥
अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तन्मे राध्यतां तन्मे समृध्यतां तन्मे मा व्यनशत्तेन राध्यासं तत्ते प्रब्रवीमि तदुपाकरोमि अग्नये व्रतपतये स्वाहा ॥ कौश्स्_7,7{56}.6 ॥
वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । वेदा व्रतपतयो । व्रतानां व्रतपतयो व्रतमचारिषं तदशकं तत्समाप्तं तन्मे राद्धं तन्मे समृद्धं तन्मे मा व्यनशत्तेन राद्धोऽस्मि तद्वः प्रब्रवीमि तदुपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाहा इति ॥ कौश्स्_7,7{56}.7 ॥]
ऽअग्ने व्रतपतेऽ इति प्रत्यृचं ब्रह्मचारी अष्टौ समिध आदधाति । पाठयित्वा अष्टौ मन्त्रान् ॥
[अथैनं बद्धमेखलमाहितसमित्कं सावित्रीं वाचयति ॥ कौश्स्_7,7{56}.8 ॥
पच्छः प्रथमम् ॥ कौश्स्_7,7{56}.9 ॥
ततोऽर्धर्चशः ॥ कौश्स्_7,7{56}.10 ॥
ततः संहिताम् ॥ कौश्स्_7,7{56}.11 ॥]
ततः सावित्रीं वाचयति पादं पादं प्रथमम् । ततोऽर्धचशः । ततः सकलाम् ॥
[अथैनं संशास्ति अग्नेश्चासि ब्रह्मचारिन्मम चापोऽशान कर्म कुरूर्ध्वस्तिष्ठन्मा दिवा स्वाप्सीः समिध आधेहि ॥ कौश्स्_7,7{56}.12 ॥]
अथ आचार्य आचारं कथयति । ऽअग्नेश्चासि ब्रह्मचारिन् ममऽ । अग्नौ एवं कुर्यात् । ऽनित्यं भोजने अपोऽशान । कर्म कुरु ऊर्ध्वस्तिष्ठन् । मा दिवा स्वाप्सीः । समिध आधेहि । मा कूपं निरीक्षयेः । मा वृक्षारोहणं कुर्याः । मा यज्ञं कुरुऽ इत्येवमादि आचारान् कथयति ॥
[अथैनं भूतेभ्यः परिददाति अग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्युद्ङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुञ्जयाय त्वा क्षात्राणाय परिददामि मार्त्युञ्जयाय त्वा मार्त्यवाय परिददाम्यघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि विश्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः ॥ कौश्स्_7,7{56}.13 ॥]
ऽअथैनं भूतेभ्यःऽ इत्यादिभिर्व्रीहियवशमीमभिमन्त्र्य मूर्ध्नि दद्यात् ॥
[स्वस्ति चरतादिह इति मयि रमन्तां ब्रह्मचारिणः इत्यनुगृह्णीयात् ॥ कौश्स्_7,7{56}.14 ॥
नानुप्रणुदेत् ॥ कौश्स्_7,7{56}.15 ॥]
ऽमयि रमन्तां ब्रह्मचारिणःऽ इत्येतेन मन्त्रेण ब्रह्मचारिणमनुगृह्णीयात् ॥
[प्रणीतीरभ्यावर्तस्व (7.105.1) इत्यभ्यात्ममावर्तयति ॥ कौश्स्_7,7{56}.16 ॥]
ऽप्रणीतीरभ्यावर्तस्वऽ इत्यर्धर्चेन ब्रह्मचारिणमात्मसम्मुखं करोति ॥
[यथापः प्रवता यन्ति मासा अहर्जरम् । एवा मा ब्रह्मचारिणो धातरायन्तु सर्वदा स्वाहा इत्याचार्यः समिधमादधाति ॥ कौश्स्_7,7{56}.17 ॥]
आचार्यः समिधमादधाति । ऽयथापः प्रवताऽ इत्यृचा । ततोऽभ्यातानानि हुत्वा ऽवाताज्जातऽ (4.10) इति सूक्तेन शङ्खमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । उपनयनं समाप्तम् ॥ सप्तमेऽध्याये सप्तमी कण्डिका

57

[श्राद्धाया दुहिता (6.133.4-5) इति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति ॥ कौश्स्_7,8{57}.1 ॥
मौर्वी क्षत्रियाय धनुर्ज्यां वा ॥ कौश्स्_7,8{57}.2 ॥
क्षौमिकीं वैश्याय ॥ कौश्स्_7,8{57}.3 ॥
मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयच्छामि इति पालाशं दण्डं ब्राह्मणाय प्रयच्छति ॥ कौश्स्_7,8{57}.4 ॥
आश्वत्थं क्षत्रियाय ॥ कौश्स्_7,8{57}.5 ॥
न्यग्रोधावरोहं वैश्याय ॥ कौश्स्_7,8{57}.6 ॥
यद्यस्य दण्डो भज्येत य ऋते चिदभिश्रिष (14.2.47) इत्येतयालभ्याभिमन्त्रयते ॥ कौश्स्_7,8{57}.7 ॥
सर्वत्र शीर्णे भिन्ने नष्टेऽन्यं कृत्वा पुनर्मैत्विन्द्रियम् (7.67.1) इत्यादधीत ॥ कौश्स्_7,8{57}.8 ॥
अथ वासांसि ॥ कौश्स्_7,8{57}.9 ॥
ऐणेयहारिणानि ब्राह्मणस्य ॥ कौश्स्_7,8{57}.10 ॥
रौरवपार्षतानि क्षत्रियस्य ॥ कौश्स्_7,8{57}.11 ॥
आजाविकानि वैश्यस्य ॥ कौश्स्_7,8{57}.12 ॥
सर्वेषां क्षौमशाणकम्बलवस्त्रम् ॥ कौश्स्_7,8{57}.13 ॥
काषायाणि ॥ कौश्स्_7,8{57}.14 ॥
वस्त्रं चाप्यकाषायम् ॥ कौश्स्_7,8{57}.15 ॥]
दण्डे भग्ने ऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचाऽन्यं दण्डमभिमन्त्र्य ब्रह्मचारिणे ददाति । दण्डे भग्ने प्रायश्चित्तम् ॥
[भवति भिक्षां देहि इति ब्राह्मणश्चरेत् ॥ कौश्स्_7,8{57}.16 ॥
भिक्षां भवती ददातु इति क्षत्रियः ॥ कौश्स्_7,8{57}.17 ॥
देहि भिक्षां भवति इति वैश्यः ॥ कौश्स्_7,8{57}.18 ॥
सप्त कुलानि ब्राह्मणश्चरेत् त्रीणि क्षत्रियो द्वे वैश्यः ॥ कौश्स्_7,8{57}.19 ॥
सर्वं ग्रामं चरेद् भैक्षं स्तेनपतितवर्जम् ॥ कौश्स्_7,8{57}.20 ॥]
ऽओम् भवति भिक्षां देहिऽ इति ब्राह्मणश्चरेदित्यादि सूत्रम् ॥
[मय्यग्रे (7.82.2-6) इति पञ्चप्रश्नेन जुहोति ॥ कौश्स्_7,8{57}.21 ॥]
ऽमय्यग्रेऽ इति पञ्चभिः पञ्च समिध आदधाति । उपनयनाग्नौ नष्ट इदं प्रायश्चित्तम् । अनेन विधिना ब्रह्मचारी पुनराधानं करोति । इति ब्रह्मचार्यग्निपरिग्रहः । द्वादशरात्रं सावित्रीव्रतम् । सावित्रीव्रतस्य न ग्रहणं नोदीक्षणं भवति । द्वादशरात्रमरसाशी भवति । त्रयोदशेऽहनि वेदव्रतं ददाति । व्रतग्रहणम् । व्रतादानीयाः भवन्ति ॥
सायम्प्रातरग्निकार्यमुच्यते-
[सं मा सिञ्चन्तु (7.33.1) इति त्रिः पर्युक्षति ॥ कौश्स्_7,8{57}.22 ॥]
ऽअव्यसश्चऽ (19.68.1) इत्यृचं जपित्वा ऽसं मा सिञ्चन्तुऽ इति त्रिः पर्युक्षणम् ॥
[यदग्रे तपसा तपोऽग्ने तपस्तप्यामहे (7.61.1-2) इति द्वाभ्यां परिसमूहयति ॥ कौश्स्_7,8{57}.23 ॥]
ऽयदग्रे तपसाऽ इति द्वाभ्यामग्निं प्रज्वालयति ॥
[इदमापः प्रवहत (7.98.3) इति पाणी प्रक्षालयते ॥ कौश्स्_7,8{57}.24 ॥]
ऽइदमापः प्रवहतऽ इत्यृचा हस्तौ प्रक्षालयति ॥
[सं मा सिञ्चन्तु (7.33.1) इति त्रिः पर्युक्षति ॥ कौश्स्_7,8{57}.25 ॥]
पुनः ऽसं मा सिञ्चन्तुऽ इति त्रिः पर्युक्षति ॥
[अग्ने समिधमाहार्षम् (19.64.1-4) इत्यादधाति चतस्रः ॥ कौश्स्_7,8{57}.26 ॥]
ऽअग्ने समिधमाहार्षम्ऽ इति चतसृभिरृग्भिः चतस्रः समिध आदधाति ॥
[एधोऽसि (7.89.4) इत्यूष्मभक्षं भक्षयत्या निधनात् ॥ कौश्स्_7,8{57}.27 ॥]
ऽएधोऽसिऽ इत्यूष्मभक्षं भक्षयति ॥
[त्वं नो मेधे (6.108.1-5) इत्युपतिष्ठते ॥ कौश्स्_7,8{57}.28 ॥]
ऽत्वं नो मेधेऽ इति पञ्चभिऋग्भिरग्निमुपतिष्ठते ॥
[यदन्नम् (6.71.1-3) इति तिसृभिर्भैक्षस्य जुहोति ॥ कौश्स्_7,8{57}.29 ॥]
ऽयदन्नम्ऽ इति तिसृभिर्भैक्षं जुहोति । सर्वत्र हविःप्रोक्षणं, उत्पवनं च । ऽत्र्यायुषम्ऽ इति भूतिना रक्षां करोति । ललाटे स्कन्धे हृदये च । ततः ऽसत्यं त्वर्तेनऽ इति पर्युक्षणम् । ऽयस्मात् कोशात्ऽ (19.7.2) इति जपति ॥
[अहरहः समिध आहृत्यैवं सायम्प्रातरभ्यादध्यात् ॥ कौश्स्_7,8{57}.30 ॥]
सायम्प्रातरहरहः कुर्यात् । ब्रह्मचार्यग्निकार्यं समाप्तम् ॥
अथ व्रतादेशा उत्तमपटले व्याख्याताः-
सांवत्सरं वेदव्रतं कल्पानां तु तदर्धकम्.
मृगारे षड्रात्रं स्यात् त्रिरात्रं स्याद्विषासहिः.
याम्यानामपि मन्त्राणां षष्ठं द्वादशरात्रिकम्.
अथवा कौशिकव्रतविधानं कुर्यात्.
अथ कौशिकोक्तव्रतविधानमुच्यते । स्थण्डिलेऽग्निस्थापनम् । वपनम् । दण्ड-मेखला-यज्ञोपवीतं च दत्त्वा ततो व्रतश्रावणम् । व्रतादानीया अष्टौ समिधः । ततो ऽयस्मात् कोशात्ऽ इति । सर्वेषु व्रतेषु व्रतादानं समाप्तम् ॥
अथ व्रतविसर्जनमुच्यते-
आज्यतन्त्रं कृत्वा ऽइदावत्सराय इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात्ऽ (कौश्स् । 42.15-16) व्रतश्रावणं व्रतविसर्जनं च । अष्टौ समिधः । ततोऽभ्यातानाद्युत्तरतन्त्रम् । इति सर्वव्रतविसर्जनं समाप्तम् । कौशिकोक्तं सर्वत्र भवति । नित्यनैमित्तिककाम्येषु एतेन विधानेन व्रतग्रहणं व्रतविसर्जनं च कुर्यात् । कृच्छ्रचान्द्रायणादिषु व्रतग्रहणं व्रतविसर्जनं च भवति । सर्वत्र लौकिके च व्रते वैदिके च सर्वत्र । इति व्रतादेशः ॥
[मेधाजनन आयुष्यैर्जुहुयात् ॥ कौश्स्_7,8{57}.31 ॥
यथाकामं द्वादशरात्रमरसाशी भवति ॥ कौश्स्_7,8{57}.32 ॥]
अथ ब्रह्मचार्युपनयनानन्तरं मेधाजननमन्त्रैः आयुष्यमन्त्रैश्चाज्यं जुहुयात् । ऽये त्रिषप्ताऽ (1.1) ऽअहं रुद्रेभिःऽ (4.30) ऽत्वं नो मेधेऽ (6.108) ऽद्यौश्च मेऽ (7.1.53) इत्याज्यं जुहुयात् मेधाकामः । मेधा सम्पद्यते । ब्रह्मचारी इदं कर्म कुर्यात् । तन्त्रविकल्पः । ब्रह्मचारिणः तन्त्रे अनधिकारः । अकृतवेदाध्ययनत्वात् । अन्यो वा ब्रह्मचारी वा सर्वस्य कर्मणोऽधिकारः । मेधाजननेन आयुष्येण आज्यं जुहुयात् । तन्त्रविकल्पः । ब्रह्मचारी उपनयनदिवसे मेधाकामः । ऽविश्वे देवाऽ ऽअस्मिन् वसुऽ ऽयदाबध्नन्ऽ ऽनव प्राणान्ऽ इत्याज्यं जुहुयात् । ब्रह्मचारी उपनयनानन्तरम् । आयुष्कामः । तन्त्रविकल्पः ॥ सप्तमेऽध्याये अष्टमी कण्डिका

58

[भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् । परा दुःष्वप्न्यं सुव यद्भद्रं तन्न आ सुव ॥ अक्षिवेपं दुःष्वप्न्यमार्तिं पुरुषरेषिणीम् । तदस्मदश्विना युवमप्रिये प्रति मुञ्चतम् ॥ यत्पार्श्वादुरसो मे अङ्गादङ्गादववेपते । अश्विना पुष्करस्रजा तस्मान्नः पातमंहसः इति कर्णं क्रोशन्तमनुमन्त्रयते ॥ कौश्स्_7,9{58}.1 ॥]
ऽभद्राय कर्णः क्रोशतुऽ इति सूक्तेन कर्णं क्रोशन्तमनुमन्त्रयते ॥
[अक्षि वा स्फुरत् ॥ कौश्स्_7,9{58}.2 ॥]
अक्षि स्फुरन्तमनुमन्त्रयते । दुःस्वप्नदर्शने स्वस्ति । अनिष्टदर्शने च । अद्भुतदर्शने च जपति । स्वयं जपः । कर्ता वा अन्वारब्धे जपति ॥
[आयुष्याणि]
[वि देवा जरसा (3.31) उत देवाः (4.13) आवतस्ते (5.30) उप प्रियम् (7.32) अन्तकाय मृत्यवे, आ रभस्व (8.1-2) प्राणाय नमः (11.4) विषासहिम् (17.1.1-5) इत्यभिमन्त्रयते ॥ कौश्स्_7,9{58}.3 ॥]
ऽवि देवा जरसाऽ इति सूक्तेन पुरुषशरीरमभिमन्त्रयते । आयुष्कामः । कर्त्रे दक्षिणा धेनुः ब्रह्मणश्च धेनुः सर्वत्र । ऽउत देवाःऽ इति सूक्तेन शरीरमभिमन्त्रयते । आयुष्कामः । ऽआवतस्तेऽ इति सूक्तेन पुरुषस्याङ्गमनुमन्त्रयते । आयुष्कामः । ऽउप प्रियम्ऽ इत्यृचाङ्गमभिमन्त्रयते । ऽअन्तकायऽ, ऽआ रभस्वऽ इति सूक्ताभ्यां शरीरमभिमन्त्रयते । आयुष्कामः । ऽप्राणाय नमःऽ इत्यर्थसूक्तेन शरीरमभिमन्त्रयते । ऽविषासहिम्ऽ इत्यभिमन्त्रयते । आयुष्कामः । आयुष्कामस्याभिमन्त्रणम् ॥
ब्राह्मणोक्तमुच्यते-
[ब्राह्मणोक्तमृषिहस्तश्च ॥ कौश्स्_7,9{58}.4 ॥]
सप्त ब्राह्मणान् मिष्टान्नभोजनं कारापयित्वा । एकः प्राङ्मुखः । एको दक्षिणामुखः । एकः प्रत्यङ्मुखः । चत्वारो उदङ्मुखाः । सर्वे ऽउत देवाःऽ इति सूक्तेनाभिमृशन्ति पुरुषशरीरम् । समाप्तं ब्राह्मणोक्तमायुष्कामस्य.
ऋषिहस्त उच्यते । ऽअन्तकाय मृत्यवेऽ इति सूक्तेन नाभेरूर्ध्वमधस्तादभिमन्त्रयते । द्विः सूक्तावृत्तिः । ऽआ रभस्वऽ इति हृदयमभिमन्त्रयते । ऽआवतस्तेऽ, ऽप्राणाय नमःऽ इति सूक्ताभ्यां दक्षिणं कर्णमभिमन्त्रयते । समाप्तम् ऋषिहस्तः ॥
[कर्मणे वां वेषाय वां सुकृताय वाम् इति पाणी प्रक्षाल्य ॥ कौश्स्_7,9{58}.5 ॥]
आयुष्कामस्य ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्य ऽवि देवाऽ इत्यायुषार्थिनमभिमन्त्रयते । ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्य ऽउत देवाःऽ इत्यभिमन्त्रयते । ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्य ऽआवतस्तेऽ इत्यभिमन्त्रयते । ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्य शरीरं ऽउप प्रियम्ऽ इत्यभिमन्त्रयते । ऽकर्मणे वाम्ऽ इति पाणी प्रक्षाल्य ऽअन्तकायऽ, ऽआ रभस्वऽ इति सूक्ताभ्यामभिमन्त्रयते । ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्य ऽप्राणाय नमःऽ इत्यभिमन्त्रयते । ऽकर्मणे वाम्ऽ इति पाणी प्रक्षाल्य ऽविषासहिम्ऽ इत्यभिमन्त्रयते । आयुष्कामः । कुङ्कुमचन्दनसर्वौषध्यादि शरीरं समालभ्यात्मानमभिमन्त्रयते ॥
[निर्दुरर्मण्य (16.2) इति सन्धाव्य ॥ कौश्स्_7,9{58}.6 ॥]
ऽनिर्दुरर्मण्यऽ इति सूक्तेन आयुःकामः ॥
[शुद्धा न आप (12.1.30) इति निष्ठीव्य जीवाभिराचम्य ॥ कौश्स्_7,9{58}.7 ॥]
ऽशुद्धा न आपःऽ इत्यृचा श्लेष्मं त्यक्त्वात्मानमनुमन्त्रयते । आयुष्कामः । ऽजीवा स्थऽ (19.69.1-4) इति सूक्तेन आचम्यानुमन्त्रयते । ऽवि देवाऽ इति गणः पुनर्विकल्पेन । आयुष्कामः ॥
[एहि जीवम् (4.9) इत्याञ्जनमणिं बध्नाति ॥ कौश्स्_7,9{58}.8 ॥]
अभ्यातानान्तं कृत्वा ऽएहि जीवम्ऽ इति सूक्तेनाञ्जनमणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । आयुष्कामः । ऽएहि जीवम्ऽ इति सूक्तेनाञ्जनतुच्छकमभिमन्त्र्य पाययति । आयुष्कामः । युद्धे रक्षार्थम् । नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ॥
[वाताज्जात (4.10) इति कृशनम् ॥ कौश्स्_7,9{58}.9 ॥]
अभ्यातानान्तं कृत्वा ऽवाताज्जातऽ इति सूक्तेन शङ्खमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । आयुष्कामः रक्षार्थी । उपनयने नित्यं बन्धनम् ॥
[नव प्राणान् (5.28) इति मन्त्रोक्तम् ॥ कौश्स्_7,9{58}.10 ॥]
अभ्यातानान्तं कृत्वा ऽनव प्राणान्ऽ इति सूक्तेन सुवर्णरजतलोहत्रीणि शकलान्येकत्र कृत्वा नवशालाकं मणिं त्रिवृतं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥
[घृतादुल्लुप्तम् (5.28.14) आ त्वा चृततु (5.28.12) ऋतुभिष्ट्वा (5.28.13) मुञ्चामि त्वा (3.11) उत देवाः (4.13) आवतस्ते (5.30) उप प्रियम् (7.32) अन्तकाय मृत्यवे, आ रभस्व (8.1-2) प्राणाय नमः (11.4) विषासहिम् (17.1.1-5) इत्यभिमन्त्रयते ॥ कौश्स्_7,9{58}.11 ॥]
त्रयोदश्यादयस्तिस्रो दधिमधुमध्यादुद्धृत्य त्रिवृतमणिं ऽघृतादुल्लुप्तम्ऽ इत्यृचा, ऽआ त्वा चृततुऽ इत्यृचा, ऽऋतुभिष्ट्वाऽ इत्यृचा बध्नाति । अन्यत्र सर्वत्र पुण्याहान्ते बन्धनम् । आयुष्कामो रक्षाकामश्च । ऽमुञ्चामि त्वाऽ इति सूक्तेनाभिमन्त्रयते आयुष्कामः । राजयक्ष्मणि ज्वरे चान्यसर्वव्याधौ च । ऽउत देवाःऽ इति सूक्तेनाभिमृशति द्वाभ्यां हस्ताभ्याम् । आयुष्कामः । सर्वव्याधिभैषज्यं रक्षाकामः । इति निरोधे च । ऽआवतस्तेऽ इति शरीरमभिमन्त्रयते । आयुष्काम आरोग्यकामः । सर्वव्याधिभैषज्यम् । हृद्रोगे च । अङ्गभङ्गे च ज्वरे च । रक्षाकामः । ऽउप प्रियम्ऽ इत्यृचा बालशरीरमभिमन्त्रयते । आयुष्कामः । युवानं बालं च । ऽअन्तकायऽ ऽआ रभस्वऽ इति सूक्ताभ्यां शरीरमभिमन्त्रयते । आयुष्कामः । मृत्यूभये च । ऽप्राणाय नमःऽ इति सूक्तेन पुरुषमभिमन्त्रयते । आयुष्कामः । क्षुभित्वा कासित्वा खासित्वा पीत्वा सुप्त्वा भुक्त्वा जपति । ऽविषासहिम्ऽ इत्यभिमन्त्रयते । आयुष्कामः । सुमतिकामः सकामजातिरासारत्वकामः ॥
[निर्दुरर्मण्य (16.2) इति सर्वसुरभिचूर्णैररण्येऽप्रतीहारं प्रलिम्पति ॥ कौश्स्_7,9{58}.12 ॥]
ऽनिर्दुरर्मण्यऽ इति सूक्तेन सर्वौषधिमभिमन्त्र्य पुरुषं प्रलिम्पति पुरुषस्यारण्ये । आयुष्कामः । श्रोत्रं वाक् मनः चक्षुर्दन्तः नासिका अन्यच्च सर्वं विकलेन्द्रियं दृढं भवति । विषकं भवति । यो विकलेन्द्रियस्तस्येदं कर्म । अनुलोमं प्रलिम्पति । समाप्तमायुष्यम् । पुनरग्रे भविष्यति ॥
[नामकरणम्]
अथ नामकरणम् ॥ कौश्स्_7,9{58}.13 ॥
एकादशेऽहनि नाम द्वादशेऽहनि नाम शतरात्रौ वा पुण्ये नक्षत्रे वा यथाकुलधर्मेण वा । नामकरणस्यैते कालाः स्मृतिविहिताः ॥
[आरभस्वेमाम् (8.2) इत्यविच्छिन्नामुदकधारामालम्भयति ॥ कौश्स्_7,9{58}.14 ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽआ रभस्वेमाम्ऽ इत्यर्थसूक्तेन कुमारस्य दक्षिणे हस्त उदकधारामविच्छिन्नां निनयति ॥
[पूतुदारुं बध्नाति ॥ कौश्स्_7,9{58}.15 ॥
पाययति ॥ कौश्स्_7,9{58}.16 ॥]
तत ऽआ रभस्वऽ इति सूक्तेन देवदारुमणिं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । मणिं घृष्य पाययति बध्नाति च । ततः पिता नाम करोति । अथ आचार्यो वा दक्षिणे कर्णे श्रावयति कृत्तिकादैवतं सोमेश्वरदत्तशर्मा नाम अथवा अग्निदैवतं सोमदेवदत्तशर्मा नाम नक्षत्रकल्पोक्तं नाम द्व्यक्षरं चतुरक्षरमित्यादि ॥

[यत्ते वासः (8.2.16) इत्यहतेनोत्तरसिचा प्रच्छादयति ॥ कौश्स्_7,9{58}.17 ॥]
ऽयत्ते वासःऽ इत्यृचाऽहतेनोत्तरसिचा प्रच्छादयति । ऽशिवे ते स्ताम्ऽ (8.2.14) इत्यादि परिदानानि सिंहावलोकनन्यायेन गोदानमध्ये उक्तानि । अभ्यातानाद्युत्तरतन्त्रम् । ततः श्राद्धम् । नामकरणं समाप्तम् ॥
[निष्क्रमणम्]
अथ निर्णयनकर्म उच्यते-
[शिवे ते स्ताम् (8.2.14-15) इति कुमारं प्रथमं निर्णयति ॥ कौश्स्_7,9{58}.18 ॥]
चतुर्थे मासि निष्क्रमणम् । ऽशिवे ते स्ताम्ऽ इति द्वाभ्यां कुमारं पुण्याहान्ते निष्क्रामयति ततः पूर्वोक्तानि परिदानानि ददाति । ततः श्राद्धम् । समाप्तं निर्णयनकर्म । शिष्टा अवश्यं कुर्वन्ति ॥
[अन्नप्राशनम्]
अथान्नप्राशनम्-
[शिवौ ते स्ताम् (8.2.18) इति व्रीहियवौ प्राशयति ॥ कौश्स्_7,9{58}.19 ॥]
षष्ठे मासि प्राशनं कुर्यादिति पैठीनसिः । सर्वस्यां स्मृतौ पञ्चमे कुमार्या इति । प्रथमं ऽभूमे मातःऽ (12.1.63) इत्यृचा
भूम्यामुपवेश्य ततः ऽउद्वयं तमसस्परिऽ (7.53.7) इत्यादित्यं दर्शयित्वा ततोऽन्नप्राशनं कुर्यात् पुण्याहान्ते । ततः ऽशिवौ ते स्तां व्रीहियवौऽ इति द्वाभ्यामृग्भ्यां व्रीहियवौ पिष्ट्वाभिमन्त्र्य कुमारं प्राशयति । आज्यतन्त्रे अन्नानि च सर्वाणि । ततः स्रुवं पुस्तकं ददाति । ऽशिवे ते स्ताम्ऽ (8.2.14-15) इति द्वाभ्यां ऽपार्थिवस्यऽ (2.29.1-2) इति द्वे ऽमा प्र गामऽ (13.1.59-60) इति द्वे एताभिः ऋग्भिर्व्रीह्यादि मूर्ध्नि ददाति । ऽद्यावापृथिवीभ्यां त्वा परिददामिऽ । ऽशिवौ ते स्ताम्ऽ इत्यादि । ऽव्रीहियवाभ्यां त्वा परिददामिऽ ॥
[अह्ने च त्वा (8.2.20) इत्यहोरात्राभ्यां परिददाति ॥ कौश्स्_7,9{58}.20 ॥
शरदे त्वा (8.2.22) इत्यृतुभ्यः ॥ कौश्स्_7,9{58}.21 ॥]
ऽअह्ने च त्वाऽ इति ऽअहोरात्राभ्यां परिददामिऽ । ऽशरदे त्वाऽ इत्यादि ऽऋतुभ्यस्त्वा परिददामिऽ । गोदानवत् परिदानानि ददाति । नामकरणे निष्क्रमणे अन्नप्राशने च गोदानिकानि परिदानानि भवति । तत उत्तरतन्त्रम् । इत्यन्नप्राशनं समाप्तम् ॥
ऊनो वातिरिक्तो वा यः स्वशाखोदितो विधिः.
तेनैव सर्वं सम्पूर्णं स्यान्न कुर्यात् पारतन्त्रिकम् ॥
पश्चात् श्राद्धं सर्वेषु संस्कारेषु कुर्यात् इति दारिलभाष्यकारस्याभिप्रायेण व्याख्यात इति । श्राद्धं कृत्वा पश्चात् कर्मेति रुद्रभद्रौ । एते भाष्यकाराः कौशिकस्य । तथा च मनुः - ऽअकृत्वा मातरः श्राद्धं न कुर्यात् कर्म वैदिकम्ऽ । वैदिकेषु कर्मसु नित्यनैमित्तिककाम्येषु श्राद्धं कृत्वा ततः कर्म कुर्यात् । सर्वत्र श्राद्धं कृत्वा शान्तिकपौष्टिकाभिचारकाद्भुतानि अथर्ववेदविहितानि कर्तव्यानि । पुंसवनादिसंस्काराः स्वशाखाविहिताः कर्तव्या न कुर्यात् पारतन्त्रिकाः । पुनः-
स्वशाखां तु परित्यज्य परशाखामुपासते.
स शूद्रवद् बहिः कार्यो हव्यकव्येषु गर्हितः ॥
[आयुष्याणि]
पुनरायुष्यकर्म उच्यते-
[उदस्य केतवः (13.2) मूर्धाहं (16.3) विषासहिम् (17.1.1-5) इत्युद्यन्तमुपतिष्ठते ॥ कौश्स्_7,9{58}.22 ॥
मध्यन्दिनेऽस्तं यन्तं सकृत् पर्यायाभ्याम् ॥ कौश्स्_7,9{58}.23 ॥]
ऽउदस्य केतनःऽ इत्यनुवाकेनादित्यमुपतिष्ठते । आयुष्कामः । ऽमूर्धाहंऽ, ऽनाभिरहम्ऽ (16.3-4) इति सूक्ताभ्यामादित्यमुपतिष्ठते । त्रिकालमायुष्कामः । ऽविषासहिम्ऽ इत्यनुवाकेन एतस्मिन् काले आदित्यमुपतिष्ठते आयुष्कामः ॥
[अंहोलिङ्गानामापो भोजनहवींष्युक्तानि ॥ कौश्स्_7,9{58}.24 ॥]
अंहोलिङ्गानामापो भोजनहवींषि कुर्यात् । ऽआशानाम्ऽ (1.31) इति सूक्तेनोदकमभिमन्त्र्य पिबति । आयुष्कामः । ऽआशानाम्ऽ इति सूक्तेन भोजनमभिमन्त्रयते । आयुष्कामो नित्यं कुर्यात् । ऽआशानाम्ऽ इति सूक्तेनाज्यं जुहोति आज्यतन्त्रे । ऽआशानाम्ऽ इति सूक्तेन समिध आदधाति । आयुष्कामः । पुरोडाशाद्यप्येवं योजनीयम् । ऽअग्नेर्मन्वेऽ (4.23-29) इति सप्तभिः सूक्तैरुदकमभिमन्त्र्य पिबति । आयुष्कामः । ऽअग्नेर्मन्वेऽ इति सप्तभि सूक्तैः सक्तुमभिमन्त्र्य भुङ्क्ते । आयुष्कामः । ऽअग्नेर्मन्वेऽ इति सप्तभि सूक्तैर्हविरुपदधीत । यथासम्भवं तन्त्रम् । विकल्पो वा । आयुष्कामः । ऽया ओषधयःऽ (6.96) इति भक्तमुपधानानि योजनीयानि । ऽवैश्वानरो न आगमत्ऽ (6.35.2) इत्यृचा उदकं भक्तमुपधानं कुर्यात् । ऽशुम्भनीऽ (7.112) इति द्वाभ्यामृग्भ्यां त्रितयं कुर्यात् । ऽयदर्वाचीनम्ऽ (10.5.22) इत्यृचा उदकमभिमन्त्र्य पिबति । आयुष्कामः । ऽयदर्वाचीनम्ऽ इत्यृचा भक्तमभिमन्त्र्य भक्षयति । ऽयदर्वाचीनम्ऽ इत्यृचा उपधानं कुर्यात् । सर्वत्र दक्षिणादानम् । स्वयङ्कर्तृके अन्यस्मै दक्षिणां ददाति शुभं वा बहवोऽपि कुर्वन्ति । एकोऽपि करोति । पश्वादीनामायुष्यं कर्म भवति । पुरुषस्त्रीणामपि वृद्धबालतरुणानां सर्वेषां मानुषपशुमृगपक्षिण अश्वादीनामायुष्यं कर्म भवति । सर्वत्र दक्षिणा धेनुः । तन्त्रे वाऽतन्त्रे वा । आयुष्कामः ॥
[उत्तमासु यन्मातली रथक्रीतम् (11.6.23) इति सर्वासां द्वितीया ॥ कौश्स्_7,9{58}.25 ॥]
ऽअग्निं ब्रूमःऽ (11.6) इति सूक्तस्य ऽयन्मातली रथक्रीतम्ऽ इति सर्वासां द्वितीया । व्यतिषङ्गेण यन्मातली कर्तव्या । ऽअग्निं ब्रूमःऽ इत्यस्य सूक्तस्य प्रत्यृचं मातली कार्या । अन्ते च । अभ्यातानान्ते हविषामुपदधीत । तत उत्तरतन्त्रम् । समाप्तानि आयुष्याणि । न दक्षिणाहीनं कुर्वीत । यदा स्वयं करोति तदाऽन्यस्मै दक्षिणां दद्यात् ॥ सप्तमेऽध्याये नवमी कण्डिका

59

[काम्यानि कर्माणि]
अथ काम्यानां कर्मणां विधिं वक्ष्यामः । सम्भारलक्षणे मण्डपविधानमुक्तम् । गृहे वा कुर्यात् । नित्यानि कर्माणि गृहे
कुर्यात् । अवभृथं न वा कुर्यात् । सर्वत्र कौशिके कर्मणां विकल्पः । सर्वत्रावभृथं कर्मसमाप्तौ । पञ्चानां कल्पानां कौशिकोक्तं तन्त्रं कुर्यादित्यर्थः । अथ विधानमुच्यते-
[विश्वे देवा (1.30) इति विश्वानायुष्कामो यजते ॥ कौश्स्_7,10{59}.1 ॥]
वैश्वदेवं चरुम् । पाकयज्ञतन्त्रमाज्यभागान्तं कृत्वा ऽविश्वे देवाऽ इति चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । आयुष्कामः । ऽविश्वेभ्यो देवेभ्यो जुष्टं निर्वपामिऽ । ऽविश्वेभ्यो देवेभ्यस्त्वा जुष्टं प्रोक्षामिऽ । ऽविश्वान् देवान् गच्छतु हविः स्वाहाऽ इति विशेषः । शतवर्षपरिमितमायुर्भवति । नित्यं कुर्यात् ॥
[उपतिष्ठते ॥ कौश्स्_7,10{59}.2 ॥]
अथवा ऽविश्वे देवाऽ इति सूक्तेनोपतिष्ठते विश्वान् देवान् ॥
[इदं जनास (1.32) इति द्यावापृथिव्यौ पुष्टिकामः ॥ कौश्स्_7,10{59}.3 ॥]
पाकयज्ञतन्त्रमाज्यभागान्तं कृत्वा ऽइदं जनासऽ इतिसूक्ते न द्यावापृथिवीयं चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । ऽद्यावापृथिवीभ्यां जुष्टं निर्वपामिऽ । ऽद्यावापृथिवीभ्यां त्वा जुष्टं प्रोक्षामिऽ । ऽद्यावापृथिवी गच्छतु हविः स्वाहाऽ इति । पुष्टिकामः द्रव्यवृद्धिकामः ॥
[सम्पत्कामः ॥ कौश्स्_7,10{59}.4 ॥]
मनोभिलषितकामः इत्यर्थः । नित्यं कुर्यात् । ऽइदं जनासऽ इति सूक्तेन उपतिष्ठते द्यावापृथिव्यौ । सकृन्मन्त्रः । पुष्टिकामः । सम्पत्कामः । सम्पच्छब्द उदयशब्द उच्यते । पुत्रकामः धनकामः पशुकामः धान्यकामः हिरण्यकामः रत्नकामः हस्तिकामः अश्वकामः पुष्टिकामः फलकामः आयुष्यकामः वशीकरणकामः चक्षुरादीनीन्द्रियाणि विकले सति दृष्टिकामः पत्नीकामः गृहकामः सौभाग्यकामः परस्य दौर्भाग्यकामः । अन्योऽप्यनुक्तकामः सम्पत्काममध्ये ज्ञातव्यः । सर्वकाम इत्यर्थः । कामावृत्तौ कर्मावृत्तिः । कर्मावृत्तौ सूक्तावृत्तिः ॥
[इन्द्र जुषस्व (2.5) इतीन्द्रं बलकामः ॥ कौश्स्_7,10{59}.5 ॥]
पाकतन्त्रे ऽइन्द्र जुषस्वऽ इति सूक्तेन ऐन्द्रं चरुं जुहोति । पावणाद्युत्तरतन्त्रम् । ऽदेवस्य त्वाऽ इत्यादि ऽइन्द्राय जुष्टं निर्वपामिऽ । ऽइन्द्राय त्वा जुष्टं प्रोक्षामिऽ । ऽसं बर्हिःऽ इत्यादि ऽइन्द्रं गच्छतु हविः स्वाहाऽ इति बर्हिप्रहरणे । चातुरङ्गहस्तिअश्वपुरुषादिबलकामो राजा नित्यं कुर्यात् । ऽइन्द्र जुषस्वऽ इति सूक्तेन इन्द्रमुपतिष्ठते । नित्यं राजा बलकामः ॥
[इन्द्रमहम् (3.15) इति पण्यकामः ॥ कौश्स्_7,10{59}.6 ॥]
तन्त्रमाज्यभागान्तं कृत्वा ऽइन्द्रमहम्ऽ इति सूक्तेन ऐन्द्रं चरुं जुहोति । तत उत्तरतन्त्रम् । वणिजादिअर्थरत्नधान्यपुत्रलाभोऽस्ति सर्वं वणिज्योतिपरिमुच्चैर्भवति ततः कुर्यात् । ऽइन्द्रमहं वणिजम्ऽ इति सूक्तेनेन्द्रमुपतिष्ठते । वाणिज्यकामः । अश्वादिपण्यकामः ॥
[उदेनमुत्तरं नय (6.5) योऽस्मान् (6.6) इन्द्रः सुत्रामा (7.91) इति ग्रामकामः ॥ कौश्स्_7,10{59}.7 ॥]
ऽउदेनमुत्तरं नयऽ, ऽयोऽस्मान् ब्रह्मणस्पतेऽ इति सूक्ताभ्यां पाकतन्त्रे ऐन्द्रं चरुं जुहोति । उत्तरतन्त्रम् । ग्रामकामः । ग्रामपत्तनमण्डलपुरकामः । ग्रामशब्द उपलक्षणार्थः । ऽउदेनमुत्तरं नयऽ ऽयोऽस्मान्ऽ इति सूक्ताभ्यामुपतिष्ठते । ग्रामकामः । पाकतन्त्रे ऽइन्द्रः सुत्रामाऽ इत्यृचा चरुम् ऐन्द्रं जुहोति । ग्रामकामः । ऽइन्द्रः सुत्रामाऽ इत्यृचा ऐन्द्रमुपतिष्ठते । ग्रामकामः ॥
[ग्रामसाम्पदानामप्ययः ॥ कौश्स्_7,10{59}.8 ॥]
ऽउदेनमुत्तरं नयऽ इति सूक्ताभ्याम् उदुम्बरसमिध आदधाति । तन्त्रविकल्पः । ग्रामकामः । ऽउदेनमुत्तरं नयऽ इति सूक्ताभ्यां पालाशसमिध आदधाति । ग्रामकामः । ऽउदेनमुत्तरं नयऽ ऽयो अस्मान् ब्रह्मणस्पतेऽ इति सूक्ताभ्यां कर्कन्धूसमिध आदधाति । ऽउदेनमुत्तरं नयऽ ऽयो अस्मान् ब्रह्मणस्पतेऽ इति सूक्ताभ्यां सभानामुपस्तरणानि जुहोति । ग्रामकामः । एवं ऽइन्द्रः सुत्रामाऽ इति योज्यम् । ग्रामकामः । नास्ति निरृतिकर्म । अधिकारे तद्भवति । इह न भवति ॥
[यशसं मेन्द्रः (6.58) इति यशस्कामः ॥ कौश्स्_7,10{59}.9 ॥]
इन्द्रदैवतं चरुमाज्यभागान्तं कृत्वा ऽयशसं मेन्द्रःऽ इति सूक्तेन इन्द्राय चरुं जुहोति । अथवा ऽयशसं मेन्द्रःऽ इति तृचेन सूक्तेनेन्द्रमुपतिष्ठते । यशस्कामः । प्रतिप्रकाशतादित्यवत् यशस्वी भवतीत्यर्थः ॥
[मह्यमापः (6.61) इति व्यचस्कामः ॥ कौश्स्_7,10{59}.10 ॥]
ऽमह्यमापःऽ इति तृचेनेन्द्रं यजते । तावत्कूपतडागवापीपुष्करिणी उदककामार्थी सेतुबन्धादिउदककामार्थी व्यचस्कामः । ऽमह्यमापःऽ इति सूक्तेनोपतिष्ठते । वापीकूपतडागादिकामः ॥
[आगच्छत (6.82) इति जायाकामः ॥ कौश्स्_7,10{59}.11 ॥]
ऽआगच्छतऽ इति तृचेनेन्द्रं यजते पाकतन्त्रेण जायाकामः । कुमारीकर्म इत्यर्थः । ऽआगच्छतऽ इति तृचेनेन्द्रमुपतिष्ठते । पत्नीकामः । नित्यं कुर्यात् ॥
[वृषेन्द्रस्य (6.86) इति वृषकामः ॥ कौश्स्_7,10{59}.12 ॥]
ऽवृषेन्द्रस्यऽ इति तृचेनेन्द्रं यजते पाकतन्त्रेण । राजा वृषकामः । एकोऽस्यां पृथिव्यां राजा भवति एकोऽधिपत्यकाम इत्यर्थः । प्रधानकामः । ऽवृषेन्द्रस्यऽ इति तृचेनेन्द्रमुपतिष्ठते । प्रधानकामः । मनुष्याणां मध्ये प्रधानो भवति । श्रेष्ठ इत्यर्थः । श्रेष्ठत्वं स्वजातिपक्षे । ब्राह्मणानां मध्ये ब्राह्मणः क्षत्रियाणां मध्ये क्षत्रिय इत्यर्थः ॥
[आ त्वाहार्षम् (6.87) ध्रुवा द्यौः (6.88) इति ध्रौव्यकामः ॥ कौश्स्_7,10{59}.13 ॥]
ऽआ त्वाहार्षम्ऽ ऽध्रुवा द्यौःऽ इति सूक्ताभ्यामिन्द्रं यजते पाकयज्ञविधानेन । राजा ध्रौव्यकामः । निखिलं राज्यं भवतीत्यर्थः । ऽआ त्वाहार्षम्ऽ ऽध्रुवा द्यौःऽ इति सूक्ताभ्यामिन्द्रमुपतिष्ठते । ध्रौव्यकामः । निश्चलकामः । स्थिरत्वमित्यर्थः ॥
[त्यमू षु (7.85) त्रातारम् (7.86) आ मन्द्रैः (7.117) इति स्वस्त्ययनकामः ॥ कौश्स्_7,10{59}.14 ॥]
ऽत्यमू षुऽ ऽत्रातारम्ऽ इत्यृग्भ्यामिन्द्रं यजते पाकतन्त्रेण । स्वस्त्ययनकामः । स्वस्तीत्यविनाशनाम । द्विपदचतुष्पदानामविनाशमित्यर्थः । ऽत्यमू षुऽ ऽत्रातारम्ऽ इत्यृग्भ्यामिन्द्रमुपतिष्ठते । स्वस्त्ययनकामः । नित्यं कुर्यात् । ऽआ मन्द्रैःऽ इति द्वाभ्यामृग्भ्यामिन्द्रं यजते पाकतन्त्रेण स्वस्त्ययनकामः । शान्तिकाम इत्यर्थः । गृहे ग्रामे वा सर्वत्र शान्तिं कुर्यात् । निष्कामो वा सकामो वा । ऽआ मन्द्रैःऽ इति द्वाभ्यामिन्द्रमुपतिष्ठते । स्वस्त्ययनकामः । गोश्वाजहस्तिपुरुषादिस्वस्त्ययनं भवति । नित्यं कुर्यात् वा ॥
[समास्त्वाग्ने (2.6) अभ्यर्चत (7.82) इत्यग्निं सम्पत्कामः ॥ कौश्स्_7,10{59}.15 ॥]
ऽसमास्त्वाऽ इति सूक्तेन अग्निं यजते पाकतन्त्रेण । सम्पत्कामः । अपूर्वलाभः । मनसा चिन्तितकामः सम्पदित्युच्यते । ऽसमास्त्वाग्नेऽ इति सूक्तेनाग्निमुपतिष्ठते । सर्वकामः । ऽअभ्यर्चतऽ इति सूक्तेन षडर्चेनाग्निं यजते । सर्वकामः । ऽअभ्यर्चतऽ इति सूक्तेन षडर्चेनाग्निमुपतिष्ठते । सम्पत्कामः ॥

[पृथिव्याम् (4.39) इति मन्त्रोक्तम् ॥ कौश्स्_7,10{59}.16 ॥]
ऽपृथिव्यामग्नयेऽ इति दशभिरृग्भिः । पृथिवीम् । अग्निम् । अन्तरिक्षम् । वायुम् । द्यौः । आदित्यः । दिशः । चन्द्रमाः । पुनः अग्निम् । एता अष्टौ देवताः । अष्टौ चरवः । प्रत्यृचं होमः । निर्वपणादि योज्यं सन्नतिकर्म । पाकतन्त्रम् । सम्पत्कामः । आयुष्कामः । धनकामः । ऽपृथिव्यामग्नयेऽ इति दशर्चेन पृथिव्यादिदेवता उपतिष्ठते । सर्वकामः ॥
[तदिदास (5.2) धीती वा (7.1) इतीन्द्राग्नी ॥ कौश्स्_7,10{59}.17 ॥]
ऽतदिदासऽ इति सूक्तेनन्द्राग्नी यजते वा उपतिष्ठते वा । सर्वकामः । ऽधीती वा येऽ इति द्वाभ्यामिन्द्राग्नी यजते वा उपतिष्ठते वा । सर्वकामः ॥
[यस्येदमा रजः (6.33) अथर्वाणम् (7.2) अदितिर्द्यौः (7.6) दितेः पुत्राणाम् (7.7) बृहस्पते सवितः (7.16)
इत्यभ्युदितं ब्रह्मचारिणं बोधयति ॥ कौश्स्_7,10{59}.18 ॥]
ऽयस्येदमा रजःऽ इति सूक्तेन तृचेनेन्द्रं यजत उपतिष्ठते वा । सर्वकामः । ऽअथर्वाणं पितरम्ऽ इत्यष्टभिरथर्वाणं यजते वा उपतिष्ठते वा । सर्वकामः । ऽअदितिर्द्यौःऽ इति चतसृभिरदितिं यजत उपतिष्ठते वा । सर्वकामः । ऽदितेः पुत्राणाम्ऽ इत्यृचा देवान् यजत उपतिष्ठते वा । सर्वकामः । ऽबृहस्पते सवितःऽ इत्येकया बृहस्पतिं यजते वा उपतिष्ठते वा । सर्वकामः । ऽबृहस्पते सवितःऽ इत्येकया सुप्तं ब्रह्मचारिणमुत्थापयति आदित्ये उदिते सति । प्रायश्चित्तमेतत् ॥
[धाता दधातु (7.17) प्रजापतिर्जनयति (7.19) अन्वद्य नः (7.20) यन्न इन्द्रः (7.24) ययोरोजसा (7.25) विष्णोर्नु कम् (7.26) अग्नाविष्णू (7.29) सोमारुद्रा (7.42) सिनीवालि (7.46) बृहस्पतिर्नः (7.51) यत्ते देवा अकृण्वन् (7.79) पूर्णा पश्चात् (7.80) प्रजापते (7.80.3) अभ्यर्चत (7.82) को अस्या नः (7.103) इति प्रजापतिम् ॥ कौश्स्_7,10{59}.19 ॥]
ऽधाता दधातुऽ इति चतुरृचेन धातारं यजत उपतिष्ठते वा । सर्वकामः । नित्यं कुर्यात् । ऽप्रजापतिर्जनयतिऽ इत्यृचा प्रजापतिं यजत उपतिष्ठते वा । सर्वकामः । ऽअन्वद्य नोऽनुमतिःऽ इति षडर्चेनानुमतिं यजत उपतिष्ठते वा । सर्वकामः । नित्यम् । वर्षेण कामः सम्पद्यते । पापशरीरस्य दशवर्षेण । ऽयन्न इन्द्रो अखनत्ऽ इत्येकया इन्द्राद्या नव देवता मन्त्रोक्ता एकचरुणा यजते । इन्द्रम् । अग्निम् । विश्वान् देवान् । मरुतः । अर्कम् । सवितारम् । सत्यधर्माणम् । प्रजापतिम् । अनुमतिम् । एता देवताः । सर्वफलकामः । उपतिष्ठते वा । सर्वकामः । ऽययोरोजसाऽ इति द्वाभ्यामृग्भ्यां विष्णुं यजत उपतिष्ठते वा । सर्वकामः । ऽविष्णोर्नु कम्ऽ इत्यष्टर्चेन विष्णुं यजत उपतिष्ठते वा । सर्वकामः । ऽअग्नाविष्णू महिऽ इति द्वाभ्यामृग्भ्यां अग्नाविष्णू यजत उपतिष्ठते वा । सर्वकामः । ऽसोमारुद्रा वि वृहतम्ऽ इति द्वाभ्यामृग्भ्यां सोमारुद्रौ यजत उपतिष्ठते वा । सर्वकामः । ऽसिनीवालि पृथु ष्टुकेऽ इति नवभिरृग्भिः सिनीवाली कुहू राका देवपत्नी इति चतस्रो देवताः यजत उपतिष्ठते वा । एकश्चरुः । सर्वकामः । सर्वत्र पर्यायेण सर्वकामावाप्तिर्भवति । ऽबृहस्पतिर्नःऽ इत्यृचा बृहस्पतिं यजत उपतिष्ठते वा । सर्वकामः । ऽयत्ते देवा अकृण्वन्ऽ इति चतसृभिरमावास्यां यजत उपतिष्ठते वा । सर्वकामः । ऽपूर्णा पश्चात्ऽ इति तिसृभिः पौर्णमासीं यजत उपतिष्ठते वा । सर्वकामः । ऽप्रजापते न त्वत्ऽ इत्यृचा प्रजापतिं यजत उपतिष्ठते वा । सर्वकामः । ऽअभ्यर्चतऽ इति षड्भिरृग्भिरग्निं यजत उपतिष्ठते वा । सर्वकामः । ऽको अस्या नःऽ इति द्वाभ्यामृग्भ्यां प्रजापतिं यजत उपतिष्ठते वा । सर्वकामः ॥
[अग्न इन्द्रश्च (7.110) इति मन्त्रोक्तान् सर्वकामः ॥ कौश्स्_7,10{59}.20 ॥]
ऽअग्न इन्द्रश्चऽ इति चतसृभिरृग्भिः अग्निमिन्द्रं यजत उपतिष्ठते वा । सर्वकामः । न क्रमेण कामोत्पत्तिः । प्रजापतिकामः । मन्त्रावृत्तिः । तथा योगमित्यधिकरणे न क्रमः काम्यानां कर्मणाम् । अङ्गवत् क्रतूनामित्यधिकरणे ॥
[य ईशे (2.34) ये भक्षयन्तः (2.35) इतीन्द्राग्नी लोककामः ॥ कौश्स्_7,10{59}.21 ॥]
ऽय ईशेऽ, ऽये भक्षयन्तःऽ इति द्वाभ्यां सूक्ताभ्यामिन्द्राग्नी यजत उपतिष्ठते वा । सर्वलोकाधिपत्यकामः ॥
[अन्नं ददाति प्रथमम् ॥ कौश्स्_7,10{59}.22 ॥]
ऽय ईशेऽ, ऽये भक्षयन्तःऽ इति द्वाभ्यां सूक्ताभ्यां भक्ताद्यन्नमभिमन्त्र्य भिक्षुकेभ्यो ददाति । सर्वलोकाधिपत्यकामः ॥
[पशूपाकरणमुत्तमम् ॥ कौश्स्_7,10{59}.23 ॥]
ऽय ईशे पशुपतिःऽ इति सूक्तेन पशूपाकरणं करोति ॥
[सवपुरस्ताद्धोमा युज्यन्ते ॥ कौश्स्_7,10{59}.24 ॥]
ऽये भक्षयन्तःऽ इति सूक्तेन सवपुरस्ताद्धोमा युज्यन्ते ॥
[दोषो गाय (6.1) इत्यथर्वाणं समावृत्याश्नाति ॥ कौश्स्_7,10{59}.25 ॥]
ऽदोषो गायऽ इति तृचेन सूक्तेन अथर्वाणं यजत उपतिष्ठते वा । सर्वलोकाधिपत्यकामः । परिमोक्षः । गोदानिकं तन्त्रम् । परिधापनान्तं कृत्वा ततोऽभ्यातानानि ऽइदावत्सरायऽ इति । ततोऽभ्यातानानि । ततः ऽऋचं सामऽ इति । ततोऽभ्यातानानि हुत्वा ऽदोषो गायऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । व्रतं समाप्य व्रतविसर्जनं करोति ॥
[अभयं द्यावापृथिवी (6.40) श्येनोऽसि (6.48) इति प्रतिदिशं सप्तर्षीनभयकामः ॥ कौश्स्_7,10{59}.26 ॥]
ऽअभयं द्यावापृथिवीऽ इति तृचेन सूक्तेन प्रतिदिशं सप्तर्षीन् यजत उपतिष्ठते वा । प्रतिदिशमभयकामः । यस्य ग्रामस्य नगरस्य वाऽभयमिच्छति तस्य प्रतिदिशम् । ऽश्येनोऽसिऽ तृचेन प्रतिदिशं सप्तर्षीन् यजत उपतिष्ठते वा । अभयकामः । दिगभिमुखानि तन्त्राणि कृत्वा प्रतिदिशं वा ग्रामस्य । एकस्मिन् स्थाने वा स्थितः । अभयकामः ॥
[उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानम् ॥ कौश्स्_7,10{59}.27 ॥]
ऽश्येनोऽसिऽ तृचेन सूक्तेन ब्रह्मचारिणे दण्डप्रदानं करोति । ऽश्येनोऽसिऽ इति ज्योतिष्टोमे दीक्षिताय दण्डप्रदानं करोति ब्रह्मा ॥
[द्यौश्च मे (6.53) इति द्यावापृथिव्यौ विरिष्यति ॥ कौश्स्_7,10{59}.28 ॥]
ऽद्यौश्च म इदं पृथिवी चऽ इति तृचेन द्यावापृथिवी यजत उपतिष्ठते वा । विरिष्यति यदि विनाशोपस्थितः तत इदं कर्म कुर्यात् । यदि विनाशे वा वर्तमाने विनाशभये वा तदा इदं कर्म कुर्यात् । न कालविलम्बेन । द्रव्यनाशे पुत्रनाशे प्रजानाशे पशुनाशे अश्वनाशे हस्तिनाशे वृषभनाशे गृहनाशे समुत्पन्ने कुर्यात् । अथवा शान्तिके दोषाः सर्वे विलयं यान्ति इति ब्रह्मविदो वदन्ति । ऽद्यावापृथिवीभ्यां जुष्टं निर्वपामि । द्यावापृथिवीभ्यां त्वा जुष्टं प्रोक्षामि । द्यावापृथिवी गच्छतु हविः स्वाहाऽ इति । शेषं समानम् ॥
[यो अग्नौ (7.87) इति रुद्रान् स्वस्त्ययनकामः स्वस्त्ययनकामः ॥ कौश्स्_7,10{59}.29 ॥]

ऽयो अग्नौऽ इत्यृचा रुद्रान् यजत उपतिष्ठते वा । स्वस्त्ययनकामः । सर्वत्र यागः दर्शपौर्णमासविधानेन । शान्तिकपौष्टिकाभिचारेषु नोष्णीषं कारयेत् । सर्वकर्मसु । मण्डपस्योत्तरे पार्श्वे शान्तिकलशं स्थापयेत् सर्वकर्मसु । एकरात्राद्युपवासं कुर्यादादौ पुरश्चरणं कारयित्वा । ऋत्विजां सर्वकर्मसु साधारणम् । पौर्णमास्यमावास्ये पुण्ये नक्षत्रे प्रयोगः सर्वकर्मसु ॥
आयुर्वृद्धिर्द्वये प्रोक्त आयुष्यकर्मसङ्ग्रहः.
नानाफलसमायुक्तः काम्ययागश्च सप्तमे ॥
सप्तमेऽध्याये दशमी कण्डिका

69

इति कौशिकपद्धतौ सप्तमोऽध्यायः समाप्तः ॥
अथाष्टमोऽध्यायः
[सवाः]
अथ सवयज्ञानां विधानं व्याख्यास्यामः-
[सम्भृतेषु साविकेषु सम्भारेषु ब्राह्मणमृत्विजं वृणीत ॥ ऋषिमार्षेयं सुधातुदक्षिणमनैमित्तिकम् ॥ एष ह वा ऋषिरार्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसम्पन्नाः ॥ उदगयन इत्येके ॥ कौश्स्_8,8{67}.1-4 ॥]
सम्भृतेषु साविकेषु सम्भारेषु । देवयजनमुक्तम् । उदगयने । ऋषीनार्षेयगुणयुक्तान् ऋत्विजो वृणीते । एष ऋत्विक्कल्प उक्तो मधुपर्के ॥
[अथात ओदनसवानामुपाचारकल्पं व्याख्यास्यामः ॥ सवान् दत्त्वाग्नीनादधीत ॥ सार्ववैदिक इत्येके ॥ सर्वे वेदा द्विकल्पाः ॥ मासपरार्ध्या दीक्षा द्वादशरात्रो वा ॥ त्रिरात्र इत्येके ॥ हविष्यभक्षा स्युर्ब्रह्मचारिणः ॥ अधः शयीरन् ॥ कर्तृदातारावा समापनात् कामं न भुञ्जीरन् सन्तताश्चेत् स्युः ॥ अहनि समाप्तमित्येके ॥ यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत ॥ केशवर्जं पत्नी ॥ स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यावुपवसतः ॥ कौश्स्_8,8{67}.5-17 ॥]
एकादश्यां वरणं कृत्वा गोदानिकेन विधानेन केशश्मश्ररोमनखानि वापयित्वा ॥ केशवर्जं पत्नी नखानि कर्तयेत् । स्नातावहतवाससौ सुरभिणौ भूत्वा दाता । उपनयनवद् दण्डमेखला । यज्ञोपवीती । त्रिरात्रं दीक्षाग्रहणं सह पत्न्या । अग्नये ब्रह्मणे गुरवे व्रतश्रावणं कृत्वा ततो व्रतादानीया अष्टौ समिध आदधाति । ततः कर्ता अभ्यातानाद्युत्तरतन्त्रम् करोति । हविष्यभक्षणादि कर्ता कारयिता पत्नी च करोति ॥
[श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च सम्प्रोक्ष्य ब्रह्मौदनिकमग्निं मथित्वा ॥ यद्देवा देवहेडनम् (6.114) यद्विद्वांसो यदविद्वांसः (6.115) अपमित्यमप्रतीत्तम् (6.117) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात् ॥ कौश्स्_8,8{67}.18-19 ॥]
[अथ देवयजनम् ॥ तद्यत् समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणमाकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश्च लोमभिः पशूनाम् ॥ कौश्स्_8,1{60}.17-18 ॥]
अथ चतुर्दश्यां प्रातर्यज्ञोपवीती शान्त्युदकं कृत्वा देवयजनं सम्प्रोक्ष्य आकृतिलोष्टवल्मीकेनास्तीर्य देवयजनं दर्भैश्च गो-अश्व-अज-अविलोमानि प्रस्तीर्य । पालाशमय्यरणिद्वयेनाग्निं मन्थयेत् यजमानः ॥
[अग्ने जायस्व (11.1.1) इति मन्थन्तावनुमन्त्रयते ॥ पत्नी मन्त्रं सन्नमयति ॥ यजमानं च ॥ कौश्स्_8,1{60}.19-21 ॥]
ऽअग्ने जायस्वऽ इत्यृचा मन्थन्तावनुमन्त्रयते । ऽअग्ने जायस्वारणिका नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । अग्ने जायस्व केशवदत्तशर्मा नाथितोऽयं ब्रह्मौदनं पचति पुत्रकामःऽ । एवं पत्नीनामयजमाननामग्रहणं कृत्वा प्रथमेऽर्धर्चे ॥
[कृणुत धूमम् (11.1.2) इति धूमम् ॥ कौश्स्_8,1{60}.22 ॥]
ततः ऽकृणुत धूमम्ऽ इत्यृचा धूममनुमन्त्रयते ॥
[अग्नेऽजनिष्ठा (11.1.3) इति जातम् ॥ कौश्स्_8,1{60}.23 ॥]
ऽअग्नेऽजनिष्ठाऽ इति त्रिभिः पादैर्जातम् । ऽअस्यै रयिम्ऽ इति पादेन पत्नीमनुमन्त्रयते ॥
[समिद्धो अग्ने (11.1.4) इति समिध्यमानम् ॥ कौश्स्_8,1{60}.24 ॥]
ऽसमिद्धो अग्ने समिधाऽ इति त्रिभिः पादैः समिध्यमानमनुमन्त्रयते । ऽउत्तमं नाकम्ऽ इति पादं दातारं वाचयति । एवं ब्रह्मौदनिकमग्निं मथित्वा स्थण्डिलेऽग्निं कृत्वा अभ्यातानान्तं कृत्वा ऽयद्देवा देवहेडनम्ऽ (6.114), ऽयद्विद्वांसःऽ (6.115), ऽअपमित्यमप्रतीत्तम्ऽ (6.117) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात् । पूर्णहोमस्य विधानं शान्तिकल्प उक्तम् ॥
[अग्नीनाधास्यमानः सवान् वा दास्यन् संवत्सरं ब्रह्मौदनिकमग्निं दीपयति ॥ अहोरात्रौ वा ॥ याथाकामी वा ॥ संवत्सरं तु प्रशस्तम् ॥ सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः ॥ औपासनौ चोभौ हि विज्ञायेते ॥ तस्मिन् देवहेडनेनाज्यं जुहुयात् ॥ समिधोऽभ्यादध्यात् ॥ शकलान् वा ॥ तस्मिन् यथाकामं सवान् ददात्येकं द्वौ सर्वान् वा ॥ अपि वैकैकमात्माशिषो दातारं वाचयति ॥ पराशिषोऽनुमन्त्रणमनिर्दिष्टाशिषश्च ॥ दातारौ कर्माणि कुरुतः ॥ तौ यथालिङ्गमनुमन्त्रयते ॥ उभयलिङ्गैरुभौ पुंलिङ्गैर्दातारं स्त्रीलिङ्गैः पत्नीम् ॥ उदहृत्सम्प्रैषवर्जम् ॥ कौश्स्_8,1{60}.1-16 ॥]
ततः ऽयद्देवा देवहेडनम्ऽ (6.114-124) इत्यनुवाकेनाज्यं जुहुयात् । समिधोऽभ्यादध्यात् । शकलान् वादध्यात् । एवं ब्रह्मौदनिकमग्निं मथित्वा स्थण्डिलेऽग्निं कृत्वाभ्यातानान्तं कृत्वा दीपयति अहोरात्रं वा याथाकामी वा । संवत्सरं तु प्रशस्तम् ॥
[परेहि नारि (11.1.13) इत्युदहृतं सम्प्रेष्यत्यनुगुप्तामलङ्कृताम् ॥ कौश्स्_8,1{60}.25 ॥]
अथामावास्यायां प्रातः उदकाहरणं करोति । ब्राह्मणीमलङ्कृत्वा तां साधुवादिनीमुदकघटं हस्ते गृहीतां ऽपरेहि नारिऽ इत्यृचोदकगतां प्रेषयति ॥
[एमा अगुः (11.1.14) इत्यायतीमनुमन्त्रयते ॥ कौश्स्_8,1{60}.26 ॥]
ऽएमा अगुःऽ इति पादेनोदकपूर्णां नारीमनुमन्त्रयते ॥
[उत्तिष्ठ नारि (11.1.14) इति पत्नीं सम्प्रेष्यति ॥ कौश्स्_8,1{60}.27 ॥]
ऽउत्तिष्ठ नारिऽ इत्यादि ऽआ त्वागन् यज्ञःऽ इत्यन्तेन दात्रीं प्रेषयति ॥
[प्रति कुम्भं गृभाय (11.1.14) इति प्रतिगृह्णाति ॥ कौश्स्_8,1{60}.28 ॥]
ऽप्रति कुम्भं गृभायऽ इति पादार्धेन जलकुम्भं गृहद्वारे प्रतिग्राहयति दात्री ॥
[ऊर्जो भागः (11.1.15) इति निदधाति ॥ कौश्स्_8,1{60}.29 ॥]
ऽऊर्जो भागःऽ इति पादेन भूमौ निदधाति उत्तरतः.
अव्यसश्च (19.69.11), बर्हिर्लवनम्, वेद्युत्तरवेद्यग्निप्रतिष्ठापनम्, अन्वाधानम्, व्रतग्रहणम्, पवित्रकरणम्, पवित्रेणेध्मप्रोक्षणम्, इध्मोपसमाधानम्, बर्हिःप्रोक्षणम्, ब्रह्मासनम्, ब्रह्मवरणम्, ब्रह्मस्थापनम्, स्तरणम्, स्तीर्णप्रोक्षणम्, आत्मासनम्, उदपात्रसंस्कारः । ततोऽहतं वासो दक्षिणतः उपसादयते । तत्सहिरण्यम् । तत्र द्वे उदपात्रे निहिते भवतो वेदिमध्ये अग्नेर्दक्षिणतः । अहतवासाः सहिरण्यां वस्त्रघटिकां कृत्वा स्तृणाति तदुपरि दक्षिणार्थम् । दक्षिणतो दक्षिणतः उदपात्रद्वयं स्थापयति ॥
[पूर्वाह्णे बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ कौश्स्_8,8{67}.20-22 ॥]
ततः प्रकृतमुदपात्रं जाङ्मायनं वेद्यां बहिर्ब्रह्माग्रतः दक्षिणमन्यदन्तरमन्यदन्तरं यतोऽधिचरिष्यन् भवति ।
बाह्यं जाङ्मायनं कृत्वा परिचरणेनाज्यं परिचर्य नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च हुत्वा ॥
[पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्राग्ग्रीवमुत्तरलोम परिस्तीर्य ॥ पवित्रे कुरुते ॥ दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि ॥ कौश्स्_8,8{67}.23-25 ॥

इयं मही (11.1.8) इति चर्मास्तृणाति प्राग्ग्रीवमुत्तरलोम ॥ पुमान् पुंसः (12.3.1) इति चर्मारोहयति ॥ पत्नी ह्वयमानम् ॥ तृतीयस्यामपत्यमन्वाह्वयति ॥ ऋषिप्रशिष्टा (11.1.15) इत्युदपात्रं चर्मणि निदधाति ॥ कौश्स्_8,1{60}.30-34 ॥]
ततः पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्रस्तृणन्तं ऽइयं महीऽ इत्यृचा यजमानं वाचयति । ऽऋषिप्रशिष्टाऽ इति पादेन पत्नी उदकघटं चर्मणि निधापयति ॥
[तदा आपस्पुत्रासः (12.3.4) इति सापत्यावनुनिपद्येते ॥ कौश्स्_8,1{60}.35 ॥ प्राचीम्प्राचीम् (12.3.7-10) इति मन्त्रोक्तम् ॥ चतसृभिरुदपात्रमनुपरियन्ति ॥ प्रतिदिशं ध्रुवेयं विराट् (12.3.11) इत्युपतिष्ठन्ते ॥ पितेव पुत्रान् (12.3.12) इत्यवरोह्य भूमिं तेनोदकार्थान् कुर्वन्ति ॥ कौश्स्_8,2{61}.1-4 ॥]
पुनः तूष्णीं भूमौ स्थापयति । सर्वाणि कर्माणि तेनोदकेन कुर्यात् ॥
[पवित्रैः सम्प्रोक्षन्ते ॥ कौश्स्_8,2{61}.5 ॥]
ऽपुनन्तु माऽ (6.19) ऽवायोः पूतःऽ (6.51) ऽवैश्वानरो रश्मिभिःऽ (6.62) इति पवित्रगणः । एतेन दाता पत्नी अपत्यानि च पवित्रेण सम्प्रोक्षयेत् ॥
अथ निर्वापकरणम्-
[दर्भाग्राभ्यां चर्महविः सम्प्रोक्षति ॥ कौश्स्_8,2{61}.6 ॥]
दाता मुष्टिप्रसृताञ्जलिद्वयपरिमिते त्रिगुणान् व्रीहींश्चर्मणि कृत्वा दर्भपवित्राभ्यां तूष्णीं चर्महविः सम्प्रोक्षति । ततः चर्मणि त्रीणि विभागानि करोति ॥
[आदिष्टानां सानजानत्यै प्रयच्छति ॥ कौश्स्_8,2{61}.7 ॥]
ततो देवपितृमनुष्यत्रयं पत्नी अनजानत्यै प्रयत्तैः प्रयच्छति । कर्ता प्रैषं ददाति ॥
[तान् त्रेधा भागः (11.1.5) इति व्रीहिराशिषु निदधाति ॥ तेषां यः पितॄणां तं श्राद्धं करोति ॥ यो मनुष्याणां तं ब्राह्मणान् भोजयति ॥ यो देवानां तम् अग्ने सहस्वान् (11.1.6) इति दक्षिणं जान्वाच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति ॥ कौश्स्_8,2{61}.8-11 ॥]
व्रीहीन् विभागेषु कर्ता ऽत्रेधा भागो निहितःऽ इति त्रिभिः पादैर्विभागान् देवपितृमनुष्यसम्बन्धाननुमन्त्रयते । ऽयो देवानाम्ऽ इति पादेन पत्नीमनुमन्त्रयते । यः पितृभागस्तेनावभृथान्ते वृद्धिश्राद्धं करोति । यो मनुष्याणां भागस्तं ब्राह्मणान् भोजयति । द्वाभ्यां तन्त्राग्नौ श्रपणम् । ऽयो देवानाम्ऽ इत्येतेन वक्ष्यमाणं कर्म कुर्यात् ॥
[दक्षिणं जान्वाच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन् स्यात् तया चतुर्थम् ॥ शरावेण चतुःशरावं देवस्य त्वा सवितुः प्रसव ऋषिभ्यस्त्वार्षेयेभ्यस्त्वैकर्षये त्वा जुष्टं निर्वपामि ॥ कौश्स्_8,8{67}.26-27 ॥]
ततो निर्वपति ऽदेवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामृषिभ्यस्त्वार्षेयेभ्यस्त्वैकऋषये त्वा जुष्टं निर्वपामिऽ ॥
[वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासम् इति दातारं वाचयति ॥ रुद्रास्त्वा त्रैष्टुभेन छन्दसा । आदित्यास्त्वा जागतेन छन्दसा । विश्वे त्वा देवा आनुष्टुभेन छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासम् इति दातारं वाचयति ॥ निरुप्तं सूक्तेनाभिमृशति ॥ कौश्स्_8,9{68}.1-3 ॥]
ऽवसवस्त्वा गायत्रेण छन्दसा निर्वपन्तुऽ । ऽअग्ने सहस्वान्ऽ (11.1.6) इत्यृचा दातारमनुमन्त्र्य ऽऊर्जमक्षितमक्षीयमाणमुपजीव्यासम्ऽ इति दातारं वाचयति ॥
[कुम्भ्या वा चतुः ॥ तान् सप्त मेधान् (12.3.16) इति सापत्यावभिमृशतः ॥ गृह्णामि हस्तम् (12.3.17) इति मन्त्रोक्तम् ॥ कौश्स्_8,2{61}.12-14 ॥]
एवं चतुर्णामेकैकं प्रति निर्वापमनुयोजयेत् । निरुप्तानन्यस्यां कुम्भ्यां कृत्वा तस्यां श्रपणकुम्भ्यावशेषाच्चतुर्थं निर्वपति । एवं प्रतिमन्त्रं चत्वारो निर्वापा भवन्ति । अथवा श्रपणकुम्भ्यावशेषाच्चतुर्थं निर्वपति । अनडुहि कृत्वा निरुप्तं हविः सवसूक्तेनाभिमृशति कर्ता ॥
[त्रयो वराः (11.1.10) इति त्रीन् वरान् वृणीष्व इति ॥ कौश्स्_8,2{61}.15 ॥]
ऽत्रीन् वरान् वृणीष्वऽ इति दातृप्रैषं दत्त्वा एवं पत्न्यै ददाति । तौ वृणन्तौ ऽत्रयो वराःऽ इत्यर्धर्चेन प्रतिप्रत्यनुमन्त्रयते ॥
[अनेन कर्मणा ध्रुवान् इति प्रथमं वृणीते ॥ कौश्स्_8,2{61}.16 ॥]
दाता सवकर्मणां समृद्धीः प्रथमं वृणीते ॥
[यावपरौ तावेव पत्नी ॥ कौश्स्_8,2{61}.17 ॥]
यावपरौ वरौ मन्येत तौ वृणीते । एवं तावेव पत्नी ॥
[एतौ ग्रावाणौ (11.1.9) अयं ग्रावा (12.3.14) इत्युलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय ॥ कौश्स्_8,2{61}.18 ॥]
कर्ता ऽअरातीयोःऽ (10.3.1) इति तक्षति । ऽयद्यत् कृष्णःऽ (12.3.13) इत्यृचोलूखलमुसले प्रक्षालयति । ऽयत्त्वा शिक्वःऽ (10.6.3) इत्यृचा शूर्पमधः गोमयेन लेपयति । तानि ऽएतौ ग्रावाणौऽ इति पादेन दाता चर्मणि निदधाति ॥
[गृहाण ग्रावाणौ (11.1.10) इत्युभयं गृह्णाति ॥ कौश्स्_8,2{61}.19 ॥]
ऽगृहाण ग्रावाणौऽ इत्यर्धर्चेनोलूखलमुसलं ग्राहयति ॥
[साकं सजातैः (11.1.7) इति व्रीहीनुलूखल आवपति ॥ वनस्पतिः (12.3.15) इति मुसलमुच्छ्रयति ॥ कौश्स्_8,2{61}.20-21 ॥]
ऽसाकं सजातैःऽ इत्यर्धर्चेन पत्नी व्रीहीनुलूखल आवपति । ऽऊर्ध्वो नाकस्यऽ इत्यर्धर्चेन मुसलमुच्छ्रयन्तीमनुमन्त्रयते ॥
[निर्भिन्ध्यंशून् (11.1.9) ग्राहि पाप्मानम् (12.3.18) इत्यवहन्ति ॥ कौश्स्_8,2{61}.22 ॥]
ऽनिर्भिन्ध्यंशून्ऽ इति पादद्वयेनावघ्नतीमनुमन्त्रयते ॥
[इयं ते धीतिः (11.1.11) वर्षवृद्धम् (12.3.19) इति शूर्पं गृह्णाति ॥ कौश्स्_8,2{61}.23 ॥]
ऽइयं ते धीतिःऽ इत्यर्धर्चेन शूर्पं गृह्णाति ॥
[ऊर्ध्वं प्रजाम् (11.1.9) विश्वव्यचाः (12.3.19) इत्युदूहन्तीम् ॥ कौश्स्_8,2{61}.24 ॥]
ऽऊर्ध्वं प्रजाम्ऽ इति पादेन उलूखलादुदूहन्तीम् ॥
[परा पुनीहि (11.1.11) तुषं पलावान् (12.3.19) इति निष्पुनतीम् ॥ कौश्स्_8,2{61}.25 ॥]
ऽपरा पुनीहिऽ इति पादेन, निष्पुनन्तीम् ॥
[पृथग् रूपाणि (12.3.21) इत्यवक्षिणतीम् ॥ कौश्स्_8,2{61}.26 ॥]
ऽअस्यै रयिम्ऽ (11.1.11) इति पादेन अवक्षिणतीम् ॥
[त्रयो लोकाः (12.3.20) इत्यवक्षीणानभिमृशतः ॥ पुनरायन्तु शूर्पम् (12.3.20) इत्युद्वपति ॥ उपश्वसे (11.1.12)
इत्यपवेवेक्ति ॥ कौश्स्_8,2{61}.27-29 ॥]
ऽउपश्वसेऽ इति पादेन उद्वपतीम् । ऽउपश्वसेऽ इत्यर्धर्चेनापविवक्तीमनुमन्त्रयते । ऽश्रिया समानान्ऽ इत्यर्धर्चं दातारं वाचयति ॥
[पृथिवीं त्वा पृथिव्याम् (12.3.22) इति कुम्भीमालिम्पति ॥ कौश्स्_8,2{61}.30 ॥]
ऽअयं यज्ञःऽ (11.1.15) इत्यर्धर्चेन कुम्भीं मृदालिम्पतीमनुमन्त्रयते ॥
[अग्ने चरुः (11.1.16) इत्यधिश्रयति ॥ कौश्स्_8,2{61}.31 ॥]
ऽअग्ने चरुःऽ इत्यृचा अधिश्रयन्तम् ॥
[अग्निः पचन् (12.3.24) इति पर्यादधाति ॥ कौश्स्_8,2{61}.32 ॥]
ऽसहस्रपृष्ठःऽ (11.1.20) इत्यृचा अग्नौ काष्ठानि पर्यादधन्तं वाचयति ॥
[ऋषिप्रशिष्टा (11.1.15) इत्युदकमपकर्षति ॥ कौश्स्_8,2{61}.33 ॥]
ऽऋषिप्रशिष्टाऽ इति पादेन उदकुम्भात् पत्नीमुदकमपकर्षतीमनुमन्त्रयते ॥

[शुद्धाः पूताः (11.1.17) पूताः पवित्रैः (12.3.25) इति पवित्रे अन्तर्धाय ॥ उदकमासिञ्चति ॥ कौश्स्_8,2{61}.34-35 ॥
स्वर्गब्रह्मौदनौ तन्त्रम् ॥ सन्निपाते ब्रह्मौदनमितमुदकमासेचयोद्विभागम् ॥ यावन्तस्तण्डुलाः स्युर्नावसिञ्चेन्न प्रतिषिञ्चेत् ॥ यद्यवसिञ्चेत् मयि वर्चो अथो यशः (6.69.3) इति ब्रह्मा यजमानं वाचयति ॥ अथ प्रतिषिञ्चेत् ॥ आ प्यायस्व, सं ते पयांसि इति द्वाभ्यां प्रतिषिञ्चेत् ॥ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सङ्गथे ॥ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व इति ॥ कौश्स्_8,9{68}.4-10 ॥]
ऽशुद्धाः पूताःऽ इति त्रिभिः पादैः कुम्भ्यां पवित्रे अन्तर्धायोदकमासिञ्चन्तं वाच्यम् । ऽपक्तौदनस्यऽ इति पादेन दातारमनुमन्त्रयते । मितमुदकमासेचयेद्विभागम् । यावन्तस्तण्डुलाः स्युर्नावसिञ्चेन्न प्रतिषिञ्चेत् । यद्यवसिञ्चेत् ऽमयि वर्चो अथो यशःऽ इति ब्रह्मा यजमानं वाचयेत् । अथ प्रतिषिञ्चेत् ऽआ प्यायस्वऽ ऽसं ते पयांसिऽ इति द्वाभ्यां प्रतिषिञ्चेत् ॥
[ब्रह्मणा शुद्धाः (11.1.18) सङ्ख्याता स्तोकाः (12.3.28) इत्यापस्तासु निक्त्वा तण्डुलानावपति ॥ कौश्स्_8,2{61}.36 ॥]
ऽब्रह्मणा शुद्धाःऽ इत्यृचा आपस्तासु निक्त्वा दाता तण्डुलान् कुम्भ्यां निवपति ॥
[उरुः प्रथस्व (11.1.19) उद्योधन्ति (12.3.29) इति श्रपयति ॥ कौश्स्_8,2{61}.37 ॥]
ऽउरुः प्रथस्वऽ इत्यर्धर्चेन श्रपयन्तं यजमानमनुमन्त्रयते । ऽपितामहाः पितरःऽ इत्यर्धर्चेन दातारं वाचयति ॥
[प्र यच्छ पर्शुम् (12.3.31) इति दर्भाहाराय दात्रं प्रयच्छति ॥ कौश्स्_8,2{61}.38 ॥]
दर्भाहाराय दात्रं प्रयच्छति ॥
[ओषधीर्दान्तु पर्वन् (12.3.31) इत्युपरि पर्वणां लुनाति ॥ नवं बर्हिः (12.3.32) इति बर्हि स्तृणाति ॥ कौश्स्_8,2{61}.39-40 ॥]
उपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति । तदादावास्तृतस्योपरि पश्चादग्नेः तूष्णीं स्तृणाति कर्ता ॥
[उदेहि वेदिम् (11.1.21) धर्ता ध्रियस्व (12.3.35) इत्युद्वासयति ॥ कौश्स्_8,2{61}.41 ॥]
ऽउदेहि वेदिम्ऽ इत्यृचा पत्न्या कुम्भीमुद्वास्यमानामनुमन्त्रयते । ऽप्रजया वर्धयैनाम्ऽ इति मन्त्रेण पत्नीमनुमन्त्रयते । ऽनुदस्व रक्षःऽ इति कुम्भीम् । ऽप्रतरं धेह्येनाम्ऽ इति पत्नीम् । ऽश्रिया समानान्ऽ इत्यर्धर्चेन दातारं वाचयति ॥
अभ्यावर्तस्व (11.1.22) इति कुम्भीं प्रदक्षिणमावर्तयति ॥
[वनस्पते स्तीर्णम् (12.3.33) इति बर्हिषि पात्रीं निदधाति ॥ कौश्स्_8,2{61}.42-43 ॥]
ऽऋतेन तष्ठाऽ (11.1.23) इत्यर्धर्चेन नवे बर्हिषि पात्रीं निदधतीमनुमन्त्रयते ॥
[अंसध्रीम् (11.1.23) इत्युपदधाति ॥ कौश्स्_8,2{61}.44 ॥]
ऽअंसध्रीं शुद्धाम्ऽ इत्यर्धर्चेन उपदधाति कुम्भीम् ॥
[उप स्तृणीहि (12.3.37) इत्याज्येनोपस्तृणाति ॥ उपास्तरीः (12.3.38) इत्युपस्तीर्णामनुमन्त्रयते ॥ कौश्स्_8,2{61}.45-46 ॥]
दातार तूष्णीं पात्रीमाज्येनोपस्तृणाति ॥
[अदितेर्हस्ताम् (11.1.24), सर्वान् समागाः (12.3.36) इति मन्त्रोक्तम् ॥ कौश्स्_8,3{62}.1 ॥]
कर्ता ऽअदितेर्हस्ताम्ऽ इत्यृचा पत्न्या दर्वीं ग्राहयति ॥
[तत उदकमादाय पात्र्यामानयति ॥ दर्व्या कुम्भ्याम ॥ दर्विकृते तत्रैव प्रत्यानयति ॥ कौश्स्_8,3{62}.2-4 ॥]
दाता तूष्णीं स्रुवेण सकृदन्तराद् उदपात्रादुदकमादाय पात्र्यामानयति । पुनः दर्व्याम् । ओदनकुम्भ्यां च ॥
[दर्व्योत्तममपादाय तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ अथोद्धरति ॥ कौश्स्_8,3{62}.5-6 ॥]
सुहृदायवनेन अमुष्योदनस्य उत्तममादाय दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति । तस्मिन् दर्वीकृते शेषमन्तरोदपात्र एव पात्र्यां कृत्स्नमोदनमुद्धरति ॥
[उद्धृते यदपादाय धारयति तदुत्तरार्ध आदधाति ॥ अनुत्तराधरताया ओदनस्य यदुत्तरं तदुत्तरमोदन एवौदनः ॥ षष्ठ्यां शरत्सु (12.3.34) इति पश्चादग्नेरुपसादयति ॥ निधिं निधिपाः (12.3.42) इति त्रीणि काण्डानि करोति ॥ यद्यज्जाया (12.3.39) इति मन्त्रोक्तम् ॥ सा पत्यावन्वारभते ॥ अन्वारब्धेष्वत ऊर्ध्वं करोति ॥ अग्नी रक्षः (12.3.43) इति पर्यग्नि करोति ॥ कौश्स्_8,3{62}.7-14 ॥]
[बभ्रेरध्वर्यो (11.1.31), इदं प्रापम् (12.3.45) इत्युपर्यापानं करोति ॥ कौश्स्_8,3{62}.15 ॥]
ऽबभ्रेरध्वर्यो मुखम्ऽ इत्यर्धर्चेन दात्रा प्रेषितः । ऽअदितेर्हस्ताम्ऽ इत्यृचानुमन्त्रयते । ऽबभ्रेरध्वर्यो मुखम्ऽ इत्यर्धर्चेन दात्रा प्रेषितः ओदनस्योपरि गर्तं करोति ॥
[बभ्रेर्ब्रह्मन् इति ब्रूयादनध्वर्युम् ॥ कौश्स्_8,3{62}.16 ॥
घृतेन गात्रा (11.1.31), आ सिञ्च सर्पिः (12.3.45) इति सर्पिषा विष्यन्दयति ॥ कौश्स्_8,3{62}.17 ॥]
ऽघृतेन गात्राऽ इति पादेन प्रेषितः । तेनोदनं विष्यन्दयति । ऽकृण्वे पन्थाम्ऽ (11.1.28) इति पादं दातारं वाचयति । ऽबभ्रे रक्षःऽ (11.1.32) इत्यृचोदनमनुमन्त्रयते ॥
[वसोर्या धाराः (12.3.41), आदित्येभ्यो अङ्गिरोभ्यः (12.3.44) इति रसैरुपसिञ्चति ॥ प्रियं प्रियाणाम् (12.3.49) इत्युत्तरतोऽग्नेर्धेन्वादीन्यनुमन्त्रयते ॥ ताम् अत्यासरत् प्रथमा इति यथोक्तं दोहयित्वोपसिञ्चति ॥ अत्यासरत् प्रथमा धोक्ष्यमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर्व्यसृष्ट सुमना हिङ्कृणोति । बधान वत्समभिधेहि भुञ्जती निज्य गोधुगुप सीद दुग्धि । इरामस्मा ओदनं पिन्वमाना कीलालं घृतं मदमन्नभागम् । सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता । अतूर्णदत्ता प्रथमेदमागन् वत्सेन गां सं सृज विश्वरूपाम् इति ॥ कौश्स्_8,3{62}.18-21 ॥]
ऽअत्यासरत्प्रथमा धोक्ष्यमाणाऽ इत्यर्धर्चेन अभिसरन्तीं गामनुमन्त्रयते । ऽउप वत्सं सृजतऽ इति पादेन वत्सं संसर्जयति । ऽवाश्यते गौःऽ इति वाश्यामानामनुमन्त्रयते । ऽव्यसृष्ट सुमना हिङ्कृणोतिऽ इति हिङ्कुर्वतीमनुमन्त्रयते । ऽबधान वत्समभि धेहिऽ इति वत्सं बन्धयति । ऽभुञ्जती निज्यऽ इति नियोजयति । ऽगोधुगुप सीदऽ इति ब्राह्मणं दोहायोपसादयति । ऽदुग्धिऽ इत्यादि पदसहितेनार्धर्चेन दोहयति । ऽसा धावतुऽ इत्यर्धर्चेन विमुच्यमानां गामनुमन्त्रयते । ऽअतूर्णदत्ताऽ इत्यर्धर्चेन पुनः वत्सेन संसर्जयति । एवं दोहयित्वा दुग्धेनोदनमवसिच्य ॥
[इदं मे ज्योतिः (11.1.28) समग्नयः (12.3.50) इति हिरण्यमधिददाति ॥ कौश्स्_8,3{62}.22 ॥]
ऽइदं मे ज्योतिःऽ इति पादं दातारं वाचयति । हिरण्यमभिनिदधाति ॥
[एषा त्वचाम् (12.3.51) इत्यमोतं वासोऽग्रतः सहिरण्यं निदधाति ॥ कौश्स्_8,3{62}.23 ॥]
दाता सूक्तेन सर्वं सम्पातवन्तं करोति । ऽश्राम्यतःऽ (11.1.30) इतिप्रभृतिभिर्वा दातृपत्न्यपत्यानि अन्वारम्भं करोति ॥

[तत्र चेदुपाधिमात्रायां नखेन न लवणस्य कुर्यात् तेनैवास्य तद्वृथान्नं सम्पद्यते ॥ अहतं वासो दक्षिणत उपशेते ॥ तत्सहिरण्यम् ॥ तत्र द्वे उदपात्रे निहिते भवतः ॥ दक्षिणमन्यदन्तरमन्यत् ॥ अन्तरं यतोऽधिचरिष्यन् भवति ॥ बाह्यं जाङ्मायनम् ॥ तत उदकमादाय पात्र्यामानयति ॥ दर्व्या कुम्भ्याम् ॥ दर्विकृते तत्रैव प्रत्यानयति ॥ दर्व्योत्तममपादाय तत्सुहृद् दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ अथोद्धरति ॥ उद्धृते यदपादाय धारयति तदुत्तरार्ध आधाय रसैरुपसिच्य प्रतिग्रहीत्रे दातोपवहति ॥ कौश्स्_8,9{68}.11-23 ॥]
रसैरुपसिच्य प्रतिग्रहीत्रे दातोपवहति । कर्ता समीपे सर्वं करोति । अन्वारब्धेषु दातृपत्न्यपत्येषु अत ऊर्ध्वं करोति ॥
[तस्मिन्नन्वारब्धं दातारं वाचयति ॥ कौश्स्_8,9{68}.24 ॥]
तस्मिन्नन्वारब्धं दातारं कर्ता सूक्तं वाचयति ॥
[तन्त्रं सूक्तं पच्छः स्नानेन यौ ते पक्षौ यदतिष्ठः ॥ यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः । यदतिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन । अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ॥ क्रमध्वमग्निना नाकं, पृष्ठात् पृथिव्या अहमन्तरिक्षमारुहं, स्वर्यन्तो नापेक्षन्ते (4.14.2-4) उरुः प्रथस्व महता महिम्ना (11.1.19) इदं मे ज्योतिः (11.1.28) सत्याय च (12.3.46-48) इति तिस्रः, समग्नयः (12.3.50) इति सार्धमेतया ॥ कौश्स्_8,9{68}.25-27 ॥]
[यदक्षेषु (12.3.52) इति समानवसनौ भवतः ॥ द्वितीयं तत्पापचैलं भवति तन्मनुष्याधमाय दद्यादित्येके ॥ कौश्स्_8,4{63}.1-2 ॥]
तन्त्रं सूक्तं पच्छः स्नानेन सर्वं वाचयति । ततः पूर्वतन्त्रमुच्यते - ऽयौ ते पक्षौऽ इत्येका, ऽयदतिष्ठौ दिवःऽ इत्येका, ऽक्रमध्वमग्निनाऽ इत्येका, ऽपृष्टात्पृथिव्याःऽ इत्येका, ऽस्वर्यन्तो नापेक्षन्तेऽ इत्येका, ऽउरुः प्रथस्वऽ इत्येका, ऽइदं मे ज्योतिःऽ इत्येका एतत्सर्वं तन्त्रम् । ततः सवसूक्तं वाचयति । ततः प्रधानं ऽअग्ने जायस्वऽ (11.1) सूक्तं वाचयति । अथोत्तरतन्त्रमुच्यते । ऽसत्याय चऽ इति तिस्रः ऽसमग्नयःऽ इत्यृचा ऽएषा त्वचाम्ऽ इत्यर्धर्चः । इत्युत्तरतन्त्रम्.
अथ पाणितन्त्रमुच्यते-दाता ऽकर्मणे वाम्ऽ इति पाणी प्रक्षाल्य जीवाभिराचम्य ऽअहे दैधिषव्यऽ इत्यादि ऽविमृग्वरीम्ऽ (12.1.29) इत्येतया चोदङ्मुख उपविश्य अन्तरादुदपात्रात् स्रुवेण कर्तुर्हस्तेन जुहोति ॥
[ये भक्षयन्तः (2.35) इति पुरस्ताद्धोमाः ॥ अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सुमनो भव इत्याज्यभागौ ॥ कौश्स्_8,9{68}.30-31 ॥]
ऽये भक्षयन्तःऽ इति सूक्तेन पुरस्ताद्धोमान् हुत्वा ऽअग्ने त्वं नो अन्तमःऽ ऽगयस्फानो अमीवहाऽ इति द्वे आज्यभागौ च ॥
[पाणावुदकमानीयेत्युक्तम् ॥ प्रतिमन्त्रणान्तम् ॥ कौश्स्_8,9{68}.32-33 ॥ पाणावुदकमानीय ॥ अथामुष्यौदनस्यावदानानां च मध्यात् पूर्वार्धाच्च द्विरवदायोपरिष्टादुदकेनाभिघार्य जुहोति सोमेन पूतो जठरे सीद ब्रह्मणाम् (11.1.25) आर्षेयेषु नि दध ओदन त्वा (11.1.33-35) इति ॥ कौश्स्_8,6{65}.11-12 ॥]
स्वपाणावुदकमानीयाथामुष्यौदनस्यावदानानां च मध्यात् पूर्वार्धाच्च द्विरवदायोपरिष्टादुदकेनाभिघार्य जुहोति । हस्तमध्ये ऽसोमेन पूतःऽ इत्यर्धर्चेन । ऽआर्षेयेषु नि दध ओदन त्वाऽ इति त्रिभिरृग्भिरेकामाहुतिं हस्तमध्ये जुहोति ॥
[अथ प्राश्नाति ॥ अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन । इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे । तद्यथा
हुतमिष्टं प्राश्नीयाद् देवात्मा त्वा प्राश्नाम्यात्मास्यात्मन्नात्मानं मे मा हिंसीः इति प्राशितमनुमन्त्रयते ॥ योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एष सुहुतोऽस्त्वोदनः स मा मा हिंसीत् परमे व्योमन् ॥ सो अस्मभ्यमस्तु परमे व्योमन् इति दातारं वाचयति ॥ वीक्षणान्तं शतौदनायाः प्रातर्जपेन व्याख्यातम् ॥ कौश्स्_8,6{65}.13-16 ॥]
ततः कर्ता ऽअग्नेष्ट्वास्येनऽ इति द्वाभ्यां प्राश्नाति । ऽयोऽग्निर्नृमणाऽ इति प्राशितमनुमन्त्रयते । ऽसो अस्मभ्यमस्तु परमे व्योमन्ऽ इति पादं दातारं वाचयति ॥
[वाङ्म आसन् (19.60.1-2) इति मन्त्रोक्तान्यभिमन्त्रयते ॥ कौश्स्_8,7{66}.1 ॥]
ऽवाङ्म आसन्ऽ इति मन्त्रोक्तान्यभिमृशत इन्द्रियाणि ॥
[बृहता मनः (5.10.8) द्यौश्च मे (6.53) पुनर्मैत्विन्द्रियम् (7.67) इति प्रतिमन्त्रयते ॥ कौश्स्_8,7{66}.2 ॥]
ऽबृहता मनःऽ इत्यृचा, ऽद्यौश्च मेऽ इति तृचं सूक्तं, ऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचा एताभिः प्रतिमन्त्रणं कुर्यात् ॥
[शृतं त्वा हव्यम् (11.1.25) इति चतुर आर्षेयान् भृग्वङ्गिरोविद उपसादयति ॥ कौश्स्_8,4{63}.3 ॥]
अथ अथर्ववेदब्राह्मणानाम् आह्वानकालः । दाता ऽसोम राजन्ऽ (11.1.26) इत्यृचा चतुर आर्षेयान् भृग्वङ्गिरोविद आहूय ऽशृतं त्वा हव्यम्ऽ इत्यर्धर्चेन तानेव आसनेनोपवेशयति ॥
[शुद्धाः पूताः (11.1.27) इति मन्त्रोक्तम् ॥ पववं क्षेत्रात् (11.1.28) वर्षं वनुष्व (12.3.53) इत्यपकर्षति ॥ कौश्स्_8,4{63}.4-5 ॥]
ऽशुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणा हस्तेषुऽ इत्यृचा तेषां हस्तप्रक्षालनं दत्त्वा ऽपक्वं क्षेत्रात्ऽ पादत्रयेण ओदनपात्रं ब्राह्मणसमीपे करोति ॥
[प्रतिमन्त्रिते व्यवदायाश्नन्ति ॥ कौश्स्_8,7{66}.3 ॥
प्रतिमन्त्रिते व्यवदायाश्नन्ति ॥ कौश्स्_8,9{68}.34 ॥]
ते तस्यां पात्र्यां स्वयमेवौदनं गृहीत्वा प्राश्नन्ति । दाता ऽपुण्याहं दीर्घमायुरस्तुऽ इत्येवमादि वाचनम् ॥
[एके सहिरण्यां धेनुं दक्षिणाम् ॥ गोदक्षिणां वा कौरुपथिः ॥ सम्पातवतोऽभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ कौश्स्_8,4{63}.26-28 ॥
अत ऊर्ध्वं वाचिते हुते संस्थिते अमूं ते ददामि इति नामग्राहमुपस्पृशेत् ॥ सदक्षिणं कामस्तत् (19.52) इत्युक्तम् ॥ कौश्स्_8,9{68}.28-29 ॥]
ऽसहिरण्यां धेनुं दक्षिणां ब्रह्मौदनं तुभ्यमहं सम्प्रददेऽ इति सर्वेषु सवेषु सवनामग्रहणं कृत्वा दक्षिणां ददाति । कर्ता ऽक इदम्ऽ (3.29.7) ऽकामस्तदग्रेऽ (19.52), ऽयदन्नम्ऽ (6.71), ऽपुनर्मैत्विन्द्रियम्ऽ (7.67) इति सर्वं सदक्षिणं प्रतिगृह्णाति ॥
[एत भागं (6.122) एतं सधस्थाः (6.123) उलूखले (10.9.26) इति संस्थितहोमाः ॥ कौश्स्_8,4{63}.29 ॥]
दाता कर्तुर्हस्ते ऽएतं भागम्ऽ ऽएतं सधस्थाःऽ इति द्वाभ्यां सूक्ताभ्यां, ऽउलूखले मुसलेऽ इत्यृचा एताभिः संस्थितहोमान् जुहोति ॥
[आवपते ॥ अनुमन्त्रणं च ॥ कौश्स्_8,4{63}.30-31 ॥]
कर्ता ऽउलूखलेऽ इत्यृचा व्रीहीन् जुहोति ॥
[अग्नौ तुषान् (11.1.29) इति तुषानावपति ॥ कौश्स्_8,4{63}.6 ॥]
ऽअग्नौ तुषान्ऽ इति पादेन दाता तुषानग्नौ च जुहोति ॥
[परः कम्बूकान् (11.1.29) इति सव्येन पादेन फलीकरणानपोहति ॥ तन्वं स्वर्गः (12.3.54) इत्यन्यानावपति ॥ कौश्स्_8,4{63}.7-8 ॥]

ऽपरः कम्बूकान्ऽ इति त्रिभिः पादैर्दाता सव्येन पादेन फलीकरणानुदूहति तूष्णीम् ॥
[अग्ने प्रेहि (4.14.5) समाचिनुष्व (11.1.36) इत्याज्यं जुहुयात् ॥ कौश्स्_8,4{63}.9 ॥]
दाता ऽअग्ने प्रेहिऽ इत्यृचा ऽसमाचिनुष्वऽ इत्यृचा द्वे एताभिराज्यं जुहुयात् ॥
[इदावत्सराय इति व्रतविसर्जनमाज्यं जुहुयात् ॥ समिधोऽभ्यादध्यात् ॥ तत्र श्लोकौ -
यजुषा मथिते अग्नौ यजुषोपसमाहिते.
सवान् दत्त्वा सवाग्नेस्तु कथमुत्सर्जनं भवेत् ॥
वाचयित्वा सवान् सर्वान् प्रतिगृह्य यथाविधि.
हुत्वा सन्नतिभिस्तत्रोत्सर्गं कौशिकोऽब्रवीत् ॥
प्राञ्चोऽपराजितां वा दिशमवभृथाय व्रजन्ति ॥ अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥ ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ यथोक्ता दक्षिणा यथोक्ता दक्षिणा ॥ कौश्स्_8,9{68}.35-41 ॥]
अथ दाता व्रतं निवेद्य सावित्रव्रतं त्रिरात्रं यथाशास्त्रविहितमित्यादि व्रतश्रावणम् । ऽइदावत्सरायऽ इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात् व्रतसमापनीश्च । कर्ता सन्नतिभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा सवाग्निमुत्सृजति । प्राञ्चोऽपराजितां वा दिशमवभृथाय व्रजन्ति । ऽअम्बयो यन्तिऽ (1.4) ऽआपो हि ष्ठाःऽ (1.5) ऽशं नो देवीःऽ (1.6) ऽहिरण्यवर्णाःऽ (1.33) ऽयददःऽ (3.13) ऽकृष्णं नियानंऽ (6.22) ऽसस्रुषीःऽ (6.23) ऽहिमवतः प्र स्रवन्तिऽ (6.24) ऽवायोः पूतःऽ (6.51) ऽवैश्वानरो रश्मिभिःऽ (6.62) इत्यपां सूक्तैराप्लुत्य स्नात्वा प्रदक्षिणमावृत्याचमनं कृत्वाऽनपेक्षमाणाः प्रत्युदाव्रजन्ति । ब्राह्मणान् भक्तेनोपेप्सन्ति । वृद्धिश्राद्धं कुर्यादिति ॥
[एष सवानां संस्कारः ॥ अर्थलुप्तानि निवर्तन्ते ॥ यथासवं मन्त्रं सन्नमयति ॥ लिङ्गं परिहितस्यानन्तरं कर्म कर्मानुपूर्वेण लिङ्गं परीक्षेत ॥ लिङ्गेन वा ॥ कर्मोत्पत्त्यानुपूर्वं प्रशस्तम् ॥ अतथोत्पत्तेर्यथालिङ्गम् ॥ समुच्चयस्तुल्यार्थानां विकल्पो वा ॥ अथैतयोर्विभागः ॥ सूक्तेन पूर्वं सम्पातवन्तं करोति ॥ श्राम्यतः (11.1.30) इतिप्रभृतिर्वा सूक्तेनाभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ अनुवाकेनोत्तरं सम्पातवन्तं करोति ॥ प्राच्यै त्वा दिशे (12.3.55) इतिप्रभृतिभिर्वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ यथासवमन्यान् पृथग्वेति प्रकृतिः ॥ सर्वे यथोत्पत्त्याचार्याणां पञ्चौदनवर्जम् ॥ प्रयुक्तानां पुनरप्रयोगम् ॥ कौश्स्_8,4{63}.10-25 ॥]
इति ब्रह्मौदनप्रकृतिसर्वसवविधानं समाप्तम्.
यः एकं सवयज्ञं करोति तस्यैकक्रतुफलं भवति । यो बहूनि सवयज्ञानि करोति तस्य बहुक्रतुफलं भवति । अथर्ववेदविहिता यागा एते । आवसथ्याधाने सवयज्ञान् कृत्वा ततोऽग्न्याधानं कुर्यात् । ब्रह्मौदनं वा कृत्वाधानं कुर्यात् । आधाने नित्यं सवदानं कुर्यात् । अथवा फलकामोऽपि सवयज्ञं कुर्यात् । त्रिविधाः सवयज्ञा नित्यनैमित्तिककाम्या भवन्ति । मन्त्रे त्रिविधा विज्ञायन्ते । समाप्तो ब्रह्मौदनः । सवयज्ञाः काम्या भवन्ति । नैमित्तिका भवन्ति । त्रिविधा भवन्ति । ब्रह्मौदनतन्त्रेण वा कुर्यात् । सर्वेषां सर्वे सवाः । स्वर्गौदनतन्त्रेण वा कुर्यात् । सर्वेषां सवानां ब्रह्मौदनतन्त्रं स्वर्गौदनतन्त्रं वा भवति । अथवा सर्वे पृथक्तन्त्राः । एकमन्त्रो नास्ति । स तूष्णीं कर्तव्यः । द्वाविंशतिः सवाः । पञ्चौदन-शतौदन-अजौदनेषु विशेषः ॥
[आशानाम् (1.31) इति चतुःशरावम् ॥ यद् राजानः (3.29) इत्यवेक्षति ॥ कौश्स्_8,5{64}.1-2 ॥]
सवतन्त्र आज्यभागान्ते पश्वालम्भः । ऽयद् राजानःऽ इति षड्भिरविमीक्षते ॥
[पदस्नातस्य पृथक्पादेष्वपूपान् निदधाति ॥ कौश्स्_8,5{64}.3 ॥]
अवेः पादप्रक्षालनं करोति तूष्णीम् । चतुर्षु पादेषु पृथगपूपान् निदधाति ॥
[नाभ्यां पञ्चमम् ॥ कौश्स्_8,5{64}.4 ॥]
पञ्चममपूपं नाभ्यां वसनेन बन्धनं करोति ॥
[उन्नह्यन् वसनेन सहिरण्यं सम्पातवन्तम् ॥ कौश्स्_8,5{64}.5 ॥]
ततः ऽयद् राजानःऽ इति सूक्तेन सहिरण्यमविं सम्पातवन्तं करोति ॥
[आ नयैतम् (9.5.1) इत्यपराजितादजमानीयमानमनुमन्त्रयते ॥ कौश्स्_8,5{64}.6 ॥]
ऽआ नयैतम्ऽ इत्यृचा अविमानीयमानमनुमन्त्रयते ॥
[इन्द्राय भागम् (9.5.2) इत्यग्निं परिणीयमानम् ॥ कौश्स्_8,5{64}.7 ॥]
ऽइन्द्राय भागम्ऽ इत्यर्धर्चेनाग्निं परिणीयमानमनुमन्त्रयते ॥
[ये नो द्विषन्ति (9.5.2) इति सञ्ज्ञप्यमानम् ॥ कौश्स्_8,5{64}.8 ॥]
ऽये नो द्विषन्तिऽ इत्यर्धर्चेन सञ्ज्ञप्यमानमनुमन्त्रयते ॥
[प्र पदः (9.5.3) इति पदः प्रक्षालयन्तम् ॥ कौश्स्_8,5{64}.9 ॥]
ततः ऽप्र पदःऽ इत्यृचा पादप्रक्षालनं करोति ॥
[अनु च्छ्य श्यामेन (9.5.4) इति यथापरु विशसन्तम् ॥ कौश्स्_8,5{64}.10 ॥]
ऽअनु च्छ्य श्यामेनऽ इत्यर्धर्चेन विशसन्तमनुमन्त्रयते ॥
[ऋचा कुम्भीम् (9.5.5) इत्यधिश्रयन्तम् ॥ कौश्स्_8,5{64}.11 ॥]
ऽऋचा कुम्भीम्ऽ इति पादेन कुम्भीमधिश्रयणं करोति ॥
[आ सिञ्च (9.5.5) इत्यासिञ्चन्तम् ॥ कौश्स्_8,5{64}.12 ॥]
ऽआ सिञ्चोदकम्ऽ इत्यनेन कुम्भ्यामुदकं सिञ्चति ॥
[अव धेहि (9.5.5) इत्यवदधतम् ॥ कौश्स्_8,5{64}.13 ॥]
ऽअव धेह्येनम्ऽ इत्यनेन मांसान्यवदधतम् ॥
[पर्याधत्त (9.5.5) इति पर्यादधतम् ॥ कौश्स्_8,5{64}.14 ॥]
ऽपर्याधत्तऽ इति पादेन पर्याधत्तं करोति ॥
[शृतो गच्छतु (9.5.5) इत्युद्वासयन्तम् ॥ कौश्स्_8,5{64}.15 ॥]
ऽशृतो गच्छतुऽ इति पादेनोद्वासनं करोति ॥
[उत्क्रामातः (9.5.6) इति पश्चादग्नेर्दर्भेषूद्धरन्तम् ॥ कौश्स्_8,5{64}.16 ॥]
ऽउत्क्रामातःऽ इत्यृचा पश्चादग्नेर्दर्भेषूद्धरन्तं करोति ॥
[उद्धृतं अजमनज्मि (4.14.6) इत्याज्येनानक्ति ॥ कौश्स्_8,5{64}.17 ॥]
तदुपरि ऽअजमनज्मिऽ इत्यृचाज्येनानक्ति । एवं विशेषः । ततः ऽइयं महीऽ (11.1.8) इति चर्मास्तृणातीत्यादि ओदनसवविहितं भागादि कर्म करोति । यथैकवारं सहओदनमांसानामुद्वासनं भवति तथा कार्यम् । आज्यभागान्ते पश्वालम्भः ॥
[पञ्चौदनम् (4.14.7) इति मन्त्रोक्तम् ॥ ओदनान् पृथक्पादेषु निदधाति ॥ मध्ये पञ्चमम् ॥ दक्षिणं पश्चार्धं यूषेनोपसिच्य ॥ शृतमजम् (4.14.9) इत्यनुबद्धशिरःपादं त्वेतस्य चर्म ॥ अजो हि (4.14) इति सूक्तेन सम्पातवन्तं यथोक्तम् ॥ उत्तरोऽमोतं तस्याग्रतः सहिरण्यं निदधाति ॥ पञ्च रुक्मा (9.5.25) इति मन्त्रोक्तम् ॥ धेन्वादीन्युत्तरतः सोपधानमास्तरणं वासो हिरण्यं च ॥ आ नयैतम् (9.5) इति सूक्तेन सम्पातवन्तम् ॥ आञ्जनान्तं शतौदनायाः पञ्चौदनेन व्याख्यातम् ॥ कौश्स्_8,5{64}.18-28 ॥]

शेषं सूत्रपठितमवगन्तव्यम् । कर्तव्यं च । सवयज्ञानां परिगणनं क्रियते । ऽअग्ने जायस्वऽ (11.1) इत्यर्थसूक्तेन ब्रह्मौदनं ददाति । ऽपुमान् पुंसःऽ (12.3) इत्यनुवाकेन स्वर्गौदनं ददाति । ऽआशानाम्ऽ (1.31) इति चतुःशरावम् । ऽयद्राजानःऽ (3.29) इति पञ्चर्चेनाविसवम् । ऽअजो ह्यग्नेरजनिष्ठऽ (4.14) इति सूक्तेनाजौदनं सवम् । ऽआ नयैतम्ऽ (9.5) इत्यर्थसूक्तेन पञ्चौदनं सवम् ॥
[अघायताम् (10.9) इत्यत्र मुखमपिनह्यमानमनुमन्त्रयते ॥ सपत्नेषु वज्रम् (10.9.1) ग्रावा त्वैषः (10.9.2) इति निपतन्तम् ॥ वेदिष्टे (10.9.2) इति मन्त्रोक्तमास्तृणाति ॥ विंशत्योदनासु श्रयणीषु शतमवदानानि वध्रीसन्नद्धानि पृथगोदनेषूपर्यादधति ॥ मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमेऽभितः सप्तसप्तापूपान् परिश्रयति ॥ पञ्चदशे पुरोडाशौ ॥ अग्ने हिरण्यम् ॥ अपो देवीः (10.9.27) इत्यग्रत उदकुम्भान् ॥ बालास्ते (10.9.3) इति सूक्तेन सम्पातवतीम् ॥ प्रदक्षिणमग्निमनुपरिणीयोपवेशनप्रक्षालनाचमननुक्तम् ॥ कौश्स्_8,6{65}.1-10 ॥
शतौदनायां द्वादशं शतं दक्षिणाः । अधिकं ददतः कामप्रं सम्पद्यते ॥ कौश्स्_8,7{66}.4-5 ॥]
ऽअघायताम्ऽ इत्यर्थसूक्तेन शतौदनं सवम् ॥
[ब्रह्मास्य (4.34) इत्योदने ह्रदान् प्रतिदिशं करोति ॥ उपर्यापानम् ॥ तदभितश्चतस्रो दिश्याः कुल्याः ॥ ता रसैः पूरयति ॥ पृथिव्यां सुरयाद्भिराण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय ॥ कौश्स्_8,7{66}.6-10 ॥]
ऽब्रह्मास्य शीर्षम्ऽ इति सूक्तेन ब्रह्मास्यौदनं सवम् ॥
[यमोदनम् (4.35) इत्यतिमृत्युम् ॥ कौश्स्_8,7{66}.11 ॥]
ऽयमोदनम्ऽ इति सूक्तेनातिमृत्युं सवम् ॥
[अनड्वान् (4.11) इत्यनड्वाहम् ॥ कौश्स्_8,7{66}.12 ॥]
ऽअनड्वान् दाधारऽ इति सूक्तेन अनड्वाहं सवम् ॥
[सूर्यस्य रश्मीन् (4.38.5) इति कर्कीं सानूबन्ध्यां ददाति ॥ कौश्स्_8,7{66}.13 ॥]
ऽसूर्यस्य रश्मीन्ऽ इति तिसृभिरृग्भिः कर्कीं सवम् ॥
[आयं गौः पृश्निः (6.31) अयं सहस्रम् (7.22) इति पृश्निं गाम् ॥ कौश्स्_8,7{66}.14 ॥]
ऽआयं गौः पृश्निःऽ इति तिसृभिरृग्भिः पृश्निं सवम् । ऽअयं सहस्रम्ऽ इति द्वाभ्यां पृश्निं गां सवम् ॥
[देवा इमं मधुना संयुतं यवम् (6.30.1) इति पौनःशिलं मधुमन्थं सहिरण्यं सम्पातवन्तम् ॥ कौश्स्_8,7{66}.15 ॥]
ऽदेवा इमम्ऽ इत्यृचा पौनःशिलं सवम् ॥
[पुनन्तु मा देवजनाः (6.19) इति पवित्रं कृशरम् ॥ कौश्स्_8,7{66}.16 ॥]
ऽपुनन्तु माऽ इति सूक्तेन पवित्रं सवम् ॥
[कः पृश्निम् (7.104) इत्युर्वराम् ॥ कौश्स्_8,7{66}.17 ॥]
ऽकः पृश्निम्ऽ इत्यृचा उर्वरां सवम् ॥
[साहस्रः (9.4) इत्यृषभम् ॥ कौश्स्_8,7{66}.18 ॥]
ऽसाहस्रस्त्वेषःऽ इत्यर्थसूक्तेन ऋषभं सवम् ॥
[प्रजापतिश्च (9.7) इत्यनड्वाहम् ॥ कौश्स्_8,7{66}.19 ॥]
ऽप्रजापतिश्चऽ इति सूक्तेनानड्वाहं सवम् ॥
[नमस्ते जायमानायै (10.10) ददामि (12.4) इति वशामुदपात्रेण सम्पातवता सम्प्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ भूमिष्ट्वा (3.29.8) इत्येनां प्रतिगृह्णाति ॥ कौश्स्_8,7{66}.20-21 ॥]
ऽनमस्ते जायमानायैऽ इत्यर्थसूक्तेन वशां सवम् । ऽददामिऽ इत्यनुवाकेन वशां सवम् ॥
[उपमिताम् (9.3) इति यच्छालया सह दास्यन् भवति तदन्तर्भवत्यपिहितम् ॥ मन्त्रोक्तं तु प्रशस्तम् ॥ इटस्य ते वि चृतामि (9.3.18) इति द्वारमवसारयति ॥ प्रतीचीं त्वा प्रतीचीनः (9.3.22) इत्युदपात्रमग्निमादाय प्रपद्यन्ते ॥ तदन्तरेव सूक्तेन सम्पातवत् करोति ॥ उदपात्रेण सम्पातवता शालां सम्प्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ अन्तरा द्यां च पृथिवीं च (9.3.15) इत्येनां प्रतिगृह्णाति ॥ उपमिताम् (9.3.1) इति मन्त्रोक्तानि प्रचृतति ॥ मा नः पाशम् (9.3.24) इत्यभिमन्त्र्य धारयति ॥ नास्यास्थीनि (9.5.23) इति यथोक्तम् ॥ सर्वमेनं समादाय (9.5.23) इत्यद्भिः पूर्णे गर्ते प्रविध्य संवपति ॥ शतौदनां च ॥ कौश्स्_8,7{66}.22-23 ॥]
ऽउपमिताम्ऽ इत्यर्थसूक्तेन शालां सवम् । ऽतस्यौदनस्यऽ (11.3) इत्यर्थसूक्तेन बृहस्पतिं सवम् । अभिचारकामस्य । द्वाविंशतिसवयज्ञाः संहितायां पठ्यन्ते । स्वर्गौदनतन्त्रेण सर्वे कर्तव्याः । ब्रह्मौदनतन्त्रेण वा । ऽस्वर्गब्रह्मौदनौ तन्त्रम्ऽ (कौश्स् 68.4) इति वचनात् । शेषं समानम् ॥ अजौदनपचौदनशतौदनानां विशेषं पठितम् ॥
अध्यात्मविमुखो होमादेवाथर्वाङ्गिरसपारगे.
सवाष्टमेऽध्याये उक्ता नानाफलप्रदाः स्मृताः ॥
इति कौशिकपद्धतौ अष्टमोऽध्यायः ॥
अथ नवमोऽध्यायः
अथ क्रव्याच्छमनेन सहावसथ्याधानं व्याख्यास्यामः -
[पित्र्यमग्निं शमयिष्यञ्ज्येष्ठस्य चाविभक्तिन एकाग्निमाधास्यन् ॥ कौश्स्_9,1{69}.1 ॥]
सादित्ये अरणिप्रदानं करोति । दक्षिणतः पत्नी अधरारणिं गृह्णाति । उत्तरतो यजमान उत्तरारणिम् । अरणिलक्षणे अरणिः उक्ता तत्र मन्थने यो विधिश्च । ऽयो अश्वत्थःऽ (तैब्रा 1.2.1) इति द्वाभ्यां यजमानं वाचयति.
अर्चयित्वा दहेद्रूपं चन्दनेन समालभेत्.
उभयोर्वाग्यमनं तावत् पूर्णाहुतिविसर्जनम् ॥
[अमावास्यायां पूर्वस्मिन्नुपशाले गां द्विहायनीं रोहिणीमेकरूपां बन्धयति ॥ कौश्स्_9,1{69}.2 ॥]
अमावास्यायां पूर्वस्मिन्नुपशाले गां द्विवर्षां बन्धयति ॥
[निशि शामूलपरिहितो ज्येष्ठोऽन्वालभते ॥ कौश्स्_9,1{69}.3 ॥]
कम्बलपरिहितो यजमानो गामन्वालभते ॥
पत्न्यहतवसना ज्येष्ठम् ॥ कौश्स्_9,1{69}.4 ॥
पत्नीमन्वञ्च इतरे ॥ कौश्स्_9,1{69}.5 ॥
त्रिर्मन्त्रजपम् ॥
[अथैनानभिव्याहारयति अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगा 3 उ इति त्रिः ॥ कौश्स्_9,1{69}.6 ॥]
ऽअध्रिगो शमीध्वम्ऽ इति कर्ता मन्त्रं ब्रवीत्युषसि । कर्ता शान्त्युदकं च करोति । शान्तिगणे ऽयन्मातलीऽ (11.6.23) यावत् ॥
[अयमग्निः सत्पतिः (7.62) नडमा रोह (12.2) इत्यनुवाकं महाशान्तिं च शान्त्युदक आवपते ॥ कौश्स्_9,1{69}.7 ॥]
ऽअयमग्निः सत्पतिःऽ इत्यृचा ऽनडमा रोहऽ इत्यनुवाकः वास्तोष्पत्यो मातृनामा चातनः शान्तिगणश्च । एतानि शान्त्युदक आवपति । ततः पश्चाद् यन्मातलीं कृत्वा शान्त्युदकं समापयेत् । ततः कर्ता आचामयति सम्प्रोक्षति च । पत्नीं च ॥
[अग्ने अक्रव्याद् (12.2.42) इति भ्रष्ट्राद्दीपं धारयति ॥ कौश्स्_9,1{69}.8 ॥]
ऽअग्ने अक्रव्याद्ऽ इत्यृचा एकावसाना भ्राष्ट्रात् अम्बरीषान्महानसाद् वाग्निमानीयावसथ्याशालाया मध्ये । यवा यत्र स्थापितं तत्स्थानं भ्राष्ट्रमित्युच्यते । तस्मादग्निं विसृज्य भूमेः दीपं धारयति ॥
[भूमेश्चोपदग्धं समुत्खाय ॥ कौश्स्_9,1{69}.9 ॥]
तेन दीपेन भूमिं दग्धां समुत्खाय ॥
आकृतिलोष्टवल्मीकेनास्तीर्य ॥ कौश्स्_9,1{69}.10 ॥
[शकृत्पिण्डेनाभिलिप्य ॥ कौश्स्_9,1{69}.11 ॥]
सिकताभिः प्रकीर्याभ्युक्ष्य ॥ कौश्स्_9,1{69}.12 ॥
लक्षणं कृत्वा ॥ कौश्स्_9,1{69}.13 ॥
पुनरभ्युक्ष्य ॥ कौश्स्_9,1{69}.14 ॥
तस्यां व्रीहीयवावोप्येत्यादि सर्वं भवति ॥

[पश्चाल्लक्षणस्याभिमन्थनं निधाय ॥ कौश्स्_9,1{69}.15 ॥]
ततः पश्चाल्लक्षणस्याभिमन्थनं निधाय मन्थनस्थाने ॥
मन्थनस्थानमुच्यते -
[गोऽश्वाजावीनां पुंसां लोमभिरास्तीर्य व्रीहियवैश्च शकृत्पिण्डमभिविमृज्य प्राञ्चौ दर्भौ निदधाति ॥ कौश्स्_9,1{69}.16 ॥]
वृषभरोमाण्यश्वरोमाण्यजरोमाणि मेषरोमाणि पुरुषरोमाणि अग्निपतनस्थान आस्तीर्य व्रीहियवैश्च शुष्कगोमयानि च । प्राञ्चौ दर्भौ निदधाति ॥
[वृषणौ स्थः इत्यभिप्राण्यारण्यौ ॥ कौश्स्_9,1{69}.17 ॥
तयोरुपर्यधरारणिम् ॥ कौश्स्_9,1{69}.18 ॥
दक्षिणतोमूलाम् ॥ कौश्स्_9,1{69}.19 ॥
पश्चात्प्रजननाम् उर्वश्यसि इति ॥ कौश्स्_9,1{69}.20 ॥
आयुरसि इति मूलत उत्तरारणिमुपसन्धाय ॥ कौश्स्_9,1{69}.21 ॥]
ऽवृषणौ स्थःऽ इत्यनेन मन्त्रेण तत्रोपरि अरणी दत्त्वा तस्योपरि उच्छ्वासं ददाति । अरणिलक्षण उक्तं मन्थनविधानम् । ऽउर्वश्यसिऽ इति । ऽआयुरसिऽ इत्यनेन मन्त्रेण उत्तरारणिमूलमधरारणिना सह संयोज्यम् । पत्नी पश्चान्मुखी मन्थं धारयति । पूर्वाभिमुखो यजमानो मन्थति ॥
[पृतनाजितम् (7.63) इत्याहूय ॥ कौश्स्_9,1{69}.22 ॥]
ऽपृतनाजितम्ऽ इत्यृचाग्निमाह्वयति ॥
[अभिदक्षिणं ज्येष्ठस्त्रिरभिमन्थति ओं भूर्गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमानुष्टुभमो भूर्भुवः स्वर्जनदोम् इति ॥ कौश्स्_9,1{69}.23 ॥
अत ऊर्ध्वं यथाकामम् ॥ कौश्स्_9,1{69}.24 ॥]
ततो यजमानः प्रदक्षिणं त्रिरभिमन्थति । ऽओं भूर्गायत्रं छन्दोऽनुप्रजायस्वऽ इत्याद्यधिकृतो मन्त्रः । त्रिर्मन्त्रावृत्तिः । मन्थनमन्त्राः ॥ नवमेऽध्याये प्रथमा कण्डिका

70

[मन्थामि त्वा जातवेदः सुजातं जातवेदसम् । स नो जीवेष्वा भज दीर्घमायुश्च धेहि नः ॥ जातोऽजनिष्ठा यशसा सहाग्ने प्रजां पशूंस्तेजो रयिमस्मासु धेहि । आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वमायुर्गमेम ॥ उद्दीप्यस्व जातवेदोऽव सेदिं तुष्णां क्षुधं जहि । अपास्मत्तम उछत्वप ह्रीतमुखो जह्यप दुर्हार्द्दिशो जहि ॥ इहैवैधि धनसनिरिह त्वा समिधीमहि । इहैधि पुष्टिवर्धन इह त्वा समिधीमहि इति ॥ कौश्स्_9,2{70}.1 ॥
प्रथमया मन्थति ॥ कौश्स्_9,2{70}.2 ॥
द्वितीयया जातमनुमन्त्रयते ॥ कौश्स्_9,2{70}.3 ॥
तृतीययोद्दीपयति ॥ कौश्स्_9,2{70}.4 ॥
चतुर्थ्योपसमादधाति ॥ कौश्स्_9,2{70}.5 ॥
यत्त्वा क्रुद्धाः (12.2.5) इति च ओं भूर्भुवः स्वर्जनदोम् इति अङ्गिरसां त्वा देवानामादित्यानां व्रतेना दधे । द्यौर्महूनासि भूमिर्भूम्ना तस्यास्ते देव्यदितिरुपस्थेऽन्नादायान्नपत्याया दधत् इति ॥ कौश्स्_9,2{70}.6 ॥]
ऽमन्थामि त्वा जातवेदःऽ इत्यृचा मन्थति । ऽजातोऽजनिष्ठाःऽ इत्यृचा जातमनुमन्त्रयते । ऽउद्दीप्यस्वऽ इत्यृचा ज्वलन्तमनुमन्त्रयते । ऽइहैवैधि धनसनिःऽ इत्यृचा ऽयत्त्वा क्रुद्धाःऽ इत्यृचा च द्वाभ्यामग्नौ काष्ठान्यादधाति ॥
[लक्षणे प्रतिष्ठाप्योपोत्थाय ॥ कौश्स्_9,2{70}.7 ॥
अथोपतिष्ठते ॥ कौश्स्_9,2{70}.8 ॥
अग्ने गृहपते सुगृहपतिरहं त्वयाग्ने गृहपतिना भूयासम् । सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः इति ॥ कौश्स्_9,2{70}.9 ॥]
ऽओम् भूर्भुवः स्वःऽ इत्यादिमन्त्रेण लक्षणे प्रतिष्ठाप्य तत उपतिष्ठते । ऽसत्यं बृहत्ऽ (12.1.1-9) इति नवभिः ऽशान्तिवाऽ (12.1.59) इति दशम्या ऽउदायुषाऽ (3.31.10-11) इति द्वाभ्याम् ऽअग्ने गृहपतेऽ इत्यृचा वैतानाग्निमुपतिष्ठते ॥
[व्याकरोमि (12.2.32) इति गार्हपत्यक्रव्यादौ समीक्षते ॥ कौश्स्_9,2{70}.10 ॥]
ततः क्रव्यादं मन्थनात् पृथक्कृत्य ऽव्याकरोमिऽ इत्यृचा गार्हपत्यक्रव्यादौ च समीक्षते ॥
[शान्तमाज्यं गार्हपत्यायोपनिदधाति ॥ कौश्स्_9,2{70}.11 ॥]
शान्तमाज्यं गार्हपत्यसमीपे निदधाति ॥
[माषमन्थं क्रव्यादम् ॥ कौश्स्_9,2{70}.12 ॥]
माषमन्थं क्रव्यात्समीपे निदधाति ॥
[उप त्वा नमसा (3.15.7) इति पुरोनुवाक्या ॥ कौश्स्_9,2{70}.13 ॥]
तत आज्यसंस्कारं कृत्वा स्रुचं च सम्मृज्य प्रतप्य स्रवं स्रुचि ग्रहणं कृत्वा ऊर्ध्वस्थितः समिदुत्तरां ऽउप त्वा नमसाऽ इत्यृचान्ते ओंकारं कृत्वा पुरोनुवाक्यां वदेत् ॥
विश्वाहा ते (3.15.8) इति पूर्णाहुतिं जुहोति ॥ कौश्स्_9,2{70}.14 ॥
अस्मिन् काले पुण्याहवाचनं सायंहोमदानम् । दश गाः कर्त्रे दद्यात् । हिरण्यदानं सदस्येभ्यो ददाति । ब्राह्मणभोजनमुत्सर्गः शतादि यथाशक्ति वा ॥
[यो नो अग्निः (12.2.33) इति सह कर्त्रा हृदयान्यभिमृशन्ते ॥ कौश्स्_9,2{70}.15 ॥]
ऽयो नो अग्निःऽ इत्यृचा सह कर्त्रा सर्वे हृदयान्यभिमृशन्ति ॥ द्वितीया कण्डिका

71

[अंशो राजा विभजतीमावग्नी विधारयन् । क्रव्यादं निर्णुदामसि हव्यवाडिह तिष्ठतु इति विभागं जपति ॥ कौश्स्_9,3{71}.1 ॥]
ऽअंशो राजा विभजतिऽ इत्यृचा मन्त्रेण क्रव्यादं विभजति ॥
[सुगार्हपत्यः (12.2.45) इति दक्षिणेन गार्हपत्ये समिधमादधाति ॥ कौश्स्_9,3{71}.2 ॥]
ऽसुगार्हपत्यःऽ इत्यर्धर्चद्वयेन गार्हपत्ये शान्तसमिध आदधाति ॥
[यः क्रव्यात्तमशीशमम् इति सव्येन नडमयीं क्रव्यादि ॥ कौश्स्_9,3{71}.3 ॥]
ऽयः क्रव्यात्तमशीशमम्ऽ इति यजुषा वामेन हस्तेन नडमयीं समिधमादधाति । नडो नलः ॥
[अपावृत्य (12.2.34-39) इति मन्त्रोक्तं बाह्यतो निधाय ॥ कौश्स्_9,3{71}.4 ॥]
ऽअपावृत्यऽ इति षड्भिरृग्भिः क्रव्यादं गृहीत्वा एकाग्निं प्रदक्षिणं कृत्वा दक्षिणस्यां दिशि निष्क्रम्य ततो गृहद्वारे भूमौ निदधाति क्रव्यादम् ॥
[नडमा रोह (12.2.1) समिन्धते (12.2.11-12) इषीकां जरतीम् (12.2.54) प्रत्यञ्चमर्कम् (12.2.55) इत्युपसमादधाति ॥ कौश्स्_9,3{71}.5 ॥]
ततो ऽनडमा रोहऽ इत्यृचा, ऽसमिन्धतेऽ इति द्वे, ऽइषीकां जरतीम्ऽ इत्येका, ऽप्रत्यञ्चमर्कम्ऽ इत्येका । एताभिः पुराणी इषीका शरवीरिणतिल्पिञ्जिकानलाश्चैतानि काष्ठान्यादधाति सकृद्वामेन हस्तेन ॥
[यद्यग्निः (12.2.4) यो अग्निः (12.2.7) अविः कृष्णा (12.2.53) मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट क्रव्यादो अग्नीञ्छमयामि सर्वान् इति शक्त्या माषपिष्टानि जुहोति ॥ कौश्स्_9,3{71}.6 ॥]
ऽयद्यग्निःऽ इत्येका, ऽयो अग्निः क्रव्याद्ऽ इत्येका, ऽअविः कृष्णाऽ इत्येका, ऽमा नो रुरोःऽ इत्येका एताभिः शुक्त्या माषपिष्टं जुहोति ॥
[सीसं दर्व्यामवधायोद्ग्रथ्य मन्थं जुह्वञ्छमयेत् ॥ कौश्स्_9,3{71}.7 ॥]
तस्मिन् सीसं दर्विदण्डे बद्ध्वा ततो माषमन्थं दर्व्या जुहोति ॥
[नडमा रोह (12.2.1-4) इति चतस्रः अग्ने अक्रव्याद् (12.2.42) इमं क्रव्याद् (12.2.43) यो नो अश्वेषु (12.2.15) अन्येभ्यस्त्वा (12.2.16-18) हिरण्यपाणिम् (3.2.1.8-10) इति शमयति ॥ कौश्स्_9,3{71}.8 ॥]
ऽनडमा रोहऽ इति चतस्रः, ऽअग्ने क्रव्याद्ऽ इत्येका, ऽइमं क्रव्यादा विवेशऽ इत्येका, ऽयो नो अश्वेषु वीरेषुऽ इत्येका, ऽअन्येभ्यस्त्वा पुरुषेभ्यःऽ इति तिस्रः एतैर्मन्त्रैर्माषमन्थं जुहोति सकृत् क्रव्यादि । ऽहिरण्यपाणिम्ऽ इति तिसृभिः सक्तुमन्थं जुहोति । यथा शमयति तथा होतव्यम् ॥
[दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति ॥ कौश्स्_9,3{71}.9 ॥
शान्त्युदकेन सुशान्तं कृत्वावदग्धं समुत्खाय ॥ कौश्स्_9,3{71}.10 ॥
परं मृत्यो (12.2.21) इत्युत्थापयति ॥ कौश्स्_9,3{71}.11 ॥]
ततः जीर्णपिटके क्रव्यादं भस्म कृत्वा ततः शान्त्युदकेन तद्भूमिस्थानं सुशान्तं कृत्वा दग्धं खात्वा पिटके प्रक्षिप्य ततः ऽपरं मृत्योऽ इत्यृचा पिटकं यजमानशिरसि ददाति ॥
[क्रव्यादम् (12.2.8-10) इति तिसृभिर्ह्रीयमाणमनुमन्त्रयते ॥ कौश्स्_9,3{71}.12 ॥]
ऽक्रव्यादमग्निम्ऽ इति तिसृभिर्ह्रीयमाणमनुमन्त्रयते ॥
[दीपाद्याभिनिगदनात् प्रतिहरणेन व्याख्यातम् ॥ कौश्स्_9,3{71}.13 ॥]
वामेन हस्तेन दीपं धारयति । दक्षिणेन हस्तेन अलाबु उदकपूर्णं धारयति । शिरसि क्रव्यादपिटकमग्ने स्थित्वा वाग्यताः सर्वे पश्चाद् गच्छन्ति ॥
[अविः कृष्णा (12.2.53) इति निदधाति ॥ कौश्स्_9,3{71}.14 ॥]
अरण्ये ऊषरादिदेशे ऽअविः कृष्णाऽ इत्यृचा क्रव्यादपिटकं निदधाति । ततः अलाबूदकेन दीपमवसिच्य ऽयथा सूर्यऽ (10.1.32) इत्यृचा प्रदक्षिणमावृत्य तत आव्रजन्ति सर्वे ॥
[उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि ॥ कौश्स्_9,3{71}.15 ॥]
सीसं नदीफेनं लोहमृत्तिका एतानि त्रीणि द्रव्याणि यजमानस्याञ्जलौ दत्त्वा ॥
[अस्मिन् वयम् (12.2.13-14) यद्रिप्रम् (12.2.40) सीसे मृड्ढ्वम् (12.2.19-20) इत्यभ्यवनेजयति ॥ कौश्स्_9,3{71}.16 ॥]
ऽअस्मिन् वयं सङ्कुसुकेऽ इति द्वे, ऽयद्रिप्रं शमलम्ऽ इत्येका, ऽसीसे मृड्ढ्वम्ऽ इति द्वे इत्येतैर्मन्त्रैरुदकसहितेन सीसेन हस्तप्रक्षालनं करोति ॥
[कृष्णोर्णया पाणिपादान् निमृज्य ॥ कौश्स्_9,3{71}.17 ॥
इमे जीवाः (12.2.22) उदीचीनैः (12.2.29) इति मन्त्रोक्तम् ॥ कौश्स्_9,3{71}.18 ॥
त्रिः सप्त (12.2.29) इति कूद्या पदानि योपयित्वा नदीभ्यः ॥ कौश्स्_9,3{71}.19 ॥]
कृष्णोर्णया पाणिपादान् मार्जयित्वा निज्येष्ठाः ऽइमे जीवा वि मृतैःऽ इत्यृचा प्राङ्मुखा आगच्छन्ति । ऽउदीचीनैःऽ इत्यर्धर्चेन तत उदङ्मुखा आगच्छन्ति । अभिमन्त्रयते । ऽत्रिः सप्त कृत्वःऽ इत्यर्धर्चेन कूद्या पदानि लोपयित्वा आ नदीभ्यः ॥
[मृत्योः पदम् (12.2.30) इति द्वितीयया नावः ॥ कौश्स्_9,3{71}.20 ॥]
ऽमृत्योः पदम्ऽ इत्यर्धर्चेन द्वितीयया कूद्या पदानि लोपयति आ नावः ॥
[परं मृत्यो (12.2.21) इति प्राग्दक्षिणं कूदीं प्रविध्य ॥ कौश्स्_9,3{71}.21 ॥]
ऽपरं मृत्योऽ इत्येकया प्राग्दक्षिणस्यां दिशि कूदीं प्रक्षिपति ॥
[सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा ॥ कौश्स्_9,3{71}.22 ॥]
गृहसमीपे गत्वा सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा सप्त नावः कारयति । तासु प्रक्षिप्य सहिरण्याः सयवाः सर्वे भवन्ति ॥
[आ रोहत सवितुर्नावमेताम् (12.2.48) सुत्रामाणम् (7.6.3) महीमू षु (7.6.2) इति सहिरण्यां सयवां नावमारोहयति ॥ कौश्स्_9,3{71}.23 ॥]
ततः सर्वे नावमारोहन्ति । एतैर्मन्त्रैः कर्तानुमन्त्रयते । सकृन्मन्त्रः । ऽआ रोहत सवितुःऽ इत्यर्धर्चेन ऽसुत्रामाणंऽ ऽमहीमू षुऽ इत्येकैका । सकृन्मन्त्रः । सप्त नावान्ते सर्वे उत्तरन्ति ॥
[अश्मन्वती रीयते, उत्तिष्ठता प्रतरता सखायः (12.2.26-27) इत्युदीचस्तारयति ॥ कौश्स्_9,3{71}.24 ॥]
ऽअश्मन्वती रीयतेऽ इत्येका ऽउत्तिष्ठता प्र तरता सखायःऽ इत्येका एताभ्यामुदङ्मुखोत्तरतामनुमन्त्रयते । केचित् तस्मिन् नावां सहिरण्यं यवान् प्रक्षिप्य तत उत्तरन्ति । नवमेऽध्याये तृतीया कण्डिका

72

[उत्तरतो गर्त उदक्प्रस्रवणेऽश्मानं निदधात्यन्तश्छिन्नम् ॥ कौश्स्_9,4{72}.1 ॥]
उत्तरतो गर्त उदक्प्रस्रवणे कर्तव्यः । तस्मिन्नकर्णमश्मानमुदकमध्य निदधाति ॥
[तिरो मृत्युम् (12.2.23) इत्यश्मानमतिक्रामति ॥ कौश्स्_9,4{72}.2 ॥]
ऽतिरो मृत्युम्ऽ इति पादेनाश्मानं स्वपद्भ्यामतिक्रामति कर्ता ॥
[ता अधरादुदीचीः (19.2.41) इत्यनुमन्त्रयते ॥ कौश्स्_9,4{72}.3 ॥]
ऽता अधरादुदीचीःऽ इत्यृचानुमन्त्रयते ॥
[निस्सालाम् (2.14) इति शालानिवेशनं सम्प्रोक्ष्य ॥ कौश्स्_9,4{72}.4 ॥]
ऽनिःसालाम्ऽ इति सूक्तेनाग्निशालागृहं शान्त्युदकेन सम्प्रोक्ष्य ॥
[ऊर्जं बिभ्रत् (7.60) इति प्रपादयति ॥ कौश्स्_9,4{72}.5 ॥]
ऽऊर्जं बिभ्रत्ऽ इति प्रतिपादयति । सर्वत्र सूक्तप्रयोगः । एतयोः सर्वत्र विधिकर्म । सर्वे शालां प्रविशन्ति । केचिद् गृहद्वारे महाशान्तिं चतुर्गणीमुच्चैरभिनिगदन्ति । केचिन्न कुर्वन्ति । तत्र विकल्पः ॥
[वैश्वदेवीम् (12.2.28) इति वत्सतरीमालम्भयति ॥ कौश्स्_9,4{72}.6 ॥]
ऽवैश्वदेवीम्ऽ इत्यृचा वत्सिकामालम्भयति ॥
[इममिन्द्रम् (12.2.47) इति वृषम् ॥ कौश्स्_9,4{72}.7 ॥]
ऽइममिन्द्रम्ऽ इत्यर्द्धर्चत्रयेण वृषभमभिमन्त्रयते । अनड्वाहं वा ॥
[अनड्वाहम् (12.2.48) अहोरात्रे (12.2.49-52) इति तल्पमालम्भयति ॥ कौश्स्_9,4{72}.8 ॥]
ऽअहोरात्रे अन्वेषिऽ इति चतसृभिः शयनमालम्भयति ॥
[आ रोहतायुः (12.2.24-25) इत्यारोहति ॥ कौश्स्_9,4{72}.9 ॥]
ऽआ रोहतायुर्जरसम्ऽ इति द्वाभ्यामृग्भ्यां शयने सर्वे आरोहन्ति ॥
[आसीनाः (12.2.30) इत्यासीनामनुमन्त्रयते ॥ कौश्स्_9,4{72}.10 ॥]
ऽआसीना मृत्युम्ऽ इत्यर्द्धर्चेन शयन उपविश्यानुमन्त्रयते ॥
[पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य इमा नारीः (12.2.31) इति स्त्रीभ्यः प्रयच्छति ॥ कौश्स्_9,4{72}.11 ॥]
ऽइमा नारीरविधवाःऽ इत्यृचा दर्भपिञ्जूलीः घृतेनाभ्यज्य ततोऽभिमन्त्र्य स्त्रीभ्यः प्रयच्छति । एकैकां सर्वाभ्यः कुलस्त्रीभ्यः । त्रीणि दर्भपवित्राण्येकत्र बद्ध्वा पिञ्जूलीत्युच्यते । केचिद् एकं दर्भग्रन्थिं तं पिञ्जूलीत्युच्यते ॥
[इमे जीवा अविधवाः सुजामयः इति पुम्भ्य एकैकस्मै तिस्रस्तिस्रस्ता अध्यध्युदधानं परिचृत्य प्रयच्छति ॥ कौश्स्_9,4{72}.12 ॥]
ऽइमे जीवा अविधवाः सुजामयःऽ इत्यनेनाञ्जनेन सर्पिषा सह उदकं कृत्वा पिञ्जूलीरुदकघटोपरि भ्रामयित्वा यजमानादिपुरुषेभ्यः प्रयच्छति । एकैकस्मै पुरुषाय तिस्रस्तिस्रः ॥
[परं मृत्यो (12.2.21) व्याकरोमि (12.2.32) आ रोहत (12.2.24-25) अन्तर्धिः (12.2.44) प्रत्यञ्चमर्कम् (12.2.55) ये अग्नयः (3.21) नमो देववधेभ्यः (6.13) अग्नेऽभ्यावर्तिन्, अग्ने जातवेदः, सह रय्या, पुनरूर्जा इति ॥ कौश्स्_9,4{72}.13 ॥
अग्नेऽभ्यावर्तिन्नभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥
अग्ने जातवेदः शतं ते सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर्नो रयिमा कृधि ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्नन्या विश्वतस्परि ॥
पुनरूर्जा ववृत्स्व पुनरग्न इषायुषा । पुनर्नः पाह्यंहसः ॥ कौश्स्_9,4{72}.14 ॥]
ततः अभ्यातानान्तं कृत्वा ऽपरं मृत्योऽ इत्येका, ऽव्याकरोमिऽ इत्येका, ऽआ रोहतायुःऽ इति द्वे, ऽअन्तर्द्धिर्देवानाम्ऽ इत्येका, ऽप्रत्यञ्चमर्कम्ऽ इत्येका, ऽये अग्नयःऽ इति सप्तर्चं, ऽनमो देववधेभ्यःऽ इति तृचं सूक्तं, ऽअग्नेऽभ्यावर्तिन्ऽ इति चतस्र एतैर्मन्त्रैराज्यं जुहोति ॥
[शर्करान् स्वयमातृण्णाञ्छणरज्जुभ्यां विबध्य धारयति ॥ कौश्स्_9,4{72}.15 ॥]
शर्करान् स्वयञ्छिद्रितान् शणरज्जुभ्यां बद्ध्वाग्नेरुपरि निदधाति ॥
[समया खेन जुहोति ॥ कौश्स्_9,4{72}.16 ॥]
अन्यः शर्कराछिद्रेण एभिर्मन्त्रैराज्यं जुहोति ॥
[इमं जीवेभ्यः (12.2.23) इति द्वारे निदधाति ॥ कौश्स्_9,4{72}.17 ॥]
ऽइमं जीवेभ्यः परिधिम्ऽ इति त्रिभिः पादैः शर्करान् गृहद्वारे निखनति । ऽइमं जीवेभ्यःऽ इत्यृचा एकामाहुतिं जुहोति ॥
[जुहोत्येतयर्चा आयुर्दावा धनदावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा इति ॥ कौश्स्_9,4{72}.18 ॥
षट्सम्पातं माता पुत्रानाशयते ॥ कौश्स्_9,4{72}.19 ॥]
ऽआयुर्दावाऽ इत्यादिमन्त्रेण एकामाहुतिमाज्येन जुहोति । ऽआयुर्दावाऽ इत्यादि षट्कृत्वः भक्तं सम्पात्याभिमन्त्र्य ततो माता पुत्रान् दुहितॄश्चाशयति ॥
[उच्छिष्टं जायाम् ॥ कौश्स्_9,4{72}.20 ॥
संवत्सरमग्निं नोद्वायान्न हरेन्नाहरेयुः ॥ कौश्स्_9,4{72}.21 ॥
द्वादशरात्र इत्येके ॥ कौश्स्_9,4{72}.22 ॥]
यजमानोऽशित्वा उच्छिष्टं जायायै दद्यात् । ततोऽभ्यातानाद्युत्तरतन्त्रम् । इत्यावसथ्याधानं समाप्तम् ॥
[दश दक्षिणा ॥ कौश्स्_9,4{72}.23 ॥]
आधाने दश गा दक्षिणा दद्यात् ॥
पश्चादग्नेर्वाग्यतः संविशति ॥ कौश्स्_9,4{72}.24 ॥
[अपरेद्युरग्निं चेन्द्राग्नी च यजेत ॥ कौश्स्_9,4{72}.25 ॥]
ततः द्वितीयेऽहनि प्रतिपदि पाकयज्ञविधानेनाग्निमिन्द्राग्नी च यजति ॥
स्थालीपाकाभ्याम् ॥
ऽउदेनमुत्तरं नयऽ (6.5) इति तृचेन सूक्तेन ऽप्रजापते न त्वद्ऽ (7.80.3) इत्यृचा वा आग्नेयं चरुं जुहोति । ऽइन्द्राग्नी रोचनाऽ (कौश्स् । 5.2) इति चतुरृचेन ऐन्द्राग्नं चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । इत्यमावास्याधाने विशेषः ॥
[अग्निं चाग्नीषोमौ च पौर्णमास्याम् ॥ कौश्स्_9,4{72}.26 ॥]
अथ पौर्णमास्याधानम् । पाकयज्ञविधानतः । अग्निं चाग्नीषोमौ च पौर्णमास्यां यजेत । ऽउदेनमुत्तरं नयऽ (6.5) इति सूक्तेन ऽप्रजापते न त्वद्ऽ (7.80.3) इत्यृचा वाग्नेयं चरुं जुहोति । ऽअस्मै क्षत्रमग्नीषोमौऽ (6.54.2) इत्यृचा ऽअग्नीषोमा सवेदसाऽ (कौश्स् 5.1) इति तृचेन अग्नीषोमीयं चरुं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम्.
जीवत्पितृको वा मृतपितृको वा क्रव्याच्छमनसहितमेवाधानं भवति । न केवलाधानम् । जीवभ्रातृको वा मृतभ्रातृको वा क्रव्याच्छमनसहितमेवाधानं भवति । यदा पुनराधानं करोति तदा केवलाधानमेव भवति ॥
[प्रातर्द्वादशरात्रेऽग्निं पशुना यजेत ॥ कौश्स्_9,4{72}.29 ॥]
अथाधानाद् द्वादशरात्रावतीते त्रयोदशेऽहनि आग्नेयं पशुमालभेत । वशाविधानेन । ऽउदेनमुत्तरं नयऽ (6.5) इति तृचेन सूक्तेन शान्त्युदकमनुयोजयेत् । अवदानहोमे स्थालीपाकहोमे च त्रिषु स्थानेष्वपि सूक्तं भवति । शेषं समानम् ॥

[स्थालीपाकेन वोभयोर्विरिष्यति ॥ संवत्सरतम्यां शान्त्युदकं कृत्वा ॥ घृताहुतिर्नो भवाग्ने अक्रव्याहुतिर्घृताहुतिं त्वा वयमक्रव्याहुतिमुपनिषदेम जातवेदः इति चतुर उदपात्रे सम्पातानानीय ॥ तानुल्लुप्य ॥ पुरस्तादग्नेः प्रत्यङ्ङासीनो जुहोति हुते रमस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून्नः इति ॥ यद्युद्वायाद् भस्मनारणिं संस्पृश्य तूष्णीं मथित्वोद्दीप्य ॥ पूर्णहोमं हुत्वा ॥ सन्नतिभिराज्यं जुहुयाद् व्याहृतिभिर्वा ॥ संसृष्टे चैवं जुहुयात् ॥ अग्नावनुगते जायमाने ॥ आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य ॥ होम्यमुपसाद्य ॥ प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहा इत्यात्मन्येव जुहुयात् ॥ कौश्स्_9,4{72}.30-42 ॥]
अथवाग्नेयस्थालीपाकमाज्यभागान्तं कृत्वा ऽउदेनमुत्तरं नयऽ (6.5) इति तिसृभिः ऽप्रजापते न त्वद्ऽ (7.80.3) इत्यृचा स्थालीपाकं जुहोति । पार्वणाद्युत्तरतन्त्रम् । त्रयोदशेऽहनि कर्म समाप्तम् ॥
अथ सायंहोमविधानमुच्यते-
[सायम्प्रातर्व्रीहीनावपेद् यवान् वा अग्नये स्वाहा प्रजापतये स्वाहा इति ॥ सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति ॥ कौश्स्_9,4{72}.27-28 ॥
अथ प्रातरुत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरमग्निहोत्रं जुहुयात् ॥ सायमाशप्रातराशौ यज्ञावृत्विजौ ॥ कौश्स्_9,4{72}.43-44 ॥]

73

[पुरोदयादस्तमयाच्च पावकं प्रबोधयेद् गृहिणी शुद्धहस्ता.
समतीते सन्धिवर्णेऽथ हावयेत् सुसमिद्धे पावक आहुतीषहिः ॥ कौश्स्_9,5{73}.1 ॥
अग्नये च प्रजापतये च रात्रावादित्यश्च दिवा प्रजापतिश्च.
उदकं च समिधश्च होमेहोमे पुरो वरम् ॥ कौश्स्_9,5{73}.2 ॥
होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा.
सायम्प्रातर्होम एतेषामेकेनापि सिध्यति ॥ कौश्स्_9,5{73}.3 ॥
अभ्युद्धृतो हुतोऽग्निः प्रमादादुपशाम्यति.
मथिते व्याहृतीर्जुहुयात् पूर्णहोमौ यथऋत्विजौ ॥ कौश्स्_9,5{73}.4 ॥]
ऽअव्यसश्चऽ (19.69.1) ऽविष्णोर्मनसाऽ (कौश्स् 1.37) इति हविरुत्पवनम् । ऽऋतं त्वा सत्येनऽ (कौश्स् 3.4) इति त्रिः पर्युक्षणम् । ततस्तिस्रः समिध आदधाति । ऽअग्नये स्वाहाऽ ऽप्रजापतये स्वाहाऽ इति व्रीहीन् जुहोति । पुनस्तिस्रः समिध आदधाति । ऽसत्यं त्वर्तेनऽ इति पर्युक्षणं च ॥
[वनस्पतिभ्यो वानस्पत्येभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्यः इति प्राचीनं तदुदकं निनीयते ॥ कौश्स्_9,5{73}.5 ॥]
उदकं पात्रे कृत्वा ऽवनस्पतिभ्यो वानस्पत्येभ्यःऽ इति मन्त्रेण तदुदकं प्राचीनं निनयति ॥
[स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः इति दक्षिणतः ॥ कौश्स्_9,5{73}.6 ॥]
अपसव्यं कृत्वा ऽस्वधा प्रपितामहेभ्यःऽ इति मन्त्रेण दक्षिणतो निनयति ॥
[तार्क्ष्यायारिष्टनेमयेऽमृतं मह्यम् इति पश्चात् ॥ कौश्स्_9,5{73}.7 ॥]
ऽतार्क्ष्यायारिष्टनेमयेऽमृतं मह्यम्ऽ इति पश्चान्निनयति ॥
[सोमाय सप्तर्षिभ्यः इत्युत्तरतः ॥ कौश्स्_9,5{73}.8 ॥]
ऽसोमाय सप्तऋषिभ्यःऽ इति मन्त्रेण उत्तरतः निनयति । ऽयस्मात् कोशात्ऽ (19.72) इति । समाप्तं सायंहोमविधानम् । अथ प्रातर्होमे ऽसूर्याय स्वाहाऽ इति विशेषः । शेषं पूर्ववत् । प्रातर्होमविधानं समाप्तम् ॥
[परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेदन्नमग्नौ.
भूयो दत्त्वा स्वयमल्पं च भुक्त्वापराह्णे व्रतमुपैति याज्ञिकम् ॥ कौश्स्_9,5{73}.9 ॥
अनशनं ब्रह्मचर्यं च भूमौ शुचिरग्निमुपशेते सुगन्धिः ॥ कौश्स्_9,5{73}.10 ॥
अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्यामदर्शने.
आग्नेयं तु पूर्वं नित्यमन्वाहार्यं प्रजापतेः ॥ कौश्स्_9,5{73}.11 ॥
अर्घाहुतिस्तु सौविष्टकृती सर्वेषां हविषां स्मृता.
आनुमती वा भवति स्थालीपाकेष्वथर्वणाम् ॥ कौश्स्_9,5{73}.12 ॥
उभौ च सन्धिजौ यौ वैश्वदेवौ यथऋत्विजौ.
वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः ॥ कौश्स्_9,5{73}.13 ॥
यथाशक्ति यथाबलं ॥ हुतादोऽन्ये अहुतादोऽन्ये.
वैश्वदेवं हविरुभये सञ्चरन्ति ॥ कौश्स्_9,5{73}.14 ॥
ते सम्यञ्च इह मादयन्तामिषमूर्जं यजमाना यमिछत.
विश्वे देवा इदं हविरादित्यासः सपर्यत.
अस्मिन् यज्ञे मा व्यथिष्यमृताय हविष्कृतम् ॥ कौश्स्_9,5{73}.15 ॥
वैश्वदेवस्य हविषः सायम्प्रातर्जुहोति.
सायमाशप्रातराशौ यज्ञावेतौ स्मृतावुभौ ॥ कौश्स्_9,5{73}.16 ॥
अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ.
नाश्रोत्रियो नानवनिक्तपाणिर्नामन्त्रविज्जुहुयान्नाविपश्चित् ॥ कौश्स्_9,5{73}.17 ॥
बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्ते.
ब्राह्मणेन ब्रह्मविदा तु हावयेन्न स्त्रीहुतं शूद्रहुतं च देवगम् ॥ कौश्स्_9,5{73}.18 ॥
यस्तु विद्यादाज्यभागौ यज्ञान्मन्त्रपरिक्रमान्.
देवताज्ञानमावृत आशिषश्च कर्म स्त्रिया अप्रतिषिद्धमाहुः ॥ कौश्स्_9,5{73}.19 ॥]
अथ मध्याह्ने सायं च वैश्वदेवविधानमुच्यते । ऽअव्यसश्चऽ (19.69.1) इति जपित्वा प्रोक्षणं द्विः कृत्वा सिद्धस्य पाकस्योत्पवनं ऽऋतं त्वा सत्येनऽ इति पर्युक्षणम् । समिदाधानम् । ऽहुतादोऽन्येऽ ऽविश्वे देवा इदं हविःऽ इति द्वाभ्यां हविर्जुहोति । पुनः समिदाधानं पर्युक्षणं च

74

ततः बलिहरणं कुर्यात्-
[तयोर्बलिहरणम् ॥ कौश्स्_9,6{74}.1 ॥
अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतयेऽनुमतये इति हुत्वा ॥ कौश्स्_9,6{74}.2 ॥]
ऽअग्नये स्वाहा, इन्द्राग्निभ्यां स्वाहा, वास्तोष्पतये स्वाहा, प्रजापतये स्वाहा, अनुमतये स्वाहाऽ इत्यग्नौ हुत्वा ॥
[निष्क्रम्य बहिः प्राचीनं ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्यः इति बहुशो बलिं हरेत् ॥ कौश्स्_9,6{74}.3 ॥]
निःष्क्रम्य बहिः प्राचीनमुदकेन मण्डलं प्रोक्ष्य ततो बलिहरणं करोति । ब्रह्मणे बलिं हरामि वषट् । वैश्रवणाय बलिं हरामि वषट् । विश्वेभ्यो देवेभ्यो बलिं हरामि वषट् । सर्वेभ्यो देवेभ्यो बलिं हरामि वषट् । विश्वेभ्यो भूतेभ्यो बलिं हरामि वषट् । सर्वेभ्यो भूतेभ्यो बलिं हरामि वषट् । बहुशो बलिं हरेत् ॥
[द्विः प्रोक्षन् प्रदक्षिणमावृत्यान्तरुपातीत्य द्वारे ॥ कौश्स्_9,6{74}.4 ॥]
द्विः प्रोक्षन् प्रदक्षिणमावृत्यान्तरुपातीत्य तत अग्निगृहे प्रविश्य मध्ये ददाति ॥
[द्वार्ययोः मृत्यवे धर्माधर्माभ्याम् ॥ कौश्स्_9,6{74}.5 ॥]
ततो द्वारपार्श्वयोः ददाति । मृत्यवे बलिं हरामि वषट् । धर्माय बलिं हरामि वषट् । अधर्माय बलिं हरामि वषट् ॥
[उदधाने धन्वन्तरये समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्याम् इति ॥ कौश्स्_9,6{74}.6 ॥]
उदककलशे ददाति । धन्वन्तरये बलिं हरामि वषट् । समुद्राय बलिं हरामि वषट् । ओषधिवनस्पतिभ्यो बलिं हरामि वषट् । द्यावापृथिवीभ्यां बलिं हरामि वषट् ॥
[स्थूणावंशयोः दिग्भ्योऽन्तर्देशेभ्यः इति ॥ कौश्स्_9,6{74}.7 ॥]
स्थूणावंशे द्वयं ददाति । चतुर्षु कोणेष्वग्रे बलिचतुष्टयं ददाति । दिग्भ्योऽन्तर्देशेभ्यो बलिं हरामि वषट् ॥
[स्रक्तिषु वासुकये चित्रसेनाय चित्ररथाय तक्षोपतक्षाभ्याम् इति ॥ कौश्स्_9,6{74}.8 ॥]
पूर्वादिचतुर्दिक्षु बलिचतुष्टयं ददाति । वासुकये बलिं हरामि वषट् । चित्रसेनाय बलिं हरामि वषट् । चित्ररथाय बलिं हरामि वषट् । तक्षकोपतक्षाभ्यां बलिं हरामि वषट् ॥
[समन्तमग्नेः आशायै श्रद्धायै मेघायै श्रियै ह्रियै विद्यायै इति ॥ कौश्स्_9,6{74}.9 ॥]
अग्निसमीपे पूर्वासु दिक्षु ददाति । आशायै बलिं हरामि वषट् । श्रद्धायै बलिं हरामि वषट् । मेधायै बलिं हरामि वषट् । श्रियै बलिं हरामि वषट् । ह्रियै बलिं हरामि वषट् । विद्यायै बलिं हरामि वषट् ॥
[प्राचीनमग्नेः गृह्याभ्यो देवजामिभ्यः इति ॥ कौश्स्_9,6{74}.10 ॥]
अग्नेः प्राचीनं ऽगृह्याभ्यो देवजामिभ्यो बलिं हरामि वषट्ऽ । अपसव्यं ऽस्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः सपत्नीकेभ्यः स्वधाऽ इत्यनेन मन्त्रेण पात्रस्थं सर्वं भक्तं दक्षिणतो निनयति । ततः ऽयस्मात् कोशात्ऽ
(19.72) इति । इति वैश्वदेवं समाप्तम् । द्वौ कालौ वैश्वदेवस्य । सायङ्काले मध्याह्नकाले वैश्वदेवं कुर्यात् ॥
[भूयोऽभ्युद्धृत्य ब्राह्मणान् भोजयेत् ॥ कौश्स्_9,6{74}.11 ॥]
ततो हन्तकारं मनुष्येभ्यो गवादिकेभ्यश्च वायसेभ्योऽन्नं दद्यात् । ब्राह्मणान् भोजयेत् । एको द्वौ वा बहवः । यथाशक्ति अन्नं भिक्षुकेभ्यो ददाति ॥
[तदपि श्लोको वदति
माब्राह्मणाग्रतःकृतमश्नीयाद्विषवदन्नमन्नकाम्या.
देवानां देवो ब्राह्मणो भावो नामैष देवतेति ॥ कौश्स्_9,6{74}.12 ॥]
तत्र श्लोकः - मा ब्राह्मणाग्रतःकृतमश्नीयाद्विषवदन्नमन्नकाम्या । देवानां देवो ब्राह्मणो भावो नामैष देवतेति ॥
केवलाधान अरणिप्रदानादि माषाशितवर्ज्यं पूर्णाहुत्यन्तं कृत्वा तत्रैतत् षट्सम्पातं भक्तमशनं शान्तिर्भवति । यस्य पुनराधानं तस्य केवलाधान अधिकारः । क्रव्याच्छमनसहितं वाधानं भवति । न केवलं पुनराधानेऽपि क्रव्याच्छमनविकल्पेन । अथवाचमनं कृत्वा गोदानिकं वपनम् । ततः पूर्णाहुत्यन्तं कृत्वा षट्सम्पातानां भवति । शेषं समानम् । पुनराधानं समाप्तम् ॥
अथाग्रयणमुच्यते-
[आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलानुपसाद्य ॥ कौश्स्_9,6{74}.13 ॥]
शरद्वसन्तयोराग्रयणं भवति । ऽअव्यसश्चऽ (19.68) । बर्हिर्लवनम्, वेद्युत्तरवेद्यग्निप्रणयनं, अग्निप्रतिष्ठापनं, व्रतग्रहणं, पवित्रकरणं, पवित्रेणेध्मोपसमाधानं, बर्हिःप्रोक्षणं, स्तरणम् । निर्वापकाले एते देवता निर्वप्तव्याः । पञ्च चरवो भवन्ति । अग्नये जुष्टं निर्वपामि । इन्द्राग्निभ्यां द्यावापृथिवीभ्यां विश्वेभ्यो देवेभ्यो व्रीहिभिर्वा एतेषां निर्वापकार्यं च । चत्वारश्चरवः । ऽसोमायऽ इति पञ्चमं चरुं श्यामाकेन कुर्वन् । वसन्ते यवैः पञ्चमं कुर्यात् । ततः अभ्यातानान्तं कृत्वा शान्त्युदकं करोति उक्तेन विधानेन । आग्रयणे शारदे व्रीहीन् श्यामाकाश्चाशरदि वा । शालिश्यामाकाभावे तत्स्थाने यवानुपसाद्य । पञ्च चरवः सम्पद्यन्ते ॥
[अप्सु स्थालीपाकं श्रपयित्वा पयसि वा ॥ कौश्स्_9,6{74}.14 ॥]
तेनोदकेन चरूणां श्रपणं कुर्यात् । अथवा पयसि चरुश्रपणं कुर्यात् । ऽशुद्धाः पूताःऽ (11.1.17) ऽब्रह्मणा शुद्धाःऽ (11.1.18) इति द्वाभ्याम् । आपस्थाने पयः कुर्यात् । शेषं समानम् । तावत् समानं यावदाज्यभागौ हुत्वा । ततः पञ्चानां चरूणां होमः ॥
[सजूरृतुभिः सजूर्विधाभिः सजूरग्नये स्वाहा । सजूरिन्द्राग्निभ्यां सजूर्द्यावापृथिवीभ्यां सजूर्विश्वेभ्यो देवेभ्यः सजूरृतुभिः सजूर्विधाभिः सजूः सोमाय स्वाहा इत्येकहविर्वा स्यान्नानाहवींषि वा ॥ कौश्स्_9,6{74}.15 ॥]
ऽसजूरृतुभिःऽ इति प्रत्यृचम् । चत्वारश्चरवः ॥
[सौम्यं तन्वच्छ्यामाकं शरदि ॥ कौश्स्_9,6{74}.16 ॥]
पञ्चमं चरुं सौम्यं श्यामाकं पञ्चमया ऋचा जुहोति । पार्वणादिस्विष्टकृदन्तं कृत्वा ततः चरुप्राशनं करोति यजमानः । कर्ता प्राशित्रहरणे द्विरवदानं चरूणाम् । सर्वेषां प्रतिहविषां समुद्धृत्य प्राशित्रहरणे कृत्वा यजमानाय प्रयच्छति ॥
[अथ यजमानः प्राशित्रं गृह्णीते ॥ कौश्स्_9,6{74}.17 ॥
प्रजापतेष्ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ठ्यै मह्यं श्रिये मह्यं ह्रियै मह्यं यशसे मह्यमायुषे मह्यमन्नाय मह्यमन्नाद्याय मह्यं सहस्रपोषाय मह्यमपरिमितपौषाय इति ॥ कौश्स्_9,6{74}.18 ॥]
अथ यजमानः प्राशित्रं गृह्णीते ऽप्रजापतेष्ट्वा ग्रहं गृह्णामिऽ इति मन्त्रेण ॥
[अथ प्राश्नाति भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नः पितो मधुमा;म् आ विवेश शिवस्तोकाय तन्वो न एहि इति ॥ कौश्स्_9,6{74}.19 ॥]
ऽभद्रान्नः श्रेयःऽ इति मन्त्रेण प्राशित्रं प्राश्नाति । ततः स्मृतिविहितं भक्षणम् । द्विराचमनं कृत्वा ततः कर्म कुर्यात् ॥
[प्राशितमनुमन्त्रयते अमोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वाङसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादनामयैधि मा रिषाम इन्दो इति ॥ कौश्स्_9,6{74}.20 ॥]
ततः हृदयमन्वालभ्य जपति ऽअमोऽसि प्राणऽ इति मन्त्रेण । ऽस्वाहेष्टेभ्यःऽ इत्यादि उत्तरतन्त्रम् ॥

वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा ॥ कौश्स्_9,6{74}.21 ॥
[शक्त्या वा दक्षिणां दद्यात् ॥ कौश्स्_9,6{74}.22 ॥
नातिशक्तिर्विधीयते नातिशक्तिर्विधीयत इति ॥ कौश्स्_9,6{74}.23 ॥]
यथाशक्त्या दक्षिणां दद्यात् । आग्रयणं समाप्तम् । सर्वनित्यनैमित्तिककाम्येषु यथाशक्ति दक्षिणादानम् । ऽनातिशक्तिर्विधीयतेऽ इति वचनात् ॥
पितृभ्रात्राग्निसदनं नवमे को ति केन त्वा.
अवशिष्टानि कार्यार्थमग्न्याधेयं च कीर्तितम् ॥
अध्यायस्यान्ते सर्वे रुद्रस्य श्लोकाः

75

इति कौशिकपद्धतौ नवमोऽध्यायः समाप्तः ॥
अथ दशमोऽध्यायः
अथ विवाह उच्यते-
[अथ विवाहः ॥ कौश्स्_10,1{75}.1 ॥
ऊर्ध्वं कार्तिक्या आ वैशाख्याः ॥ कौश्स्_10,1{75}.2 ॥
याथाकामी वा ॥ कौश्स्_10,1{75}.3 ॥
चित्रापक्षं तु वर्जयेत् ॥ कौश्स्_10,1{75}.4 ॥
मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते (14.1.13) इति विज्ञायते मङ्गलं च ॥ कौश्स्_10,1{75}.5 ॥
सत्येनोत्तभिता (14.1.1-16) पूर्वापरम् (14.1.23-24) इत्युपदधीत ॥ कौश्स्_10,1{75}.6 ॥]
अभ्यातानान्तं कृत्वा ऽसत्येनोत्तभिताऽ इति षोडशभिरृग्भिः ऽपूर्वापरम्ऽ इति द्वाभ्यामाज्यं जुहोति ॥
[पतिवेदनं च ॥ कौश्स्_10,1{75}.7 ॥]
ऽआ नो अग्नेऽ (2.36) इति सूक्तेनागमकृशरं तिलमिश्रं सम्पात्याभिमन्त्र्य कुमारीमाशयति ॥
[युवं भगम् (14.1.31) इति सम्भलं सानुचरं प्रहिणोति ॥ कौश्स्_10,1{75}.8 ॥]
ऽयुवं भगम्ऽ इत्यर्धर्चेन पुरुषं शरावसम्पुटहस्तगृहीतं सानुचरं वरं प्रति प्रेषयति ॥
[ब्रह्मणस्पते (14.1.31) इति ब्रह्माणम् ॥ कौश्स्_10,1{75}.9 ॥
तद्विवृहाच्छङ्कमानो निशि कुमारीकुलाद्वलीकान्यादीप्य ॥ कौश्स्_10,1{75}.10 ॥
देवा अग्ने (14.2.32-36) इति पञ्चभिः सकृत्पूल्यान्यावापयति ॥ कौश्स्_10,1{75}.11 ॥]
ऽब्रह्मणस्पतेऽ इत्यर्धर्चेन ब्राह्मणं प्रेषयति ॥
[अनृक्षरा (14.1.34) इति कुमारीपालं प्रहिणोति ॥ कौश्स्_10,1{75}.12 ॥]
ऽअनृक्षराऽ इत्यृचा कुमारीरक्षार्थं पालं प्रेषयति ॥
[उदाहारस्य प्रतिहितेषुरग्रतो जघनतो ब्रह्मा ॥ कौश्स्_10,1{75}.13 ॥]
उदकहरणार्थमग्रतो धनुर्धरः । मध्य उदकहारः । पृष्ठतो ब्रह्मा ॥
[यो अनिध्मः (14.1.37) इत्यप्सु लोगं प्रविध्यति ॥ कौश्स्_10,1{75}.14 ॥]
ऽयो अनिध्मःऽ इत्यृचाप्सु लोष्टं प्रक्षिपति ॥
[इदमहम् (14.1.38) इत्यपोह्य ॥ कौश्स्_10,1{75}.15 ॥
यो भद्रः (14.1.38) इत्यन्वीपमुदच्य ॥ कौश्स्_10,1{75}.16 ॥]
ऽइदमहम्ऽ इत्यर्धर्चेनावगाह्य ऽयो भद्रःऽ इत्यर्धर्चेनोदकघटं पूरयति ॥
[आस्यै ब्राह्मणाः (14.1.39) इति प्रयछति ॥ कौश्स्_10,1{75}.17 ॥]
ऽआस्यै ब्राह्मणाःऽ इत्यर्धर्चेन घटमुदकहाराय प्रयच्छति । तत आगच्छन्ति ॥
[आव्रजतामग्रतो ब्रह्मा जघनतोऽधिज्यधन्वा ॥ कौश्स्_10,1{75}.18 ॥]
ब्रह्माग्रतः । तत उदकहारः । पृष्ठतो धनुर्धरः ॥
[बाह्यतः प्लक्षोदुम्बरस्योत्तरतोऽग्नेः शाखायामासजति ॥ कौश्स्_10,1{75}.19 ॥]
उत्तरतोऽग्नेः बाह्यतः प्लक्षशाखायामुपरि निदधाति ॥
तेनोदकार्थान् कुर्वन्ति ॥ कौश्स्_10,1{75}.20 ॥
[ततश्चान्वासेचनमन्येन ॥ कौश्स्_10,1{75}.21 ॥]
पुनः अन्वासेचनमन्येनोदकेन ॥
[अन्तरुपातीत्य अर्यमणम् (14.1.17) इति जुहोति ॥ कौश्स्_10,1{75}.22 ॥]
अन्तरुपातीत्य ऽअर्यमणम्ऽ इत्यृचाज्यं जुहोति ॥
[प्र त्वा मुञ्चामि (14.1.19) इति वेष्टं विचृतति ॥ कौश्स्_10,1{75}.23 ॥]
ऽप्र त्वा मुञ्चामिऽ इत्यृचा कुमारीकेशान् विचृतति ॥
[उशतीः (14.2.52) इत्येतया त्रिराधापयति ॥ कौश्स्_10,1{75}.24 ॥]
ऽउशतीःऽ इत्यृचा त्रिः समिध आदधाति कुमारी ॥
[सप्तभिरुष्णाः सम्पातवतीः करोति ॥ कौश्स्_10,1{75}.25 ॥]
ऽउशतीःऽ (14.2.52-58) इति सप्तभिरृग्भिरुष्णोदकं सम्पात्य ॥
[यदासन्द्याम् (14.2.65) इति पूर्वयोरुत्तरस्यां स्रक्त्यां तिष्ठन्तीमाप्लावयति ॥ कौश्स्_10,1{75}.26 ॥]
ऽयदासन्द्याम्ऽ इत्यृचा ईशानकोणे कुमारीं स्नापयति ॥
[यच्च वर्चः (14.1.35) यथा सिन्धुः (14.1.43) इत्युत्क्रान्तामन्येनावसिञ्चति ॥ कौश्स्_10,1{75}.27 ॥]
ऽयच्च वर्चःऽ, ऽयथा सिन्धुःऽ इति द्वाभ्याम् अन्येन शीतोदकेनोत्क्रममाणां कुमारीमवसिञ्चति ॥ दशमेऽध्याये प्रथमा कण्डिका

76

[यद् दुष्कृतम् (14.2.66-67) इति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयछति ॥ कौश्स्_10,2{76}.1 ॥]
ऽयद्दुष्कृतम्ऽ इति द्वाभ्यामृग्भ्यां वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयच्छति ॥
[तुम्बरदण्डेन प्रतिपाद्य निर्व्रजेत् ॥ कौश्स्_10,2{76}.2 ॥
तद्वन आसजति ॥ कौश्स्_10,2{76}.3 ॥]
तद् वासः तुम्बरदण्डेन गृहीत्वा गोपाटे प्रक्षिपति ॥
[या अकृन्तन् (14.1.45) त्वष्टा वासः (14.1.53) इत्यहतेनाछादयति ॥ कौश्स्_10,2{76}.4 ॥]
ऽया अकृन्तन्ऽ, ऽत्वष्टा वासःऽ इति द्वाभ्यामहतवस्त्रेणाच्छादयति ॥ यज्ञोपवीतवद् वाधूयं वस्त्रं बध्नाति ॥
[कृत्रिमः (14.2.68) इति शतदतैषीकेण कङ्कतेन सकृत् प्रलिख्य ॥ कौश्स्_10,2{76}.5 ॥]
ऽकृत्रिमःऽ इत्यृचा शतदन्तेषीकेन कङ्कतेन केशान् प्रतिलिख्य सकृत् ॥
[कृतयामम् इत्यवसृजति ॥ कौश्स्_10,2{76}.6 ॥]
ऽकृतयामम्ऽ इत्यनेन मन्त्रेण कङ्कतमवसृजति ॥
[आशासाना (14.1.42) सं त्वा नह्यामि (14.2.70) इत्युभयतःपाशेन योक्त्रेन सन्नह्यति ॥ कौश्स्_10,2{76}.7 ॥]
ऽआशासानाऽ, ऽसं त्वा नह्यामिऽ इति द्वाभ्याम् उभयतःपाशं योक्त्रं कटिप्रदेशे बध्नाति ॥
[इयं वीरुद् (1.34) इति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति ॥ कौश्स्_10,2{76}.8 ॥]
ऽइयं वीरुद्ऽ इति सूक्तेन ज्येष्ठीमधुमणिं सम्पात्याभिमन्त्र्य रक्तसूत्रेणानामिकायां बध्नाति ॥
[अन्ततो ह मणिर्भवति बाह्यो ग्रन्थिः ॥ कौश्स्_10,2{76}.9 ॥]
वर आगते सति ब्राह्मणान् स्वस्ति वाचयित्वा वराय मधुपर्कं दत्त्वा कौतुकानि कारयेत् । कङ्कणबन्धनयवमधूकमालादर्पणग्रहणादि कौतुकं च सर्वं तूष्णीं लोकाचारात् ॥
[भगस्त्वेतः (14.1.20) इति हस्तेगृह्य निर्णयति ॥ कौश्स्_10,2{76}.10 ॥]
उपाध्यायः कौतुकगृहे प्रविश्य कुमारीं हस्ते गृहीत्वा निर्णयति ऽभगस्त्वेतःऽ इत्यृचा ॥
[शाखायां युगमाधाय दक्षिणतोऽन्यो धारयति ॥ कौश्स्_10,2{76}.11 ॥]
अन्यो दक्षिणतः शाखायां युगमाधायाग्रतो धारयति ॥
[दक्षिणस्यां युगधुर्युत्तरस्मिन् युगतर्द्मनि दर्भेण विग्रथ्य शं ते (14.1.40-41) इति ललाटे हिरण्यं संस्तभ्य जपति ॥ कौश्स्_10,2{76}.12 ॥
तर्द्म समयावसिञ्चति ॥ कौश्स्_10,2{76}.13 ॥]
ललाटप्रदेशे ऽशं ते हिरण्यम्ऽ इति द्वाभ्यां युगच्छिद्रे हिरण्यं दर्भेण बद्ध्वा तत उदकं छिद्रेणावसिञ्चति तूष्णीम् ॥
[उपगृह्योत्तरतोऽग्नेः अङ्गादङ्गात् (14.2.69) इति निनयति ॥ कौश्स्_10,2{76}.14 ॥]
युगच्छिद्रोदकं गृहीत्वा ऽअङ्गादङ्गात्ऽ इत्यृचोत्तरतोऽग्नेर्निनयति ॥
[स्योनम् (14.1.47) इति शकृत्पिण्डेऽश्मानं निदधाति ॥ कौश्स्_10,2{76}.15 ॥]
ऽस्योनं ध्रुवम्ऽ इत्यर्धर्चेन शकृत्पिण्डेऽश्मानं निदधाति ॥
[तमा तिष्ठ (14.1.47) इत्यास्थाप्य ॥ कौश्स्_10,2{76}.16 ॥]
ऽतमा तिष्ठऽ इत्यर्धर्चेनाश्मनोपरि कुमारीं स्थापयति ॥
[इयं नारी (14.2.63) इति ध्रुवां तिष्ठन्तीं पूल्यान्यावापयति ॥ कौश्स्_10,2{76}.17 ॥]
ऽइयं नारीऽ इत्यृचा तिष्ठन्ती कुमारी त्रीन् लाजाञ्जलीन् जुहोति ॥
[त्रिरविछिन्दतीं चतुर्थी कामाय ॥ कौश्स्_10,2{76}.18 ॥]
त्रिरविच्छिन्दतीं कामाय चतुर्थीम् । ततः पिता दानकाले नामगोत्रं कुरुते । अमुकप्रपौत्राय अमुकपौत्राय अमुकपुत्राय अमुकप्रपौत्रीं अमुकपौत्रीं अमुकपुत्रीं अमुकीं सहिरण्यां सवस्रालङ्कारां तुभ्यं सम्प्रददे ॥
[येनाग्निः (14.1.48-52) इति पाणिं ग्राहयति ॥ कौश्स्_10,2{76}.19 ॥]
ततः ऽयेनाग्निःऽ पञ्चभिः वरः पाणिग्रहणं करोति । वरः मन्त्रं जपति । ऽआ नो अग्नेऽ (2.36) ऽसत्येनोत्तभिताऽ (14.1) इत्यनुवाकं ऽवि हि सोतोरसृक्षतऽ (20.126) इति वृषाकपिं ब्राह्मणाः सूक्तं पठन्ति । ऽसहृदयम्ऽ (3.30) इति केचित् ॥
[अर्यम्णः (14.1.39) इत्यग्निं त्रिः परिणयति ॥ कौश्स्_10,2{76}.20 ॥]
ऽअर्यम्णःऽ इत्यर्धर्चेनाग्निं त्रिः परिणयति । चतुर्थी लोकाचारात् । सकृन्मन्त्रः ॥
[सप्त मर्यादाः (5.1.6) इत्युत्तरतोऽग्नेः सप्त लेखा लिखति प्राच्यः ॥ कौश्स्_10,2{76}.21 ॥]
ततः ऽसप्त मर्यादाःऽ इत्यृचोत्तरतोऽग्नेः सप्त लेखा लिखति प्राच्यः ॥
[तासु पदान्युत्क्रामयति ॥ कौश्स्_10,2{76}.22 ॥
इषे त्वा सुमङ्गलि प्रजावति सुसीमे इति प्रथमम् ॥ कौश्स्_10,2{76}.23 ॥
ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा सम्पदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुसीमे इति सप्तमं सखा सप्तपदी भव इति ॥ कौश्स्_10,2{76}.24 ॥]
ऽइषे त्वा सुमङ्गलिऽ इति सप्तभिर्मन्त्रैः तासु लेखासूपरि कुमारी पदानि ददाति ॥
[आ रोह तल्पम् (14.2.31) भगस्ततक्ष (14.1.60) इति तल्प उपवेशयति ॥ कौश्स्_10,2{76}.25 ॥]
ऽआ रोह तल्पम्ऽ, ऽभगस्ततक्षऽ इति द्वाभ्यामृग्भ्यां तल्प उपवेशयति ॥
उपविष्टायाः सुहृत् पादौ प्रक्षालयति ॥ कौश्स्_10,2{76}.26 ॥
[प्रक्षाल्यमानावनुमन्त्रयते इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ सुभगौ सुपत्न्याः प्रजां पशून् दीर्घमायुश्च धत्ताम् इति ॥ कौश्स्_10,2{76}.27 ॥]
प्रक्षाल्यमानावनुमन्त्रयते ऽइमौ पादौऽ इत्यृचा ॥
[अहं वि ष्यामि, प्र त्वा मुञ्चामि (14.1.57-58) इति योक्त्रं विचृतति ॥ कौश्स्_10,2{76}.28 ॥]
ऽअहं वि ष्यामिऽ, ऽप्र त्वा मुञ्चामिऽ इति द्वाभ्यां कुमारी कटिवेष्टितं योक्त्रं विचृतति ॥
[अपरस्मिन् भृत्याः संरभन्ते ॥ कौश्स्_10,2{76}.29 ॥
ये जयन्ति ते बलीयांस एव मन्यते ॥ कौश्स्_10,2{76}.30 ॥
बृहस्पतिना (14.2.53-58) इति सर्वसुरभिचूर्णान्यृचर्चा काम्पीलपलाशेन मूर्ध्न्यावपति ॥ कौश्स्_10,2{76}.31 ॥]
ततः ऽबृहस्पतिनाऽ इति षड्भिरृग्भिः सर्वौषधिं प्रत्यृचं काम्पीलपलाशेन मूर्ध्निं आवपति ॥
[उद्यछध्वम्, भगस्ततक्ष, (14.1.59-60) अभ्रातृघ्नीं (14.1.62) इत्येकैकयोत्थापयति ॥ कौश्स्_10,2{76}.32 ॥]
ऽउद्यच्छध्वंऽ, ऽभगस्ततक्षऽ, ऽअभ्रातृघ्नींऽ इत्येकैकया ऋचा उत्थापयति कुमारीम् ॥
[प्रति तिष्ठ (14.2.15) इति प्रतिष्ठापयति ॥ कौश्स्_10,2{76}.33 ॥]
ऽप्रति तिष्ठऽ इत्यृचा प्रतिष्ठापयति । अभ्यातानाद्युत्तरतन्त्रम् । इति विवाहः समाप्तः ॥ दशमे द्वितीया कण्डिका

77

अथोद्वाह उच्यते-
[सुकिंशुकम् (14.1.61) रुक्मप्रस्तरणम् (14.2.30) इति यानमारोहयति ॥ कौश्स्_10,3{77}.1 ॥]
अभ्यातानान्तं कृत्वा ऽसुकिंशुकम्ऽ ऽरुक्मप्रस्तरणम्ऽ इति द्वाभ्यामृग्भ्यां यानमश्वादि सम्पात्याभिमन्त्र्य तत उत्तरतन्त्रम् । ततो वरवधू आरोहयति ॥
[एमं पन्थाम् (14.2.8) ब्रह्मापरम् (14.1.64) इत्यग्रतो ब्रह्मा प्रपद्यते ॥ कौश्स्_10,3{77}.2 ॥]
ऽएमं पन्थाम्ऽ, ऽब्रह्मापरम्ऽ इति द्वे ऋचौ जपित्वा पथि गच्छतोः वरवध्वोः अग्रे कर्ता व्रजति ॥
[मा विदन् (14.2.11) अनृक्षरा (14.1.34) अध्वानम् इत्युक्तम् ॥ कौश्स्_10,3{77}.3 ॥]
ऽमा विदन्ऽ ऽअनृक्षराःऽ इति द्वाभ्यामध्वानं दक्षिणेन प्रक्रामति कर्ता ॥
[येदं पूर्वा (14.2.74) इति तेनान्यस्यामूढायां वाधूयस्य दशां चतुष्पथे दक्षिणैरभितिष्ठति ॥ कौश्स्_10,3{77}.4 ॥]
येनैव यानेन सा ऊढा तेनैव यदा अन्या ऊढा भवति तदा इदं प्रायश्चित्तं भवति । ऽयेदं पूर्वाऽ इत्यृचा कर्ता वाधूयस्य दशाखण्डं गृहीत्वा चतुष्पथे दत्त्वा दक्षिणेन पादेन तिष्ठति ॥
स चेदुभयोः शुभकामो भवति सूर्यायै देवेभ्यः (14.2.46) इत्येतामृचं जपति ॥ कौश्स्_10,3{77}.5 ॥
समृछत स्वपथोऽनवयन्तः सुसीमकामावुभे विराजावुभे सुप्रजसौ इत्यतिक्रमयतोऽन्तरा ब्रह्माणम् ॥ कौश्स्_10,3{77}.6 ॥
[य ऋते चिदभिश्रिषः (14.2.47) इति यानं सम्प्रोक्ष्य विनिष्कारयति ॥ कौश्स्_10,3{77}.7 ॥]
तत ऽय ऋते चिदभिश्रिषःऽ इत्यृचा यानं यानं सम्प्रोक्ष्य विनिष्कारयति ॥
[सा मन्दसाना (14.2.6) इति तीर्थे लोगं प्रविध्यति ॥ कौश्स्_10,3{77}.8 ॥]
ऽसा मन्दसानाऽ इत्यृचा नद्यां लोष्टं प्रक्षिप्य तत उत्तरन्ति ॥
[इदं सु मे (14.2.9) इति महावृक्षेषु जपति ॥ कौश्स्_10,3{77}.9 ॥]
ऽइदं सु मेऽ इत्यृचा महावृक्षेषु जपति ॥
[सुमङ्गलीः (14.2.28) इति वध्वीक्षीः प्रति जपति ॥ कौश्स्_10,3{77}.10 ॥]
सुमङ्गलीः इति वध्वीक्षीः प्रति जपति ॥
[या ओषधयः (14.2.7) इति मन्त्रोक्तेषु ॥ कौश्स्_10,3{77}.11 ॥]
द्वैभेदे ऽया ओषधयःऽ इत्यृचं जपति । व्रीहियवादिक्षेत्रं दृष्ट्वा वने वृक्षादि नद्यादिकं च ॥
[ये पितरः (14.2.73) इति श्मशानेषु ॥ कौश्स्_10,3{77}.12 ॥]
ऽये पितरःऽ इत्यृचं श्मशानेषु जपति ॥
[प्र बुध्यस्व (14.2.75) इति सुप्तां प्रबोधयेत् ॥ कौश्स्_10,3{77}.13 ॥]
ऽप्र बुध्यस्वऽ इत्यृचा सुप्तां प्रबोधयेत् । यदि पथि स्वपिति ॥
[सं काशयामि (14.2.12) इति गृहसङ्काशे जपति ॥ कौश्स्_10,3{77}.14 ॥]
ऽसं काशयामिऽ इति स्वपितृगृहसङ्काशे समीपे जपति ॥
[उद्व ऊर्मिः (14.2.16) इति यानं सम्प्रोक्ष्य विमोचयति ॥ कौश्स्_10,3{77}.15 ॥]
ऽउद्व ऊर्मिःऽ इत्यृचा यानं सम्प्रोक्ष्य विमोचयति ॥
[उत्तिष्ठेतः (14.2.19) इति पत्नी शालां सम्प्रोक्षति ॥ कौश्स्_10,3{77}.16 ॥]
ऽउत्तिष्ठेतः किमिच्छन्तीऽ इत्यृचा पत्नी शालां सम्प्रोक्षति ॥
[स्योनम् (14.1.47) इति दक्षिणतो वलीकानां शकृत्पिण्डेऽश्मानं निदधाति ॥ कौश्स्_10,3{77}.17 ॥]
ऽस्योनम्ऽ इत्यर्धर्चेन दक्षिणतः गृहपार्श्वे वलीकानां शकृत्पिण्डेऽश्मानं निदधाति ॥
[तस्योपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि ॥ कौश्स्_10,3{77}.18 ॥]
तस्योपरि मध्यमपलाशे घृते चत्वारि दूर्वाग्राणि मुञ्चति ॥
[तमा तिष्ठ (14.1.47) इत्यास्थाप्य ॥ कौश्स्_10,3{77}.19 ॥]
तस्योपरि वधूमास्थापयति ऽतमा तिष्ठऽ इत्यर्धर्चेन ॥
[सुमङ्गली प्रतरणी (14.2.26) इह प्रियम् (14.1.21) मा हिंसिष्टम्, ब्रह्मापरम् (14.1.63-64) इति प्रत्यृचं प्रपादयति ॥ कौश्स्_10,3{77}.20 ॥]
ऽसुमङ्गली प्रतरणीऽ इत्यृचा, ऽइह प्रियम्ऽ इत्यृचा, ऽमा हिंसिष्टं कुमार्यम्ऽ इत्यृचा, ऽब्रह्मापरम्ऽ इत्यृचा एताभिश्चतसृभिः वधूवरौ गृहं प्रवेशयति ॥
[सुहृत् पूर्णकंसेन प्रतिपादयति ॥ कौश्स्_10,3{77}.21 ॥]
पृष्ठतः सुहृत् पूर्णकलशं फल-अक्षतसहितं हस्ते कृत्वा वधूं प्रवेशयति ॥
[अघोरचक्षुः (14.2.17-18) इत्यग्निं त्रिः परिणयति ॥ कौश्स्_10,3{77}.22 ॥]
ऽअघोरचक्षुःऽ इति द्वाभ्यामृग्भ्यामग्निं प्रज्वाल्य ततो हस्तग्रहणं कृत्वा वरः परिणयति । पितृगृहे । त्रिर्मन्त्रावृत्तिः । तूष्णीं चतुर्थम् ॥
[यदा गार्हपत्यम् (14.2.20) सूर्यायै देवेभ्यः (14.2.46) इति मन्त्रोक्तेभ्यो नमस्कुर्वतीमनुमन्त्रयते ॥ कौश्स्_10,3{77}.23 ॥]
ततो गृहदेवतानमस्कारान् कुर्वतीं वधूमनुमन्त्रयते ऽयदा गार्हपत्यम्ऽ, ऽसूर्यायै देवेभ्यःऽ इति द्वाभ्यामृग्भ्याम् ॥ दशमे तृतीया कण्डिका

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc