कौशिकपद्धति · श्लोक 138-141
[अष्टका]
अष्टकाकर्म उच्यते-
[अष्टकायामष्टकाहोमाञ्जुहुयात् ॥ तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षीरौदनस्तिलौदनो यथोपपादिपशुः ॥ कौश्स्_14,2{138}.2 ॥]
माघकृष्णाष्टका एकाष्टका इति वचनात् । आज्यतन्त्रमाज्यभागान्तं कृत्वा पश्चादग्नेः रोहितं चर्मास्तीर्य पवित्रे अन्तर्धाय हवींषि निर्वपति तूष्णीम् । धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षीरौदनस्तिलौदनो यथोपपादिपशुः । दक्षिणं बाहुं निर्लोमं सचर्मं सुखरं प्रक्षाल्यासाद्य देवस्य त्वा प्रभृति अष्टकायै जुष्टं निर्वपामि । अष्टकायै त्वा जुष्टं प्रोक्षामि । पृथक् पृथक् द्रव्यं निर्वपणम् ॥
[सर्वेषां हविषां समुद्धृत्य ॥ कौश्स्_14,2{138}.3 ॥]
धानादीनि एकत्र कृत्वा ततोऽधिश्रयणपर्यग्निकरणाभिघारणोद्वासनालङ्करणोत्पवनैः संस्कृत्य ततः एकत्र कृत्वा विंशतिपिण्डान् कृत्वा एकं द्विगुणं कृत्वाभ्यातानानि जुहोति ॥
[दर्व्या जुहुयात् प्रथमा ह व्युवास सा (3.10.1-5) इति पञ्चभिः ॥ कौश्स्_14,2{138}.4 ॥]
उपस्तीर्याभिघारणम् । कर्ता प्रत्यृचं पिण्डकाञ्जुहोति । स्रुचः काले दर्व्या ग्रहणम् । ततो दर्व्या जुहोति । दर्वी नेक्षणमाप्लवनं च यज्ञपात्रलक्षणे उक्तानि । ऽप्रथमा ह व्युवासऽ इति पञ्चभिः ॥
[आयमगन् संवत्सर इति चतसृभिर्विज्ञायते ॥ कौश्स्_14,2{138}.5 ॥]
ऽआयमगन् संवत्सरःऽ (3.10.8-9) इति द्वे, ऽइडया जुह्वतःऽ (3.10.11-12) इति द्वे एताभिः चतस्र आहुतीः ॥
[ऋतुभ्यस्त्वा (3.10.10) इति विग्राहमष्टौ ॥ कौश्स्_14,2{138}.6 ॥]
ऋतुभ्यष्ट्वा इत्यष्टौ भवन्ति । ऽऋतुभ्यष्ट्वा यजे स्वाहा । आर्तवेभ्यष्ट्वा यजे स्वाहा । मरुद्भ्यस्त्वा यजे स्वाहा । संवत्सरेभ्यस्त्वा यजे स्वाहा । धात्रे त्वा यजे स्वाहा । विधात्रे त्वा यज स्वाहा । समृधे त्वा यजे स्वाहा । भूतस्य पतये त्वा यजे स्वाहा.ऽ एताभिरष्टाभिरष्टौ ॥
[इन्द्रपुत्रे (3.10.13) इत्यष्टादशीम् ॥ कौश्स्_14,2{138}.7 ॥]
ऽइन्द्रपुत्रेऽ इत्यृचा अष्टादशीं पिण्डिकां जुहोति ॥
[अहोरात्राभ्याम् (6.128.3) इत्यूनविंशीम् ॥ कौश्स्_14,2{138}.8 ॥]
ऽअहोरात्राभ्यां त्वा यजे स्वाहाऽ इति मन्त्रेण ऊनविंशीमाहुतिम् ॥
[पशावुपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य ॥ कौश्स्_14,2{138}.9 ॥
इडायास्पदम् (3.10.6, 7) इति द्वाभ्यां विंशीम् ॥ कौश्स्_14,2{138}.10 ॥]
यदि पशुबाहुं सम्पद्यते तदा बाहुं ऽइडायास्पदम्ऽ इत्यृचा ऽआ मा पुष्टे चऽ इत्येकावसाना द्वाभ्यामृग्भ्यां बाहुं विंशीमाहुतिं जुहोति । एकावसानात् । ग्रहणमाग्रहणे न्यायात् । पञ्चपटलिकाया त्रियावसानात् ॥
[अनुपपद्यमान आज्यं जुहुयात् ॥ कौश्स्_14,2{138}.11 ॥]
अथवा आज्यं जुहोति ॥
[हविषां दर्विं पूरयित्वा पूर्णा दर्वे (3.10.7) इति सदर्वीमेकविंशीम् ॥ कौश्स्_14,2{138}.12 ॥]
ऽपूर्णा दर्वेऽ इत्यवसानाभ्यां द्वाभ्यां सदर्वीं पूर्णामेकविंशीं जुहोति ॥ अभ्यातानाद्युत्तरतन्त्रम् ॥
[एकविंशतिसंस्थो यज्ञो विज्ञायते ॥ कौश्स्_14,2{138}.13 ॥
सर्वा एव यज्ञतनूरवरुन्धे सर्वा एवास्य यज्ञतनूः पितरमुपजीवन्ति य एवमष्टकामुपैति ॥ कौश्स्_14,2{138}.14 ॥
न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेतेत्येके ॥ कौश्स्_14,2{138}.15 ॥
अष्टकायां क्रियेतेतीषुफालिमाठरौ ॥ कौश्स्_14,2{138}.16 ॥]
आज्येन स्विष्टकृत् पितृश्राद्धं च कुर्यात् । केचिद् रात्रौ अष्टकाकर्म मन्यन्ते । समाप्तमष्टकाकर्म । ऽन दर्विहोमेऽ इत्युक्तम् । हस्तहोमो हस्तलक्षणविधाने उक्तः । पूर्णहोमे तन्त्रं क्रियते इत्येके । अष्टकायां क्रियेतेतीषुफालिमाठरौ ॥ चतुर्दशेऽध्याये द्वितीया कण्डिका
[उपाकर्म-उत्सर्गः]
अथोपाकर्म उच्यते-
[अभिजिति शिष्यानुपनीय श्वो भूते सम्भारान् सम्भरति ॥ कौश्स्_14,3{139}.1 ॥]
श्रावण्यां पौर्णमास्यां वा प्रोष्ठपद्यां वा अभिजिति नक्षत्रे शिष्यानुपनीय आचार्यसमीप आगच्छन्ति ॥
[दधिसक्तून् पालाशं दण्डमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ कौश्स्_14,3{139}.2 ॥
बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ कौश्स्_14,3{139}.3 ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ कौश्स्_14,3{139}.4 ॥
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ कौश्स्_14,3{139}.5 ॥
पश्चादग्नेर्दधिसक्तूञ्जुहोति अग्नये, ब्रह्मप्रजापतिभ्यां, भृग्वङ्गिरोभ्य, उशनसे काव्याय ॥ कौश्स्_14,3{139}.6 ॥]
शान्त्युदकं कृत्वा ततोऽभ्यातानान्तं कृत्वा ततः पश्चादग्नेर्दधिसक्तून् जुहोति । चतस्र आहुतयः । ऽअग्नये स्वाहा, ब्रह्मप्रजापतिभ्यां स्वाहा, भृग्वङ्गिरोभ्यः स्वाहा । उशनसे काव्याय स्वाहाऽ इति ॥
[ततोऽभयैरपराजितैर्गणकर्मभिर्विश्वकर्मभिरायुष्यैः स्वस्त्ययनैराज्यं जुहुयात् ॥ कौश्स्_14,3{139}.7 ॥]
तत उत्तरैर्गणैराज्यं जुह्वन् दधिसक्तुषु सम्पातानानयति । ऽअभयं द्यावापृथिवीऽ (6.40) ऽश्येनोऽसिऽ (6.48) इति अभयगणः । ऽविद्मा शरस्यऽ (1.2) ऽमा नो विदन्ऽ (1.19) ऽअदारसृत्ऽ (1.20) ऽस्वस्तिदाऽ (1.21) ऽअव मन्युःऽ (6.65), ऽनिर्हस्तःऽ (6.66) ऽपरिवर्त्मानिऽ (6.67) । ऽअभिभूःऽ (6.97) ऽइन्द्रो जयातिऽ (6.98) ऽअभि त्वेन्द्रऽ (6.99) इत्यपराजितगणः । ऽसहृदयम्ऽ (3.30), ऽतदू षुऽ (5.1.5) ऽसञ्जानीध्वम्ऽ (6.64) ऽएह यातुऽ (6.73), ऽसं वः पृच्यन्ताम्ऽ (6.74) ऽसं वो मनांसिऽ (6.94) ऽसञ्ज्ञानं नःऽ (7.52) इति गणकर्मगणः । ऽये त्रिषप्ताःऽ (1.1) इति विश्वकर्मगणः । ऽअस्मिन् वसु वसवो धारयन्तुऽ (1.9), ऽविश्वे देवा वसवःऽ (1.30) ऽआ यातु मित्रःऽ (3.8) ऽअमुत्र भूयात्ऽ (7.53) ऽअन्तकाय मृत्यवेऽ (8.1) ऽआ रभस्वऽ (8.2) ऽप्राणाय नमःऽ (11.4) ऽविषासहिम्ऽ (17.1.1-5) इत्यायुष्यगणः । ऽत्यमू षुऽ (7.90) ऽत्रातारंऽ (7.91) ऽआ मन्द्रैःऽ (7.122) इति स्वस्त्ययनगणः ॥
[मा नो देवा अहिर्वधीत् (6.56), अरसस्य शर्कोटस्य (7.56.5), इन्द्रस्य प्रथमो रथः (10.4), यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा (12.1.46), नमस्ते अस्तु विद्युते (1.13), आरेऽसावस्मदस्तु (1.26), यस्ते पृथु स्तनयित्नुः (7.11) इति संस्थाप्य होमान् ॥ कौश्स्_14,3{139}.8 ॥]
ऽमा नो देवा अहिर्वधीत्ऽ ऽअरसस्य शर्कोटस्यऽ, ऽइन्द्रस्य प्रथमो रथःऽ, ऽयस्ते सर्पो वृश्चिकस्तृष्टदंश्माऽ, ऽनमस्ते अस्तु विद्युतेऽ, ऽआरेऽसावस्मदस्तुऽ, ऽयस्ते पृथु स्तनयित्नुःऽ इत्युपाकर्मगणः । एतैर्गणैराज्यं जुहुयात् । दधिसक्तुषु सम्पातानानयति । ताभिरभिमन्त्रणम् । अभ्यातानाद्युत्तरतन्त्रम् ॥
[प्रतिष्ठाप्य स्रुवं दधिसक्तून् प्राश्याचम्योदकमुपसमारभन्ते ॥ कौश्स्_14,3{139}.9 ॥]
स्रुवप्रतिष्ठापनान्तं कृत्वा दधिसक्तून् प्राश्य उपाध्यायसहिताः शिष्याः । तत आचम्य त्रिराचमनं विहितं शान्त्युदकेनाचमनम् । आज्यभागान्ते शान्त्युदकक्रिया सर्वत्र ॥
[अव्यसश्च (19.68) इति जपित्वा सावित्रीं ब्रह्म जज्ञानम् (4.1.1) इत्येकां त्रिषप्तीयं च पच्छो वाचयेत् ॥ कौश्स्_14,3{139}.10 ॥]
अथ ऽअव्यसश्चऽ इति जपित्वा सावित्रीं ऽब्रह्म जज्ञानम्ऽ इत्येकां जपित्वा ऽये त्रिषप्ताःऽ (1.1) इति सूक्तं पादं पादं वाचयति उपाध्यायः शिष्यान् ॥
[शेषमनुवाकस्य जपन्ति ॥ कौश्स्_14,3{139}.11 ॥]
ऽविद्मा शरस्यऽ (4.1.2) इतिप्रभृति शेषमनुवाकस्य जपन्ति । ततः तन्त्रं समापयेत् ॥
योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ कौश्स्_14,3{139}.12 ॥
इति उपाकर्म समाप्तम् ॥
अथ पौष्यां पौर्णमास्यामुत्सर्ग उच्यते-
[स खल्वेतं पक्षमपक्षीयमाणः पक्षमनधीयान उपश्राम्येता दर्शात् ॥ कौश्स्_14,3{139}.13 ॥
दृष्टे चन्द्रमसि फल्गुनीषु द्वयान् रसानुपसादयति ॥ कौश्स्_14,3{139}.14 ॥]
अभ्यातानान्तं कृत्वा द्वयान् रसानुपसादयति । उत्तरतः मधुवर्जितान् शिष्याणाम् ॥
[विश्वे देवाः (1.30), अहं रुद्रेभिः (4.30), सिंहे व्याघ्रे (6.38), यशो हविः (6.39), यशसं मेन्द्रः (6.58) गिरावरगराटेषु (6.69), यथा सोमः प्रातःसवने (9.1.11), यच्च वर्चो अक्षेषु, येन महानघ्न्या जघनम् (14.1.35, 36) स्वाहा इत्यग्नौ हुत्वा ॥ कौश्स्_14,3{139}.15 ॥
रसेषु सम्पातानानीय संस्थाप्य होमान् ॥ कौश्स्_14,3{139}.16 ॥]
ऽविश्वे देवाःऽ, ऽअहं रुद्रेभिःऽ, ऽसिंहे व्याघ्रेऽ, ऽयशो हविःऽ, ऽयशसं मेन्द्रःऽ, ऽगिरावरगराटेषुऽ, ऽयथा सोमः प्रातःसवनेऽ,
ऽयच्च वर्चो अक्षेषुऽ ऽयेन महानघ्न्या जघनंऽ इत्येतेन गणेनाज्यं जुह्वन् रसेषु सम्पातानानयति प्रथमं मधुसहितेषु ततो मधुवर्जितेषु । प्रधानहोमान् संस्थाप्य ॥
[तत एतान् प्राशयति रसान् मधुघृताञ्छिष्यान् ॥ कौश्स्_14,3{139}.17 ॥]
ऽत्वे क्रतुम्ऽ (5.2.3) इत्यृचा रसप्राशनम् । अभ्यातानाद्युत्तरतन्त्रम् ॥
योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ कौश्स्_14,3{139}.18 ॥
[नान्यत आगताञ्छिष्यान् परिगृह्णीयात् परसन्दीक्षितत्वात् ॥ कौश्स्_14,3{139}.19 ॥
त्रिरात्रोनांश्चतुरो मासाञ्छिष्येभ्यः प्रब्रूयादर्धपञ्चमान् वा ॥ कौश्स्_14,3{139}.20 ॥
पादं पूर्वरात्रेऽधीयानः पादमपररात्रे मध्यरात्रे स्वपन् ॥ कौश्स्_14,3{139}.21 ॥
अभुक्त्वा पूर्वरात्रेऽधीयान इत्येके ॥ कौश्स्_14,3{139}.22 ॥
यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः ॥ कौश्स्_14,3{139}.23 ॥
पौष्यस्यापरपक्षे त्रिरात्रं नाधीयीत ॥ कौश्स्_14,3{139}.24 ॥
तृतीयस्याः प्रातः समासं सन्दिश्य यस्मात् कोशात् (19.72.1) इत्यन्तः ॥ कौश्स्_14,3{139}.25 ॥
यस्मात् कोशादुदभराम वेदं तस्मिन्नन्तरव दध्म एनम् । अधीतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह इति ॥ कौश्स्_14,3{139}.26 ॥
योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ कौश्स्_14,3{139}.27 ॥]
उपाकर्म उत्सर्गः समाप्तः ॥
ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते ॥ कौश्स्_14,3{139}.28 ॥
छन्दसार्षदेवताविनियोगो कारयित्वा विसर्गः ॥ चतुर्दशेऽध्याये तृतीया कण्डिका
[इन्द्रमहः]
अथ राज्ञामिन्द्रमहस्योपाचारकल्पं व्याख्यास्यामः ॥ कौश्स्_14,4{140}.1 ॥
[प्रोष्ठपदे शुक्लपक्षेऽश्वयुजे वाष्टम्यां प्रवेशः ॥ कौश्स्_14,4{140}.2 ॥
श्रवणेनोत्थापनम् ॥ कौश्स्_14,4{140}.3 ॥]
भाद्रपदे शुक्लपक्षेऽश्वयुजे वा मासे इन्द्रमहः कार्यः । अष्टम्यामिन्द्रगृहे प्रवेश्य श्रवणेनोत्थापनं समापयेत् ॥
सम्भृतेषु सम्भारेषु ब्रह्मा राजा चोभौ स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यावुपवसतः ॥ कौश्स्_14,4{140}.4 ॥
उत्तरतः ॥
[श्वो भूते शन्नोदेव्याः पादैरर्धर्चाभ्यामृचा षट्कृत्वोदकमाचामतः ॥ कौश्स्_14,4{140}.5 ॥]
श्वो भूते अभ्यातानान्तं कृत्वा ऽशं नो देवीःऽ (1.6.1) इत्यृचः त्रिभिः पादैस्त्रिराचमनम् ऽशं नो देवीःऽ इत्यर्धर्चेन एकमाचमनम् । ततः ऽशं नो देवीःऽ इत्यृचा द्विराचमनम् । एवं ब्रह्मा राजा षडाचमनं करोति ॥
[अर्वाञ्चमिन्द्रम् (5.3.11) त्रातारम् (7.86) इन्द्रः सुत्रामा (7.91) इत्याज्यं हुत्वा ॥ कौश्स्_14,4{140}.6 ॥]
ऽअर्वाञ्चमिन्द्रम्ऽ इत्येका, ऽत्रातारमिन्द्रम्ऽ इत्येका ऽइन्द्रः सुत्रामाऽ इत्येका एताभिराज्यं जुहुयात् ॥
[अथेन्द्रमुत्थापयन्ति ॥ कौश्स्_14,4{140}.7 ॥
आ त्वाहार्षम् (6.87) ध्रुवा द्यौः (6.88) विशस्त्वा सर्वा वाञ्छन्तु (4.8.4) इति सर्वतोऽप्रमत्ता धारयेरन् ॥ कौश्स्_14,4{140}.8 ॥
अद्भुतं हि विमानोत्थितमुपतिष्ठन्ते ॥ कौश्स्_14,4{140}.9 ॥]
ततः ऽआ त्वाहार्षम्ऽ ऽध्रुवा द्यौःऽ इति सूक्ताभ्यां ऽविशस्त्वा सर्वा वाञ्छन्तुऽ इत्येतैरिन्द्रमुत्थापयति । अभिमन्त्र्य इन्द्रं शान्तकाष्ठमयम् । महत्काष्ठं चित्रितं सशिरं सध्वजं वस्त्रपरिहितं दीर्घं इन्द्रशब्देनोच्यते । लोकप्रसिद्धो वा ग्राह्यः । सर्वतोऽप्रमत्ता धारयेरन् । अन्यथाद्भुतं भवति । तथा गोपथब्राह्मणे अनाज्ञातप्रायश्चित्तं भवति । ऽयदाज्ञातमनाम्नातम्ऽ इति । ततः
अभिभूर्यज्ञः (6.97-99) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे राजनि पूर्णहोमं जुहुयात् ॥ कौश्स्_14,4{140}.10 ॥
ततोऽभ्यातानाद्युत्तरतन्त्रम् । संस्थितहोमवर्जम् । पञ्चमे दिवसे संस्थितहोमाः कार्याः ॥
[अथ पशूनामुपाचारम् ॥ कौश्स्_14,4{140}.11 ॥
इन्द्रदेवताः स्युः ॥ कौश्स्_14,4{140}.12 ॥]
ऽअभिभूर्यज्ञःऽ इत्येतैस्त्रिभिः सूक्तैर्वशाविधानेन पशव आलब्धव्या इन्द्रदेवत्याः ॥
ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः ॥ कौश्स्_14,4{140}.13 ॥
[इन्द्रं चोपसद्य यजेरंस्त्रिरात्रं पञ्चरात्रं ॥ कौश्स्_14,4{140}.14 ॥]
प्रतिदिनमिन्द्रं पशुभिर्हविर्भिश्च यजन्ते । त्रिरात्रं पञ्चरात्रं वा । ऽअभिभूर्यज्ञःऽ इति सर्वत्र प्रयोगः ॥
[त्रिरयनमह्नामुपतिष्ठन्ते हविषा च यजन्ते ॥ कौश्स्_14,4{140}.15 ॥
आवृत इन्द्रमहमिति ॥ कौश्स्_14,4{140}.16 ॥]
ततः राजा ब्रह्मा च त्रिकालं ऽअभिभूर्यज्ञःऽ इत्युपतिष्ठते । एवं च पाकयज्ञविधानेन इन्द्रं यजन्ते । तत एवं ब्राह्मणादीन् पूजयेत् ॥
[इन्द्र क्षत्रम् (7.84.2) इति हविषो हुत्वा ब्राह्मणान् परिचरेयुः ॥ कौश्स्_14,4{140}.17 ॥
न संस्थितहोमाञ्जुहुयादित्याहुराचार्याः ॥ कौश्स्_14,4{140}.18 ॥
इन्द्रस्यावभृथादिन्द्रमवभृथाय व्रजन्ति ॥ कौश्स्_14,4{140}.19 ॥]
ततः पञ्चमे दिवसे ऽइन्द्रक्षत्रम्ऽ इत्यृचा पाकयज्ञविधानेन हविषो हुत्वा संस्थितहोमं विहितं च संस्थाप्य तत इन्द्रं गृहीत्वा अवभृथाय व्रजन्ति ॥
[अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥ कौश्स्_14,4{140}.20 ॥]
नद्यां गत्वा इन्द्रं तत्र संस्थाप्य तत अपां सूक्तैः स्नात्वा प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥
ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ कौश्स्_14,4{140}.21 ॥
इन्द्रमहः समाप्तः ॥
[श्वः श्वोऽस्य राष्ट्रं ज्यायो भवत्येकोऽस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवं वेद यश्चैवं विद्वानिन्द्रमहेण चरति ॥ कौश्स्_14,4{140}.22 ॥]
इन्द्रमहः प्रतिवर्षं यो राजा करोति तस्य फलं भवति । एकोऽस्यां पृथिव्यां राजा भवति । न पुरा जरसः प्रमीयते य एवं वेद ॥ चतुर्दशेऽध्याये चतुर्थी कण्डिका
[अध्ययनविधिः]
अथ वेदस्याध्ययनविधिं वक्ष्यामः ॥ कौश्स्_14,5{141}.1 ॥
श्रावण्यां प्रौष्ठपद्यां वोपाकृत्यार्धपञ्चमान् ॥ कौश्स्_14,5{141}.2 ॥
एवं छन्दांसि ॥ कौश्स्_14,5{141}.3 ॥
लोम्नां चानिवर्तनम् ॥ कौश्स्_14,5{141}.4 ॥
अर्धमासं चोपाकृत्य क्षपेरंस्त्र्यहमुत्सृज्य । आरम्भः श्रावण्यामुक्तः पौष्यामुत्सर्ग उच्यते ॥ कौश्स्_14,5{141}.5 ॥
पौष्यां व्यतीतायां यः पुनः पठेत् कल्पाध्ययनं कुर्यात् ॥
अथानध्यायान् वक्ष्यामः ॥ कौश्स्_14,5{141}.6 ॥
ब्रह्मज्येषु निवर्तते ॥ कौश्स्_14,5{141}.7 ॥
श्राद्धे ॥ कौश्स्_14,5{141}.8 ॥
[सूतकोत्थानछर्दनेषु त्रिषु चरणम् ॥ कौश्स्_14,5{141}.9 ॥
आचार्यास्तमिते वा येषां च मानुषी योनिः ॥ कौश्स्_14,5{141}.10 ॥
यथाश्राद्धं तथैव तेषु ॥ कौश्स्_14,5{141}.11 ॥
सर्वं च श्राद्धिकं द्रव्यमदशाहव्यपेतं प्रतिगृह्यानध्यायः ॥ कौश्स्_14,5{141}.12 ॥
प्राणि चाप्राणि च ॥ कौश्स्_14,5{141}.13 ॥]
सूतके भुक्त्वा अहोरात्रं नाधीयीत । उत्थाने दीक्षितान्नभोजने प्राक् सोमक्रयणान्नाधीयीत । छर्दने कृते अस्नातो नाधीयीत । अस्तमिते आदित्ये नाधीयीत । आचार्यास्तमिते नाधीयीत । विवाहपुंसवनसीमन्तोन्नयनगर्भाधानेषु गृहेषु भुक्त्वा नाधीयीत । होमं वा नाधीयीत । सूतके श्राद्धं भुक्त्वा शेषं प्रतिगृहीते नाधीयीत । एकोद्दिष्टे भुक्त्वा नाधीयीत । गवाश्वादिप्राणिप्रतिग्रहं कृत्वा नाधीयीत । घृतगुडान्नहिरण्यादिप्रतिग्रहं कृत्वा नाधीयीत । एकरात्रमनुवर्तते सर्वत्र ॥ कौश्स्_14,5{141}.
दन्तधावने ॥ कौश्स्_14,5{141}.14 ॥
अकृते नाधीयीत ॥
क्षुरसंस्पर्शे ॥ कौश्स्_14,5{141}.15 ॥
अस्नातो नाधीयीत ॥
[प्रादुष्कृतेष्वग्निषु ॥ कौश्स्_14,5{141}.16 ॥]
अग्निषु प्रादुःकृतेषु नाधीयीत ॥
[विद्युतार्धरात्रे स्तनिते ॥ कौश्स्_14,5{141}.17 ॥]
सन्ध्यायां विद्युते रात्रौ नाधीयीत । मध्यरात्रौ गर्जिते शेषं नाधीयीत ॥
[सप्तकृत्वो वर्षेण विरत आ प्रातराशम् ॥ कौश्स्_14,5{141}.18 ॥]
सप्तकृत्वः गर्जिते अवृष्टे अहोरात्रं नाधीयीत ॥
[वृष्टे ॥ कौश्स्_14,5{141}.19 ॥]
प्रातःप्रभृति वृष्टे नाध्ययनं पठेत् । एकरात्रं नाधीयीत । प्रातःप्रभृति गर्जिते चैकरात्रं नाधीयीत । सन्ध्यायां गर्जिते चैकरात्रं नाधीयीत ॥
[निर्घाते ॥ कौश्स्_14,5{141}.20 ॥]
निर्घातपतने चैकरात्रं नाधीयीत ॥
भूमिचलने ॥ कौश्स्_14,5{141}.21 ॥
चैकरात्रं नाधीयीत ॥
[ज्योतिषोपसर्जन ऋतावप्याकालम् ॥ कौश्स्_14,5{141}.22 ॥
विषमे न प्रवृत्तिः ॥ कौश्स्_14,5{141}.23 ॥]
आदित्यग्रहणे चैकरात्रं नाधीयीत । त्रिरात्रमेके । अनृतावभाषणे तावत्कालं नाधीयीत । ऋतावप्यतिवृष्टौ तावत्कालं नाधीयीत ॥
[अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रोऽष्टकाः ॥ कौश्स्_14,5{141}.24 ॥
अमावास्यायां च ॥ कौश्स्_14,5{141}.25 ॥
त्रीणि चानध्ययनानि ॥ कौश्स्_14,5{141}.26 ॥]
उल्कापाते एकरात्रं नाधीयीत । विद्युत्पतिते एकरात्रं नाधीयीत । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रोऽष्टकाः । अपरपक्षे भाद्रपदे । अमावास्यायां पौर्णमास्यां च । फाल्गुनाषाढकार्तिकेषु चातुर्मासिकम् एकरात्रमनध्यायः ॥
जनने मरणे चैव दशरात्रो विधीयते । आचार्ये दशरात्रं स्यात् सर्वेषु च स्वयोनिषु ॥ कौश्स्_14,5{141}.27 ॥
[सूतके त्वेको नाधीयीत त्रिरात्रमुपाध्यायं वर्जयेत् ॥ कौश्स्_14,5{141}.28 ॥
आचार्यपुत्रभार्याश्च ॥ कौश्स्_14,5{141}.29 ॥]
मृतेषु स्वयोनिमात्रा गोत्रिणः सूतके यस्य सूतकं स दशरात्रं नाधीयीत । त्रिरात्रमुपाध्यायं च वर्जयेत् । आचार्यपुत्रं भार्यां वा ॥
अथ शिष्यं सहाध्यायिनमप्रधानगुरुं चोपसन्नमहोरात्रं वर्जयेत् ॥ कौश्स्_14,5{141}.30 ॥
[तथा सब्रह्मचारिणं राजानं च ॥ कौश्स्_14,5{141}.31 ॥
अपर्तुदैवमाकालम् ॥ कौश्स्_14,5{141}.32 ॥]
अप्रधानसेवकमन्नाद्यं वा चतुर्षु वेदेषु ये उपाध्यायास्तेषां मृते एकरात्रं नाधीयीत । तथा ब्रह्मचारिणं च राजानं च नाधीयीत । अनृतौ वर्षे गर्जिते विद्युत्कृते एकरात्रं नाधीयीत । ऋतौ उपसदि नाधीयीत । दैवोपहतौ एकरात्रं नाधीयीत । ऋतौ तु तावत्कालं नाधीयीत ॥
[अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः । यच्चान्यद्दैवमद्भुतं सर्वं निर्घातवद्भवेत् ॥ कौश्स्_14,5{141}.33 ॥
ऋतावध्यायच्छान्दसः काल्प्य आपर्तुकः स्मृतः । ऋतावूर्ध्वं प्रातराशाद्यस्तु कश्चिदनध्यायः सन्ध्यां प्राप्नोति पश्चिमाम् ॥ कौश्स्_14,5{141}.34 ॥
सर्वेण प्रदोषो लुप्यते ॥ कौश्स्_14,5{141}.35 ॥
निशि निगदायां च विद्युति शिष्टं नाधीयीत ॥ कौश्स्_14,5{141}.36 ॥
अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः । अथ तावत्कालं भुक्त्वा प्रदोष उभे सन्ध्ये ॥ कौश्स्_14,5{141}.37 ॥
अप्सु श्मशाने शय्यायामभिशस्ते खिलेषु च । अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते ॥ कौश्स्_14,5{141}.38 ॥
दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते । वैधृत्ये नगरेषु च ॥ कौश्स्_14,5{141}.39 ॥
अनिक्तेन च वाससा चरितं येन मैथुनम् । शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः ॥ कौश्स्_14,5{141}.40 ॥
विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः । सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्यते ॥ कौश्स्_14,5{141}.41 ॥]
निर्घातभूमिकम्प-उल्काकेतुदर्शननक्षत्रपातदिग्दाहवर्षकृत्लोहितैन्द्रधनुःप्रतिसूर्यगोमायूलूककलहादीनि अद्भुतेषु सर्वेषु त्रिरात्रं नाधीयीत । कल्पनां यथा वेदेषु तथा कुर्यात् । अथवाद्भुतेषु तावत्कालं नाधीयीत । अथवा मध्याह्न(काला)दारभ्यानध्यायः । रात्रौ विद्युद्दर्शने अनध्यायः । रात्रौ गर्जिते च रात्रिशेषे नाधीयीत । अथ तावत्कालं भुक्त्वा प्रदोषमध्यरात्रे नाधीयीत । उभे च सन्ध्ये नाधीयीत । अप्सुमध्ये नाधीयीत । श्मशाने नाधीयीत । अभिशस्ते पातकिनः संसर्गे सन्निधाने नाधीयीत । खिले ऊषरे नाधीयीत । गृहे शवपतिते चतुष्पादद्विपदेषु पतिते नाधीयीत । अध्वायां गच्छन्नाधीयीत । ग्राममध्ये नगरमध्ये नाधीयीत । चाण्डालसन्निधाने शब्दश्रवणे नाधीयीत । दुर्गन्धपुरीषादिगन्धे नाधीयीत । यत्र बहवः शूद्रा मिलित्वा शृण्वन्ति तत्र नाधीयीत । पैङ्गशब्दे यत्र चातुर्वेद्यादिषु एकरात्रं मिलित्वा शब्दं कुर्वन्ति तत्र नाधीयीत । अथवा द्रव्यादिनाशे वा वैधृत्यनगरग्रामादिचौरराजादिनराद्युपद्रवे ब्राह्मणाद्युपद्रवे
नाधीयीत । मलिनवाससा परिहितो नाधीयीत । येन वस्त्रेण परिहितेन मैथुनमाचरति तेन वस्त्रेण परिहितो नाधीयीत । शयनखट्वायामारूढो नाधीयीत । प्रौढपादौ पादोपरि पादं कृत्वा नाधीयीत । अग्रे गुरोः प्रसार्य पादं शुक्तिकां वा बद्ध्वा नाधीयीत । विरम्य मारुते शीघ्रे नाधीयीत । स्वाध्यायं समाप्य पुनर्नाधीयीत । अथवा काण्डं समाप्य नाधीयीत । अतिवाते नाधीयीत । प्रत्यारम्भं कृत्वा नाधीयीत । एतेषु अनध्यायेषु अपररात्रि विरम्य नाधीयीत । प्रभाते अध्ययनं कुर्यात् ॥
[पौषी प्रमाणमभ्रेष्वापर्तु चेदधीयानाम् ॥ कौश्स्_14,5{141}.42 ॥
वर्षं विद्युत्स्तनयित्नुर्वा विपद्यते ॥ कौश्स्_14,5{141}.43 ॥]
पौषीप्रमाणं प्रभृति अभ्रेषु । वर्षं विद्युत्स्तनयित्नुर्वा नाधीयीत ॥
[त्रिरात्रं स्थानासनं ब्रह्मचर्यमरसाशं चोपेयुः ॥ कौश्स्_14,5{141}.44 ॥
सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः ॥ कौश्स्_14,5{141}.45 ॥]
अनध्याये पठिते इदं प्रायश्चित्तं कुर्यात् । त्रिरात्रं दिवा ऊर्ध्वस्तिष्ठेत् रात्रौ उपविशेदेतदेव प्रायश्चित्तम् । ब्रह्मचारी रसभक्षणे एतदेव प्रायश्चित्तम् । सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः ॥ चतुर्दशेऽध्याये पञ्चमी कण्डिका
मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0