भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · श्लोक 1.6.26-1.7.7

6

]
तयोर्व्यतिक्रमे ऽत्वमग्ने व्रतपा असिऽ तृचं सूक्तम् । ऽकामस्तदग्रेऽ इति पञ्चर्चं सूक्तम् । एते चारणवैद्यानां पठ्येते । तस्मिन्नेव तन्त्र आज्यं जुहोति शान्तसमिधो वादधाति । सूक्तयोर्विकल्पः । दर्शपूर्णमासव्यतिक्रमे प्रायश्चित्तम् । सर्वत्र कर्मव्यतिक्रमे प्रायश्चित्तं सर्वप्रायश्चित्तं वा । सर्वत्र पतिते सर्वप्रायश्चित्तीयाञ्जुहोति । तस्मिन्नेव तन्त्र अन्यस्मिन् तन्त्रे वा । ऽतन्त्रमध्ये सर्वे होमाःऽ इति भद्रमतम् । तन्त्रं समाप्तम् ॥
दर्शपूर्णमासाभ्यां पाकयज्ञा व्याख्याताः । आज्यतन्त्रे हविरुत्सृज्याज्यभागान्त अभ्यातानानि भवन्ति । ऽकर्मणि कर्मणिऽ इति वचनात् । आज्यतन्त्रपाकतन्त्रयोरभ्यातानानां कृतो विशेषः । शेषं समानमाज्यतन्त्रपाकतन्त्रयोरिति । अथर्ववेदस्य शौनकीयो मण्डपः सम्भारलक्षण उक्तः । सम्भाराश्च तत्रैवोक्ताः.
ऽअव्यसश्चऽ (19.69.1) इति मन्त्राणां कर्मण्यादौ प्रयुज्यते.
ऽयस्मात्कोशात्ऽ (19.72) इत्यन्ते च एतदाचार्यशासनम् ॥
लोकपालेभ्यः कर्तव्यमष्टानां दिग्बलिं ततः.
वषट्कारेण कर्तव्यं नमस्कारेण वा पुनः ॥
चतुरस्रो मणिः प्रोक्तो अङ्गुष्ठपर्वमात्रतः.
सूत्रे प्रोत्यश्च सम्पात्य बन्ध्यः पुण्याहवाचने ॥
शान्तवृक्षमयी कार्या अरणिः शान्तिकर्मसु.
मन्त्रेणैव पृथक् कुर्यात् क्रव्यादं च विधानतः ॥
मन्थनं च शान्तिकल्प उक्तम् । पूर्णाहुतिः तथैव च । नाभिचारे न सर्वानां न साङ्ग्रामिकेषु च । मण्डपं च शान्त्युदकं च तत्रैव न विद्यते । पुनर्व्रतं सर्वत्र । एकरात्रादयः । प्रारम्भः सर्वत्र पूर्णमास्यमावास्ययोः पुण्ये नक्षत्रे वा । एते त्रयः कालाः सर्वेषां कर्मणां स्मृताः । अद्भुतानां सदाकालमारम्भः सर्वकर्मणाम् ॥
[सर्वार्थाः परिभाषा]
अथ सर्वार्थाः परिभाषाः । विधिकर्मार्था अविधिकर्मार्था उच्छ्रयकर्मार्था उच्यन्ते । मेधाजननादि पिण्डपितृयज्ञान्तं (कौश्स् 10.89) यावद्विधिकर्माणि । मधुपर्कादीन्द्रमहान्तं (कौश्स् 90-140) यावदविधिकर्माणि । पाकयज्ञा विधिकर्म । सूक्तेन विनियोगं कृत्वा पश्चादृचां विनियोगस्तान्युच्छ्रयकर्माणि । त्रिविधानि कर्माणि । उपदधीतेत्यनादेशे - आज्यं, समित्, पुरोडाशः, पयः, उदौदनः, पायसः, पशुः, व्रीहिः, यवः, तिलः, धानाः, करम्भः, शष्कुल्यः, एतानि त्रयोदश हवींषि जानीयात् । सर्वत्र इयं पैठीनसिपरिभाषा । सर्वत्र हविषां विकल्पः । यत्र गणस्तत्र सर्वत्र सूक्तानां विकल्पः । यत्रौषधिगणस्तत्रौषधीनां विकल्पः । ऽहविषां त्वा जुष्टं प्रोक्षामिऽ इति सर्वद्रव्येषु प्रोक्षणम् । ऽसर्वत्रोत्पवनं हविषाम्ऽ इति युवाकौशिक आचार्यो मन्यते अवशिष्टाः परिभाषाः पुरत उच्यन्ते सर्वकर्मार्थाः । आज्यतन्त्रादि वैदिकेषु कर्मसु । सर्वत्र वृद्धिश्राद्धम् । यत्रोदकेन प्रयोजनं तत्र सर्वत्र शान्त्युदकं कुर्यात् चतुर्भिर्गणैरेकेन वा गणेन । सूक्तादिग्रहणे सूक्तं जानीयात् । सर्वत्र स्रुवहोमे नित्यं तन्त्रम् । हस्तहोमे विकल्पेन तन्त्रम् । आज्यतन्त्रे सर्वत्र धेनुर्दक्षिणा हविरुच्छिष्टं चाधिकरणं च.
आज्यतन्त्रमुच्यते । ऽअव्यसश्चऽ (19.69.1), बर्हिर्लवनं, वेदिः, उत्तरवेदिः, अग्निप्रणयनम्, अग्निप्रतिष्ठापनं, व्रतग्रहणं, पवित्रकरणं, पवित्रेणेध्मप्रोक्षणम्, इध्मोपसमाधानं, बर्हिःप्रोक्षणं, ब्रह्मासनं, ब्रह्मस्थापनं, स्तरणं, स्तीर्णप्रोक्षणम्, आत्मासनम्, उदपात्रस्थापनम्, आज्यसंस्कारः, स्रुवग्रहणं, ग्रहग्रहणं, पुरस्ताद्धोमः, आज्यभागौ, अभ्यातानान्तं पूर्वतन्त्रम् । अथ उत्तरतन्त्रमुच्यते । अभ्यातानानि, पार्वणहोमः, समृद्धिहोमाः, सन्नतिहोमाः, प्रजापतिहोमः, स्विष्टकृद्धोमः, सर्वप्रायश्चित्तीयहोमाः, स्कन्नहोमः, पुनर्मैत्विन्द्रियहोमः, स्कन्नास्मृतिहोमौ, संस्थितहोमाः, चतुर्गृहीतहोमः, बर्हिर्होमः, संस्रावहोमः, स्रुवस्थापनं, समिदाधानं, विष्णुक्रमान्, उदपात्रोत्थापनं, व्रतविसर्जनं, दक्षिणादानं, ब्रह्मोत्थापनं, ऽयस्मात् कोशात्ऽ (19.72) इत्येतदुत्तरतन्त्रम् । उत्तरतन्त्रं समाप्तम् । षष्ठी कण्डिका

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc