कौशिकपद्धति · अध्याय 1.7
[परिभाषाः]
परिभाषाव्याख्यानं क्रियते-
अश्नात्यनादेशे स्थालीपाकः
सर्वत्र प्रत्येतव्यः । यथा ऽदोषो गाय (6.1) इत्यथर्वाणं समावृत्याश्नातिऽ (कौश्स् 59.25) । सर्वत्राज्यभागान्ते श्रपणम् ॥
[पुष्टिकर्मसु सारूपवत्से
]
पुष्टिकर्मसु सारूपवत्सः स्थालीपाकः । अश्नात्यनादेशे जानीयात् । यथा ऽहरितबर्हिषमश्नातिऽ (कौश्स् 18.20) । तृतीयेऽध्याये (कौश्स् 18.24) पौष्टिकानि कर्माण्युक्तानि ॥
आज्यं जुहोति
जुहोत्यनादेश आज्यं द्रव्यं जानीयात् । यथा ऽपृथिव्यै श्रोत्राय (6.10.1) इति जुहोतिऽ (कौश्स् 12.3) ॥
समिधमादधाति
अनादेशे जानीयात् । यथा ऽअन्वक्ताः प्रादेशमात्रीरादधातिऽ (कौश्स् 18.21) । सर्वत्र प्रादेशमात्र्यः समिधः । सर्वत्र घृताक्ताः । सर्वत्र पालाशादयो वृक्षाः । विकल्पः ॥
आवपति व्रीहियवतिलान्
सर्वत्रानादेशे जानीयात् । यथा ऽसप्त मर्यादा (5.1.6) इति तिसृणां प्रातरावपतेऽ (कौश्स् 79.1) । द्रव्यादिविकल्पः सर्वत्र ॥
भक्षयति क्षीरौदनपुरोडाशरसान्
अनादेशे जानीयात् । यथा ऽत्वं नो मेघे (6.108) द्यौश्च म (12.1.53) इति भक्षयतिऽ (कौश्स् 10.20) । द्रव्यविकल्पः ॥
मन्थौदनौ प्रयच्छति
अनादेशे जानीयात् । यथा ऽउतामृतासुः (5.1.7) शिवास्त (7.43) इत्यभ्याख्याताय प्रयच्छतिऽ (कौश्स् 46.1) । सक्तूदकं द्विशलाकया समिधा मथितं मन्थ इत्युच्यते । द्रव्यविकल्पः ॥
पूर्वं त्रिषप्तीयम्
अनादेशे जानीयात् । यथा ऽपूर्वस्य मेधाजननानिऽ (कौश्स् 10.1) । ऽपूर्वस्य ब्रह्मचारिसाम्पदानिऽ (कौश्स् 11.1).
पूर्वस्य ऽममाग्ने वर्चःऽ (5.3.1) इति (कौश्स् 12.10) । ऽपूर्वस्य हस्तित्रसनानिऽ (कौश्स् 14.1) । ऽपूर्वस्य पूर्वस्यां पौर्णमास्याम्ऽ (कौश्स् 18.1) । ऽपूर्वस्य चित्राकर्मऽ (कौश्स् 18.19) । ऽपूर्वस्योदपात्रेणऽ (कौश्स् 25.4) । ऽपूर्वस्य पुत्रकामावतोकयोःऽ (कौश्स् 32.28) । ऽत्रिषप्तीयं च पच्छो वाचयेत्ऽ (कौश्स् 139.10) । सर्वत्र ऽये त्रिषप्ताःऽ (1.1) इति ॥
उदकचोदनायामुदपात्रं प्रतीयात्
यथा ऽपिञ्जूलीभिराप्लावयतिऽ (कौश्स् 27.7) । घटं वा कांस्यपात्रं वा ॥
पुरस्तादुत्तरतः सम्भारमाहरति
अनादेशे जानीयात् । दर्भसमित्पात्रादिसम्भाराः ॥
गोरनभिप्रापाद्वनस्पतीनाम्
सूर्योदयनतः
दूरदेशाद् वृक्षसम्भारा आहर्तव्याः । सूर्योदयकाले ॥
पुरस्तादुत्तरतोऽरण्ये कर्मणां प्रयोगः
नित्यनैमित्तिककाम्यानां कर्मणां प्रयोगः । अरण्यं शान्तिकल्पे उक्तम् । यत्र ग्रामशब्दो न श्रूयते तत्रारण्यम् ॥
उत्तरत उदकान्ते प्रयुज्य कर्माणि.
सर्वाणि कर्माणि नित्यनैमित्तिककाम्यानि । उत्तरत उदकसमीपे कार्याणि जपहोमस्नानादीनि प्रयुज्य कर्माणि ॥
अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणा ग्राममुदाव्रजन्ति
सर्वं होमकर्म समाप्यते । ततोऽवभृथं कुर्यात् । सर्वत्र पुंसवनादिषु संस्कारेषु गृहे प्रयोगः । ऽनावभृथःऽ इति रुद्रभाष्यमतम् ॥
आश्यबन्ध्याप्लवनयानभक्ष्याणि सम्पातवन्ति
एतेषु नित्यमभ्यातानान्तं तन्त्रं भवति । आश्यादिषु यथा ऽमादानकश्रृतं क्षीरौदनमश्नातिऽ (कौश्स् 12.1) । ऽएहि जीवम् (4.9) इत्याञ्जनमणिं बध्नातिऽ (कौश्स् 58.8) । ऽसर्वैराप्लावयतिऽ (कौश्स् 13.9) । ऽयानेनाभियातिऽ (कौश्स् 14.3) । ऽआग्रहायण्यां भक्षयतिऽ (कौश्स् 10.22) । आश्यादिषु सर्वत्र सम्पाताभिमन्त्रणं भवत्याज्यतन्त्रे ॥
सर्वाण्यभिमन्त्र्याणि
सर्वे पदार्था अभिमन्त्र्य कर्तव्याः । यथा ऽसीरा युञ्जन्ति (3.17) इति युगलाङ्गलं प्रतनोतिऽ (कौश्स् 20.1) । अभिमन्त्र्य कर्तव्यम् ॥
स्त्रीव्याधितावाप्लुतावसिक्तौ शिरस्तः प्रकम्या प्रपदात् प्रमार्ष्टि
स्त्री च व्याधितः पुरुषः व्याधिता स्त्री च । एतावाप्लुतावसिक्तौ वस्त्रेण मार्जयति ॥
पूर्वं प्रपाद्य प्रयच्छति
तं पुरुषमग्रे कृत्वा गृहे प्रवेश्य ततो मन्थौदनौ प्रयच्छति । यथा ऽउतामृतासुः (5.1.7) शिवास्त (7.43) इत्यभ्याख्याताय प्रयच्छतिऽ (कौश्स् 46.1) मन्त्रेण ॥
त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति
यत्र वासितं बध्नाति तत्र सर्वत्र त्रयोदश्यादि भवति । यथा ऽयुग्मकृष्णलं वासितं बध्नातिऽ (कौश्स् 11.19) ॥
आशयति
मणिं बद्ध्वा तद्दधिमध्वाशयति ॥
अन्वारब्धायाभिमन्त्रणहोमाः
अन्वारब्धे यजमाने कर्तव्याः । अभिमन्त्रणम् । यजमान उत्तरतो भूत्वा दर्भैरन्वारभते ॥
पश्चादग्नेश्चर्मणि हविषां संस्कारः
यथा ऽआवपति ब्रीहियवतिलान्ऽ (कौश्स् 7.5) इत्यादि । तथा ऽअष्टकायाम्ऽ (कौश्स् 138.1) ॥
आनडुहः शकृत्पिण्डः
रक्तवृषभगोमयपिण्ड इत्यर्थः । यथा ऽस्योनम् (14.1.47) इति... शकृत्पिण्डेऽश्मानं निदधातिऽ (कौश्स् 77.17) ॥
जीवघात्यं चर्म
समर्थवृषभचर्म । यथा ऽपश्चादग्नेश्चर्मणि हविषां संस्कारःऽ (कौश्स् 7.22) ॥
अकर्णोऽश्मा
जानीयात् । यथा ऽअश्मानं निदधातिऽ (कौश्स् 77.17) ॥
आप्लवनावसेचनानामाचामयति च
यत्राप्लवनमवसेचनं च तत्राचमनं भवति मार्जनं च ॥
सम्पातवतामश्नाति न्यङ्क्ते वा
बन्ध्यं मणिम् । सम्पातवन्तम् । वासनं कृत्वा ततो बध्नाति । आप्लावयति । यानेनाभियाति अक्षिणी आङ्क्ते । यथा यत् सम्पात्यते तत् सर्वं प्राश्य ततो बन्धनादि करोति ॥
अभ्याधेयानां धूमं नियच्छति
समित्पुरोडाशचरुव्रीहियवतिलादीन्यभ्याधेयानि । यजमानो धूमं भक्षयति कर्मसमाप्तौ ॥
शुचिना कर्मप्रयोगः
मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0