भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · अध्याय 1.6

1.6.1

[यन्मे स्कन्नं मनसो जातवेदो यद्वास्कन्दद्धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहा इति

1.6.2

यन्मे स्कन्नं, यदस्मृति (7.106) इति च स्कन्नास्मृतिहोमौ

1.6.3

]
ऽयन्मे स्कन्नंऽ, ऽयदस्मृतिऽ इति च द्वाभ्यां जुहोति । आज्यहोमे सर्वत्र स्रुवेण होमः ॥
[यदद्य त्वा प्रयति (7.97) इति संस्थितहोमाः

1.6.4

]
ऽयदद्य त्वा प्रयतिऽ इति संस्थितहोमाञ्जुहोति । उदपात्रे सम्पातानानयति ॥
[मनसस्पते (7.97.8) इत्युत्तमं चतुर्गृहीतेन

1.6.5

]
ऽमनसस्पतेऽ इत्यृचा चतुर्गृहीतेन जुहोति ॥
[बर्हिराज्यशेषेऽनक्ति पृथिव्यै त्वा इति मूलम् अन्तरिक्षाय त्वा इति मध्यं दिवे त्वा इत्यग्रम्

1.6.6

]
बर्हिः स्थाल्यामाज्येनानक्ति ऽपृथिव्यै त्वाऽ इति मूलम् ऽअन्तरिक्षाय त्वाऽ इति मध्यं ऽदिवे त्वाऽ इत्यग्रम् ॥
एवं त्रिः

1.6.7

त्रिर्मन्त्रावृत्तिः ॥
सं बर्हिरक्तम् (7.98) इत्यनुप्रहरति यथादेवतम्

1.6.8

[स्रुवमग्नौ धारयति

1.6.9

यदाज्यधान्यां तत् संस्रावयति संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः । इमं यज्ञमभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् इति

1.6.10

]
ऽसंस्रावभागाःऽ इत्याज्यधान्या आज्यं जुहोति ॥
[स्रुवोऽसि घृतादनिषितः । सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरोऽहं भूयासमधरे मत्सपत्नाः इति स्रुवं प्राग्दण्डं निदधाति

1.6.11

]
ऽस्रुवोऽसि घृतादनिषितःऽ इत्यृचा स्रुवं प्राग्दण्डं निदधाति ॥
[वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यमग्निरग्नये स्वाहा इति समिधमादधाति

1.6.12

]
ऽवि मुञ्चामिऽ इत्यृचा समिधमादधाति ॥
एधोऽसि (7.89.4अ) इति द्वितीयां समिदसि (7.89.4ब्) इति तृतीयाम्

1.6.13

तेजोऽसि (7.89.4च्) इति मुखं विमार्ष्टिं

1.6.14

[दक्षिणेनाग्निं त्रीन् विष्णुक्रमान् क्रमते विष्णोः क्रमोऽसि (10.5.25-27) इति दक्षिणेन पादेनानुसंहरति सव्यम्

1.6.15

]
ऽविष्णोः क्रमोऽसिऽ इति तिसृभिर्विष्णुक्रमान् क्रमते । अग्नेर्दक्षिणतः । अग्निब्रह्मणोर्मध्ये क्रमते ॥
सूर्यस्यावृतम् (10.5.37) इत्यभिदक्षिणमावर्तते

1.6.16

[अगन्म स्वः (16.9.3,4) इत्यादित्यमीक्षते

1.6.17

]
ऽअगन्म स्वःऽ इति पर्यायद्वयेनादित्यमीक्षते ॥
[इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनरुत्थापयामसि इत्यपरेणाग्निमुदपात्रं परिहृत्योत्तरेणाग्निम् आपो हि ष्ठा मयोभुवः (1.5) इति मार्जयित्वा बर्हिषि पत्न्या अञ्जलौ निनयति समुद्रं वः प्र हिणोमि (10.5.23-24) इति इदं जनासः (1.32) इति वा

1.6.18

]
ऽइन्द्रस्य वचसाऽ इत्यृचोदपात्रमुत्थापयति । उत्तरतोऽग्नेरुदपात्रेण ऽआपो हि ष्ठाऽ इति मार्जयित्वा बर्हिषि स्रुवं च पवित्रे च पत्न्या अञ्जलौ कृत्वोदपात्रं निनयति ऽसमुद्रं वः प्र हिणोमिऽ इति ॥
वीरपत्न्यहं भूयासम् इति मुखं विमार्ष्टि

1.6.19

व्रतानि व्रतपतये (कौश्स् 42.17) इति समिधमादधाति

1.6.20

[सत्यं त्वर्तेन इति परिषिच्योदञ्चि हविरुच्छिष्टान्युद्वासयति

1.6.21

]
ऽसत्यं त्वर्तेनऽ इति पर्युक्ष्य उदञ्चि हविरुच्छिष्टान्युद्वासयति ॥
पूर्णपात्रं दक्षिणा

1.6.22

ततो ब्रह्मकर्तृवाचनम् । ऽउत्तिष्ठ ब्रह्मणस्पतेऽ (19.63.1) इत्यृचा ब्रह्माणमुत्थापयेत् ॥
ऽनादक्षिणं हविः कुर्वीत यः कुरुते कृत्यामात्मनः कुरुतेऽ इति ब्राह्मणम्

1.6.23

तस्मान्नादक्षिणम् । हविःशब्देनाज्यतन्त्रं पाकतन्त्रं चोच्यते । कर्ममात्रमभिमन्त्रणाद्यदक्षिणं कुर्यात् । पाकतन्त्रे पूर्णपात्रमानं प्रसृतिप्रस्थद्रोणाढकादि । पूर्णपात्रं यजमानशक्त्यपेक्षम् । ऽशक्त्या वा दक्षिणां दद्यान्नातिशक्तिर्विधीयतेऽ (कौश्स् 74.22-23) इत्युक्तं नवमे । आज्यतन्त्रे धेनुः सर्वत्र ॥
अन्वाहार्यं ब्राह्मणान् भोजयति

1.6.24

यद्वै यज्ञस्यानन्वितं भवति तदन्वाहार्येणान्वाह्रियते

1.6.25

एतदन्वाहार्यस्यान्वाहार्यत्वम्

1.6.26

कर्मसमाप्तौ सर्वत्र ब्राह्मणान् त्रीन् पञ्च सप्त विंशतिं शतं सहस्रमयुतं वा भोजयेत् । यजमानशक्तपेक्षं ब्राह्मणभोजनम् । तथा च ब्राह्मणम् -
ऽईड्या वा अन्ये देवाः सपर्येण्या अन्ये देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः

1.6.27

यज्ञेनैवेड्यान् प्रीणात्यन्वाहार्येण सपर्येण्यान्

1.6.28

तेऽस्योभये प्रीता यज्ञे भवन्तिऽ इति

1.6.29

देवब्राह्मणानां तुष्टे सति यज्ञफलं भवति । तथा च मनुः- ऽअस्कन्नमव्यथं चैवऽ इत्येवमादि ब्राह्मणस्तुतिः । तस्मात् कर्मणि ब्राह्मणा भोजयितव्याः स्वशक्त्या चतुर्वेदपारगाः ॥
इमौ दर्शपूर्णमासौ व्याख्यातौ

1.6.30

दर्शपूर्णमासाभ्यां पाकयज्ञाः

1.6.31

व्याख्याताः । आज्यतन्त्रे पाकतन्त्रे दर्शपूर्णमासधर्मा भवन्ति । पूर्वतन्त्रं चोत्तरतन्त्रं च सर्वेषु पाकतन्त्रेषु । सर्वमाथर्वणं कर्म पाकयज्ञशब्देनोच्यते ॥
अथाप्यपरो हवनयोगो भवति

1.6.32

कुम्भीपाकादेव व्युद्धारं जुहुयात्

1.6.33

आज्यभागान्तं कृत्वा ॥
अधिश्रयणपर्यग्निकरणाभिघारणोद्वासनालङ्करणोत्पवनैः संस्कृत्य

1.6.34

मन्त्रेण संस्कारः ॥
[अथापि श्लोकौ भवतः -]
अथापि गोपथब्राह्मणपठितौ श्लोकौ भवतः ॥
ऽआज्यभागान्तं प्राक्तन्त्रमूर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः ॥ पाकयज्ञान् समासाद्यैकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवतेऽ इति

1.6.35

सर्वत्राज्यभागान्तं पूर्वतन्त्रम् । उत्तरतन्त्रं पार्वणादि स्विष्टकृता सह । हविषां मध्य आवापो यथा तन्त्रस्य तन्तवः । यथा कोलिकः स्वतन्त्रं बध्नाति तथैव वस्त्रादितन्तवोऽन्येऽन्ये ॥
एतेनैवामावास्यो व्याख्यातः

1.6.36

ऐद्राग्नोऽत्र द्वितीयो भवति

1.6.37

[तयोर्व्यतिक्रमे त्वमग्ने व्रतपा असि (19.59) कामस्तदग्रे (19.52) इति शान्ताः

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc