भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 5.6

5.6.1

नान्तः:पुराणां रक्षण-योगात् पुरुष-संदर्शनं विद्यते पत्युश् चैकत्वाद् अन्:एक-साधारणत्वाच् चा:तृप्तिः. तस्मात् तानि प्रयोगत एव परस्-परं रञ्जयेयुः.

5.6.2

धात्रेयिकां सखीं दासीं वा पुरुषवद् अलंकृत्याकृति-संयुक्तैः कन्द-मूल-फलावयवैर् अपद्रव्यैर् वात्माभिप्रायं निवर्तयेयुः.

5.6.3

पुरुष-प्रतिमा अ:व्यक्त-लिङ्गाश् चाधिशयीरन्.

5.6.4

राजानश् च कृपा-शीला विनापि भाव-योगाद् आयोजितापद्रव्या यावद् अर्थम् एकया रात्र्या बह्वीभिर् अपि गच्छन्ति. यस्यां तु प्रीतिर् वासक ऋतुर् वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः.

5.6.5

स्त्री-योगेणैव पुरुषाणाम् अप्य् अ:लब्ध-वृत्तीनां वियोनिषु विजातिषु स्त्री-प्रतिमासु केवलोपमर्दनाच् चाभिप्राय-निवृत्तिर् व्याख्याता.

5.6.6

योषावेषांश् च नागरकान् प्रायेणान्त:पुरिकाः परिचारिकाभिः सह प्रवेशयन्ति.

5.6.7

तेषाम् उपावर्तने धात्रेयिकाश् चाभ्यन्तर-संसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन्.

5.6.8

सुख-प्रवेशिताम् अपसार-भूमिं विशलतां वेश्मनः प्रमादं रक्षिणाम् अ:नित्यतां परिजनस्य वर्णयेयुः.

5.6.9

न चा:सद्-भूतेनार्थेन प्रवेशयितुं जनम् आवर्तयेयुर् दोषात्.

5.6.10

नागरकस् तु सु:प्रापम् अप्य् अन्तः:पुरम् अपाय-भूयिष्ठत्वान् न प्रविशेद् इति वात्स्यायनः.

5.6.11

सापसारं तु प्रमद-वनावगाढं विभक्त-दीर्घ-काक्ष्यम् अल्प-प्रमत्त-रक्षकं प्रोषित-राजकं कारणानि समीक्ष्य बहुष आहूयमानो ऽर्थ-बुद्ध्या कक्ष्या-प्रवेशं च दृष्ट्वा ताभिर् एव विहितोपायः प्रविशेत्.

5.6.12

शक्ति-विषये च प्रति:दिनं निष्क्रामेत्.

5.6.13

बहिश् च रक्षिभिर् अन्यद् एव कारणम् अपदिश्य संसृजेत.

5.6.14

अन्तश्:चारिण्यां च परिचारिकायां विदितार्थायां सक्तम् आत्मानं रूपयेत्. तद्-अ:लाभाच् च शोकम् अन्तः:प्रवेशिनीभिश् च दूती-कल्पं सकलम् आचरेत्.

5.6.15

राज-प्रनिधींश् च बुध्येत.

5.6.16

दूत्यास् त्व् अ:संचारे यत्र गृहीताकारायाः प्रयोज्याया दर्शन-योगस् तत्रावस्थानम्.

5.6.17

तस्मिन्न् अपि तु रक्षिषु परिचारिका-व्यपदेशः.

5.6.18

चक्षुर् अनुबध्नन्त्याम् इङ्गिताकार-निवेदनम्..5.6.19 यत्र संपातो ऽस्यास् तत्र चित्र-कर्मणस् तद्-युक्तस्य व्यर्थानां गीत-वस्तुकानां क्रीडनकानां कृत-चिह्नानाम् आपीनकानाम्((153)) अङ्गुलीयकस्य च निधानम्.

5.6.20

प्रत्य्:उत्तरं तया दत्तं प्रपश्येत्. ततः प्रवेशने यतेत.

5.6.21

यत्र चास्य नियतं गमनम् इति विद्यात् तत्र प्रछन्नस्य प्राग् एवावस्थानम्.

5.6.22

रक्षि-पुरुष-रूपो वा तद्-अनुज्ञात-वेलायां प्रविशेत्.

5.6.23

आस्तरण-प्रावरण-वेष्टितस्य वा प्रवेश-निर्हारौ.

5.6.24

पुटा:पुट-योगैर् वा नष्टच्छाया-रूपः.

5.6.25

तत्रायं प्रयोगः ण् नकुल-हृदयं चोरकतुम्बी-फलानि सर्पाक्षीणि चान्तर्धूमेन पचेत्. ततो ऽञ्जनेन सम-भागेन पेषयेत्. अनेनाभ्यक्त-नयनो नष्ट-च्छाया-रूपश् चरति [अन्यैष् च जल-ब्रह्म-क्षेम-शिरः-प्रणीतैर् बाह्य-पानकैर् वा.

5.6.26

रात्रि-कौमुदीषु च दीपिका-संबाधे सुरङ्गया वा.

5.6.27

तत्रैतद् भवति((154)).
द्रव्याणाम् अपि निर्हारे पानकानां प्रवेशने. आपानकोत्सवार्थे ऽपि चेटिकानां च संभ्रमे..
व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये. उद्यान-यात्रा-गमने यात्रातश् च प्रवेशने..
दीर्घ-कालोदयां यात्रां प्रोषिते चापि राजनि. प्रवेशनं भवेत् प्रायो यूनां निष्क्रमणं तथा..

5.6.28

परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः. एक-कार्यास् ततः कुर्युः शेषाणाम् अपि भेदनम्..
दूषयित्वा ततो ऽन्योन्यम् एक-कार्यार्पणे स्थिरः. अ:भेद्यतां गतः सद्यो यथेष्टं फलम् अश्नुते..

5.6.29

तत्र राज-कुल-चारिण्य एव लक्षण्यान् पुरुषान् अन्तः:पुरं प्रवेशयन्ति नाति:सु:रक्षत्वाद् अपरान्तिकानाम्.

5.6.30

क्षत्रिय-संज्ञकैर् अन्तः:पुर-रक्षिभिर् एवार्थं साधयन्त्य् आभीरकाणाम्.

5.6.31

प्रेष्याभिः सह तद्-वेषान् नागरक-पुत्रान् प्रवेशयन्ति वात्सगुल्मकानाम्.

5.6.32

स्वैर् एव पुत्रैर् अन्तः:पुराणि काम-चारैर् जननी-वर्जम् उपयुज्यन्ते वैदर्भकानाम्.

5.6.33

तथा प्रवेशिभिर् एव ज्ञाति-संबन्धिभिर् नान्यैर् उपयुज्यन्ते स्त्रैराजकानाम्.

5.6.34

ब्राह्मणैर् मित्रैर् भृत्यैर् दास-चेटैश् च गौडानाम्.

5.6.35

परिस्पन्दाः कर्मकराश् चान्तः:पुरेष्व् अ:निषिद्द्धा अन्ये ऽपि तद्-रूपाश् च सैन्धवानाम्.

5.6.36

अर्थेन रक्षिणम् उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम्.

5.6.37

पुष्प-दान-नियोगान् नगर-ब्राह्मणा राज-विदितम् अन्तः:पुराणि गच्छन्ति. पटान्तरितश् चैषाम् आलापः. तेन प्रसङ्गेन व्यतिकरो भवति बङ्ग-अङ्ग-कलिङ्गकानाम्.

5.6.38

संहत्य नवदशेत्य् एकैकं युवानं प्रच्छादयन्ति प्राच्यानाम् इति. एवं पर-स्त्रियः प्रकुर्वीत.
इत्य् अन्तः:पुरिका-वृत्तम्((155)).
सेच्तिओन् (प्रकरण)49

5.6.39

एभ्य एव च कारणेभ्यः स्व-दारान् रक्षेत्.

5.6.40

कामोपधा-शुद्धान्((156)) रक्षिणो ऽन्तः:पुरे स्थापयेद् इत्य् आचार्याः.

5.6.41

ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस् तस्मात् काम-भयार्थोपधा-शुद्धान् इति गोणिकापुत्रः((157)).

5.6.42

अ:द्रोहो धर्मस् तम् अपि भयाज् जह्याद् अतो धर्म-भयोपधा-शुद्धान् इति वात्स्यायनः.

5.6.43

वाक्याभिधायिनीभिश् च गूढाकाराभिः प्रमादभिर् आत्म-दारान्((158)) उपदध्याच् छौचा:शौच-परिज्ञानार्थम् इति बाभ्रवीयाः

5.6.44

दुष्टानां युवतिषु सिद्धत्वान् ना:कस्माद् अ:दुष्ट-दूषणम् आचरेद् इति वात्स्यायनः((159)).

5.6.45

अति:गोष्ठी निर्:अङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहा:नियन्त्रणता प्रवासे ऽवस्थानं विदेशे निवासः स्व-वृत्त्य्-उपघातः स्वैरिणी-संसर्गः पत्युर् ईर्ष्यालुता चेति स्त्रीणां विनाश-कारणानि.

5.6.46

संदृश्य शास्त्रतो योगान् पारदारिक-लक्षितान्. न याति च्छलनां कश् चिद् स्व-दारान् प्रति शास्त्रवित्..

5.6.47

पाक्षिकत्वात् प्रयोगाणाम् अपायानां च दर्शनात्. धर्मार्थयोश् च वैलोम्यान् नाचरेत् पारदारिकम्..

5.6.48

तद् एतद् दार-गुप्त्य्-अर्थम् आरब्धं श्रेयसे नृणाम्. प्रजानां दूषणायैव न विज्ञेयो ऽस्य संविधिः((160))..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc