भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 6.1

6.1.1

वेश्यानां पुरुषाधिगमे रतिर् वृत्तिश् च सर्गात्.

6.1.2

रतितः प्रवर्तनं स्वाभाविकं कृत्रिमम् अर्थार्थम्.

6.1.3

तद् अपि स्वाभाविकवद् रूपयेत्.

6.1.4

काम-परासु हि पुंसां विश्वास-योगात्.

6.1.5

अ:लुब्धतां च ख्यापयेत् तस्य निदर्शनार्थम्.

6.1.6

न चान्:उपायेनार्थान् साधयेद् आयति-संरक्षणार्थम्.

6.1.7

नित्यम् अलङ्कार-योगिनी राज-मार्गावलोकिनी दृश्यमाना न चातिवृत्ता तिष्ठेत्. पण्य-स: धर्मत्वात्.

6.1.8

यैर् नायकम् आवर्जयेद् अन्याभ्यश् चावच्छिन्द्याद् आत्मनश् चान्:अर्थं प्रतिकुर्याद् अर्थं च साधयेन् न च गम्यैः परिभूयेत तान् सहायान् कुर्यात्.

6.1.9

ते त्व् आरक्षक-पुरुषा धर्माधिकरणस्था((161)) दैव-ज्ञा विक्रान्ताः शूराः समान-विद्याः कला-ग्राहिणः पीठमर्द-वीट-विदूषक-मालाकार-गान्धिक-शौण्डिक-रजक-नापित- भिक्षुकास् तेच ते च कार्य-योगात्.

6.1.10

केवलार्थास् त्व् अमी गम्याः ण् स्व-तन्त्रः पूर्वे वयसि वर्तमानो वित्तवान् अ:परोक्ष-वृत्तिर् अधिकरणवान् अ:कृच्छ्राधिगत-वित्तः. संघर्षवान् सन्ततायः सुभग-मानी श्लाघनकः पण्डकश्((162)) च पुं-शब्दार्थी. समान-स्पर्धी स्व-भावतस् त्यागी. राजनि महामात्रे वा सिद्धो दैव-प्रमाणो वित्तावमानी गुरूणां शासनातिगः स:जातानां लक्ष्य-भूतः स:वित्त एक-पुत्रो लिङ्गी प्रच्छन्न-कामः शूरो वैद्यश् चेति.

6.1.11

प्रीति-यशो-ऽर्थास् तु गुणतो ऽधिगम्याः.

6.1.12

महा-कुलीनो विद्वान् सर्व-समय-ज्ञः कविर् आख्यान-कुशलो वाग्मी प्रगल्भो विविध-शिल्प- ज्ञो वृद्ध-दर्शी स्थूल-लक्षो महोत्साहो दृढ-भक्तिर् अन्:असूयकस् त्यागी मित्र-वत्सलो घटा-गोष्ठी-प्रेक्षणक-समाज-समस्या-क्रीडन-शीलो नीरुजो ऽ:व्यङ्ग-शरीरः प्राणवान् अ:मद्य-पो वृषो मैत्रः स्त्रीणां प्रनेता लालयिता च. न चासां वश-गः स्व-तन्त्र- वृत्तिर् अ:निष्ठुरो ऽन्:ईर्ष्यालुर् अन्:अवशङ्की चेति नायक-गुणाः.

6.1.13

नायिकायाः पुना रूप-यौवन-लक्षण-माधुर्य-योगिनी गुणेष्व् अनुरक्ता न तथार्थेषु प्रीति-संयोग-शीला स्थिर-मतिर् एक-जातीया विशेषार्थिनी नित्यम् अ:कदर्य-वृत्तिर् गोष्ठी-कला-प्रिया चेति नायिका-गुणाः.

6.1.14

नायिका पुनर् बुद्धि-शीलाचार आर्जवं कृत-ज्ञता दीर्घ-दूर-दर्शित्वं अ:विसंवादिता देश-काल-ज्ञता नागरकता दैन्यातिहास-पैशुन्य-परिवाद-क्रोध-लोभ-स्तम्भ-चापल- वर्जनं पूर्वाभिभाषिता काम-सूत्र-कौशलं तद्-अङ्ग-विद्यासु चेति साधारण-गुणाः.

6.1.15

गुण-विपर्यये दोषाः.

6.1.16

क्षयी रोगी कृमि-शक्र्द् वायसास्यः प्रिय-कलत्रः परुष-वाक् कदर्यो निर्घृणो गुरु-जन-परित्यक्तः स्तेनो दम्भ-शीलो मूल-कर्मणि प्रसक्तो मानापमानयोर् अन्:अपेक्षी द्वेष्यैर् अप्य् अर्थ-हार्यो विलज्ज इत्य् अ:गम्याः.

6.1.17

रागो भयम् अर्थः संघर्षो वैर-निर्यातनं जिज्ञासा पक्षः खेदो धर्मो यशो ऽनुकम्पा सुहृद्-वाक्यं ह्रीः प्रिय-सादृश्यं धन्यता रागापनयः साजात्यं साहवेश्यं सातत्यम् आयतिश् च गमन-कारणानि भवन्तीत्य् आचार्याः.

6.1.18

अर्थो ऽन्:अर्थ-प्रतीघातः प्रीतिश् चेति वात्स्यायनः.

6.1.19

अर्थस् तु प्रीत्या न बाधितः. अस्य प्राधान्यात्.

6.1.20

भयादिषु तु गुरु-लाघवं परीक्ष्यम्
# 50च् इति सहाय-गम्यागम्य-[गमन-]कारण-चिन्ता((163)).
सेच्तिओन् (प्रकरण)51

6.1.21

उपमन्त्रितापि गम्येन सहसा न प्रतिजानीयात्. पुरुषाणां सु:लभावमानित्वात्.

6.1.22

भाव-जिज्ञासार्थं परिचारक-मुखान् संवाहक-गायन-वैहासिकान् गम्ये तद्-भक्तान् वा प्रणिदध्यात्.

6.1.23

तद्-अ:भावे पीठमर्दादीन्. तेभ्यो नायकस्य शौचा:शौचं रागापरागौ सक्ता:सक्ततां दाना:दाने च विद्यात्.

6.1.24

संभावितेन च सह विट-पुरोगां प्रीतिं योजयेत्.

6.1.25

लावक-कुक्कुट-मेष-युद्ध-शुक-शारिका-प्रलापन-प्रेक्षणक-कला-व्यपदेशेन पीठमर्दो नायकं तस्या उदवसितम् आनयेत्.

6.1.26

तां वा तस्य.

6.1.27

आगतस्य प्रीति-कौतुक-जननं किं चिद् द्रव्य-जातं स्वयम् इदम् अ:साधारणोपभोग्यम् इति प्रीति-दायं दद्यात्.

6.1.28

यत्र च रमते तया गोष्ठ्यैनम् उपचारैश् च रञ्जयेत्.

6.1.29

गते च स:परिहास-प्रलापां सोपायनां परिचारिकाम् अभीक्ष्णं प्रेषयेत्..6.1.30 स:पीठमर्दायाश् च कारणापदेशेन स्वयं गमनम्
# 51च् इति गम्योपावर्तनम्((164)).

6.1.31

भवन्ति चात्र श्लोकाः.
ताम्बूलानि स्रजश् चैव संस्कृतं चानुलेपनम्. आगतस्याहरेत् प्रीत्या कला-गोष्ठीश् च योजयेत्..

6.1.32

द्रव्याणि प्रणये दद्यात् कुर्याच् च परिवर्तनम्. संप्रयोगस्य चाकूतम् निजेनैव प्रयोजयेत्..

6.1.33

प्रीति-दायैर् उपन्यासैर् उपचारैश् च केवलैः. गम्येन सह संसृष्टा रञ्जयेत् तं ततः परम्((165))..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc