भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 5.5

5.5.1

न राज्ञां महामात्राणां वा पर-भवन-प्रवेशो विद्यते.महाजनेन हि चरितम् एषां दृश्यते ऽनुविधीयते च.

5.5.2

सवितारम् उद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च. गच्छन्तम् अपि पश्यन्त्य् अनुप्रतिष्ठन्ते च.

5.5.3

तस्माद् अ:शक्यत्वाद् गर्हणीयत्वाच् चेति न ते वृथा किं चिद् आचरेयुः.

5.5.4

अ:वश्यं त्व् आचरितव्ये योगान् प्रयुञ्जीरन्.

5.5.5

ग्रामाधिपतेर् आयुक्तकस्य हलोत्थवृत्ति-पुत्रस्य((145)) यूनो ग्रामीण-योषितो वचन-मात्र- साध्याः. ताश् चर्षण्य((146)) इत्य् आचक्षते विटाः.

5.5.6

ताभिः सह विष्टि-कर्मसु कोष्ठागार-प्रवेशे द्रव्याणां निष्क्रमण-प्रवेशनयोर् भवन-प्रतिसंस्कारे क्षेत्र-कर्मणि कर्पासोर्णातसी-शण-वल्कलादाने सूत्र-प्रतिग्रहे द्रव्याणां क्रय-विक्रय-विनिमयेषु तेषु तेषु च कर्मसु प्रयोगः.

5.5.7

तथा व्रज-योषिद्भिः गवाध्यक्षस्य.

5.5.8

विधवानाथा-प्रव्रजिताभिः सह सूत्राध्यक्षस्य.

5.5.9

मर्मज्ञात्वाद् रात्राव् अटने चाटन्तीभिर् नागरस्य.

5.5.10

क्रय-विक्रये पण्याध्यक्षस्य.

5.5.11

अष्टमी-चन्द्रकौमुदी-सु:वसन्तकादिषु पत्तन-नगर-खर्वट-योषिताम् ईश्वर-भवने सहान्तः:पुरिकाभिः प्रायेण क्रीडा.

5.5.12

तत्र चापानकान्ते नगर-स्त्रियो यथा-परिचयम् अन्तः:पुरिकानां पृथक् पृथग् भोगावासकान् प्रविश्य कथाभिर् आसित्वा पूजिताः प्रतीताश् चोपप्रदोषं निष्क्रामयेयुः.

5.5.13

तत्र प्रणिहिता राज-दासी प्रयोज्यायाः पूर्व-संसृष्टा तां तत्र संभाषेत.

5.5.14

रामणीयक-दर्शनेन योजयेत्.

5.5.15

प्राग् एव स्व-भवन-स्थां ब्रूयात्. अमुष्यां क्रीडायां तव राज-भवन-स्थानानि रामणीयकानि दर्शयिष्यामीति काले च योजयेत्. बहिः:प्रवाल-कुट्टिमं((147)) ते दर्शयिष्यामि.

5.5.16

मणि-भूमिकां वृक्ष-वाटिकां मृद्वीका-मण्डपं((148)) समुद्र-गृह-प्रासादान् गूढ-भित्ति-संचारांश् चित्र-कर्माणि क्रीडा-मृगान् यन्त्राणि शकुनान् व्याघ्र-सिंह-पञ्जरादीनि च यानि पुरस्ताद् वर्णितानि स्युः.

5.5.17

एकान्ते च तद्-गतम् ईश्वरानुरागं श्रावयेत्.

5.5.18

संप्रयोगे चातुर्यं चाभिवर्णयेत्.

5.5.19

अ:मन्त्र-श्रवं च प्रतिपन्नां योजयेत्.

5.5.20

अ:प्रतिपद्यमानां स्वयम् एवेश्वर आगत्योपचारैः सान्त्वितां रञ्जयित्वा संभूय च सानुरागं विसृजेत्.

5.5.21

प्रयोज्यायाश् च पत्युर् अनुग्रहोचितस्य दारान् नित्यम् अन्तः:पुरम् औचित्यात् प्रवेशयेत्. तत्र प्रणिहिता राज-दासीति समानं पूर्वेण.

5.5.22

अन्तः:पुरिका वा प्रयोज्यया सह स्व:चेटिका-संप्रेषणेन प्रीतिं कुर्यात्. प्रसृत-प्रीतिं च सापदेशं दर्शने नियोजयेत्. प्रविष्टां पूजितां पीतवतीं प्रणिहिता राज-दासीति समानं पूर्वेण.

5.5.23

यस्मिन् वा विज्ञाने प्रयोज्या विख्याता स्यात् तद्-दर्शनार्थम् अन्तः:पुरिका सोपचारं ताम् आह्वयेत्. प्रविष्टां प्रणिहिता राज-दासीति समानं पूर्वेण.

5.5.24

उद्भूतान्:अर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयात् असाव् अन्तः:पुरिका राजनि सिद्धा गृहीत-वाक्या मम वचनं शृणोति. स्व-भावतश् च कृपा-शीला ताम् अनेनोपायेनाधिगमिष्यामि. अहम् एव ते प्रवेशं कारयिष्यामि. सा च ते भर्तुर् महान्तम् अन्:अर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विस् त्रिर् इति प्रवेशयेत्. अन्तः:पुरिका चास्या अ:भयं दद्यात्. अ:भय-श्रवणाच् च संप्रहृष्टां प्रणिहिता राज-दासीति समानं पूर्वेण..5.5.25 एतया वृत्त्य्-अर्थिनां महामात्राभितप्तानां बलाद् विगृहीतानां व्यवहारे दुर्:बलानां स्व-भोगेना:संतुष्टानां राजनि प्रीति-कामानां राज्य-जनेषु पङ्क्तिम् इच्छतां स-जातैर् बाध्यमानानां स:जातान् बाधितु-कामानां सूचकानाम् अन्येषाम् कार्य-वशिनां जाया व्याख्याताः.

5.5.26

अन्येन वा प्रयोज्यां सह संसृष्टां संग्राह्य दास्यम् उपनीतां क्रमेणान्तः:पुरं प्रवेशयेत्.

5.5.27

प्रणिधिना चायतिम् अस्याः संदूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनाम् अन्तः:पुरं प्रवेशयेत्. इति प्रच्छन्न-योगाः((149)). एते राज-पुत्रेषु प्रायेण.

5.5.28

न त्व् एवं पर-भवनम् ईश्वरः प्रविशेत्.

5.5.29

आभीरं कोट्ट-राजं((150)) पर-भवन-गतं भ्रातृ-प्रयुक्तो रजको जघान. काशि-राजं जयसेनम् अश्वाध्यक्ष इति.

5.5.30

प्रकाश-कामितानि तु देश-प्रवृत्ति-योगात्.

5.5.31

प्रत्ता जनपद-कन्या दशमे ऽहनि किं चिद् औपायनिकम् उपगृह्य प्रविशन्त्य् अन्तः:पुरम् उपभुक्ता एव विसृज्यन्त इत्य् आन्ध्राणाम्((151)).

5.5.32

महामात्रेश्वराणाम् अन्तः:पुराणि निशि सेवार्थं राजानम् उपगच्छन्ति वात्सगुल्मकानाम्.

5.5.33

रूपवतीर् जनपद-योषितः प्रीत्य्-अपदेशेन मासं मासार्धं वातिवासयन्त्य् अन्तः:पुरिका वैदर्भाणाम्.

5.5.34

दर्शनीयाः स्व-भार्याः प्रीति-दायम् एव महामात्र-राजभ्यो ददत्य् अपरान्तकानाम्.

5.5.35

राज-क्रीडार्थं नगर-स्त्रियो जनपद-स्त्रियश् च सङ्घश एकशश् च राजकुलं प्रविशन्ति सौराष्ट्रकाणाम् इति.

5.5.36

श्लोकाव् अत्र भवतः
एते चान्ये च बहवः प्रयोगाः पारदारिकाः. देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः..

5.5.37

न त्व् एवैतान् प्रयुञ्जीत राजा लोक-हिते रतः. निगृहीतारि-षड्-वर्गस् तथा विजयते महीम्((152))..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc