भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 3.4

3.4.1

दर्शितेङ्गिताकारां कन्याम् उपायतो ऽभियुञ्जीत.

3.4.2

द्यूते क्रीडनकेषु च विवदमानः साकारम् अस्याः पाणिम् अवलम्बेत.

3.4.3

यथोक्तं च स्पृष्टकादिकम्((81)) आलिङ्गन-विधिं विदध्यात्.

3.4.4

पत्त्र-च्छेद्य-क्रियायां च स्वाभिप्राय-सूचकं मिथुनम् अस्या दर्शयेत्.

3.4.5

एवम् अन्यद् विरलशो((82)) दर्शयेत्.

3.4.6

जल-क्रीडायां तद्-दूरतो ऽप्सु निमग्नः समीपम् अस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जयेत्.

3.4.7

नवपत्त्रिकादिषु च स:विशेष-भाव-निवेदनम्.

3.4.8

आत्म-दुःखस्यानिर्वेदेन कथनम्.

3.4.9

स्वप्नस्य च भाव-युक्तस्यान्यापदेशेन.

3.4.10

प्रेक्षणके स्व-जन-समाजे वा समीपोपवेशनम्. तत्रान्यापदिष्टं स्पर्शनम्.

3.4.11

अपाश्रयार्थं च चरणेन चरणस्य पीडनम्.

3.4.12

ततः शनकैर् एकैकाम् अङ्गुलिम् अभिस्पृशेत्.

3.4.13

पादाङुष्ठेन च नखाग्राणि घट्टयेत्.

3.4.14

तत्र सिद्धः पदात् पदम् अधिकम् आकाङ्क्षेत्.

3.4.15

क्षान्त्य्-अर्थं च तद् एवाभ्यसेत्.

3.4.16

पाद-शौचे पादाङ्गुलि-संदंशेन तद्-अङ्गुलि-पीडनम्.

3.4.17

द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्-गतो विकारः.

3.4.18

आचमनान्ते चोदकेनासेकः.

3.4.19

विजने तमसि च द्वन्द्वम् आसीनः क्षान्तिं कुर्वीत. समान-देश-शय्यायां च.

3.4.20

तत्र यथार्थम् अन्:उद्वेजयतो भाव-निवेदनम्.

3.4.21

विविक्ते च किं चिद् अस्ति कथयितव्यम् इत्य् उक्त्वा निर्वचनं भावं च तत्रोपलक्षयेत्. यथा पारदारिके वक्ष्यामः.

3.4.22

विदित-भावस् तु व्याधिम् अपदिश्यैनां वार्ता-ग्रहणार्थं स्वम् उदवसितम् आनयेत्.

3.4.23

आगतायाश् च शिरः-पीडने नियोगः. पाणिम् अवलम्ब्य चाश्याः साकारं नयनयोर् ललाटे च निदध्यात्.

3.4.24

औशाधापदेशार्थं चास्याः कर्म विनिर्दिशेत्.

3.4.25

इदं त्वया कर्तव्यम्. न ह्य् एतद्-ऋते कन्याया अन्येन कार्यम् इति गच्छन्तीं पुनर् आगमनानुबन्धम् एनां विसृजेत्.

3.4.26

अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः.

3.4.27

अभीक्ष्ण-दर्शनार्थम् आगतायाश् च गोष्ठीं वर्धयेत्.

3.4.28

अन्याभिर् अपि सह विश्वासनार्थम् अधिकम् अधिकं चाभियुञ्जीत. न तु वचा निर्वदेत्.

3.4.29

दूर-गत-भावो ऽपि हि कन्यासु न निर्वेदेन सिध्यातीति घोटकमुखः.

3.4.30

यदा तु बहु-सिद्धां मन्येत तदैवोपक्रमेत्..3.4.31 प्रदोषे निशि तमसि च योषितो मन्द-साध्वसाः((83)) सु:रत-व्यवसायिन्यो रागवत्यश् च भवन्ति. न तु पुरुषं प्रत्याचक्षते. तस्मात् तत्-कालं प्रयोजयितव्या इति प्रायोवादः.

3.4.32

एक-पुरुषाभियोगानां त्व् अ:संभवे गृहीतार्थया धात्रेयिकया सख्या वा तस्याम् अन्तर्:भूतया तम् अर्थम् अ:निर्वदन्त्या सहैनाम् अङ्कम् आनाययेत्. ततो यथोक्तम् अभियुञ्जीत.

3.4.33

स्वां वा परिचारिकाम् आदाव् एव सखीत्वेनास्याः प्रणिदध्यात्.

3.4.34

यज्ञे विवाहे यात्रायाम् उत्सवे व्यसने प्रेक्षणक-व्यापृते((84)) जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षित-भावाम् एकाकिनीम् उपक्रमेत.

3.4.35

न हि दृष्ट-भावा योषितो देशे काले च प्रयुज्यमाना((85)) व्यावर्तन्त इति वात्स्यायनः.
# 28 इत्य् एकपुरुषाभियोगः((86)).
सेच्तिओन् (प्रकरण)29

3.4.36

मन्दापदेशा((87)) गुणवत्य् अपि कन्या धन-हीना कुलीनापि समानैर् अ:याच्यमाना मातापितृ-वियुक्ता वा ज्ञाति-कुल-वर्तिनी वा प्राप्त-यौवना पाणि-ग्रहणं स्वयम् अभीप्सेत.

3.4.37

सा तु गुणवन्तं शक्तं सु:दर्शनं बाल-प्रीत्याभियोजयेत्.

3.4.38

यं वा मन्येत मातापित्रोर् अ:समीक्षया स्वयम् अप्य् अयम् इन्द्रिय-दौर्बल्यान् मयि प्रवर्तिष्यत इति प्रिय-हितोपचारैर् अभीक्ष्ण-संदर्शनेन च तम् आवर्जयेत्.

3.4.39

माता चैनां सखीभिर् धात्रेयिकाभिश् च सह तद्-अभिमुखीं कुर्यात्.

3.4.40

पुष्प-गन्ध-ताम्बूल-हस्ताया वि:जने वि:काले च तद्-उपस्थानम्. कला-कौशल-प्रकाशने वा संवाहने शिरसः पीडने चौचित्य-दर्शनम्. प्रयोज्यस्य सात्म्य-युक्ताः कथा-योगाः बालायाम् उपक्रमेषु यथोक्तम् आचरेत्((88)).

3.4.41

न चैवान्तरापि((89)) पुरुषं स्वयम् अभियुञ्जीत. स्वयम् अभियोगिनी हि युवतिः सौभाग्यं जहातीत्य् आचार्याः.

3.4.42

तत्-प्रयुक्तानां त्व् अभियोगानाम् आनुलोम्येन ग्रहणम्.

3.4.43

परिष्वक्ता((90)) च न विकृतिं भजेत्. श्लक्ष्णम्((91)) आकारम् अ:जानतीव प्रतिगृहीयात्. वदन-ग्रहणे बलात्-कारः.

3.4.44

रति-भावनाम् अभ्यर्थ्यमानायाः कृच्छ्राद् गुह्य-संस्पर्शनम्.

3.4.45

अभ्यर्थितापि नातिविवृता स्वयं स्यात्. अन्यत्रा:निश्चय-कालात्((92)).

3.4.46

यदा तु मन्येतानुरक्तो मयि न व्यावर्तयिष्यत इति तदैवैनम् अभियुञ्जानं बाल-भाव- मोक्षाय त्वरेत्.

3.4.47

विमुक्त-कन्या-भावा च विश्वास्येषु प्रकाशयेत्.
इति प्रयोज्यस्योपावर्तनम्((93)).
सेच्तिओन् (प्रकरण)30

3.4.48

भवन्ति चात्र श्लोकाः.
कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखम्. अनुकूलं च वश्यं च तस्य कुर्यात् परिग्रहम्..

3.4.49

अन्:अपेक्ष्य गुणान् यत्र रूपम् औचित्यम् एव च. कुर्वीत धन-लोभेन पतिं सापत्नकेष्व् अपि..

3.4.50

तत्र युक्त-गुणं वश्यं शक्तम् बलवद् अर्थिनम्. उपायैर् अभियुञ्जानं कन्या न प्रतिलोभयेत्..

3.4.51

वरं वश्यो दरिद्रो ऽपि निर्:गुणो ऽप्य् आत्म-धारणः. गुणैर् युक्तो ऽपि न त्व् एवं बहु-साधारणः..

3.4.52

प्रायेण धनिनां दारा बहवो निर्:अवग्रहाः. बाह्ये सत्य् उपभोगे ऽपि निर्विस्रम्भा बहिः-सुखाः..

3.4.53

नीचो यस् त्व् अभियुञ्जीत पुरुषः पलितो ऽपि वा. वि:देश-गति-शीलश् च न स संयोगम् अर्हति..

3.4.54

यदृच्छयाभियुक्तो यो दम्भ-द्यूताधिको ऽपि. स:पत्नीकश् च सापत्यो न स संयोगम् अर्हति..

3.4.55

गुण-साम्ये ऽभियोक्तॄणाम् एको वरयिता वरः. तत्राभियोक्तरि श्रैष्ठ्यम् अनुरागात्मको हि सः((94))..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc