भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 3.3

3.3.1

धन-हीनस् तु गुण-युक्तो ऽपि मध्यस्थ-गुणो हीनापदेशो वा सधनो वा प्रातिवेश्यः मातृ-पितृ-भ्रातृषु च परतन्त्रः बाल-वृत्तिर् उचित-प्रवेशो वा कन्याम् अलभ्यत्वान् न वरयेत्.

3.3.2

बाल्यात् प्रभृति चैनां स्वयम् एवानुरञ्जयेत्.

3.3.3

तथा-युक्तश् च मातुल-कुलानुवर्ती दक्षिणपथे बाल एव मात्रा पित्रा च वियुक्तः परिभूत-कल्पो धनोत्कर्षाद् अ:लभ्यां मातुल-दुहितरम् अन्यस्मै वा पूर्व-दत्तां साधयेत्.

3.3.4

अन्याम् अपि बाह्यां स्पृहयेत्.

3.3.5

बालायाम् एवं सति धर्माधिगमे संवननं((76)) श्लाघ्यम् इति घोटकमुखः.

3.3.6

तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृका-क्रीडायोजनं भक्त-पान-करणम् इति कुर्वीत. परिचयस्य वयसश् चानुरूप्यात्.

3.3.7

आकर्ष-क्रीडा पट्टिका-क्रीडा मुष्टि-द्यूत-क्षुल्लकादि-द्यूतानि मध्यमाङ्गुलि-ग्रहणं षट्-पाषाणकादीनि च देश्यानि तत्:सात्म्यात् तद्-अप्त-दास-चेटिभिस् तया च सहानुक्रीडेत.

3.3.8

क्ष्वेदितकानि सु:निमिलित-काम् आरब्धिकां लवण-वीथिकाम् अनिल-ताडितकां गोधूम-पञ्जिकाम् अङ्गुलि-ताडिकां सखीभिर् अन्यानि च देश्यानि.

3.3.9

यां च विश्वास्याम् अस्यां मन्येत तया सह निर्:अन्तरां प्रीतिं कुर्यात्. परिचयांश् च बुध्येत.

3.3.10

धात्रेयिकां चास्याः प्रिय-हिताभ्याम् अधिकम् उपगृह्णीयात्. सा हि प्रीयमाणा विदिताकाराप्य् अ:प्रत्यादिशन्ती तं तां च योजयितुं शक्नुत्यात्. अन्:अभिहितापि प्रत्याचार्यकम्.

3.3.11

अ:विदिताकारापि हि गुणान् एवानुरागात् प्रकाशयेत्. यथा प्रयोज्यानुरज्येत.

3.3.12

यत्र यत्र च कौतुकं प्रयोज्यायास् तद् अनु प्रविश्य साधयेत्.

3.3.13

क्रीडनक-द्रव्याणि यान्य् अ:पूर्वाणि यान्य् अन्यासां विरलशो विद्येरंस् तान्य् अस्या अ:यत्नेन संपादयेत्.

3.3.14

तत्र कन्दुकम् अन्:एक-भक्ति-चित्रम् अल्प-कालान्तरितम् अन्यद् अन्यच् च संदर्शयेत्. तथा सूत्र-दारु-गवल-गज-दन्तमयीर् दुहितृका मधूच्छिष्ट-पिष्ट-मृन्मयीश् च.

3.3.15

भक्त-पाकार्थम् अस्या महानसिकस्य च दर्शनम्.

3.3.16

काष्ठ-मेढ्रकयोश् च संयुक्तयोश् च स्त्री-पुंसयोर् अजैडकानां((77)) देव-कुल-गृहकाणां च शुक-परभृत-मदन-सारिका-लाव-कुक्कुट-तिरि-पिञ्जरकाणां च विचित्राकृति-संयुक्तानां जल-भाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् अलक्तक-मनःशिला-हरिताल-हिङ्गुलक-श्यामवर्णकादीनां तथा चन्दन-कुङ्कुमयोः पूग-फलानां पत्त्राणां काल-युक्तानां च सक्ति-विषये प्रच्छन्नं दानं प्रकाश-द्रव्याणां च प्रकाशम्. यथा च सर्वाभिप्राय-संवर्धकम् एनं मन्येत तथा प्रयतितव्यम्.

3.3.18

प्रछन्न-दानस्य तु कारणम् आत्मनो गुरु-जनाद् भयं ख्यापयेत्. देयस्य चान्येन स्पृहणीयत्वम् इति.

3.3.19

वर्धमानानुरागं चाख्यानके मनः कुर्वतीम् अन्वर्थाभिः कथाभिश् चित्त-हारिणीभिश् च रञ्जयेत्.

3.3.20

विस्मयेषु प्रसह्यमानाम् इन्द्र-जालैः प्रयोगैर् विस्मापयेत्. कलासु कौतुकिनीं तत्-कौशलेन गीत-प्रियां श्रुति-हरैर् गीतैः. आश्व-युज्याम् अष्टमी-चन्द्रके कौमुद्याम् उतसवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैर् आपीडैः कर्ण-पत्त्र-भङ्गैः सिक्थक-प्रधानैर् वस्त्राङ्गुलीयक-भूषण-दानैश् च. नो चेद् दोष-कराणि मन्येत.

3.3.21

अन्य-पुरुष-विशेषाभिज्ञतया धात्रेयिकास्याः पुरुष-प्रवृत्तौ चातुः-षष्टिकान् योगान् ग्राहयेत्.

3.3.22

तद्-ग्रहणोपदेशेन च प्रयोज्यायां रति-कौशलम् आत्मनः प्रकाशयेत्.

3.3.23

उदार-वेषश् च स्वयम् अन्:उपहत-दर्शनश् च स्यात्. भावं च कुर्वतीम् इङ्गिताकारैः सूचयेत्.

3.3.24

यवतयो हि संसृष्टम् अभीक्ष्ण-दर्शनं च पुरुषं प्रथमं कामयन्ते. कामयमाना अपि तु नाभियुञ्जत इति प्रायो:वादः.
इति बालायाम् उपक्रमाः((78)).
सेच्तिओन् (प्रकरण)27

3.3.25

तान् इङ्गिताकारान् वक्ष्यामः((79))..3.3.26 संमुखं तं तु न वीक्षते. वीक्षिता व्रीडां दर्शयति. रुच्यम् आत्मनो ऽङ्गम् अपदेशेन प्रकाशयति. प्रमत्तं प्रच्छन्नं नायकम् अतिक्रान्तं च वीक्षते.

3.3.27

पृष्टा च किं चित् स:स्मितम् अ:व्यक्ताक्षरम् अन्:अवसितार्तं च मन्दं मन्दम् अधो-मुखी कथयति. तत्-समीपे चिरं स्थानम् अभिनन्दति. दूरे स्थिता पश्यतु माम् इति मन्यमाना परिजनं स:वदन-विकारम् आभाषते. तं देशं न मुञ्चति.

3.3.28

यत् किं चिद् दृष्ट्वा विहसितं करोति. तत्र कथाम् अवस्थानार्थम् अनुबध्नाति. बालस्याङ्क-गतस्यालिङ्गनं चुम्बनं च करोति. परिचारिकायास् तिलकं च रचयति. परिजनान् अवष्टभ्य तास् ताश् च लीला दर्शयति.

3.3.29

तन्-मित्रेषु विश्वासिति. वचनं चैषां बहु मन्यते करोति च. तत्-परिचारकैः सह प्रीतिं संकथां द्यूतम् इति च करोति. स्व-कर्मसु च प्रभविष्णुर् इवैतान् नियुङ्क्ते. तेषु च नायक-संकथाम् अन्यस्य कथयत्स्व् अवहितातां शृणोति.

3.3.30

धात्रेयिका चोदिता नायकयोदवसितं प्रविशति. ताम् अन्तरा कृत्वा तेन सह द्यूतं क्रीडाम् आलापं चायोजयितुम् इच्छति. अन्:अलंकृता दर्शन-पथं परिहरति. कर्ण-पत्त्रम् अङ्गुलीयकं स्रजं वा तेन याचिता स:धीरम् एव गात्राद् अवतार्य सख्या हस्ते ददाति. तेन च दत्तं नित्यं धारयति. अन्य-वर-संकथासु विषण्णा भवति. तत्-पक्षकैश् च सह न संसृज्यत इति.

3.3.31

भवतश् चात्र श्लोकौ.
दृष्ट्वैतान् भाव-संयुक्तान् आकारान् इङ्गितानि च. कन्यायाः संप्रयोगार्थं तांस् तान् योगान् विचिन्तयेत्..

3.3.32

बाल-क्रीडनकैर् बाला कलाभिर् यौवने स्थिता. वत्सला चापि संग्राह्या विश्वास्य-जन-संग्रहात्((80)).

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc