कामसूत्र · अध्याय 3.5
प्राचुर्येण((95)) कन्याया विविक्त-दर्शनस्यालाभे धात्रेयिकां प्रिय-हिताभ्याम् उपगृह्योपसर्पेत्.
सा चैनाम् अ:विदिता नाम नायकस्य भूत्वा तद्-गुणैर् अनुरञ्जयेत्. तस्याश् च रुच्यान् नायक-गुणान् भूयिष्ठम् उपवर्णयेत्.
अन्येषां वरयितॄणां दोषान् अभिप्राय-विरुद्धान् प्रतिपादयेत्..3.5.4 मातापित्रोश् च गुणान्:अभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम्.
याश् चान्या अपि समान-जातीयाः कन्याः शकुन्तलाद्याः स्व-बुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म((96)) ताश् चास्या निदर्शयेत्.
महा-कुलेषु सापत्नकैर् बाध्यमाना विद्विष्टाः दुःखिताः परित्यक्ताश् च दृश्यन्ते.
आयतिं चास्य वर्णयेत्.
सुखम् अन्:उपहतम् एक-चारितायां नायकानुरागं च वर्णयेत्.
स:मनोरथायाश् चास्या अपायं साध्वसं व्रीडां च हेतुभिर् अवच्छिन्द्यात्.
दूती-कल्पं च सकलम् आचरेत्((97)).
त्वाम् अ:जानतीम् इव नायको बलाद् ग्रहीष्यतीति तथा सु:परिगृहीतं स्याद् इति योजयेत्.
प्रतिपन्नाम् अभिप्रेतावकाश-वर्तिनीं नायकः श्रोत्रियागाराद् अग्निम् आनय्य कुशान् आस्तीर्य यथा-स्मृति हुत्वा च त्रिः परिक्रमेत्.
ततो मातरि पितरि च प्रकाशयेत्.
अग्नि-साक्षिका हि विवाहा न निवर्तन्त इत्य् आचार्य-समयः.
दूषयित्वा चैनां शनैः स्व-जने प्रकाशयेत्.
तद्-बान्धवाश् च यथा कुलस्याघं परिहरन्तो दण्ड-भयाच्((98)) च तस्मा एवैनां दद्युस् तथा योजयेत्.
अन्:अन्तरं च प्रीत्य्-उपग्रहेण रागेण तद्-बान्धवान् प्रीणयेद्((99)) इति.
गान्धर्वेण विवाहेन वा चेष्टेत.
अ:प्रतिपद्यमानायाम् अन्तश्-चारिणीम् अन्यां कुल-प्रमदां पूर्व संसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यम् अवकाशम् एनाम् अन्य-कार्यापदेशेनानाययेत्.
ततः श्रोत्रियागाराद् अग्निम् इति समानं पूर्वेण((100)).
आसन्ने च विवाहे मातरम् अस्यास् तद्-अभिमत-दोषैर् अनुशयं((101)) ग्राहयेत्.
ततस् तद्-अनुमतेन प्रातिवेश्या-भावने((102)) निशि नायकम् आनाय्य श्रोत्रियागाराद् अग्निम् इति सम्~आनं पूर्वेण.
भ्रातरम् अस्या वा समान-वयसं वेश्यासु पर-स्त्रीषु वा प्रसक्तम् अ:सुकरेण साहाय्य-दानेन प्रियोपग्रहश् च सु:दीर्घ-कालम् अनुरञ्जयेत्. अन्ते च स्वाभिप्रायं ग्राहयेत्.
प्रायेण हि युवानः समान-शील-व्यसन-वयसां वयस्यानाम् अर्थे जीवितम् अपि त्यजन्ति. ततस् तेनैवान्य-कार्यात् ताम् आनाययेत्. विषह्यं सावकाशम्((103)) इति समानं पूर्वेण.
अष्टमी-चन्द्रिकादिषु च धात्रेयिका मदनीयम् एनां पाययित्वा किं चिद् आत्मनः कार्यम् उद्दिश्य नायकस्य विषह्यं देशम् आनयेत्. तत्रैनां मदात् संज्ञाम् अ:प्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण.
सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञाम् अ:प्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण((104)).
ग्रामान्तरम् उद्यानं वा गच्छन्तीं विदित्वा सु:संभृत-सहायो नायकस् तदा रक्षिणो वित्रास्य हत्वा वा कन्याम् अपहरेत्((105)).
इति विवाह-योगाः.
पूर्वः पूर्वः प्रधानं स्याद् विवाहो धर्मतः स्थितेः. पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः..
व्यूढानां हि विवाहानाम् अनुरागः फलं यतः. मध्यमो ऽपि हि सद्-योगो गान्धर्वस् तेन पूजितः..
सुखत्वाद् अ:बहु-क्लेशाद् अपि चावरणाद् इह. अनुरागात्मकत्वाच् च गान्धर्वः प्रवरो मतः((106))..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0