कामसूत्र · अध्याय 3.2
तस्मिन्न् एतां निशि वि:जने मृदुभिर् उपचारैर् उपक्रमेत.
त्रि-रात्रम् अ:वचनं हि स्तम्भम् इव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच् च तृतीयाम् इव प्रकृतिम्. इति बाभ्रवीयाः.
उपक्रमेत विस्रम्भयेच् च न तु ब्रह्मचर्यम् अतिवर्तेत. इति वात्स्यायानः.
उपक्रममाणश् च न प्रसह्य किं चिद् आचरेत्.
कुसुम-स:धर्माणो हि योषितः सु:कुमारोपक्रमाः. तास् त्व् अन्:अधिगत-विश्वासैः प्रसभम् उपक्रम्यमाणः संप्रयोग-द्वेषिण्यो भवन्ति. तस्मात् साम्नैवोपचरेत्.
युक्त्यापि तु यतः प्रसरम् उपलभेत् तेनैवानु प्रविशेत्.
तत्-प्रियेणालिङ्गेनाचरितेन नाति:कालत्वात्.
पूर्व-कायेण चोपक्रमेत्. विषह्यत्वात्.
दीपालोके विगाढ-यौवनायाः पूर्व-संस्तुतायाः. बालाया अ:पूर्वायाश् चान्धकारे.
अङ्गी-कृत-परिष्वङ्गायाश् च वदनेन ताम्बूल-दानम्. तद्-अ:प्रतिपद्यमानां च सान्त्वनैर् वाक्यैः शपथैः प्रतियाचितैः पाद-पतनैश् च ग्राहयेत्. व्रीडा-युक्तापि योषिद् अत्य्:अन्त-क्रुद्धापि न पाद-पतनम् अतिवर्तते इति सार्वत्रिकम्.
तद्-दान-प्रसङ्गेण मृदु विशदम् अ:काहलम् अस्याश् चुम्बनम्.
तत्र सिद्धाम् आलापयेत्.
तच्-छ्रवणार्थं यत् किं चिद् अल्पाक्षरम् अभिधेयम् अ:जानन्न् इव पृच्छेत्.
तत्र निष्:प्रतिपत्तिम् अन्:उद्वेजयन् सान्त्वना-युक्तं बहुश एव पृच्छेत्.
यत्रापि अ:वदन्तीं निर्बध्नीयात्.
सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते. न तु लघु-मिश्राम् अपि वाचं वदन्ति. इति घोटकमुखः.
निर्बध्यमाना तु शिरः-कम्पेन प्रतिवचनानि योजयेत्. कलहे तु न शिरः कम्पयेत्.
इच्छसि मां नेच्छसि वा किं ते ऽहम् रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्बध्यमाना तद्-आनुकुल्येन शिरः कम्पयेत्. प्रपञ्च्यमाना तु विवदेत्.
संस्तुता चेत् सखीम् अनुकूलाम् उभयतो ऽपि विस्रब्धां ताम् अन्तरा कृत्वा कथां योजयेत्. तस्मिन्न् अधो-मुखी विहसेत्. तां चाति:वादिनीम् अधिक्षिपेद् विवदेच् च. सा तु परिहासार्थम् इदम् अनयोक्तम् इति चानुक्तम् अपि ब्रूयात्. तत्र ताम् अपनुद्य प्रतिवचनार्थम् अभ्यर्थ्यमाना तूष्णीम् आसीत. निर्बध्यमाना तु नाहम् एवं ब्रवीमीत्य् अ:व्यक्ताक्षरम् अन्:अवसितार्थं वचनं ब्रूयात्. नायकं तु विहसन्ती कदा चित् कटाक्षैः प्रेक्षेत. इत्य् आलाप-योजनम्.
एवं जात-परिचया चा:निर्वदन्ती तत्-समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात्. उत्तरीये वास्य निबध्नीयात्.
यथा:युक्ताम् आच्छुरितकेन((73)) स्तन-मुकुलयोर्((74)) उपरि स्पृशेत्.
वार्यमाणश् च त्वम् अपि मां परिष्वजस्व ततो नैवम् आचरिष्यामीति स्थित्या परिष्वञ्जयेत्. स्वं च हस्तम् आ नाभिदेशात् प्रसार्य निर्वर्तयेत्. क्रमेण चैनाम् उत्सङ्गम् आरोप्याधिकम् अधिकम् उपक्रमेत्. अ:प्रतिपद्यमानां च भीषयेत्.
अहं खलु तव दन्तपदान्य् अधरे करिष्यामि स्तन-पृष्ठे च नख-पदम्. आत्मनश् च स्वयं कृत्वा त्वया कृतम् इति ते सखी-जनस्य पुरतः कथयिष्यामि. सा त्वं किम् अत्र वक्ष्यसीति बाल-विभीषिकैर् बाल-प्रत्यायनैश् च शनैर् एनां प्रतारयेत्.
द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिद् अधिकं विस्रम्भितां हस्तेन योजयेत्.
सर्वाङ्गिकं चुम्बनम् उपक्रमेत.
ऊर्वोश् चोपरि विन्यस्त-हस्तः संवाहन-क्रियायां सिद्धायां क्रमेणोरु-मूलम् अपि संवाहयेत्. निवारिते संवाहने को दोष इत्य् आकुलयेद् एनाम्. तच् च स्थिरी:कुर्यात्. तत्र सिद्धाया गुह्य-देशाभिमर्शनम्.
रशन-वियोजनं नीवी-विस्रंसनं वसन-परिवर्तनम् ऊरु-मूल-संवाहनं च. एते चास्यान्यापदेशाः. युक्त-यन्त्रां रञ्जयेत्. न त्व् अ:काले व्रत-खण्डनम्.
अनुशिष्याच् च. आत्मानुरागं दर्शयेत्. मनोरथांश् च पूर्व-कालिकान् अनुवर्णयेत्. आयत्यां च तद्-आनुकूल्येन प्रवृत्तिं प्रतिजानीयात्. स:पत्नीभ्यश् च साध्वसम् अवच्छिन्द्यात्. कालेन च क्रमेण विमुक्त-कन्या-भावाम् अन्:उद्वेजयन्न् उपक्रमेत. इति कन्या-विस्रम्भनम्.
भवन्ति चात्र श्लोकाः.
एवं चित्तानुरागो बालाम् उपायेन प्रसाधयेत्. तथास्य सानुरक्ता च सु:विस्रब्धा प्रजायते..
नत्य्:अन्तम् आनुलोम्येन न चाति:प्रातिलोम्यतः. सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत्..
आत्मनः प्रीति-जननं योषितां मान-वर्धनम्. कन्या-विस्रम्भणं वेत्ति यः स तासां प्रियो भवेत्..
अति:लज्जान्वीतेत्य् एवं यस् तु कन्याम् उपेक्षते. सो ऽन्:अभिप्राय-वेदीति पशुवत् परिभूयते...3.2.34व् सहसा वाप्य् उपक्रान्ता कन्या-चित्तम् अ:विन्दता. भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति..
सा प्रीति-योगम् अ:प्राप्ता तेनोद्वेगेन दूषिता. पुरुष-द्वेषिणी वा स्याद् विद्विष्टा वा ततो ऽन्य-गा((75))..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0