कामसूत्र · अध्याय 2.9
द्विविधा तृतीय-प्रकृतिः स्त्री-रूपिणी पुरुष-रूपिणी च.
तत्र स्त्री-रूपिणी स्त्रिया वेषम् आलापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम् अ:सहिष्णुतां व्रीडां चानुकुर्वीत.
तस्य वदने जघन-कर्म. तद् औपरिष्टकम् आचक्षते.
सा ततो रतिम् आभिमानिकीं वृत्तिं च लिप्सेत्.
वेश्यावच् चरितं प्रकाशयेत्. इति स्त्री-रूपिणी.
पुरुष-रूपिणी तु प्रछन्न-कामा पुरुषं लिप्समाना संवाहक-भावम् उपजीवेत्.
संवाहने परिष्वजमानेव गात्रैर् ऊरू नायकस्य मृद्नीयात्.
प्रसृत-परिचया चोरु-मूलं स:जघनम् इति संस्पृशेत्.
तत्र स्थिर-लिङ्गताम् उपलभ्य चास्य पाणि-मन्थेन परिघट्टयेत्. चापलम्((34)) अस्य कुत्सयन्तीव हसेत्.
कृत-लक्षणेनाप्य् उपलब्ध-वैकृतेनापि न चोद्यत इति चेत् स्वयम् उपक्रमेत्.
पुरुषेण च चोद्यमाना विवदेत्. कृच्छ्रेण चाभ्युपगच्छेत्.
तत्र कर्माष्ट-विधं समुच्चय-प्रयोज्यम्.
[1]निमितं [2]पार्श्वतो-दष्टं [3]बाहिः-संदंशो [4]अन्तः-संदंशश् [5]चुम्बितकं [6]परिमृष्टकम् [7]आम्र-चूषितकं [8]संगर इति.
तेष्व् एकैकम् अभ्युपगम्य विरामाभीप्सां दर्शयेत्.
इतरश् च पूर्वस्मिन्न् अभ्युपगते तद् उत्तरम् एवापरं निर्दिशेत्. तस्मिन्न् अपि सिद्धे तद्-उत्तरम् इति.
करावलम्बितम् ओष्ठयोर् उपरि विन्यस्तम् अपविध्य((35)) मुखं विधुनुयात्((36)). तन् [1]निमितं.
हस्तेनाग्रम् अवच्छाद्य पार्श्वतो निर्दशनम् ओष्ठाभ्याम् अवपीड्य भवत्व् एतावद् इति सान्त्वयेत्. तत् [2]पार्श्वतो-दष्टम्..2.9.18 भूयश् चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव चुम्बेत्. इति [3] बाहिः-संदंशः.
तस्मिन्न् एवाभ्यर्थनया किं चिद् अधिकं प्रवेशयेत्. सापि चाग्रम् ओष्ठाभ्यां निष्पीड्य निष्ठीवेत्((37)). इति [4]अन्तः-संदंशः.
करावलम्बितस्यौष्ठवद् ग्रहणं [5]चुम्बितकम्.
तत् कृत्वा जिह्वाग्रेण सर्वतो घट्टनम् अग्रे च व्यधनम् इति [6]परिमृष्टकम्.
तथा:भूतम् एव राग-वशाद् अर्ध-प्रविष्टं निर्दयम् अवपीड्यावपीड्य मुञ्चेत्. इत्य् [7] आम्र-चूषितकम्.
पुरुषाभिप्रायाद् एव गिरेत् पीडयेच् चापरिसमाप्तेः. इति [7]संगरः.
यथार्थं चात्र स्तनन-प्रहणनयोः प्रयोगः. इत्य् औपरिष्टकम्.
कुलटाः((38)) स्वैरिण्यः परिचारिकाः संवाहिकाश् चाप्य् एतत् प्रयोजयन्ति.
तद् एतत् तु न कार्यम्. समय-विरोधाद्((39)) अ:सभ्यत्वाच् च. पुनर् अपि ह्य् आसां वदन-संसर्गे स्वयम् एवार्तिं प्रपद्येत. इत्य् आचार्याः.
वेश्या-कामिनो ऽयम् अ:दोषः((40)). अन्यतो ऽपि परिहार्यः स्यात्. इति वात्स्यायनः.
तस्माद् यास् त्व् औपरिष्टकम् आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः.
वेश्याभिर् एव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुख-कर्म तासां परिहरन्ति.
निर्:अपेक्षाः साकेताः((41)) संसृज्यन्ते.
न तु स्वयम् औपरिष्टकम् आचरन्ति नागरकाः.
सर्वम् अ:विशङ्कया प्रयोजयन्ति सौरसेनाः.
एवं ह्य् आहुः ण् को हि योषितां आचारं चरित्रं प्रत्ययं वचनं वा श्रद्:धातुम् अर्हति. निसर्गाद् एव हि मलिन-दृष्टयो भवन्त्य् एता न परित्याज्याः. तस्माद् आसां स्मृतित एव शौचम् अन्वेष्टव्यम्. एवं ह्य् आहुः
वत्सः प्रस्रवणे मेध्यः श्वा मृग-ग्रहणे शुचिः. शकुनिः फल-पाते तु स्त्री-मुखं रति-संगमे.. इति.
शिष्ट-विप्रतिपत्तेः स्मृति-वाक्यस्य च सावकाशत्वाद् देश-स्थितेर् आत्मनश् च वृत्ति-प्रत्ययानुरूपं प्रवर्तेत. इति वात्स्यायनः.
भवन्ति चात्र श्लोकाः प्रमृष्ट-कुण्डलाश्((42)) चापि युवानः परिचारकाः. केषां चिद् एव कुर्वन्ति नराणाम् औपरिष्टकम्..
तथा नागरकाः के चिद् अन्योन्यस्य हितैषिणः. कुर्वन्ति रूढ-विश्वासाः परस्पर-परिग्रहम्..
पुरुषाश् च तथा स्त्रीषु कर्मैतत् किल कुर्वते. व्यासस् तस्य च विज्ञेयो मुख-चुम्बनवद् विधिः..
परिवर्तित-देहौ तु स्त्री-पुंसौ यत् परस्-परम्. युगपत् संप्रयुज्येते स कामः काकिलः((43)) स्मृतः..
तस्माद् गुणवतस् त्यक्त्वा चतुरांस् त्यागिनो नरान्. वेश्याः खलेषु रज्यन्ते दास-हस्तिपकादिषु..
न त्व् एतद् ब्राह्मणो विद्वान् मन्त्री वा राज-धूर्धरः. गृहीत-प्रत्ययो वापि कारयेद् औपरिष्टकम्..
न शास्त्रम् अस्तीत्य् एतावत् प्रयोगे कारणं भवेत्. शास्त्रार्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एक-देशिकान्..
रस-वीर्य-विपाका हि श्व-मांसस्यापि वैद्यके. कीर्तिता इति तत् किं स्याद् भक्षणीयं विचक्षणैः..
सन्त्य् एव पुरुषाः केचित् सन्ति देशास् तथा:विधाः. सन्ति कालाश् च येष्व् एते योगा न स्युर् निर्:अर्थकाः..
तस्माद् देशं च कालं च प्रयोगं शास्त्रम् एव च. आत्मानं चापि संप्रेक्ष्य योगान् युञ्जीत वा न वा..
अर्थस्यास्य रहस्यत्वाच् चलत्वान् मनसस् तथा. कः कदा किं कुतः कुर्याद् इति को ज्ञातुम् अर्हति..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0