कामसूत्र · अध्याय 2.8
नायकस्य संतताभ्यासात् प्रैश्रमम् उपलभ्य रागस्य चान्:उपशमम् अनुमता तेन तम् अधो ऽवपात्य पुरुषायितेन साहाय्यं दद्यात्.
स्वाभिप्रायाद् वा विकल्प-योजनार्थिनी.
नयक-कुतूहलाद् वा.
तत्र युक्त-यन्त्रेणैवेतरेणोत्थाप्यमाना तम् अधः पातयेत्. एवं च रतम् अ:विछिन्न-रसं तथा प्रवृत्तम् एव स्यात्. इत्य् एको ऽप्य् अयं मार्गः.
पुनर् आरम्भेणादित एवोपक्रमेत्. इति द्वितीयः.
सा प्रकीर्यमाण-केश-कुसुमा श्वास-विच्छिन्न-हासिनी वक्त्र-संसर्गार्थं स्तनाभ्याम् उरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश् चेष्टाः पूर्वम् असौ दर्शितवांस् ता एव प्रकुर्वीत. पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात्. पुनश् च व्रीडां((27)) दर्शयेत्. श्रमं विरामाभीप्सां च. पुरुषोपसृप्तैर् एवोपसर्पेत्.
तानि च वक्ष्यामः((28))
सेच्तिओन् (प्रकरण)18
पुरुषः शयनस्थाया योषितस् तद्-वचन-व्याक्षिप्त-चित्ताया इव नीवीं विश्लेषयेत्. तत्र विवदमानां कपोल-चुम्बनेन पर्याकुलयेत्.
स्थिर-लिङ्गश् च तत्रैनां परिस्पृशेत्.
प्रथम-संगता चेत् संहतोर्वोर् अन्तरे घट्टनम्.
कन्यायाश् च.
तथा स्तनयोः संहतयोर् हस्तयोः कक्षयोर् अंसयोर् ग्रीवायाम् इति च.
स्वैरिण्यां यथा:सात्म्यं यथा-योगं च. अलके चुम्बनार्थम् एनां निर्दयम् अवलम्बेत् हनु-देशे चाङ्गुलि-संपुतेन.
तत्रेतरस्य व्रीडा निमीलनं च. प्रथम-समागमे कन्यायाश् च.
रति-संयोगे चैनां कथम् अनुरज्यत इति प्रवृत्त्या परीक्षेत.
युक्त-यन्त्रेणोपसृप्यमाना यतो दृष्टिम् आवर्तयेत् तत एवैनां पीडयेत्. एतद् रहस्यं युवतीनाम् इति सुवर्णनाभः.
गात्राणां स्रंसनं नेत्र-निमीलनं व्रीडा-नाशः समधिका च रति-योजनेति स्त्रीणां भाव-लक्षणम्..2.8.18 हस्तौ विधुनोति स्विद्यति दशत्य् उत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी.
तस्याः प्राग् यन्त्र-योगात् करेण संबाधं गज इव क्षोभयेत्. आ मृदु-भावात्. ततो यन्त्र-योजनम्.
उपसृप्तकं [1]मन्थनं [2]हुलो((29)) [3]अवमर्दनं [4]पीडितकं [5]निर्घातो [6]वराह-घातो [7]वृष-घातश् [8]चटक-विलसितं [9]संपुट इति पुरुषोपसृप्तानि.
न्याय्यम् ऋजु-संमिश्रणम् उपसृप्तकम्.
हस्तेन लिङ्गं सर्वतो भ्रामयेद् इति [1]मन्थनम्.
नीची-कृत्य जघनम् उपरिष्टाद् घट्टयेद् इति [2]हुलः.
तद् एव विपरीतं स:रभसम् [3]अवमर्दनम्.
लिङ्गेन समाहत्य पीडयंश् चिरम् अवतिष्ठेतेति [4]पीडितकम्.
सु:दूरम् उत्कृष्य वेगेन स्व-जघनम् अवपातयेद् इति [5]निर्घातः.
एकत एव भूयिष्ठम् अवलिखेद् इति [6]वराह-घातः.
स एवोभयतः पर्यायेण [7]वृषाघातः.
सकृन् मिश्रितम् अ:निष्क्रमय्य द्विस् त्रिश् चतुर् इति घट्टयेद् इति [8]चटक-विलसितम्.
रागावसानिकं व्याख्यातं करणं [9]संपुटम् इति((30)).
तेषां स्त्री-सात्म्याद् विकल्पेन प्रयोगः.
सेच्तिओन् (प्रकरण)17ब्((31))
पुरुषायिते तु [1]संदंशो [2]भ्रमरकः [3]प्रेङ्खोलितम्((32)) इत्य् अधिकानि.
बाडवेन लिङ्गम् अवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिरावस्थानं [1]संदंशः.
युक्त-यन्त्रा चक्रवद् भ्रमेद् इति [2]भ्रमरक आभ्यासिकः.
तत्रेतरः स्व-जघनम् उत्क्षिपेत्.
जघनम् एव दोलायमानं सर्वतो भ्रामयेद् इति [3]प्रेङ्खोलितकम्.
युक्त-यन्त्रैव ललाटे ललाटं निधाय विश्राम्येत.
विश्रान्तायां च पुरुषस्य पुनर् आवर्तनम्. इति पुरुषायितानि.
भवन्ति चात्र श्लोकाः.
प्रच्छादित-स्वभावापि गूढाकारापि कामिनी. विवृणोत्य् एव भावं स्वं रागाद् उपरिवर्तिनी..
यथा-शीला भवेन् नारी यथा च रति-लालसा. तस्या एव विचेष्टाभिस् तत् सर्वम् उपलक्षयेत्..
न त्व् एव र्तौ न प्रसूतां न मृगीं न च गर्भिणीम्. न चाति:व्यायतां((33)) नारीं योजयेत् पुरुषायिते..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0