भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 2.10

2.10.1

नागरकः सह मित्र-जनेन परिचारकैश् च कृत-पुष्पोपहारे संचारित-सुरभि-धूपे रत्य्-आवासे प्रसाधिते वास-गृहे कृत-स्नान-प्रसाधनां युक्त्यापीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत्..2.10.2 दक्षिणतश् चास्या उपवेशनम्. केश-हस्ते वस्त्रान्ते नीव्याम् इत्य् अवलम्बनम्. रत्य्-अर्थं सव्येन बाहुनानुद्धतः परिष्वङ्गः.

2.10.3

पूर्व-प्रकरण-संबद्धैः परिहासानुरागैर् वचोभिर् अनुवृत्तिः. गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम्..

2.10.4

स:नृत्तं अ:नृतं वा गीतं वादित्रम्. कलासु संकथाः. पुनः पानेनोपच्छन्दनम्.

2.10.5

जातानुरागायां कुसुमानुलेपन-ताम्बूल-दानेन च शेष-जन-विसृष्टिः. वि:जने च यथोक्तैर् आलिङ्गनादिभिर् एनाम् उद्धर्षयेत्. ततो नीवी-विश्लेषणादि यथोक्तम् उपक्रमेत.
इत्य् अयं रतारम्भः.

2.10.6

रतावसानिकं रागम् अतिवाह्या:संस्तुतयोर् इव स:व्रीडयोः परस्परम् अ:पश्यतोः पृथक् पृथग् आचार-भूमि-गमनम्. प्रतिनिवृत्त्य चा:व्रीडायमानयोर् उचित-देशोपविष्टयोस् ताम्बूल-ग्रहणम् अच्छी-कृतं((44)) चन्दनम् अन्यद् वानुलेपनं तस्या गात्रे स्वयम् एव निवेशयेत्.

2.10.7

सव्येन बाहुना चैनां परिरभ्य चषक-हस्तः((45)) सान्त्वयन् पाययेत्. जलानुपानं वा खण्डक-खाद्यकम् अन्यद् वा प्रकृति-सात्म्य-युक्तम् उभाव् अप्य् उपयुञ्जीयाताम्.

2.10.8

अच्छ-रसक-यूषम्((46)) अम्ल-यवागूं((47)) भृष्ट-मांसोपदंशानि((48)) पानकानि चूत-फलानि((49)) शुष्क-मांसं मातुलुङ्ग-चुक्रकाणि((50)) स:शर्कराणि((51)) च यथा:देश-सात्म्यं च. तत्र मधुरम् इदं मृदु विशदम् इति च विदश्य विदश्य तत् तद् उपहारेत्.

2.10.9

हर्म्य-तल-स्थितयोर् वा चन्द्रिकासेवनार्थम् आसनम्. तत्रानुकूलाभिः कथाभिर् अनुवर्तेत. तद्-अङ्क-संलीनायाश् चन्द्रमसं पश्यन्त्या नक्षत्र-पङ्क्ति-व्यक्ती: करणम्. अरुन्धती-ध्रुव-सप्तर्षि-माला-दर्शनं च.
इति रतावसानिकम्.

2.10.10

तत्रैतद् भवति.
अवसाने ऽपि च प्रीतिर् उपचारैर् उपस्कृता. स:विस्रम्भ-कथा-योगै रतिं जनयते पराम्..

2.10.11

परस्पर-प्रीति-करैर् आत्म-भावानुवर्तनैः. क्षणात् क्रोध-परावृत्तैः क्षणात् प्रीति-विलोकितैः..

2.10.12

हल्लीसक-क्रीडनकैर्((52)) गायनैर् लाट-रासकैः. राग-लोलार्द्र-नयनैश् चन्द्र-मण्डल-वीक्ष्णैः..
2.10.13व्1 आद्ये संदर्शने जाते पूर्वं ये स्युर् मनोरथाः. पुनर्-वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः..
2.10.13व्2 कीर्तनान्ते च रागेण परिष्वङ्गैः स:चुम्बनैः. तैस् तैश् च भावैः संयुक्तो यूनो रागो विवर्धते..
सेच्तिओन् (प्रकरण)21((53))

2.10.14

[1]रागवद् [2]आहार्य-रागं [3]कृत्रिम-रागं [4]व्यवहित-रागं [5]पोटा-रतं [6]खल-रतम् [7]अ:यन्त्रित-रतम् इति रत-विशेषाः.

2.10.15

संदर्शनात् प्रभृत्य् उभयोर् अपि प्रवृद्ध-रागयोः प्रयत्न-कृते समागमे प्रवास-प्रत्यागमने वा कलह-वियोग-योगे तद् [1]रागवत्.

2.10.16

तत्रात्माभिप्रायाद् यावद्-अर्थं च प्रवृत्तिः.

2.10.17

मध्यस्थ-रागयोर् आरब्धं यद् अनुरज्यते तद् [2]आहार्य-रागम्.

2.10.18

तत्र चातुःषष्टिकैर् योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागम् प्रवर्तेत.

2.10.19

तत् कार्य-हेतोर् अन्यत्र सक्तयोर् वा [3]कृत्रिम-रागम्.

2.10.20

तत्र समुच्चयेन योगाञ् शास्त्रतः पश्येत्.

2.10.21

पुरुशस् तु हृदय-प्रियाम् अन्यां मनसि निधाय व्यवहरेत्. संप्रयोगात् प्रभृति रतिं यावत्. अतस् तद् [4]व्यवहित-रागम्.

2.10.22

न्यूनायां कुम्भ-दास्यां परिचारिकायां वा यावद्-अर्थं संप्रयोगस् तत् [5]पोटा-रतम्(( 54)).

2.10.23

तत्रोपचरान् नाद्रियेत.

2.10.24

तथा वेश्याया ग्रामीणेन सह यावद्-अर्थम् [6]खल-रतम्.

2.10.25

ग्राम-व्रज-प्रत्यन्त-योषिद्भिश् च नागरस्य.

2.10.26

उत्पन्न-विस्रम्भयोश् च परस्परानुकूल्याद् [7]अ:यन्त्रित-रतम्.
इति रतानि.
सेच्तिओन् (प्रकरण)22((55))

2.10.27

वर्धमाण-प्रणया तु नयिका सपत्नी-नाम-ग्रहणं तद्-आश्रयम् आलापं वा गोत्र-स्खलितं वा न मर्षयेत्. नायक-व्यलीकं च.

2.10.28

तत्र सु:भृशः कलहो रुदितम् आयासः शिरो-रुहाणाम् अवक्षोदनं((56)) प्रहणनम् आसनाच् छयनाद् वा मह्यां पतनं माल्य-भूषणावमोक्षो भूमौ शय्या((57)) च.

2.10.29

तत्र युक्त-रूपेण साम्ना पाद-पतनेन वा प्रसन्न-मनास् ताम् अनुनयन्न् उपक्रम्य शयनम् आरोहयेत्..2.10.30 तस्य च वचनम् उत्तरेण योजयन्ती विवृद्ध-क्रोधा स:कच-ग्रहम् अस्यास्यम् उन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद् द्विस् त्रिर् हन्यात्. द्वार-देशं गच्छेत्. तत्रोपविश्याश्रु-करणम् इति.

2.10.31

अति:क्रुद्धापि तु न द्वार-देशाद् भूयो गच्छेत्. दोषवत्त्वात्. इति दत्तकः. तत्र युक्तितो ऽनुन्~ईयमाना प्रसादम् आकाङ्क्षेत्. प्रसन्नापि तु स:कषायैर्((58)) एव वाक्यैर् एनं तुदतीव प्रसन्न-रति-काङ्क्षिणी नायकेन परिरभ्येत.

2.10.32

स्व-भवनस्था तु निमित्तात् कलहिता तथा:विद-चेष्टैव नायकम् अभिगच्छेत्.

2.10.33

तत्र पीठमर्द-विट-विदूषकैर् नायक-प्रयुक्तैर् उपशमित-रोषा तैर् एवानिनीता तैः सहैव तद्-भवनम् अधिगच्छेत्. तत्र च वसेत्.
इति प्रणय-कलहः.

2.10.34

भवन्ति चात्र श्लोकाः.
एवम् एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम्. प्रयुञ्जानो वर-स्त्रीषु सिद्धिं गच्छति नायकः..

2.10.35

ब्रुवन्न् अपि अन्य-शास्त्राणि चतुःषष्टि-विवर्जितः. विद्वत्-संसदि नात्य्:अर्थं कथासु परिपूज्यते..

2.10.36

वर्जितो ऽप्य् अन्य-विज्ञानैर् एतया यस् त्व् अलंकृतः. स गोष्ठ्यां नर-नारीणां कथास्व् अग्रं विगाहते((59))..

2.10.37

विद्वद्भिः पूजिताम् एनां खलैर् अपि सु:पूजितम्. पूजितां गणिका-सङ्घैर् नन्दिनीं को न पूजयेत्..

2.10.38

नन्दिनी सु:भगा सिद्धा सु:भगं-करणीति च. नारी-प्रियेति चाचार्यैः शास्त्रेष्व् एषा निरुच्यते..

2.10.39

कन्याभिः पर-योषिद्भिर् गणिकाभिश् च भावतः. वीक्ष्यते बहु-मानेन चतुःषष्टि-विचक्षणः..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc