भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 2.7

2.7.1

कलह-रूपं सु:रतम् आचक्षते. विवादात्मकत्वाद् वाम-शीलत्वाच् च कामस्य.

2.7.2

तस्मात् प्रहणनन्-स्थानम् अङ्गम्. स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि.

2.7.3

तच् चतुर्-विधम् ण् [1] अपहस्तकं [2] प्रसृतकं [3] मुष्टिः [4] समतलकम् इति.

2.7.4

तद्-उद्भावं च सीत्कृतम्. तस्याति:रूपत्वात्. तद् अन्:एक-विधम्.

2.7.5

विरुतानि चाष्टौ.

2.7.6

[आ]हिंकार-[अ2]स्तनित-[अ3]कूजित-[अ4]रुदित-[अ5]सूत्कृत-[अ6]दूत्कृत-[अ7]फूत्कृतानि.

2.7.7

अम्बार्थाः शब्दा वारणार्था मोक्षणार्थाश् चालम्-अर्थास् ते ते [अ8] चाथ-योगात्.

2.7.8

[ब्1]पारावत-[ब्2]परभृत-[ब्3]हारीत-[ब्4]शुक-[ब्5]मधुकर-[ब्6]दात्यूह-[ब्7]हंस-[ ब्8]कारण्डव-[ब्9]लावक-विरुतानि सीत्-कृत-भूयिष्ठानि विकल्पशः प्रयुञ्जीत.

2.7.9

उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना प्रहारः.

2.7.10

तत्र सासूयाया इव [अ2]स्तनित-[अ4]रुदित-[अ3]कूजितानि प्रतिघातश् च स्यात्.

2.7.11

युक्त-यन्त्रायाः स्तनान्तरे [1] अपहस्तकेन प्रहरेत्.

2.7.12

मन्दोपक्रमं वर्धमान-रागम् आ परिसमाप्तेः.

2.7.13

तत्र [अ8]हिंकारादीनाम् अ:नियमेनाभ्यासेन विकल्पेन च तत्-कालम् एव प्रयोगः.

2.7.14

शिरसि किं चिद् आकुञ्चितागुलिना करेण विवदन्त्याः [अ7]फूत्कृत्य प्रहणनं तत् [2] प्रसृतकम्.

2.7.15

तत्रान्तर्मुखेन [अ3]कूजितं [अ7]फूत्कृतं च.

2.7.16

रतान्ते च श्वासित-रुदिते.

2.7.17

फेणोर् इव स्फुटतः शब्दानुकरणं [अ6]दूत्कृतम्.

2.7.18

अप्सु बदरस्येव((22)) निपततः [अ7]फूत्कृतम्.

2.7.19

सर्वत्र चुम्बनादिष्व् अपक्रान्तायाः स:सीत्कृतं तेनैव प्रत्युत्तरम्.

2.7.20

राग-वशात् प्रहणनाभ्यासे [अ8]वारण-मोक्षणालम् अर्थानां शब्दानां अम्बार्थानां च स:तान्त-श्वासित-रुदित-स्तनित-मिश्री-कृत-प्रयोगा विरुतानां च. रागावसान-काले जघन-पर्श्वयोस्((23)) ताडनम् इत्य् अ:त्वरया चा परिसमाप्तेः.

2.7.21

तत्र [ब्9]लावक-[ब्7]हंस-विकूजितं त्वरयैव. इति स्तनन-प्रहणन-योगाः..2.7.22 भवतश् चात्र श्लोकौ.

2.7.22

पारुष्यं रभसत्वं च पौरुषं तेज उच्यते. अ:शक्तिर् आर्तिर् व्यावृत्तिर् अ:बलत्वं च योषितः..

2.7.23

रागात् प्रयोग-सात्म्याच् च व्यत्ययो ऽपि क्व चिद् भवेत्. न चिरं तस्य चैवान्ते प्रकृतेर् एव योजनम्..

2.7.24

कीलाम् उसरि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश् चेति पूर्वैः सह प्रहणनम् अष्ट-विधम् इति दाक्षिणात्यानाम्. तद्-युवतीनाम् उसरि कीलानि दृश्यन्ते. देश-सात्म्यम् एतत्.

2.7.25

कष्टम् अन्:आर्य-वृत्तम् अन्:आदृतम् इति वात्स्यायनः.

2.7.26

तथान्यद् अपि देश-सात्म्यात् प्रयुक्तम् अन्यत्र न प्रयुञ्जीत.

2.7.27

आत्ययिकं तु तत्रापि परिहरेत्.

2.7.28

रति-योगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान.

2.7.29

कर्तर्या कुण्टलः शातकर्णिः शातवाहनो महा-देवीं मलयवतीम्.

2.7.30

नरदेवः कुपाणिर्((24)) विद्धया नाटीं काणां चकार((25)).

2.7.31

भवन्ति चात्र श्लोकाः
नास्त्य् अत्र का चिन् न च शास्त्र-परिग्रहः. प्रवृत्ते रति-संयोगे राग एवात्र कारणम्..

2.7.32

स्वप्नेषु न दृश्यन्ते ते भावास् ते च विभ्रमाः. सुरत-व्यवहारेषु ये स्युस् तत्-क्षण-कल्पिताः..

2.7.33

यथा हि पञ्चमीं धाराम् आस्थाय तुरगः पथि. स्थानुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते..
2.7.33व्2 एवं सु:रत-संमर्दे रागान्धौ कामिनाव् अपि. चण्ड-वेगौ प्रवर्तेते समीक्षेत न चात्ययम्..

2.7.34

तस्मान् मृदुत्वं चण्डत्वं युवत्या बलम् एव च. आत्मनश् च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित्..

2.7.35

न सरवदा न सर्वासु प्रयोगाः सांप्रयोगिकाः. स्थाने देशे च काले च योग एषां विधीयते..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc