कामसूत्र · अध्याय 2.6
राग-काले विशालयन्त्य् एव जघनं मृगी संविशेद् उच्चरते.
अवह्रासयन्तीव हस्तिनी नीच-रते.
न्याय्यो यत्र योगस् तत्र समपृष्ठम्.
आभ्यां बडवा व्याख्याता.
तत्र जघनेन नायकं प्रतिगृह्णीयात्.
अपद्रव्याणि च स:विशेषं नीचरते.
[1] उत्फुल्लकं [2] विजृम्भितकम् [3] इन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण.
शिरो विनिपात्योर्ध्वं जघनम् [1] उत्फुल्लकम्.
तत्रापसारं दद्यात्.
अ:नीचे सक्थिनी((19)) तिर्यग् अवसज्य प्रतीछेद् इति [2] विजृम्भितकम्.
पार्श्वयोः समम् ऊरू विन्यस्य पार्श्वयोर् जानुनी निदध्याद् इत्य् अभ्यास-योगाद् [3] इन्द्राणी.
तयोच्चतर-रतस्यापि परिग्रहः.
संपुटेन प्रतिग्रहो नीच-रते.
एतेन नीच-तर-रते ऽपि हस्तिन्याः.
[1] संपुटकं [2] पीडितकं [3] वेष्टितकं [4] बाडवकम् इति.
ऋजु-प्रसारिताव् उभाव् अप्य् उभयोः चरनाव् इति [1] संपुटः.
स द्वि-विधः ण् पार्श्व-संपुट उत्तान-संपुटाश् च. तथा कर्म-योगात्.
पार्श्वेण तु शयानो दक्षिणेन नारीम् अधिशयीतेति सार्वत्रिकम् एतत्.
संपुटक-प्रयुक्त-यन्त्रेणैव दृढम् ऊरू पीडयेद् इति [2] पीडितकम्.
ऊरू व्यत्यस्येद् इति [3] वेष्टितकम्.
बडवेव निष्ठुरम् अवगृह्णीयाद् इति [4] बाडवकम् आभ्यासिकम्.
तद् आन्ध्रीषु प्रायेण. इति संवेशन-प्रकारा बाभ्रवीयाः.
सौवर्णनाभास् तु.
उभाव् अप्य् ऊरू ऊर्ध्वाव् इति तद् भुग्नकम्((20)).
चरणाव् ऊर्ध्वं नायको ऽस्या धारयेद् इति जृम्भितकम्.
तत्-कुञ्चिताव् उत्पीडितकम्.
तद् एकस्मिन् प्रसारिते ऽर्ध-पीडितकम्.
नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर् व्यत्यासेन वेणु-दारितकम्.
एकः शिरस उपरि गच्छेद् द्वितीयः प्रसारित इति शूलचितकम् आभ्यासिकम्.
संकुचितौ स्वस्ति-देशे निदध्याद् इति कार्कटकम्.
ऊर्ध्वाव् ऊरू व्यत्यस्येद् इति पीडितकम्.
जङ्घा-व्यत्यासेन पद्मासनवत्.
पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकम् आभ्यासिकम्..2.6.34 जले च संविष्टोपविष्ट-स्थितात्मकांश् चित्रान् योगान् उपलक्षयेत्. तथा सु:करत्वाद् इति सुवर्णनाभः.
वार्तं तु तत्. शिष्टैर् अपस्मृतत्वाद् इति वात्स्यायनः.
सेच्तिओन् (प्रकरण)14
अथ चित्र-रतानि.
ऊर्ध्व-स्थितयोर् यूनोः परस्परापाश्रययोः कुड्य-स्तम्भापाश्रितयोर् वा स्थित-रतम्.
कुड्यापाश्रितस्य कण्ठावसक्त-बाहु-पाशायास् तद्-धस्त-पञ्जरोपविष्टाया ऊरु-पाशेन जघनम् अभिवेष्टयन्त्या कुड्ये चरण-क्रमेण वलन्त्या अवलम्बितकं रतम्.
भूमौ वा चतुष्पदवद् आस्थिताया वृषलीलयावस्कन्दनं धेनुकम्.
तत्र पृष्ठम् उरः-कर्माणि लभते.
एतेनैव योगेन शौनम् ऐणेयं छागलं गर्दभाक्रान्तं मार्जार-ललितकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराह-घृष्टकं तुरगाधिरूढकम् इति यत्र यत्र विशेषो योगो ऽ:पूर्वस् तत् तद् उपलक्षयेत्.
मिश्री-कृत-सद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम्.
बह्वीभिश् च सह गो-यूथिकम्.
वारि-क्रीडितकं छागलम् ऐणेयम् इति तत्-कर्मानुकृति-योगात्.
ग्रामनारी-विषये((21)) स्त्रीराज्ये च बाह्लीके बहवो युवानो ऽन्तःपुर-स:धर्माण एकैकस्याः परिग्रह-भूताः.
तेषाम् एकैकशो युगपच् च यथा:सात्म्यं यथा:योगं च रञ्जयेयुः.
एको धारयेद् एनाम् अन्यो निषेवेत. अन्यो जघनं मुखम् अन्यो मध्यम् अन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः.
एतया गोष्ठी-परिग्रहा वेश्या राज-योषा-परिग्राहश् च व्याख्यातः.
अधोरतं पायाव् अपि दाक्षिणत्यानाम्. इति चित्र-रतानि.
पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः.
भवतश् चात्र श्लोकौ
पशूनां मृग-जातीनां पतङ्गानां च विभ्रमैः. तैस् तैर् उपायैश् चित्तज्ञो रति-योगान् विवर्धयेत्..
तत्-सात्म्याद् देश-सात्म्याच् च तैस् तैर् भावैः प्रयोजितैः. स्त्रीणां स्नेहश् च रागश् च बहुमानश् च जायते..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0