कामसूत्र · अध्याय 2.5
उत्तरौष्ठम् अन्तर्:मुखं नयनम् इति मुक्त्वा चुम्बनवद् दशन-रदन-स्थानानि.
समाः स्निग्ध-च्छाया राग-ग्राहिणो युक्त-प्रमाणा निश्:छिद्रास् तीक्ष्णाग्रा इति दशन-गुणाः.
कुण्ठा राज्य्-उद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः.
[1] गूढकम् [2] उच्छूनकं((14)) [3] बिन्दुर् [4] बिन्दु-माला [5] प्रवाल-मणिर् [6] मणि-माला [7] खण्डाभ्रकं [8] वराह-चर्वितकम् इति दशन-च्छेदन्-विकल्पाः.
नातिलोहितेन राग-मात्रेण विभावनीयं [1] गूढकम्.
तद् एव पीडनाद् [2] उच्छूनकम्.
तद् उभयं बिन्दुर् अधर-मध्य इति.
उच्छूनकं प्रवाल-मणिश् च कपोले.
कर्णपूर-चुम्बनं नख-दशन-च्छेद्यम् इति सव्य-कपोल-मण्डनानि.
दन्तौष्ठ-संयोगाभ्यास-निष्पादनत्वात् [5] प्रवाल-मणि-सिद्धिः.
सर्वस्येयं [6] मणि-मालायाश् च.
अल्प-देशायाश् च त्वचो दशन-द्वय-संदंश-जा [3] बिन्दु-सिद्धिः
सर्वैर् [4] बिन्दु-मालायाश् च.
तस्मान् माला-द्वयम् अपि गल-कक्ष-वंक्षण-प्रदेशेषु.
ललाटे चोर्वोर् बिन्दु-माला.
मण्दलम् इव विषम-कूटक-युक्तं [7] खण्डाभ्रकं स्तन-पृष्ठ एव.
संहताः प्रदीर्घा बह्व्यो दशन-पद-राजयस् ताम्रान्तराला [8] वराह-चर्वितकम्. स्तन-पृष्ठ एव.
तद् उभयम् अपि चण्ड-वेगयोः.
इति दशन-च्छेद्यानि.
विशेषके कर्णपूरे पुष्प-पीडे ताम्बूल-पलाशे तमाल-पत्त्रे चेति प्रयोज्यागामिषु नख-दशन- च्छेद्यादीन्य् अभियोगिकानि.
सेच्तिओन् (प्रकरण)12
देश-सात्म्याच् च योषित उपचरेत्.
मध्य-देश्या आर्य-प्रायाः शुच्य्-उपचाराश् चुम्बन-नख-दन्त-पद-द्वेषिण्यः.
बाह्लीक-देश्या आवान्तिकाश् च.
चित्र-रतेषु त्व् आसाम् अभिनिवेशः.
परिष्वङ्ग-चुम्बन-नख-दन्त-चूषण-प्रधानाः क्षत-वर्जिताः प्रहनण-साध्या मालव्य आभीर्यश् च.
सिन्धुषष्ट्ःआनां च नदीनाम् अन्तरालीया औपरिष्टक-सात्म्याः.
चण्ड-वेगा मन्द-सीत्कृता आपरान्तिका लाट्यश् च.
दृढ-प्रहणन-योगिन्यः खर-वेगा एव अपद्रव्य-प्रधानाः स्त्रीराज्ये कोशालायां च.
प्रकृत्या मृद्व्यो रति-प्रिया अ:शुचि-रुचयो निर्:आचाराश् च आन्ध्र्यः.
सकल-चतुःषश्टि-प्रयोग-रागिण्यो ऽश्लील-परुष-वाक्य-प्रियाः शयने च स:रभसोपक्रमा महाराष्ट्रिकाः.
तथा-विधा एव रहसि प्रकाशन्ते नागरिकाः((15)).
मृद्यमानाश् चाभियोगान् मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः..2.5.32 मध्यम-वेगाः सर्व-सहाः स्वाङ्ग-प्रच्छादिन्यः पराङ्ग-हासिन्यः कुत्सिताश्लील-परुष- परिहारिण्यो वानवासिकाः.
मृदु-भाषिण्यो ऽनुरागवत्यो मृद्व्यङ्ग्यश्((16)) च गौड्यः.
देश-सात्म्यात् प्रकृति-सात्म्यं बलीय इति सुवर्णनाभः. न तत्र देश्या उपचाराः.
काल-योगाच् च देशाद् देशान्तरम् उपचार-वेष-लीलाश् चानुगच्छन्ति तच् च विद्यात्.
उपगूहनादिषु च राग-वर्धनं पूर्वं पूर्वं विचित्रम् उत्तरम् उत्तरं च.
वार्यमाणश् च पुरुषो यत् कुर्यात् तद् अनु क्षतम्. अ:मृष्यमाणा द्वि-गुणं तद् एव प्रतियोजयेत्..
बिन्दोः प्रतिक्रिया माला मालायाश् चाभ्रखण्डकम्. इति क्रोधाद् इवाविष्टा कलहान् प्रतियोजयेत्..
सकचग्रहम् उन्नम्य मुखं तस्य ततः पिबेत्. निलीयेत दशेच् चैव तत्र तत्र मदेरिता..
उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम्. मणि-मालां प्रयुञ्जीत यच् चन्यद् अपि लक्षितम्..
दिवापि जनसंबाधे नायकेन प्रदर्शितम्. उद्दिश्य स्व-कृतं चिह्नं हसेद् अन्यैर् अ:लक्षिता..
विकूणयन्तीव((17)) मुखं कुत्सयन्तीव((18)) नायकम्. स्व-गात्र-स्थानि चिह्नानि सासूयेव प्रदर्शयेत्..
परस्परानुकूल्येन तद् एवम् लज्जमानयोः. संवत्सर-शतेनापि प्रीतिर् न परिहीयते..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0